संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १११ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १११ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १११ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! दिव्यकिशोरं दर्शनं परम् ।परधामगतं रूपं दर्शयामास माधवः ॥१॥रूपानुरूपावयवं कोटिकामाश्रयं शुभम् ।सर्वतेजोमयं सर्वानन्दशान्तिदयाभृतम् ॥२॥अपारकरुणायुक्तं तथा वात्सल्यशेवधिम् ।अनन्तानन्त सौहार्दस्नेहप्रेमप्रपूरितम् ॥३॥सर्वगन्धरसाद्युक्तं सर्वपुष्टिबलान्वितम् ।सर्वाभृतप्रसवं च सर्वस्पर्शसुखप्रदम् ॥४॥मुकुटादिविभूषाभिः शोभितं च मनोहरम् ।दिव्याम्बरसुशोभं च सर्वचिह्नविराजितम् ॥५॥राधालक्ष्मीयुतं पार्श्वे प्रभापारवतीयुतम् ।माणिकीसहितं दिव्यं ब्रह्मप्रियाभिवन्दितम् ॥६॥असंख्यमुक्तधामादिप्रस्तुतं चावतारकैः ।पार्षदैरीश्वरैः सर्वैरीश्वरीभिर्नतं तथा ॥७॥सगुणैर्निर्गुणैस्तत्त्वैः सृष्टिपालैः प्रवन्दितम् ।ऋषिभिः पितृभिर्देवैर्मानवैर्जडचेतनैः ॥८॥पातालवासिभिश्चापि शक्तिभिश्च स्तुतं प्रभुम् ।सर्वं यत्र ममौ सूक्ष्मं यस्माच्च निर्ययाविदम् ॥९॥सर्वात्मकं ततः सूक्ष्मं चमत्कारप्रपूरितम् ।सर्वाश्चर्याश्रितं बालकृष्णं श्रीकम्भरासुतम् ॥१०॥कुंकुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् ।दिव्याक्षरं परं क्षेत्रं दर्शयामास वै प्रभुः ॥११॥पितृकन्या विंशतिश्च दशसाहस्रसेविकाः ।सर्वास्ताः पितृपुत्र्यो वै मुमुहुः श्रीहरौ तदा ॥१२॥वव्रिरे कान्तमात्मानं सर्वात्मवल्लभं प्रभुम् ।प्रजाकन्याः कोटिसंख्या वव्रिरे कान्तमेव तम् ॥१३॥अर्यम्णा च प्रजाभिश्च बालकृष्णाय चार्पिताः ।अनादिश्रीकृष्णनारायणेन स्वीकृताश्च ताः ॥१४॥कृतकृत्या अभवँश्च प्राप्तव्यः प्राप्त एव यत् ।भगवान् स्वविमानेषु ताभ्यो वासं तदा ददौ ॥१५॥अथाऽर्यमाण भगवानाह कारुकपर्वते ।सिन्धुमूले सदा मूत्या स्थेयं त्वयाऽत्र भूतये ॥१६॥त्रीतराज्ये चारुणानां रक्षार्थं पश्चिमे स्थले ।अर्यमँस्तव राज्यं तद् भविष्यति सुखावहम् ॥१७॥इत्येवं भगवान् कृष्णनारायणस्तु भास्वते ।अर्यम्णे प्रददौ कुरुकराद्रिं सिन्धुपार्श्वगम् ॥१८॥आरुणा दिव्यवसना दिव्यरूपाश्च तत्स्त्रियः ।प्राप्य तत् सुन्दरं स्थानं मुमुदुर्देवता इव ॥१९॥कं सुखं तत्प्रदा या अश्मनाम् इरा क्षितिः शुभा ।कश्मेरा पर्वतभूमिः कारुपर्वतशोभना ॥२०॥तत्राऽर्यमा स्वयं वासं चक्रे श्रीसहितः सदा ।श्रीभूमिः पावनी सा चाऽभवच्छ्रीनगरी सदा ॥२१॥एवं सर्वं व्यवस्थाप्य हरिस्तीर्थविधित्सया ।विधापयितुं तीर्थानि नदीर्नदान् सरांसि च ॥२२॥प्रजाः स्वस्वप्रदेशाँश्च गन्तुमाज्ञाप्य वै ततः ।विमानैर्निर्ययौ कृष्णो यातुमादिश्य वै नृपान् ॥२३॥ब्रह्मप्रियाकुमारीभिर्देवपित्रर्षिभिः सह ।सस्नौ स ब्रह्मपुत्र्यां वै लाशहाख्यसरोजले ॥२४॥ततः सस्नौ सिन्धुमूले ततश्च तेरिमाजले ।आमूराया जले सस्नौ होमांगाया जले ततः ॥२५॥महत्याश्च जले अंगशिक्षांगाया जले ततः ।शिक्षांगाया जले सस्नौ मनिकङ्ग्वा जले ततः ॥२६॥पन्नाम्न्याश्च जले चापि शालावत्या जलेऽपि च ।इरावत्या जले स्नात्वा सुन्दरारण्यमाययौ ॥२७॥पितृकन्या हरिः प्राह भवत्योऽत्र मम प्रियाः ।द्विरूपिण्यो भवन्त्वेव मूलच्छायात्मिकाः शुभाः ॥२८॥मूलात्मिका मम क्षेत्रे वसन्तु तु मया सह ।छायात्मिका नदीरूपा वसन्तु तीर्थभूमिगाः ॥२९॥ब्रह्मपुत्री लवहीता चन्द्रावती इरावती ।शालावती मीनकङ्गू लाटिशा कानिशा तथा ॥३०॥मापींगा चापि सीक्यांगा अंगस्वांगा हरांगिका ।मौक्तिका तारिमा चापि पन्नामा त्वांगहा तथा ॥३१॥मन्नाम्नी मणिवर्णा च रंगवर्णा च सुन्दरी ।एताः सर्वाः स्वनाम्नैव ख्यातिं यास्यथ मे प्रियाः ॥३२॥भवतिभ्यो मया दत्तं सामर्थ्यं पापनाशकम् ।मोक्षदं पुण्यदं स्मृद्धिप्रदं पुत्रादिसम्प्रदम् ॥३३॥भवतीनां महिमानं कथयामि मम प्रियाः! ।यासां साक्षाद्धरेर्योगो दिव्यतापादकः शुभः ॥३४॥मुक्ततादायको योगो यासां नारायणेन वै ।तासां वै दिव्यता नित्यमुक्तता कमलासमा ॥३५॥राधिकया समा लक्ष्म्या समाः श्रिया समास्तथा ।यूयं प्रभासमा दिव्या यूयं पारवतीसमाः ॥३६॥यूयं वै माणिकीतुल्या मम प्राणसमाः प्रियाः ।युष्मत्संसर्गमाप्तानां मम धाम्नि निवासनम् ॥३७॥भवतीनां जले स्नाता ये पक्षिपशवो जनाः ।कीटाः पतंगजन्त्वाद्यास्ते यास्यन्ति परं पदम् ॥३८॥यथा गंगा च यमुना यथा सरस्वती सती ।तथा यूयं सर्वमोक्षप्रदा दिव्याः स्थ तारिकाः ॥३९॥यथा च गण्डकी श्रेष्ठा गोमती स्वर्णलेखिका ।तथा यूयं सदा मे वै निवासार्हाः स्थ योषितः ॥४०॥मम मूर्तेर्जलं यद्वत् तत्तथैव च वो जलम् ।ब्रह्मकमण्डलुवारिसदृशं वो जलं शुभम् ॥४१॥विराजाया यथा वारि ब्रह्मह्रदजलं यथा ।पावनं वो जलं यद्वदामूल वार्धिसंगमात् ॥४२॥महापापातिपापानां घातहत्यादिभाविनाम् ।अकृत्यजायमानानां क्षालनं वो जले सदा ॥४३॥पीतं स्पृष्टं तथा दृष्टं घ्रातं चाचमनीकृतम् ।कणमात्रजलं वोऽस्तु पावकं मम योगतः ॥४४॥आसुरा राक्षसा दैत्या म्लेच्छाः पापाश्च दानवाः ।शुद्धिमेष्यन्ति सलिलाद्भवतीनां युगे युगे ॥४५॥प्रेता भूता राक्षसाद्या असद्गतिगतास्तथा ।यदाकदाचित् स्नानेन मुक्तिमेष्यन्ति वै क्षणात् ॥४६॥शालावत्या चांगशिक्षाया मध्ये तु मया क्रतुः ।मेनकांगातटे यत्र प्रथमस्तु कृतः शुभः ॥४७॥तथात्र लाशहानाम्नस्तडागस्य समीपतः ।द्वितीयोऽयं महायज्ञः कृतो वै वैष्णवः शुभः ॥४८॥आद्या वैकुण्ठसदृशी गोलोकेन समा परा ।भूमिर्दिव्या भवतीनां योगाच्च मोक्षसदृशी ॥४९॥तत्रत्याश्च प्रजाः सर्वा मम पार्षदरूपिणी ।मम ब्रह्मप्रियातुल्याः सत्यः साध्व्यः स्त्रियोऽपि च ॥५०॥बाला मद्बालतुल्याश्च वृद्धा मे वृद्धसदृशाः ।समाना मे समभावाः पावना मम योगतः ॥५१॥भवतीनां तटे वासं कुर्वाणा देहिनः खलु ।जराऽण्डस्वेदभेदोत्थाश्चत्वारोऽपि प्रजीविनः ॥५२॥पावना मे भक्तियुक्ता विष्णुतुल्या मता मम ।भवतीनां जले वासं कुर्वाणा जन्तवस्तु ये ॥५३॥सदा वैकुण्ठवासास्ते भविष्यन्ति न संशयः ।भवतीनां कणव्याप्ताः पवना यान्ति यद्दिशम् ॥५४॥ते देशाः पावना विष्णुलोकतुल्या हि देहिनाम् ।भवतीनां जले येषामस्थिखण्डः पतेदपि ॥५ ५॥यद्वा भस्म शवस्यापि पतेत्स्वल्पं यदा तदा ।ते जीवाः पावना भूत्वा यास्यन्ति मम धाम वै ॥५६॥भवतीनां स्मरणेन प्रातर्नाम्ना तु याः प्रजाः ।यत्र क्वापि करिष्यन्ति स्नानं वापीजलादिषु ॥५७॥गृहे वा पर्वतेऽरण्ये समुद्रे यानवाहने ।ब्रह्मपुत्र्यादिनाम्नेव ते प्राप्स्यन्ति क्रतोः फलम् ॥५८॥अथ गंगा चाजनाभे अब्रिक्ते च नरायणी ।इरावती ब्रह्मदेशे त्रिवित्ते ब्रह्मपुत्रिका ॥५९॥श्यामदेशे मेनकांगा प्राचीनेंऽगशिवांगिका ।सर्वास्ता गोमतीतुल्या गोलोकाऽऽवासदायिकाः ॥६०॥सर्वतीर्थफलं यायात् स्नात्वा स्मृत्वाऽपि मानवः ।भवतीनां तटे कश्चिद् दास्यत्यपि च ढब्बुकम् ॥६१॥कोटिमुद्राप्रदानस्य फलमाप्स्यति मानवः ।रूप्यकं वा स्वर्णमुद्रां रत्नं च हीरकं च वा ॥६२॥मौक्तिकं चापि माणिक्यं मणिं ताम्रं वराटिकाम् ।दाने दास्यन्ति ये तीरे तेषां कोटिगुणं फलम् ॥६३॥वस्त्रं भूषाः कज्जलादि शृंगारं चन्दनादिकम् ।पादुके वाहनं वापि तथोपकरणादिकम् ॥६४॥गृहं गृहस्य सामग्रीश्चान्नं रसं च भोजनम् ।यो वा दास्यति भावेन तस्य पुण्यमनन्तकम् ॥६५॥गजं चाश्वमजां धेनुं दोग्ध्रीं कन्यां च वाटिकाम् ।दाने दास्यति तीरे वस्तस्य पुण्यमनन्तकम् ॥६६॥विद्यां विद्यार्थिनां चापि साहाय्यं पाठशालिकाम् ।दास्यति वस्तटे तेषां स्वर्गं स्यात् समनन्तकम् ॥६७॥अहं नारायणः स्वामी जलाद्धस्तचतुष्टये ।तीरे दानप्रदातारो यास्यन्ति मम धाम ते ॥६८॥नारीणां चापि बालानामनाथानां च योगिनाम् ।साध्वीनां च सतां सेवां कर्तव्याऽनन्तपुण्यदा ॥६९॥अनंगानामधनानामगृहाणामनायुषाम् ।सेवनं वस्तटे कार्यं तस्य पुण्यमनन्तकम् ॥७०॥माघे पूर्वदले यज्ञः प्रथमः पञ्चमीतिथौ ।समारब्धो मेनकांगातटे तत्र दिने तु यः ॥७१॥करिष्यति क्रतुं तत्र वैष्णवं रौद्रमेव वा ।स्वर्गराज्यं ब्रह्मराज्यं प्राप्स्यन्ति मोक्षणं तथा ॥७२॥एकादश्यां समाप्तिश्च कृता तस्येति तद्दिने ।भोजनादीनि दास्यन्ति प्राप्स्यन्ति परमां गतिम् ॥७३॥लक्ष्मीनारायणसंहितायाः पारायणं ततः ।आरभ्य कारयिष्यन्ति प्राप्स्यन्ति मम धाम ते ॥७४॥मन्दिरे मम तत्रैवोत्सवं च मम सन्निधौ ।कारयिष्यन्ति ये भक्तास्तेषां मोक्षस्तु शाश्वतः ॥७५॥दृढं च मन्दिरं नूनं कारयित्वा तु तत्तटे ।लक्ष्मीराधाप्रभापारवतीश्रीमाणिकीयुतम् ॥७६॥सप्तमूर्तिस्वरूपं मा स्थापयिष्यन्ति ये जनाः ।तेभ्यो धाम परं स्थानं दास्यामि मम शोभनम् ॥७७॥पूजाप्रवाहं वृत्तिं च जीवनं दानभोजनम् ।दास्यन्ति ये भवतीनां तटे मन्मन्दिरे जनाः ॥७८॥तेभ्यः स्वर्गाणि रम्याणि धामानि द्युतिमन्ति च ।दास्याम्यजस्रं दिव्यानि शाश्वतानि न संशयः ॥७९॥मन्दिरे दीपदानं च भवतीनां जले तथा ।दीपदानं करिष्यन्ति तेषां चक्षुर्हि शाश्वतम् ॥८०॥सर्वं ज्ञानमयं दिव्यं विधास्ये मुक्तिदं शुभम् ।तुलसीं चम्पकं पद्मं तदुद्यानं फलान्वितम् ॥८१॥कारयिष्यन्ति ये भक्तास्तान्नयिष्येक्षरालयम् ।मम वैष्णवभक्तानां पूजां भोजनदक्षिणाम् ॥८२॥सेवां पादस्य दास्यं वा करिष्यन्ति तु ये जनाः ।साध्वीनां वा पार्षदानां करिष्यन्ति प्रसेवनम् ॥८३॥अन्नधनाऽम्बरेष्टाद्यैस्तान्नयिष्येऽक्षरं पदम् ।भवतीनां तटे रम्ये ग्रामे चावसथादिषु ॥८४॥साधुरूपेण सततं विचरिष्यामि वल्लभः ।साध्वीरूपेण मे पत्न्यो विचरिष्यन्ति सर्वदा ॥८५॥तासां पूजाऽन्नदानाद्यैः कार्या स्वश्रेयसे जनैः ।भवतीनां जले ताश्च स्नास्यन्ति तीर्थहेतवे ॥८६॥मम भक्तावताराश्च मेऽवतारा युगे युगे ।स्नास्यन्ति भवतीनां वै सलिलेषु पुनः पुनः ॥८७॥माघे सरित्सु चैतासु ये तु स्नास्यन्ति देहिनः ।तेषां पापानि विलयं यास्यन्ति कोटिजन्मनाम् ॥८८॥नदीनां संगमादौ च कुंभलग्ने तु ये जनाः ।स्नास्यन्ति दूरतो गत्वा यास्यन्ति परमं पदम् ॥८९॥मया कृपया पितृकन्यास्तीर्थीकृताः सदा ।मत्प्रिया भवथाऽतो वै मत्तुल्या नाऽत्र संशयः ॥९०॥माघमासे भवतीनां जलेषु स्वर्गवासिनः ।देवाश्च पितरश्चापि समायास्यन्ति नित्यश ॥९१॥सर्वतीर्थानि लोकेभ्यश्चागमिष्यन्ति सर्वतः ।कोटितीर्थात्मकं वारि भवतीनां भविष्यति ॥९२॥सत्यं स्वर्गादिकं सर्वं भवतीनां जले तदा ।भविष्यति न सन्देहो यूयं श्रेष्ठतमास्ततः ॥९३॥तत्तद्देशोद्भवाः सन्तो निवत्स्यन्ति हि वस्तटे ।भवतीनां सुपावित्र्यं वर्धयिष्यन्ति साधवः ॥९४॥पुत्रपौत्रकलत्रादिधनधान्याऽम्बरादिकम् ।भूषाक्षेत्रोद्यानराज्यसम्पत्स्मृद्धिप्रदं तथा ॥९५॥सर्वेष्टसुखदं स्वर्गमोक्षदं वंशदं शुभम् ।भवतीनां जले स्नानं कृतं सर्वं विधास्यति ॥९६॥भवतीनां तटे वासकृतां मोक्षो भविष्यति ।मुण्डनं कारयिष्यन्ति ये तत्पापानि सर्वथा ॥९७॥नाशमेष्यन्ति च शुद्धिं यास्यन्ति चात्मनां ततः ।भवतीनां तटे दीक्षां ग्रहीष्यन्ति नराः स्त्रियः ॥९८॥ते मुक्ता मम धामस्थतुल्या देहयुता अपि ।स्नानं दानं तपो होमं स्वाध्यायं पितृतर्पणम् ॥९९॥अनाथपालनं गोपालनं दीनसहायनम् ।करिष्यन्ति जना येऽत्र तटे ते मोक्षभागिनः ॥१००॥कुमारदानकर्तारः कन्यादानविधायिनः ।ब्रह्मधामगतिं चान्ते यास्यन्ति शाश्वतं पदम् ॥१०१॥भवतीनां जले त्वेकवारं स्नास्यन्ति ये जनाः ।स्मृत्वा शतकुलान्येव तानि यास्यन्ति मोक्षणम् ॥१०२॥भवतीनां तटे श्राद्धं मृतानां पुण्यसत्क्रियाः ।देवानां स्थापनं वृक्षे जलपानं तथाऽऽलयम् ॥१०३॥आश्रयं धर्मशालां च साहाय्यं विपदात्मनाम् ।करिष्यन्ति जना येऽत्र ते प्राप्स्यन्ति परां गतिम् ॥१०४॥भवतीनां मन्दिराणि कारिष्यन्ति ये जनाः ।कुलदेवीं कूलवासा मानयिष्यन्ति वश्च ये ॥१०५॥पूजयिष्यन्ति विविधैर्नूतनैर्मिष्टभोजनैः ।जलपुष्पफलार्घ्यैश्च तेषां स्वर्गं हि शाश्वतम् ॥१०६॥अवग्रहाऽतिवृष्ट्यादिपीडा तेषां न वै भवेत् ।ऋषीणां मम शिष्याणां मन्दिरे प्रतिमार्चनम् ॥१०७॥करिष्यन्ति जनास्तेषां दारिद्र्यं नैव दृश्यते ।इत्येवं राधिके! ताभ्यो ददावाशीर्वचांसि सः ॥१०८॥इतिश्रीलक्ष्मीनारायणीयसहितायां द्वितीये त्रेतासन्ताने ब्रह्मपुत्र्यादिभ्यो हरिणा दत्तदिव्यदर्शनम्, दशसहस्राणि विंशतिश्चेति कन्यकाऽर्पणम्, अर्यम्णे कश्मेराप्रदेशराज्य-दानम्, ब्रह्मपुत्र्यादीनां नदीरूपेणापि भवनम्, तासु हरिकृतस्नानम्, वरदानानि, तीर्थफलानि, दानफलानि चेतिनिरूपणनामैकादशाधिकशततमोऽध्यायः ॥१११॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP