संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २०२

त्रेतायुगसन्तानः - अध्यायः २०२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके रायकिन्नारः शीघ्रं सैन्यमसज्जयत् ।
हस्त्यश्वरथसंशोभद्वाद्यमानववाहनम् ॥१॥
श्वेतहस्ती चतुर्दन्तः पर्वतशृंगकोच्छ्रयः ।
साऽम्बालिकोऽतिचित्राढ्यः स्वर्णकूथसुशोभितः ॥२॥
राजाऽऽज्ञया हरेरर्थे हस्तिपकेन नोदितः ।
आययौ शीघ्रमेवाऽग्रे चारुरोह गजं हरिः ॥३॥
अन्ये गजास्तथोर्ध्वा वै षट् तत्रैवोपतस्थिरे ।
पितरौ भ्रातरश्चापि स्वसा भ्रातृप्रिया ह्यपि ॥४॥
आरुरुहुर्गजान् ताँश्च लोमशस्तुषितस्तथा ।
लालायनस्तथा चेशानः स्वयं गजमुत्तमम् ॥५॥
आरुरुहुर्नरयानेष्वपि ब्रह्मप्रियाः स्त्रियः ।
सावरणेषु यानेषु रंगिन्यो नवयौवनाः ॥६॥
कन्यका गौरिकाश्चापि पिशंग्यो हारितास्तथा ।
रथेष्वपि च गांगेया महर्षयस्तथाऽपरे ॥७॥
निषेदुः सुखसम्पन्ना भ्रमितुं मणिपत्तनम् ।
महीमानेषु सर्वेषु तूपविष्टेषु तत्तथा ॥८॥
वाहृनेषु ततो लोकजनानां सैन्यकानि हि ।
अग्रे वाद्यसुयुक्तानि ध्वजापताकिकादिभिः ॥९॥
चेलुर्गायन्त एवाऽऽद्यनारायणमहद्यशः ।
ततो हस्ती महान् यातीशानदेवस्य शोभनः ॥१०॥
कुटुम्बिनां गजाः पश्चात्ततो महर्षिवारणाः ।
ब्रह्मप्रियादीनां नरयानानि यान्ति हि ॥११॥
रथाः प्रयान्ति शोभाढ्याः सौवर्णकलशान्विताः ।
चित्रपट्टावृताश्चापि शुभाः श्वेताश्ववाहिताः ॥१२॥
ततो हस्ती महान् याति श्रीपतिकृष्णशोभितः ।
राजा किन्नारको यत्र छत्रं दधार पृष्ठके ॥१३॥
पार्श्वे कुमारकौ धृत्वा चामरौ समतिष्ठतः ।
ततो राज्ञां वाहनानि निर्ययुः शोभनानि वै ॥१४॥
अमर्यः कन्यकाः पश्चाद्गीतनारायणाभिधाः ।
कृतकौतुकवेषाश्च शृंगारभावमंगलाः ॥१५॥
मौक्तिकासनकलशाः सफलाः शुभपल्लवाः ।
सर्वशोभाम्बरभूषा यान्ति गायन्त्य ऐश्वरम् ॥१६॥
कीर्तनं कांभरेयस्य श्रीपतेः कमलापतेः ।
नरयानेषु तन्मध्ये राधा लक्ष्मीः प्रभा सती ॥१७॥
पार्वती माणिकी हंसा मंजुला सगुणाऽम्बिका ।
सन्तोषा चाऽमृता मुक्तिर्देवी च ललिता जया ॥१८॥
एता अन्याश्च राजन्ते भूषिताश्चापराः स्त्रियः ।
प्रयान्ति राजमार्गेऽन्या अश्ववाराश्च रक्षकाः ॥१९॥
राजाज्ञाकृज्जनादिष्टमहामार्गेण संचरन् ।
श्रीहरिः शोभतेऽर्कद्युतिस्तदा जनतार्चितः ॥२०॥
एवं सैन्यं चचालैतन् मणिपुर्यां हरेस्तदा ।
प्रथमं राजशोभाढ्यं ययौ तद्राजमन्दिरम् ॥२१॥
राज्याऽऽसनेऽतिसौवर्णे मणिरत्नसमुज्ज्वले ।
राजा वाहादवतीर्य हरिं न्यषादयन्नरः ॥२२॥
जयशब्दाश्चाभवँश्च पुष्पवृष्टिरभूत्तथा ।
प्रधानाद्यैः कुमाराद्यै राज्ञीभिश्च कृतोत्तमा ॥२३॥
राज्ञी मुख्या सती देवी पुपूज परमेश्वरम् ।
तिलकं कुकुमेनाऽपि चन्दनेनाऽक्षतैस्तथा ॥२४॥
अकरोच्छ्रीहरेर्भाले दुःखहाञ्जलिमाचरत् ।
पुष्पैर्विकीर्य कृष्णस्य मस्तके नमनं व्यधात् ॥२५॥
पादौ प्रक्षाल्य दुग्धेन स्थाल्यां दुग्धं समानयत् ।
पपौ प्रासादिकं शीघ्रं राजकुटुम्बमेव तत् ॥२६॥
वारिणा चरणौ पश्चात्प्रक्षाल्य परमात्मनः ।
सन्निधौ हारभूषादिर्द्रव्यं कोटिमितं न्यधात् ॥२७॥
यज्ञेऽर्पितं मया कृष्ण नृपाज्ञया तवाऽस्ति तत्॥
इत्युक्त्वा पार्श्वमागत्य स्थिरेक्षणा ददर्श तम् ॥२८॥
राधिके च तदा राजा ननाम हरिपादयोः ।
कुटुम्बं मणिरत्नादि प्रददौ पूजने तदा ॥२९॥
बालकृष्णो ददौ तेभ्यस्तदा नेत्रे सुदिव्यके ।
पररूपग्राहिणी च ततो नैजं त्वलौकिकम् ॥३०॥
दर्शनं प्रददौ कृष्णः सुदिव्यं सुमनोहरम् ।
रूपानुरूपावयवं कोटिमन्मथसुन्दरम् ॥३१॥
कोटिमुक्तैः कोटिशक्तिभिश्च संसेवितं परम् ।
अनन्तानन्तमुक्तैश्चेश्वराद्यैर्जुष्टमुत्तमम् ॥३२॥
ब्रह्माद्यैर्वन्दितं दिव्याम्बरभूषाविराजितम् ।
राधारमादिसंजुष्टं कान्तकान्तातिकान्तिकम् ॥३३॥
अवतारैस्तथा व्यूहैर्देवेश्चरैः प्रसेवितम् ।
विलोक्य राजकुलिनो मुमुहुस्तत्र माधवे ॥३४॥
आश्चर्यं परमं वीक्ष्य क्षणं स्तब्धा इवाऽभवन् ।
ततो राजा स्तुतिं चक्रे दिव्यभावेन नोदितः ॥३५॥
महातेजःपुञ्जात्मकपरमधामस्थरुचिरो
महामुक्तैः सेवापरिचरणतुष्टो विजयते ।
अनादिश्रीकृष्णोऽनवधिगुणधारी परतरो-
ऽक्षरेशः शक्त्याद्यैरधिगतपदः संविजयते ॥३६॥
त्वमेवाऽऽस्से दिव्येऽक्षरपरमधाम्नि स्वनिलये
स एवास्से कृशा द्विभुजवररूपोऽतिसुखकृत् ।
गवां लोके गोपीगणसुरचितार्घ्यः स्वभवने
स एवास्ते लक्ष्मीपरिचरितवैकुण्ठभवने ॥३७॥
त्वमेवास्से भूमन्नमृतपरिपूर्तेश्वरपदे
स एवास्ते व्यूहात्मकतनुमयोऽव्याकृतभुवि ।
विराज त्वं चास्से भवसि च हिरण्यर्भ पुरुष-
स्त्रिदेव त्वं विष्णो भवसि मनुजानां हितकरः ॥३८॥
सुरा दैत्याश्चान्ये पितर इह विप्राः ऋषिगणा
नृपाः पातालस्था जडचिदभिधं सा तव तनूः ।
नरो नाराद्या ये मुनय इह बद्रीशतनुगं
भजन्त्येवात्मज्ञा युगलतनुगं मुक्तिलषिणः ॥३९॥
तथा श्वेते लोके धवलरुचिदेहास्तव जनाः
प्रसेवन्ते लक्ष्मीकृतचरणसेवं फणिशयम् ।
त्वमेव त्वं चन्द्रे रविपरिधिग त्वं हृदयगो-
ऽनले त्वं श्रीकृष्णो भवसि तमसां लोपकृतिमान् ॥४०॥
इदं दिव्यं रूपं तव जडचितिस्थं निजदृशा
प्रपश्येऽहं विष्णो भवदतिकृपालेशबलतः ।
त्वमेवादौ चाभूः सपरिकरतत्त्वादिसृजिकृत्
प्रविष्टस्त्वं पोष्टा भवसि परिहारेऽपि लयकृत् ॥४१॥
त्वमेवास्सेऽसंख्यऽवतरणसुमूर्तिध्रगपि यः
परंश्रेयःकर्ता भवजलधिमग्नस्य कृपया ।
स एवात्र प्राप्तो भवसि भगवन् यज्ञतनुमान्
प्रभोक्ता त्वं यज्ञे कुरु निजजनानां सुखमयम् ॥४२॥
मया दत्तं द्रव्यं तव भवति भोग्यं ननु पुरा
समस्तं राज्याद्यं तव चरणयोराहितमिदम् ।
अहं वर्ते राज्ये ननु सततमागन्तुक इति
महाराज त्वं वै गृहपतिरसि स्वीयविषयः ॥४३॥
इत्यभीष्टूय राजा स बालकृष्णं तु राधिके ।
मौनं जग्राह च ततो भगवान् दिव्यदर्शनम् ॥४४॥
तिरोभावयदथ ते ददृशुः स्वर्णकासने ।
नेमुः प्रणेमुः सहसा साश्रुनेत्राः सहृद्गदाः ॥४५॥
राज्ञ्यः सर्वाश्च चरणौ धृत्वा तदा तु शार्ङ्गिणः ।
अलिहन् द्वे तले प्रेम्णा ज्ञात्वा श्रीपरमेश्वरम् ॥४६॥
कन्यकास्तत्र च राज्ञस्त्वेकपञ्चाशदुत्तमाः ।
आसन् दर्शनकर्त्र्यस्ता मुमुहुः पुरुषोत्तमे ॥४७॥
वरमालां करयोश्च धृत्वा कण्ठे हरेरेर्न्यधुः ।
बालकृष्णो नृपादिष्टः करान् जग्राह वै तदा ॥४८॥
प्राप्य कृष्णं कान्तमीशं ता आसन् कृतकार्यिकाः ।
राजानं श्रीहरिस्तत्राशीर्वचांसि प्रदाय तु ॥४९॥
यज्ञद्रव्यं दिनमानर्षयेऽधीनं विधाय ह ।
उत्तस्थौ त्वासनाद् राजा कृतकृत्यो बभूव ह ॥५०॥
मन्दिरे त्वालये राज्ञः सर्वत्र भगवाँस्तदा ।
विचचार बहुभौमे शतभूम्यादिसंयुते ॥५१॥
राजोद्यानं विचचार पादपूतं विधाय च ।
राजमन्दिरमेवादौ ततः प्रधानमन्दिरम् ॥५२॥
श्रेष्ठिणामालयाँश्चापि ततो नगरवासिनाम् ।
गृहेषु चरणौ न्यस्याऽऽदाय पूजां क्रतोः कृते ॥५३॥
राजमार्गे चापणेषु चत्वरेषु स्थले स्थले ।
पूजां प्राप्य हरिः सर्वं यज्ञार्थं तत् समार्पयत् ॥५४॥
एवं नगर्यामभितो बहुमानपुरःसरम् ।
विचचार जनानां तु मनांसि स्वे जहार च ॥५५॥
राजमार्गे भ्रमन्तं तं महाहस्तिस्थितं प्रभुम् ।
विलोक्य प्रमदाः सर्वा अमर्यः सञ्जगुर्यशः ॥५६॥
धन्यास्ता राजकन्या या वव्रुः श्रीपतिमीश्वरम् ।
कृतपूर्वतपःपूजाफलमापुः कुतोऽन्यथा ॥५७॥
नारायणः पतिः कान्तो गृहे मिलेत् स्त्रियस्त्विह ।
यं राधा कमला पद्मा लक्ष्मीः प्रभा च पार्वती ॥५८॥
माणिक्याद्याः प्रसेवन्ते तं प्राप्ता भाग्यगौरवात् ।
यं सेवन्ते ब्रह्मप्रिया यं सेवन्तेऽन्यकन्यकाः ॥५९॥
यं सेवन्ते गौरिकाश्च तं प्राप्ता भाग्यगौरवात् ।
यं सेवन्ते हारिताश्च देव्योऽसंख्यगुणाश्रयम् ॥६०॥
प्रपश्यन्तु मुखं त्वस्य चन्द्रबिम्बोज्ज्वलं परम् ।
भ्रूकुट्यां वर्तते बाणः कामदेवस्य संस्थितः ॥६१॥
धनुर्भ्रुवोर्वर्ततेऽस्य देहेऽस्य रामणीयकम् ।
हास्ये महाँश्चमत्कारः समाकर्षणमोहनः ॥६२॥
नेत्रकोणेऽस्य रुचिरा चमत्कान्तिर्विराजते ।
ओष्ठमध्येऽतिसौन्दर्यं समाकर्षणकारकम् ॥६३॥
पश्यन्तु चालयस्त्वस्य विशालं समुरःस्थलम् ।
कौस्तुभश्रीसमाधारं सबलं मोहकं वपुः ॥६४॥
अलक्तातिगशोभाढ्ये पश्यन्तु करपत्तले ।
कदलीस्तंभशोभाढ्यौ पश्यन्तूरू हरेः स्त्रियः ॥६५॥
पूर्तिस्त्वस्याऽतितेजोऽभिव्याप्ता पारदृशिश्रया ।
मूर्तिस्त्वस्याऽतितेजोऽभिव्याप्ता पारदृशिश्रया ।
नाऽयं मानुषदेहोऽस्ति दिव्योऽस्ति परमेश्वरः ॥६६॥
नास्य मूर्ताववयवा दृश्यन्ते सन्धियोजिताः ।
सख्यः पश्यन्तु सौन्दर्यं बहिश्चान्तः समन्ततः ॥६७॥
अमलं चास्थिनाड्यादिक्लृप्तिघटनावर्जितम् ।
एकतत्त्वं विभात्येषोऽवश्यं श्रीपुरुषोत्तमः ॥६८॥
सच्चिदानन्दरूपोऽस्ति परात्परः परेश्वर ।
श्रुतो यः शास्त्रकथने स एवायं वितर्क्यते ॥६९॥
अस्य दर्शनमात्राद्वै सुखानन्त्यं समर्ज्यते ।
आनन्दघन एवाऽयं सर्वगन्धरसाश्रयः ॥७०॥
आत्मज्योतिःप्रदश्चायं हरत्यन्तर्मनो हि नः ।
प्राप्तव्यः सर्वथा चायं मरणान्ते परेऽक्षरे ॥७१॥
मन्त्रं तस्य ग्रहीष्यामो यज्ञेऽवश्यं हि योषितः ।
प्राप्स्यामस्तं परं कान्तं बालकृष्णं जनार्दनम् ॥७२॥
तेजःपुञ्जोऽस्य तनुतो निर्याति कीदृशोऽतिगः ।
सुखो निमेषहृत्सौम्यः शीलशान्तिप्रदोऽव्ययः ॥७३॥
एवं परस्परं राधे मणिपुर्यां तु योषितः ।
अमरीजातीयनार्यो वदन्ति स्मातिमोहिताः ॥७४॥
मार्गे मार्गे गृहाग्रे च चत्वरे सौधसन्निधौ ।
लाजाऽक्षतैः सुमैर्वर्धयन्ति स्म परमेश्वरम् ॥७५॥
जयशब्दान् समुच्चार्य रञ्जयन्ति सतां पतिम् ।
नमन्ति तु गवाक्षेभ्यः पश्यन्त्यः कान्तमीश्वरम् ॥७६॥
भुक्तिदं मुक्तिदं देवेश्वरेश्वरं गुहाश्रयम् ।
एवं भ्रमित्वा नगरीं मणिपूर्यभिधां हरिः ॥७७॥
यज्ञपत्तनमुत्कृष्टं वीक्षितुं संययौ ततः ।
महीमाना नरा नार्यो दृष्ट्वा देवेश्वरेश्वरम् ॥७८॥
वर्धयामासुरिष्टाभिर्दत्ताभिश्चोपदादिभिः ।
पूजयामासुरत्यर्थं चक्रुः स्वागतमुत्तमम् ॥७९॥
धनैर्द्रव्यै रसैः क्षारैर्वेषवारैः कणादिभिः ।
गव्यैर्हव्यैः शालिभिश्चाऽक्षताद्यैरार्चयन् प्रभुम् ॥८०॥
वस्त्रैः शुभासनैः पात्रैः कम्बलैश्चोलकञ्चुकैः ।
वर्मभिश्च विभूषाभिर्मुकुटाद्यैश्च कुण्डलैः ॥८१॥
चन्दनैरतिमिष्टान्नैः फलैः शुष्कफलादिभिः ।
मुखसौगन्ध्यवासैश्च रत्नहारालिभिस्तथा ॥८२॥
दक्षिणाभिर्विविधाभिः सुवर्णकूप्यताम्रकैः ।
बालकृष्णं प्रजाः सर्वाः पूजयामासुरेव ह ॥८३॥
सैन्येनोत्साहितः कृष्णो दत्वैवं दर्शनं परम् ।
आशीर्वादैर्योजयित्वा जनान् प्राप्य तथोपदाः ॥८४॥
आययौ राजवर्गाद्यैः सहितौ निजसंश्रयम् ।
राजसौधं रुमावासयोग्यं स्वर्गसमं हरिः ॥८५॥
ददौ सर्वं चागतं वै धनं धान्यादिकं मखे ।
सायं विनोदकायेव राजा प्राकारयन् मुदा ॥८६॥
निशायां नर्तनोत्साहं महोत्सवमकारयत् ।
कन्यार्पणनिमित्तं च धनार्पणमथाऽकरोत् ॥८७॥
हरिर्भुक्त्वा भोजयित्वा कुटुम्बिनः समाश्रितान् ।
महीमानान् मुनीन् सर्वान् ब्रह्मप्रियाश्च योषितः ॥८८॥
प्रजाजनान् सुखं पश्चात् सुष्वापाऽमरिकाशये ।
अमर्यस्तं नवं कान्तं सिषेविरेऽतिसेवया ॥८९॥
प्रातस्तूर्याण्यवाद्यन्त प्रबोधयितुमीश्वरम् ।
मंगलानि कीर्तनानि गीतिकाश्च स्त्रियो व्यधुः ॥९०॥
वादित्रनिनदा मिष्टाः श्रवणेऽप्यभवँस्तदा ।
जजागार हरिकृष्णः कृताह्निकः सभां ययौ ॥९१॥
दुग्धपानादिकं कृत्वा वीक्षितुं मण्डपं ययौ ।
विश्वकर्मादिभिः रात्रौ रचितं शोभनं परम् ॥९२॥
विशालं तु दशक्रोशं चायुतासनशोभितम् ।
कोटिदेवसमावेशं चित्रध्वजसमन्वितम् ॥९३॥
कुण्डानि नव तत्रैव तथैकं परमं परम् ।
वीक्ष्य वेदीश्च पात्राणि शालाश्च हव्यशालिकाः ॥९४॥
होमसमिधः संवीक्ष्य कव्यानि वीक्ष्य चापि वै ।
तुतोष भगवान् चाभूत्प्रसन्नश्चातिहर्षितः ॥९५॥
सुदिव्यादिव्यसिद्धीनां योगिनीनां गणास्तथा ।
देवीनां मातृकानां च सतीनां मण्डलानि च ॥९६॥
मण्डलानि सांख्ययोगिनीनामैश्वर्यजूंषि च ।
महानसानां रक्षार्थं वर्तन्ते पाकसिद्धये ॥९७॥
तद्विलोक्याऽतितुष्टोऽभूद् भगवान् कृष्णवल्लभः ।
देवीं धरणिं चाहूयाऽधिकारिणीं तदाऽकरोत् ॥९८॥
अन्नपूर्णां तथा लक्ष्मीं ददौ सहाय्यदां हरिः ।
धरण्यै सर्वलोकानां भोजनादिप्रपूर्तये ॥९९॥
वरुणाय जलार्थं दक्षिणार्थं तु कुबेरकम् ।
न्ययोजयद्धरिस्तत्राऽऽरोग्यार्थं चाश्विनौ सुतौ ॥१००॥
रक्षार्थं धर्मराजं च विघ्नेशं विघ्नशान्तये ।
अक्षयार्थं सूर्यदेवं शासनार्थं तु शूलिनम् ॥१०१॥
दानार्थं गोचरं विष्णुं व्यवस्थार्थं तु वेधसम् ।
सन्मानार्थं त्वागतानां महेन्द्रं समयोजयत् ॥१०२॥
पाचनार्थं वह्निदेवं प्रकाशार्थं तु पार्वणम् ।
ध्वन्यादिपरिवृद्ध्यर्थं विद्युतः समयोजयत् ॥१०३॥
इत्येवं राधिके श्रीमद्बालकृष्णः प्रभातके ।
न्ययोजयत् कर्मचारान् षष्ठ्यां भाद्रे सिते दले ॥१०४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मणिसेवापुर्यां यज्ञपत्तने च हरेर्विहरणं पूजनं भोजनं रात्रौ विश्रमणं भाद्रशुक्लषष्ठ्यां प्रातः कर्मचारयोजनेत्यादि निरूपणनामा द्व्यधिकद्विशततमोऽध्यायः ॥२०२॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP