संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ८६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ८६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८६ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! पश्चादैलविलाऽवदद्धरिम् ।भगवन्मेऽस्ति जिज्ञासा तत् क्षेत्राऽक्षरमीक्षितुम् ॥१॥अनादिश्रीकृष्णनारायणस्तां सह्यपर्वतात् ।आरोप्य गरुडे चैत्रे व्योम्नाऽक्षरं समाययौ ॥२॥कुंकुमवापिकाक्षेत्रं दिव्यमक्षरसंज्ञितम् ।सच्चिदानन्दधामाभं नित्यानन्दितमानवम् ॥३॥दिव्यदेहिसमव्याप्तं देवपित्रादिसेवितम् ।ब्रह्मह्रदोदसन्मिश्राऽश्वपट्टकसरोऽन्वितम् ॥४॥सहस्रर्षिगणैश्चापि कृतावासं समुज्ज्वलम् ।पावनं पावनानां च तीर्थानां तीर्थमुत्तमम् ॥५॥मोक्षदानां परं मोक्षप्रदं सर्वाघनाशकम् ।शतसाहस्रप्रासादैः शोभितं वनवल्लिभिः ॥६॥दिव्यद्रुमैः समुद्यानैः सहस्रैः परिवारितम् ।जलाशयैः शुभारामैः फलिपुष्पिसुगन्धितम् ॥७॥कल्पद्रुमैः समृद्धं च चिन्तामणिप्रभासितम् ।वर्धितं मुनिभिर्नित्यं यज्ञाऽध्ययनभक्तिभिः ॥८॥आश्रितं चातिथिभिश्च ब्रह्मधामगमैः प्रियैः ।प्रियाभिः श्रीहरेर्यच्च कृतकौतुकमंगलम् ॥९॥अमृतानां ह्रदैर्युक्तं यावत्सृष्टिनिषेवितम् ।गीर्वाणभाषाकुशलैर्वैदिकैर्धार्मिकैर्युतम् ॥१०॥सौवर्णदण्डसंराजद्दीर्घध्वजसहस्रकम्साप्तभौमाढ्यनिलयैः शृंगसौधैर्विराजितम् ॥११॥व्योमयानैर्यत्र मुक्ता उड्डयन्ति नराः स्त्रियः ।स्वर्गगाः पक्षिणो यत्र संस्कृतज्ञाः शुकादयः ॥१२॥वदन्ति वैदिकीं भाषां गोहस्त्याद्या अपि द्विजैः ।अग्नयो यत्र वर्तन्ते प्रदीप्ता वेदिकास्थले ॥१३॥दानानि यत्र दीयन्ते सृष्टिपालैर्दिवानिशम् ।यात्रिका यत्र वर्तन्ते लक्षशो मोक्षभागिनः ॥१४॥श्रोतृणां कथकानां च सभास्थलसहस्रकम् ।देवप्रतिमाप्रासादाः शतशोऽथ सहस्रशः ॥१५॥विद्यन्ते कानकैव्योम्नि कलशैः शृंगशोभनैः ।वनस्पतयो दृश्यन्ते निकुञ्जा गृहमेधिनाम् ॥१६॥आश्रमाः ऋषिवर्याणां शोभन्ते स्वर्गिणामिव ।तापसा यत्र विद्यन्ते कोटिशोऽश्वसरोऽभितः ॥१७॥साधवो यत्र लोकानां कृष्णभक्तिं प्रकुर्वते ।साध्व्यो ब्रह्मप्रिया यत्र ब्रह्मव्रतपराः सदा ॥१८॥वसन्ति कृष्णसेवार्थं क्षेत्राऽक्षरकृताश्रयाः ।ज्ञानयज्ञा ब्रह्मयज्ञा दानयज्ञा भवन्ति च ॥१९॥सेवायज्ञा मोक्षयज्ञास्तृप्तियज्ञा भवन्ति च ।कथायज्ञाः सततं च विप्रर्षयो वसन्ति च ॥२०॥व्रतयज्ञाः सत्रयज्ञा उद्यापनविधिप्रथाः ।तीर्थयज्ञा हरेर्नाम्नां कीर्तनक्रतवः सदा ॥२१॥वर्तन्ते सततं यत्र देवाराधनरीतयः ।दिव्यपावनहृदया वसन्ति यत्र देहिनः ॥२२॥कृष्णनारायणस्वामिन् परब्रह्मेतिवादिनः ।कम्भरानन्दनकृष्ण गोपालात्मज माधव ॥२३॥श्रीपते राधिकाकान्त सर्वात्मन् भव मे प्रिय ।इत्येवं भजमानास्तं बालकृष्णं वसन्ति ते ॥२४॥वैरहीनास्तिरश्चोपि ददर्शैलविलाऽऽश्रमे ।लोमशस्य रमणीये ब्रह्मप्रियाद्यधिष्ठिते ॥२५॥मूर्तयस्तन्निवासिन्यस्तेजःप्रचुरशोभनाः ।तया व्योम्ना वीक्षिता वै यानस्थयैलया तदा ॥२६॥भ्रमणं तद्विमानेन कृत्वा क्षेत्रप्रदक्षिणम् ।अवाततार प्रासादे कृष्णनारायणस्य सा ॥२७॥सह श्रीस्वामिना सार्धं ययौ श्रीकम्भरां प्रति ।ददर्श पूजयामास ववन्दे च ननाम च ॥२८॥ततो गोपालकृष्णं सा ययौ ननाम पादयोः ।ततो गजासनं गत्वा स्वामिनं सहयायिनम् ॥२९॥अनादिश्रीकृष्णनारायणं कृतपरिश्रमम् ।बालरूपं परब्रह्म सिषेवे देहमर्दनैः ॥३०॥पादसंवाहनं चक्रे दासीव श्रीहरेस्ततः ।तीर्थान्यश्वसरःस्थानि ययौ सस्नौ विधानतः ॥३१॥जलं कुंकुमवाप्याश्च पपौ दधार मस्तके ।ततः श्रीलोमशं नत्वा पूजयित्वा विधानतः ॥३२॥ब्रह्मप्रियाः सर्वकन्या मिलित्वा मन्दिरं ययौ ।बालकृष्णस्त्वैलविला भोजयामास पायसम् ॥३३॥पाययामास मधुरं वारि स्वचरणामृतम् ।पावयामास भक्तां स्वां रञ्जयामास भावतः ॥३४॥ततः साऽक्षरभूमिं तां विलोक्य स्थातुमानसा ।प्रार्थयत्परमात्मानं सदा वासं सती यदा ॥३५॥चैत्रे हरिर्ददौ तस्यै रूपद्वयं समं शुभम् ।छायां संप्रेषयामास पुलस्त्यं प्रति वै तदा ॥३६॥ऐलविलां दिव्यरूपामरक्षत् स्वान्तिके सदा ।ब्रह्मव्रतधरां साध्वीं साधुधर्मान्वितां सतीम् ॥३७॥अथ तस्या वरदानं सफलं समजायत ।विश्रवसोऽभवन्पत्न्यश्चतस्रः कुलवर्धिकाः ॥३८॥पुष्पोत्कटा च वाका च कैकसी देववर्णिनी ।ज्येष्ठं वैश्रवणं यक्षं सुषुवे देववर्णिनी ॥३९॥कैकस्यजनयत् पुत्रं रावणं राक्षसाधिपम् ।कुभकर्णं शूर्पणखां तथैव च विभीषणम् ॥४०॥पुष्पोत्कटाऽप्यजनयत् पुत्रान् विश्रवसः शुभान् ।महोदरं प्रहस्तं च महापार्श्वं खरं तथा ॥४१॥कुंभीनसीं तथा शृंगीमन्याश्च शतकन्यकाः ।वाकाजास्त्रिशिराश्चैव विद्युज्जिह्वश्च दूषणः ॥४२॥क्रूरं कन्याशतं चापि पौलस्त्यवंशजा दश ।रक्षोभावयुताः सर्वयुगधर्माश्रयास्तथा ॥४३॥तपोयुक्ता दानयुक्ता रागयुक्ताः सकल्मषाः ।सत्याऽसत्योभययुक्ता बलदर्पसमन्विताः ॥४४॥कलिधर्माश्रिताश्चापि यन्नाशार्थं हरिः स्वयम् ।रामरूपं विधत्ते च प्रहन्ति राक्षसाँस्ततः ॥४५॥पापानि क्षालयित्वा ते यान्ति वैकुण्ठवासिताम् ।ऐलविलावरदानप्रतापेन तु वंशजान् ॥४६॥सबलान् राक्षसान् कृष्णचक्रं हन्ति युगे युगे ।राधिके मम चक्रं वा जलं वा तुलसीदलम् ॥४७॥पदं वा येन सम्प्राप्तं मुक्तो भवति कोऽपि यः ।यक्षो वा राक्षसो वाऽपि दानवो दैत्य इत्यपि ॥४८॥विश्रवाः सिंहले द्वीपे ययौ वंशयुतस्ततः ।ऐलविला तपः स्थाने चक्रे यत्र हरिः स्वयम् ॥४९॥तद्रक्षां च तपसोऽपि परीक्षां प्रचकार ह ।तत्तीर्थं चैलवैलेयं शृंगं सह्याद्रिभूभृतः ॥५०॥सजलं जलकुण्डेन प्रस्रवणेन राजितम् ।पावनं श्रीकृष्णनारायणपादरजोन्वितम् ॥५१॥सञ्जातं मोक्षदं यत्र वृक्षस्तम्बात्मको हरिः ।समभूद् वर्षमात्रं वै वर्षमात्रं शुकादयः ॥५२॥हरिणा धृतरूपाश्च तद्वंशा वैष्णवाश्च ते ।सह्याद्रौ सह्यपक्षिस्त्रीजन्यास्ते हरिवंशजाः ॥५३॥दिव्या दिव्यस्वरूपाश्च वसन्ति सुसुखान्विताः ।यत्र वृक्षाः पावनाश्च हरिवंशोद्भवास्तथा ॥५४॥यत्राऽवग्रहलेशोऽपि सह्याद्रौ न कदाचन ।यत्राऽनलदवो नास्ति न हिंस्रोपद्रवस्तथा ॥५५॥श्वेतवर्णाश्च करिणश्चतुर्दन्ता महोच्छ्रयाः ।हरिवंशोद्भवा यत्र वर्तन्ते देववाहनाः ॥५६॥शरभाश्चोच्छ्रिता यत्र हरिवंशोद्भवाः शुभाः ।शुभ्रवर्णा वसन्त्येव द्विशुण्डाः सिंहजातयः ॥५७॥श्वेताः स्वस्तिकयुक्ताश्च भुजगाः पावनास्तथा ।निःक्ष्वेडा हरिवंशोत्थाः श्वेता मयूरजातयः ॥५८॥वर्तन्ते दिव्यरूपास्ते हरेर्वंशोद्भवा हि ते ।सह्याद्रिः सर्वथा तीर्थोत्तमं तस्य वनानि च ॥५९॥पञ्चवर्षाणि वै हरेर्योगात् पावित्र्यवन्ति च ।पठनाच्छ्रवणाद् राधे भुक्तिमुक्तिप्रदानि च ॥६०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने ऐलविलायाः कुंकुमवाप्यागमनं रूपद्वयं, हरिवंशीयप्रजायाः सह्याद्रौ वासश्चेतिनिरूपणनामाषडशीतितमोऽध्यायः ॥८६॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP