संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २१२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २१२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१२ Translation - भाषांतर श्रीकृष्ण उवाच-राधिकेऽथ ततः श्रीमद्बालकृष्णः प्रभुः स्वयम् ।दुग्धं पपौ भोजनं च चकार सकुटुम्बकः ॥१॥तावत् पूजां महाराज्ञी कर्तुं कन्यायुताऽऽययौ ।तिस्रः कन्या वरमालां ददुः कण्ठे हरेस्तदा ॥२॥कृतकृत्या अभवँस्ता राज्ञी मेने सुभाग्यकम् ।राजा कोटिसुवर्णानि प्रददौ हरये तदा ॥३॥प्रजा महोत्सवं चक्रे पूजनं च हरेस्ततः ।पूजां लब्ध्वा द्रुतं कृष्णो विमानं चाध्यरोहयत् ॥४॥सर्वान् स्वयं चारुरोह राजा सैन्येन वै तदा ।विदायमानं सम्मानं व्याकरोद् वादकैस्तथा ॥५॥स्वयं विमानमारुह्य सर्षिस्तदाऽम्बरेऽभवत् ।देशान् राज्ये सुयुक्ताँश्च वीक्ष्य हरिर्नृपान्वितः ॥६॥साधुद्वीपं ततो वीक्ष्य हट्टासनाब्धिमाप्य च ।उल्लंघ्य शीघ्रमेवाऽऽपाऽध्वरभूमिं निशामुखे ॥७॥भोजनं मधुरं चक्रे विशश्राम सुखोषितः ।तिस्रः कन्या हरेः सेवां चक्रिरे शयने तदा ॥८॥प्रातस्तूर्यनिनादैश्च मांगलिकस्तवैस्तथा ।गीतिभिर्ब्रह्मपत्नीनां प्रबुबोध महाप्रभुः ॥९॥कृतस्नानादिकस्तूर्णं प्रपूज्य पितरौ गुरून् ।यज्ञभूमौ हरिस्तूर्णं तत्राजगाम सान्वयः ॥१०॥एकादश्यां प्रगे विप्रा मुनयोऽपि महर्षयः ।साधवः कर्मठाश्चान्ये यज्ञमण्डपमाययुः ॥११॥देवाद्याः स्थानभोक्तारः सर्वे स्वस्थानमाययुः ।निषेदुर्वह्नयः कुण्डमध्ये मूर्ता यथोचितम् ॥१२॥स्वस्तिवाचोऽभवँस्तत्र पुण्याहवचनानि च ।प्रोक्षणान्युद्बोधनानि पूजनान्यभवन् क्रमात् ॥१३॥हवनानि तर्पणानि यथानित्यं तथाऽभवन् ।अन्तिमं होमकार्यं च परिहारोऽभवत्तथा ॥१४॥हव्यानां भोजनान्येवाऽभवैँस्तद्व्रतपुष्टये ।अनन्नाऽहारमापुस्ते श्रीहरेः करतः सुराः ॥१५॥तृप्तास्तत्र महातृप्तिं गता हरिप्रसादजाम् ।अथ तत्र महाद्रव्यदक्षिणाः स्वर्णरत्नजाः ॥१६॥कोट्यब्जार्बुदपद्मानां परार्धानां परात्पराः ।विप्रेभ्योऽदापयत् कृष्णनारायणश्च राजभिः ॥१७॥ततः सर्वेऽपि राजानो राज्ञीयुक्ता निजे निजे ।कुण्डे चक्रुर्हवनानि पूर्णाहुत्यात्मकानि वै ॥१८॥अनादिश्रीकृष्णनारायणोऽपि मुख्यकुण्डके ।पूर्णाहुतीर्ददौ वह्नौ देवताभ्योऽमृतात्मिकाः ॥१९॥ततश्चचार भगवान् महापूर्णाहुतिं पराम् ।तदा मुक्ता अवतारा ईश्वरा मुनयस्तथा ॥२०॥ऋषयो देवताः सर्वा देव्यश्च मानवादयः ।काश्यप्यश्च प्रजाः सर्वा मूर्तिमन्तो नराः स्त्रियः ॥२१॥चरुप्रसादलाभार्थं महापूर्णहवाप्तये ।स्थावरा जंगमाः सर्वे चोपतस्थुर्हि मण्डपे ॥२२॥घृतधारासहस्राद्यैस्तृप्यन्ते देवतादयः ।वसुधारायुताद्यैश्च तृप्यन्तेऽनन्तसृष्टयः ॥२३॥महापूर्णाहुतिहोमसंकल्पोत्तरमेव तु ।मृडं वह्निं नमस्कृत्याऽऽज्यं चाधिश्रित्य स्रुक्स्रुवौ ॥२४॥प्रताप्य दर्भैः सम्मृज्योद्वास्याज्यमभिवीक्ष्य च ।संस्कृत्याऽऽज्यं गृहीत्वा श्रीफलं स्रुचि निधाय च ॥२५॥ताम्बूलं च फलान्यत्र पूगाऽक्षतादिकानि च ।धृत्वोपरि च समिधोऽलंकृत्य पुष्पचन्दनैः ॥२६॥पूर्णाहुत्यै नम इति संपूज्य हव्यमेव च ।धृत्वा कराभ्यां भगवान् राजाद्या यजमानकाः ॥२७॥स्थिताः प्रणालिकाद्वारा घृतधाराः सहस्रशः ।कुण्डमध्ये प्रवहन्त्यविच्छिन्नाश्च तदा मुहुः ॥२८॥वेदमन्त्रा अभवँश्चोच्चरिता वह्निदेवताः ।वह्नेर्ध्यानं तदा चक्रुः साक्षात् स्थितस्य होमिनः ॥२९॥चतुःशृंगं त्रिधा बद्धं द्विमूर्धानं समुज्ज्वलम् ।नासाद्वयं च षण्णेत्रं चतुःश्रोत्रं त्रिपादकम् ॥३०॥सप्तहस्तं दक्षे चतुःकरं वामे त्रिहस्तकम् ।स्रुवं स्रुचं तथा शक्तिमक्षमालां च दक्षिणे ॥३१॥तोमरं व्यजनं चैव घृतपात्रं तु वामके ।दधानं सप्तजिह्वं च त्रिर्जिह्वोत्तरकाननम् ॥३२॥चतुर्जिह्वं दक्षभागे द्विपञ्चाशत्कलायुतम् ।कोटिद्वादशमूर्त्याख्यं रक्तपद्मासनस्थितम् ॥३३॥स्वाहास्वधावषट्कारैरंकितं रक्तहारिणम् ।पिंगाक्षं लोहितग्रीवं कृष्णमार्गं हुताशनम् ॥३४॥ज्वालामयं तथा सप्तार्चिषं तं हव्यवाहनम् ।अग्निं वैश्वानरं त्वां वै नमामो गोचरं सुरम् ॥३५॥इति ध्यात्वा तथा नत्वा वेदमन्त्रान् जगुर्द्विजाः ।घृतधाराः पतन्त्येव तत्र सहस्रशोऽनले ॥३६॥ओं समुद्रादूर्मिर्मधुमाँ उदारदुपाँशुना सममृतत्वमानट् ।घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥३७॥वयन्नामप्प्रब्रवामाघृतस्याऽस्मिन् यज्ञे धारयामा नमोभिः ।उप ब्रह्मा शृणवच्छस्यमानं चतुःशृंगोवमीद्गौर एतत् ॥३८॥चत्वारि शृंगास्त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य ।त्रिधा बद्धो वृषभो रोरवीति महोदेवो मर्त्यानाविवेश ॥३९॥त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविंदन् ।इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥४०॥एता अर्षन्ति हृद्यात् समुद्राच्छतव्रजारिपुणानावचक्षे ।घृतस्य धारा अभिचाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥४१॥सम्यक स्रवन्ति सरितोऽनघेनाऽअन्तर्हृदा मनसा पूयमानाः ।एतेऽअर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणो रीषमाणाः ॥४२॥सिन्धोरिव प्राध्वने शूघनासो व्वातप्प्रमियः पतयन्ति यह्वाः ।घृतस्य धाराऽअरुषोन व्वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानाः ॥४३॥अभिप्रवंत समनेव योषाः कल्याण्यः स्मयमानासोऽअग्निम् ।घृतस्य धाराः समिधो न सन्तता जुषाणो हर्य्यति जातवेदाः ॥४४॥कन्या इव व्वहतुमेतवाऽउ ऽअंज्यंजानाऽअभिचाकशीमि ।यत्र सोमः सूयते यत्र यज्ञो घृतस्य धाराऽअति तत्पवन्ते ॥४५॥अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥४६॥धामं ते विश्वं भुवनमधिश्रितमन्तःसमुद्रे हृद्यन्तरायुषि ।अपामनीके समिथेयऽआभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ॥४७॥ओं मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आजातमग्निम् ।कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥४८॥ओं चितिं जुहोमि मनसा घृतेन यथा देवा इहाऽगमन् वीतहोत्रा ऋतावृधः ।पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे विश्वाहादाब्भ्यं हविः ॥४९॥सप्त ते अग्ने समिधः .सप्तजिह्वाः सप्त ऋषयः सप्तधाम प्रियाणि ।सप्तहोत्राः सप्तधात्वा यजन्ति सप्तयोनीरापृणस्वा घृतेन स्वाहा ॥५०॥शुक्रं ज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ।ज्योतिष्माँश्च शुक्रश्च ऋतपाश्चात्यंहाः ॥५१॥ईदृङ्त्वान्न्यादृङ्च सदृङ्च् प्रतिसदृङ्च ।मितश्च संमितश्च सभराः ॥५२॥ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च धर्ता च विधर्ता च विधाधयः ।ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च अन्तिमित्रश्च दूरेऽअमित्रश्च गुणः ॥५३॥ईदृक्षास एतादृक्षास ऊषुणः सदृक्षासः प्रतिसदृक्षास एतन ।मितासश्च सम्मितासो नोऽअद्य सभरसो मरुतो यज्ञेऽस्मिन् ॥५४॥स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च क्रीडी च शाकी चोज्जेषि ।उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च सासह्वांश्चाभियुग्वा च विक्षिपः स्वाहा ॥५५॥पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणोव्वसुनीथ यज्ञैः ।घृतेन त्वं तन्न्वन्वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥५६॥वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्रधारम् ।देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्प्वावाकामधुक्षः ॥५७॥पूर्णा दर्व्वि परापत सुपूर्णा पुनरापतवस्नेव व्विक्रीणावहा इषमूर्ज्जं शतक्रतो स्वाहा ।इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यः शतक्रतवे अद्भ्यश्च नमम ॥५८॥इदं दिविषद्भ्यो भुवः सद्भ्यो महःषद्भ्योजनसद्भ्यस्तपःसद्भ्यश्च नमम ।इदं सत्यसद्भ्यश्चाऽऽवृतिषद्भ्यश्चेश्वरेभ्योविराजाय महाविराजाय नमम ॥५९॥इदं विष्णुभ्यो महाविष्णुभ्यो हिरण्यगर्भेभ्यो नमम ।इदं भूमभ्यो महापुरुषेभ्यो महाकालेभ्यश्चतुर्व्यूहेभ्यो नमम ॥६०॥इदं चाक्षराय चाक्षरषद्भ्योऽवतारेभ्योऽवतारिणे नमम ।इदं ब्रह्मप्रियाभ्य ईशनीभ्यो धामिनीभ्यः सतीभ्यो नमम ॥६१॥इदं पार्षदेभ्यः पार्षदानीभ्यो गणेभ्यो गणनीभ्यो नमम ।इदं योगिभ्यो योगिनीभ्यः सर्वपालेभ्यः क्षेत्रपेभ्यो नमम ॥६२॥इदं महर्षिभ्यश्च पितृभ्यो वायवीयेभ्यो जलीयेभ्यो नमम ।इदं यमीयेभ्यः काश्यपीयेभ्यो यक्षेभ्यो राक्षसेभ्यश्च नमम् ॥६३॥इदं मानवेभ्यो मानवीभ्यः पाशवीभ्यः पशुभ्यश्च नमम ।इद्ं पाक्षिणीभ्यश्च पक्षिभ्यः सृपेभ्यश्च सृपीभ्यश्च नमम ॥६४॥इदं दासेभ्यश्च दासीभ्यश्च पादपेभ्यो वल्लीभ्यश्च नमम ।इदं तृणेभ्यश्च स्तम्बेभ्यश्च विरुद्भ्यश्च मूलेभ्यो नमम ॥६५॥इदं तीर्थेभ्यश्च नदीभ्यश्चाऽब्धिभ्यश्च तडागेभ्यो नमम ।इदं चैत्येभ्यश्च जडेभ्यश्च तत्त्वेभ्यश्च चेतनेभ्यो नमम ॥६६॥इदं दैत्येभ्यश्च भूतेभ्यश्च पिशाचेभ्यश्च भूतिन्यादिभ्यश्च नमम ।इदं अधोभ्यश्चोपरिभ्यश्चान्तरेभ्यश्च पार्श्वगेभ्यो नमम ॥६७॥इदं साध्येभ्यश्च तापसेभ्यश्च सांख्ययोगिनीभ्यश्च नमम ।इदमंशेभ्यश्च कलाभ्यश्चाऽऽवेशेभ्यश्च विभूतिभ्यो नमम ॥६८॥इदं अर्चाभ्यश्चान्तर्यामिणे च स्वरूपेभ्यो रूपेभ्यो नमम ।इदं विभवेभ्यश्च प्रतिबिम्बेभ्यश्चावतीर्णेभ्यश्च नमम ॥६९॥इदं त्यागिभ्यश्च यतिभ्यश्च शीलिभ्यश्च ब्रह्मिष्टेभ्यो नमम ।इदं गुणेभ्यश्च क्रियाभ्यश्च रसेभ्यश्च प्रियाभ्यश्च नमम ॥७०॥इदं गर्भेभ्यश्च बालेभ्यश्च युवभ्यश्च स्थवीरेभ्यश्च नमम ।इदं प्रेतेभ्यश्च वृषवन्धेभ्यश्च कालेभ्यश्च नमम ॥७१॥इदं कोशेभ्यश्चेन्द्रियेभ्यश्चशक्तिभ्यश्च देवताभ्यो नमम ।इदं मायाभ्यश्चेशानेभ्यश्चेशानीभ्यश्चवैष्णीवीभ्यश्च नमम ॥७२॥इदं ब्राह्मीभ्यश्च ब्रह्माणीभ्यश्चवैराजीभ्यश्च भूम्नीभ्यश्च नमम ।इदं धामभ्यश्च विकुण्ठाभ्योहारिताभ्यः श्वेताभ्यश्च नमम ॥७३॥इदं पिशंगीभ्यश्च रक्ताभ्यश्चगौरीभ्यः स्मारिताभ्यश्च नमम ।इदं लक्ष्म्यै राधिकायै सरस्वत्यैदुर्गायै गंगायै नमम ॥७४॥इदं विरजायै पद्मावत्यै रमायैमाणिक्यै मंजुलायै नमम ।इदं कमलायै हंसायै चमृतायैसद्गुणायै सुदेव्यै च नमम ॥७५॥इदं दुःखहालक्ष्म्यै सन्तुष्टायै चामरीभ्यःकम्भरायै श्रियै नमम ।इदं धर्माय च वृषाय च गोपालाय चभगवते वल्लभाय च नमम ॥७६॥इदं शुकाय च स्वतःप्रकाशाय चमहाव्यासाय च दैवाधिकाशाय च नमम ।इदं ब्रह्मसृष्ट्यै चेशसृष्ट्यै जीवसृष्ट्यैसर्वसृष्ट्यै असृष्ट्यै च नमम ॥७७॥इदं विशिष्टाय परेशायाऽनादिकृष्ण-नारायणाय स्वामिने नमम ।इदं यज्ञाय च हव्याय च पात्रेभ्यश्चो-पकरणेभ्यश्च श्रीकृष्णवल्लभाय च नमम ॥७८॥इदं कुण्डाय च वेदेभ्यश्चमण्डपाय च स्वरेभ्यश्च नमम ।इद्ं महीमानेभ्यश्च दीनेभ्यश्चा-ऽनाथेभ्यश्च कीटेभ्यश्च नमम ॥७९॥इदं भिक्षुकेभ्यश्च न्यासिभ्यश्च भृत्येभ्यश्चसाशेभ्यश्चान्तेवासिभ्यश्च नमम ।इद्ं प्रतीक्षद्भ्यश्चाऽप्रतीक्षद्भ्यश्चमूर्तेभ्यश्चाऽमूर्तेभ्यश्च तत्त्वेभ्यश्च नमम ॥८०॥इदं लीनेभ्यश्चाऽलीनेभ्यश्चागतेभ्यश्चा-नागतेभ्यश्च नमम ।इदं लोकिभ्यश्चाऽलोकिभ्यश्च देहिभ्यश्चा-ऽदेहिभ्यश्च परिच्छिन्नेभ्यश्च नमम ॥८१॥इदं स्मृतेभ्यश्चाऽस्मृतेभ्यश्चोग्रकेभ्यश्चा-ऽनुग्रकेभ्यश्चाऽपरिच्छिन्नेभ्यश्च नमम ।इदं सात्त्विकेभ्यश्च राजसेभ्यश्चतामसेभ्यश्च त्रिकास्पृष्टेभ्यश्च नमम ॥८२॥इदमिन्द्रियवद्भ्यश्चानिन्द्रियेभ्यश्चकललेभ्यश्च बीजेभ्यश्च सूक्ष्मेभ्यो नमम ।इदं यावद्भ्यश्च प्रयावद्भ्यश्च पराणुभ्यश्चा-ऽनणुभ्यश्चांऽकुरेभ्यश्च नमम ॥८३॥इदं कामेभ्यश्च रतिभ्यश्चैश्वर्येभ्यश्चा-ऽवृषेभ्यश्च योनिभ्यश्च नमम ।इदं भक्तिभ्यश्चापराभ्यश्च शारदाभ्यश्चभूम्यश्च लिंगेभ्यश्च नमम ॥८४॥इद्ं लीलाभ्यश्च तुलसीभ्यश्च दैवसमिद्भ्यश्च नमम ।इदं पूजाभ्यश्चार्हणाभ्यश्च स्वागताभ्यश्च नमम ॥८५॥इदं राजभ्यश्च प्रजाभ्यश्च श्रद्दधानेभ्यश्च नमम ।इदं वंशेभ्यश्च प्रवंशेभ्यश्चानुवंशेभ्यश्च नमम ॥८६॥इदं सतीभ्यश्च गर्भिणीभ्यश्च प्रसूताभ्यश्च नमम ।इदं विषिभ्यश्च दंष्ट्रिभ्यश्च शृंगिभ्यश्च नमम ॥८७॥इदं मन्त्रिभ्यश्च मलिभ्यश्चाऽमलिभ्यश्च नमम ।इदं हेतिभ्यश्र वेषेभ्यश्च यन्त्रेभ्यश्च नमम ॥८८॥इदं गन्त्रीभ्यश्च विमानेभ्यश्च यानेभ्यश्च नमम ।इदं कल्पेभ्यश्च कल्पद्रुभ्यश्च कल्पवल्लीभ्यश्च नमम ॥८९॥इदं धेनुभ्यश्च कामदुघाभ्यश्च चिन्तामणिभ्यश्च नमम ।इद्ं ब्रह्मसरसे ब्रह्मह्रदायामृतधारायाऽक्षयपात्राय नमम ॥९०॥इदं चैतस्मै चेतद्वृत्तये महाकृष्णाय बालकृष्णाय नमम ।इदं ब्रह्मणे च परब्रह्मणे च नारायणाय परमात्मने नमम ॥९१॥इत्येवं राधिके हव्याहुतयोऽनन्तनामभिः ।दीयन्ते कुण्डके वह्नौ साक्षाद् देवप्रदाय वै ॥९२॥आगत्यागत्य सर्वे ते गृह्णन्ति वह्निकाननात् ।तृप्ताः प्रयान्ति सुखिनः सोद्गाराः साशिषस्तदा ॥९३॥एवं कृतं हि हवनं नारिकेलादिभिस्तदा ।महापूर्णाहुतिप्रख्यं बालकृष्णोऽनले शुभे ॥९४॥दिव्यरूपोऽभवद् दृश्यः सर्वेषामेव देहिनाम् ।विश्वंभरः स्वयं भुंक्ते हव्यानि विविधानि वै ॥९५॥अन्तर्भाव्य तु ताँस्ताँश्च तृप्तस्तृप्तिं ददाति वै ।शर्करा मधुपर्काश्च चरवश्च फलानि च ॥९६॥घृतानि व्रीहयो दिव्या रसा मिष्टान्नकानि च ।अमृतानि सुधाश्चापि पेयानि विविधान्यपि ॥९७॥कणभूजानि सस्यानि बीजानि समिधस्तथा ।दुग्धसाराणि चान्यानि हूयन्ते चानले हरौ ॥९८॥यद्यल्लोके तु यान्येव येषां खाद्यानि सन्ति च ।सत्त्वभावानि तान्येव हूयन्ते चानले हरौ ॥९९॥येषां यत् तृप्तिकृच्चापि सर्वज्ञो बालकृष्णकः ।तत्प्रदायैव तं तां वा तर्पयत्येव चानले ॥१००॥एवं पूर्णाहुतिर्जाता महापूर्णाहुतिस्तथा ।तृप्तं जातं जगत् सर्वं तृप्तं वै सृष्टिमण्डलम् ॥१०१॥तृप्तं सृष्टेः परं चापि सर्वं वै ब्रह्ममण्डलम् ।ततो देवादयः प्राहुः पच्यन्ते नोदरेऽधुना ॥१०२॥हव्यानीति परिहारं करोतु परमेश्वरः ।इत्येवं देवकोटीनां घोषणायां हरिः स्वयम् ॥१०३॥तृप्तः प्रसन्नश्चोद्गारं प्राप्य होमान्तकं व्यधात् ।महापूर्णाहुतौ होमे जाते नारायणास्तदा ।अमृताख्यफलान्यग्नौ जुहुवुर्धामजानि वै ॥१०४॥मुक्ताः कल्पमयान्येव फलानि जुहुवुस्तदा ।ईश्वरा ऐश्वरसुधाफलानि जुहुवुस्तदा ॥१०५॥ऋषयो देवताश्चापि पीयूषफलकानि च ।जुहुवुर्मानवा नारिकेलानि शर्करास्तथा ॥१०६॥पर्वताश्चन्दनादीनि धेनवः पायसान्यपि ।द्रुमा रसान् श्रेष्ठगुन्द्रान् जुहुवुः सर्वशस्तदा ॥१०७॥सस्यानि जुहुवुस्तत्र शालिकणादिकान् शुभान् ।वल्लयो मिष्टपुष्पाणि देव्यो मिष्टान्नकानि च ॥१०८॥यथा येषामभूत् स्मृद्धिस्तथा फलादिकानि वै ।जुहुवुस्तत्र कुण्डाग्नौ परमेशे परात्परे ॥१०९॥पत्रवन्तस्तु पत्राणि गन्धवन्तः सुगन्धकान् ।त्वग्वन्तश्च त्वचः श्रेष्ठा जुहुवुस्तत्र चानले ॥११०॥त्रैलोक्यां व्यानशे धूम्रः सुगन्धिमिष्टतृप्तिदः ।सृष्टित्रयं तदा तृप्तं हरौ तृप्ते हि राधिके ॥१११॥एवं यज्ञो महान् जातो मध्याह्नेऽभूत् समाप्तिमान् ।देवानां दक्षिणादानं पूजनं च विसर्जनम् ॥११२॥चकार भगवान् साक्षाद् दक्षिणादानमित्यपि ।भिक्षुकाणां हि सर्वेषां भोजनादीन्यकारयत् ॥११३॥आचार्याद्या यथायोग्याः सामग्रीर्जगृहुश्च ताः ।यज्ञीया दक्षिणाद्याश्च परिहारस्ततोऽभवत् ॥११४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने चैकादश्यां महापूर्णाहुतिप्रदानं सर्वेषां तृप्तिर्यज्ञपरिहारश्चेत्यादिनिरूपणनामा द्वादशाधिकद्विशततमोऽध्यायः ॥२१२॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP