संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ११३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ११३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११३ Translation - भाषांतर श्रीकृष्ण उवाच-अथ श्रीराधिके! कृष्णप्रियास्ताः पितृकन्यकाः ।अनादिश्रीकृष्णनारायणं पप्रच्छुरादरात् ॥१॥अस्माकं महिमा कान्त कृपया वर्धितस्त्वया ।श्रीमतश्च महिमानं ज्ञास्यामश्च यथा वयम् ॥२॥तव नो वद सर्वात्मन् मोक्षोऽन्ते नो यथा भवेत् ।इत्युक्तो भवनाशादिविहीनो भगवान् प्रभुः ॥३॥आह ताभ्यः स्वरूपस्य ज्ञानं भक्तिसहायकृत् ।जीवलोकात्परे सन्ति ईश्वराणां हि भूमयः ॥४॥वासुदेवादयस्तत्र वसन्ति व्यूहकोटयः ।गोलोकेऽहं राधया सेवितः कृष्णो वसामि च ॥५॥वैकुण्ठेऽहं श्रिया युक्तो नारायणो वसामि वै ।तत्परे चाक्षरे धाम्नि वर्तामि पुरुषोत्तमः ॥६॥अक्षरातीतसंज्ञोऽहं द्विभुजः परमेश्वरः ।परतश्चाक्षराच्चापि परोऽस्मि परधामनि ॥७॥असंख्यमुक्तसेव्योऽहं ब्रह्मप्रियाप्रसेवितः ।मम रोमैकाणुदेशादुत्पन्नं तेज ऐश्वरम् ॥८॥सर्वेश्वरेषु तद् व्याप्तं पूर्णमिव प्रजायते ।मदेकगुणलेशेन भवन्तीशा गुणोच्छ्रयाः ॥९॥मम संकल्पमात्रेण चावतारा भवन्ति हि ।सृष्टयश्चाऽप्यसंख्याता मत्पुरुषेच्छया खलु ॥१०॥जायन्तेऽनन्तसंख्याकास्तत्राऽन्तर्याम्यहं स्थितः ।अन्तर्बहिश्च भूतानां यथास्थानं वसाम्यहम् ॥११॥यथाकार्यं यथापेक्षं यथाभक्तानुसेवनम् ।तथा भूत्वा निवसामि भक्तवृन्देषु मत्प्रियाः ॥१२॥क्वचिद् भवामि चेशेषु क्वचिद् देवेषु वा दिवि ।ऋषिवर्येषु भक्तेषु क्वचिन्मानवजातिषु ॥१३॥क्वचिज्जले स्थलेऽरण्ये शैले पृथ्व्यां च गह्वरे ।पशौ पक्षिणि यादस्सु वृक्षे वल्ल्यां तृणादिषु ॥१४॥यथाकार्यं भवाम्येव नरो नारी च वेतरः ।राजा प्रजाऽथवा दीनः साधुः साध्वी च कामिनी ॥१५॥गोपालो वापि गोबालो गोजालो गोपिकापतिः ।कल्पे युगे दिने लग्नेऽवतारो मे ध्रुवं प्रियाः ॥१६॥इदानीं बालकृष्णोऽस्मि श्रीकंभरासतीसुतः ।कोट्यब्जकन्यकाकान्तः कन्येच्छापूरणार्थकः ॥१७॥श्रीमद्गोपालकृष्णस्याऽनादिकृष्णनरायणः ।पुरुषोत्तमसंज्ञोऽहं परमात्मा हि मानवः ॥१८॥भवतीनां प्राप्यरूपः करुणाकृतकैतवः ।सौराष्ट्रे कुंकुमवापीक्षेत्रेऽश्वपट्टशोभिते ॥१९॥लोमशाश्रमसामीप्येऽक्षरक्षेत्रे वसाम्यहम् ।नरनाट्यं प्रकुर्वाणोऽमेयोऽपि मानतां गतः ॥२०॥पूर्वकल्पीयकन्यानां तपःफलप्रदेहया ।कोटिकन्दर्पसौन्दर्याऽनवधिवीर्यवानहम् ॥२१॥षड्भगैरष्टसामर्थ्यैरष्टसिद्धिभिरन्वितः ।कोट्यब्जरूपसामर्थ्याऽसंख्यबलगुणाश्रयः ॥२२॥कन्यानां भावपूर्त्यर्थं साक्षाज्जातोऽस्मि कान्तकः ।भवतीनां पतिश्चाऽहं वर्तेऽद्य तपसो बलात् ॥२३॥मम सेवा प्रकर्तव्या भवतीभिः सुखाप्तये ।स्नेहेन मम सेवैव भक्तिरेव मता मया ॥२४॥तया चाहं प्रसन्नः स्यां नान्योपायेन केनचित् ।सती पतिव्रता यद्वत् सेवते स्वपतिं सदा ॥२५॥तादृगनन्यभावेन मुमुक्षुर्मा सदा भजेत् ।परानुरागरूपा सा कर्तव्या मयि सर्वथा ॥२६॥श्रवणं च कथाया मे कर्तव्यं जन्मकर्मणाम् ।मम भक्तस्य भक्ताया मुखाद्वा मोक्षदं हि तत् । ॥२७॥मेऽवतारचरित्राणां श्रवणं च मुमुक्षुणा ।तथैव मम भक्तानां चमत्कारश्रवः शुभः ॥२८॥श्रोतव्यानि चरित्राणामाख्यानानि मुमुक्षुभिः ।एवं प्रिया! मम कार्यं कीर्तनं मत्सतामपि ॥२९॥जन्मकर्मचरित्राणां कथावार्ताः सतां मुखात् ।कारणीयास्तथा योग्ये समये श्रद्धया मुहुः ॥३०॥मद्भक्तानां मम चापि ग्रन्थानां पठनं तथा ।पाठनं मम पत्नीनां चरित्राणां हि मोक्षदम् ॥३१॥छन्दसां बद्धपद्यानां गद्यानां मम सर्वदा ।संस्कृतानां प्राकृतानां ग्रन्थानां गायनं मुदा ॥३२॥वीणादिवाद्यसन्मिश्रं तालिकासहितं च वा ।गालध्वानैश्चिपीटाभिः कर्तव्यं कीर्तनं मम ॥३३॥पादयोर्नुपूरनद्धकिकिणीध्वानमिश्रितम् ।कट्यां निबद्धपट्टत्य घुर्घुरादिनिनादनैः ॥३४॥सहितं वा प्रकर्तव्यं नृत्ययुक्तं सुकीर्तनम् ।मे स्तुतिः सम्प्रार्थना च नाम्नां मे कीर्तनं तथा ॥३६॥कार्यं पद्यैर्मम प्रीत्या तथा वाक्यैर्मनोरमैः ।अथ मे स्मरणं कार्यं चिन्तनं हृदयाम्बुजे ॥३६॥सांगोपांगा मम मूर्तिश्चिन्त्या स्वहृदये प्रियाः! ।एकैकमंगं संचिन्त्य केशात् पादनखावधिम् ॥३७॥मूर्तिध्याने मम हास्यं चिन्तनीयं विशेषतः ।मम नामानि कर्माणि स्मरणीयानि सर्वदा ॥३८॥चमत्काराः स्मरणीया मद्भक्तानां ममाऽपि च ।गुणानां रमरणं कार्यं जप्तव्यो मे मनुस्तथा ॥३९॥परधामाऽक्षरधाम्नोर्गोलोकस्याऽमृतस्य च ।वैकुण्ठस्याऽव्याकृतस्य श्वेतद्वीपस्य वै तथा ॥४०॥विशालाख्यस्य मे धाम्नः साकेतनामकस्य मे ।नित्यकैलासनाम्नश्च क्षीरोदस्य च मे तथा ॥४१॥श्रीपुरं च श्रियां मे पार्षदानां ब्रह्मयोषिताम् ।ऐश्वर्याणां च सिद्धीनां विभूतीनां च मे प्रियाः! ॥४२॥स्मरणं मम दिव्यानां साधूनां कार्यमुत्सवात् ।मम देवालयानां च मम पित्रोः कुटुम्बिनाम् ॥४३॥गवां मे वाहनादीनां मम वेषस्य वै तथा ।ममाऽऽयुधानां मत्सम्बद्धवस्तूनां स्मृतिः सदा ॥४४॥कर्तव्या वै तया मुक्तिः स्याद् दिव्या मुक्तिदा हि मे ।अथ कार्यं चरणयोः संवाहनं मम प्रियाः! ॥४५॥प्रत्यक्षस्य हरेर्मेऽत्राऽनादिकृष्णस्य सत्पतेः ।मम मूर्तेः पादसंवाहनं कार्यं तथा मुहुः ॥४६॥तत्र स्थितोऽहं गृह्णामि सेवां संवाहनादिकाम् ।मम मूर्तिः कारणीया सर्वांगा चिह्नशोभना ॥४७॥धातवी दारवी वापि पार्थिवी च किशोरिका ।तस्याः सेवा नरैश्चापि नारीभिः सर्वथा सदा ॥८८॥कारणीया स्नेहपूर्णा कर्तव्या मनसेप्सिता ।मानसीं वा मम मूर्तिं प्रकल्प्य ध्याननिर्मिताम् ॥४९॥तस्याश्चरणयोः स्पर्शस्तदंगानां समन्ततः ।स्पर्शो भावेन कर्तव्यो रन्तव्यं च तया सह ॥५०॥मानसं सर्वथा कार्यं सेवनं मम भावितम् ।भोजनीयः पूजनीयौ रञ्जनीयो विशेषतः ॥५१॥हृदयस्थोऽप्यहं कृष्णो ग्रहीष्ये सेवनं तु वः ।धृत्वा मां शयने नित्य सुप्तव्यं हि मया सह ॥५२॥व्यवहारेऽपि मां चाऽग्रे कृत्वा कर्तव्य एव सः ।भोक्तव्यं मां प्रधार्यैव नान्यथा तु कदाचन ॥५३॥शरीरेऽहं सदा चास्मि तथेन्द्रियेषु सर्वथा ।भोक्तर्येवं प्रभोग्येषु मां निधायाऽऽचरेत् क्रियाः ॥५४॥तत्सर्वं निर्गुणं मोक्षप्रदं पुण्यप्रदं भवेत् ।गन्तव्यं मां पुरस्कृत्य स्थातव्यं मयि सर्वथा ॥५५॥एवं मे सेवनं कार्यं देहसंवाहनं मम ।सेवया मे वासुदेवाऽनुजा व्यूहस्वरूपिणः ॥५६॥यावत्सृष्ट्युद्भूतिपुष्टिसंहृतिशक्तिमाप्नुवन् ।मम पादांगुष्ठपूता गंगा पुनाति गोलकम् ॥५७॥कालमायापापकर्मशत्रुकुहृद्भयादिकम् ।मम पादाश्रयवतां तूर्णं नश्यति सेवया ॥५८॥राधारमाप्रभापारवतीश्रीमाणिकीप्रियाः ।द्वादशाधिकशतसंख्याश्चान्या ब्रह्मयोषितः ॥५९॥पादौ परिचरन्त्यन्याः कोट्यर्बुदस्त्रियश्च मे ।मुक्तकोट्योऽपि यौ पादौ सदा परिचरन्ति हि ॥६०॥देवप्रिया ह्यसंख्याश्च मम पादप्रसेवया ।गोप्यश्चाऽसंख्यकाश्चापि कीर्तिं प्रापुर्ममाऽधिकाम् ॥६१॥यौ पादौ मे स्तुवन्त्येव व्यासाः शतसहस्रशः ।तौ पादौ संवाहनीयौ सेव्यौ मे मुक्तिकामुकैः ॥६२॥चरणौ च यया सेव्यौ सेव्यौ भुजौ तथा मम ।मस्तकं मे सदा सेव्यं पृष्ठं संवाहनेन च ॥६३॥सेव्यं मेंऽगं तथोपांगं प्रत्यंगं भावतः प्रियाः! ।यस्य कस्याऽपि मेंऽगस्य सेवनं मोक्षदं मम ॥६४॥अथाऽर्चनं मम कार्यं सात्वतीभिश्च सात्त्वतैः ।बाह्यार्चनं षोडशभिस्तथा चाष्टशतैरपि ॥६५॥उपचारैः प्रकर्तव्यं हृद्यैः श्रेष्ठैर्मनोरमैः ।चलायां मे प्रतिमायां मामावाह्य प्रपूजयेत् ॥६६॥स्नापयेद् घृतदुग्धाद्यैरभिषिञ्चेज्जलैस्तथा ।कारयेच्च ततः श्रेष्ठवासांसि सुसमर्पयेत् ॥६७॥अलंकारान् विविधाँश्च यथास्थानं प्रधारयेत् ।काश्मीरकेसरोपेतचन्दनाद्यंगलेपनम् ॥६८॥यथर्तुं कुर्यात् स्नेहेन तिलकं बिन्दुगर्भकम् ।हारान् सुगन्धिनश्चापि शेखरानवतंसकान् ॥६९॥मम दद्यात्प्रदीपं सुधूपं नैवेद्यमुत्तमम् ।महानीराजनं कुर्याद्गीतवादित्रवादनैः॥७०॥प्रदक्षिणां स्तवनं च प्रार्थनां नमनादिकम् ।पुष्पांजलिं प्रदद्याच्च पञ्चकालं तु पूजनम् ॥७१॥त्रिकालं वा द्विकालं वा प्रातरेव तु वाऽऽचरेत् ।मम जन्मदिनेष्वत्र कर्तव्यं पूजनं महत् ॥७२॥व्रतेष्वेकादशीनां च गीतवादित्रपूर्वकम् ।भोजनीयाः साधवश्च सत्यश्च पारणादिने ॥७३॥धनवन्तः कारयेयुर्मन्दिराणि दृढानि मे ।प्रतिष्ठां कारयेत्तत्र धनी मे सुमहोत्सवैः ॥७४॥ग्रामं क्षेत्रं धनं दद्याद् गृहं पूजाधनार्थिकाम् ।वृत्तिं प्रबन्धयेद् रम्यां पूजाप्रवाहसिद्धये ॥७९॥कूपं च वापिकां पुष्पवाटिकां सुसरांस्यपि ।कुण्डान् कूपान् कारयेच्च मदर्थं च सतां कृते ॥७६॥वैष्णवान् कारयेच्छ्रेष्ठान् मखान् वै भूरिदक्षिणान् ।मन्त्रजपान् प्रकुर्याच्च स्तोत्राणां पाठनादिकम् ॥७७॥पुरश्चर्यां तथा कुर्यान्मम नाम्नां पुनः पुनः ।मन्त्राणां च पुरश्चर्यां ग्रन्थानामपि भावतः ॥७८॥पितरो देवताः पूज्याः ऋषयो वृद्धदेहिनः ।एवं बाह्यार्चनं प्रोक्तं मानसं चान्तरं तु तत् ॥७९॥अष्टाधिकशतश्रेष्ठोपचारैर्मानसैर्हृदि ।पूजनं मे प्रकर्तव्यं प्रेमसागरसंभृता ॥८०॥अथ मे वन्दनं कार्यं साष्टांगं वांऽगषष्टकम् ।पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा ॥८१॥वचसा मनसा चेति दण्डवत् पुरुषैः सदा ।पद्भ्यां कराभ्यां मनसा वचसा शिरसा दृशाः ॥८२॥नारीभिः सन्निषद्यैव प्रणामः कार्य एव मे ।मत्पादस्पृष्टसद्धूल्यां कर्तव्यं परिलुण्ठनम् ॥८३॥रजांसि वर्ष्मणि शीर्षे निधतव्यानि तानि वै ।मद्गात्रस्पृष्टवार्यादि मद्गात्रस्पृष्टचन्दनम् ॥८४॥रंगसलिलसौगन्ध्यचूर्णादि धार्यमित्यपि ।अहो भाग्यं मम श्रेष्ठं प्राप्तं चूर्णं रजो मया ॥८५॥भगवत्पादपद्मैर्यत् स्पृष्टं चाहो सुभाग्यवान् ।इत्येवं वै वदन् नित्यानन्दे भग्नो भवेज्जनः ॥८६॥अथ दास्यं सदा कार्यं यथा मे लोमशो मुनिः ।दासभावे सदा लक्ष्मीरिव संवर्तते तथा ॥८७॥न मानं तत्र वै कार्यं सेवने क्षतिधायकम् ।सर्वकाले यथापेक्षसेवायां दासवद् भवेत् ॥८८॥परिचर्या सर्वविधा योग्याऽयोग्याऽपि सर्वथा ।कर्तव्या मम दास्येव भृत्येव योषिताऽपि च ॥८९॥नरेण वा सदा भक्त्या सेव्योऽहं परमेश्वरः ।मम स्नानोपयोगार्थं जलं स्वयं समाहरेत् ॥९०॥कुसुमान्याहरेच्चापि मालां प्रागुम्फयेत् स्वयम् ।तुलसीं चन्दनं चापि घर्षयेद् द्रवमेव च ॥९१॥पाकं कुर्यात् स्वयं भक्तो भोजयेत् कवलैश्च माम् ।जलपानादिकं दद्याच्चुलुकं कारयेदपि ॥९२॥ताम्बूलकं मुखवासं दद्यान्मे स्वयमेव तु ।तालवृन्तादिभिर्भक्तो वेजयेन्मां यथोचितम् ॥९३॥सम्मार्जनं मन्दिरस्य मम कुर्याद् विलेपनम् ।जीर्णोद्धारं प्रकुर्वीत नूतनं मन्दिरादिकम् ॥९४॥भक्तानामन्नतोयाद्यैः फलाद्यैः सेवनं शुभम् ।मानं हित्वा प्रकुर्वीत प्रणमेत्तान् हि भावतः ॥९५॥देहस्त्रीपुत्रवित्तादेर्दास्येऽर्पणं विधापयेत् ।इत्येवं वर्तमानस्य मम साम्यं ददाम्यहम् ॥९६॥अथ सख्यं विधातव्यं सर्वं प्रकाशवन्मयि ।आचरितव्येमेवाऽत्र परत्र स समो मम ॥९७॥देहस्त्रीपतिपुत्रादेः स्नेहः कार्योऽधिको मयि ।मानुष्यनाट्यं दधतो मे क्रियासु न दोषधीः ॥९८॥कर्तुरकर्तुरन्यथाकर्तुर्मे कर्मसु क्वचित् ।संशयो नहि कर्तव्यो भक्ताधीनस्य मे प्रियाः ॥९९॥कामान् क्रोधात्तथा लोभान्मोहात् स्वार्थात् सुखेच्छया ।ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥१००॥न तत्र संशयः कार्यः सख्यं मैत्र्यमिदं मयि ।यत्करोमि तु भक्तार्थं भक्तकल्याणहेतवे ॥१०१॥लोका नैतद् विजानन्ति गहनां तां गतिं मम ।तस्मात् कार्यो हि विश्वासो मम क्रियासु सर्वथा ॥१०२॥अथ कार्यं समस्तं वै मयि त्वात्मनिवेदनम् ।नरेण योषिता वापि देहोऽर्प्यो मयि सर्वथा ॥१०३॥तथेन्द्रियाणि चार्प्यानि तथाऽन्तःकरणान्यपि ।स्वभावाश्च मयि चार्प्याः कुटुम्बं चापि वै मयि ॥१०४॥समर्पणीयं भक्तेन तदधीनो भवेन्न वै ।अनादिश्रीकृष्णनारायणः स्वामी भवाम्यहम् ॥१०५॥ममाऽधीनो भवेन्नित्यं मदर्थं सकलक्रियः ।मदर्थसर्वव्यापारो भवेद् भक्तो मम प्रियः ॥१०६॥एवं प्रियाभिर्युष्माभिर्वर्तितव्यं सदा मयि ।कान्तोऽहं भवतीनां च दास्ये वै शाश्वतं सुखम् ॥१०७॥एवमाह स्वयं कृष्णनारायणः परेश्वरः ।राधिके! बहुधा भक्तिस्वरूपाणि विशेषतः ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोः सर्वथा प्रसन्नताऽऽपादकविविधभक्तिस्वरूपविवेचनामा त्रयोदशाधिकशततमोऽध्यायः ॥११३॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP