संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ६६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ६६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६६ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके दिव्यमहर्षयः समाययुः ।समीरणः पवमानः सन्तारणश्च बर्बुरः ॥१॥वोढुश्च घनभेदश्च द्युविश्रामश्च पंकिलः ।नीलकर्णस्तथाऽलर्कः पुण्डरीकः कलायनः ॥२॥वीतिहोत्रश्च चमसः पर्णकुत्सोऽश्वपाटलः ।भाल्लवेयश्चोर्जव्रतश्चाऽऽश्वलायन इत्यपि ॥३॥पार्ष्णिरदः सुमन्तुश्च ह्यशोकाक्षोऽभयाक्षकः ।ब्रह्मस्तम्बः कूप्यवालश्चेतनब्रह्म इत्यपि ॥४॥मृतदण्डश्चोपतस्थुस्तत्रत्यास्तन्महोत्सवे ।सदारपुत्रकन्याद्याः सभृत्यदासदासिकाः ॥५॥कौण्डिन्यः कौशिकः पौतिमाष्यो गौपवनस्तथा ।शाण्डिल्यो गौतमश्चाग्निवेश्यश्चाम्लान इत्यपि ॥६॥सैतवः प्राचीनयोग्यो धाराशर्यश्च मैन्दवः ।भारद्वाजो वैजवापायनश्च कौशिकायनिः ॥७॥घृतकौशिकयास्कौ चाऽऽसुरायणश्च त्रैवणिः ।जातूकर्ण्य औपजघन्यासुरी माण्टिवात्स्यकौ ॥८॥कैशोर्यः काप्य आत्रेयः कुमारहारितस्तथा ।वैदर्भी वत्सनपातो गालवः सौभरिस्तथा ॥९॥पन्था अयास्य आभूतिस्त्वाष्ट्रोऽश्विनौ दधीचकः ।विश्वरूपो विप्रचितिः प्राध्वंसन आथर्वणः ॥१०॥सनारुर्व्यष्टिरेकर्षिः सनगश्च सनातनः ।उद्दालकायनो जाबालायनः परमेष्ठिकः ॥११॥माध्यन्दिनायनः काषायणश्च सौकरायणः ।औपजंघनिर्यास्कश्च सांकृति: सायकायनः ॥१२॥एते चान्ये वालखिल्यास्तथाऽन्ये ऋषिपुंगवाः ।आययुः श्रीकृष्णनारायणसूत्रमहोत्सवे ॥१३॥शौङ्गी सुकृतिरालम्बी जायन्ती मण्डुकायनी ।शाण्डिली पौतिमाषी च कात्यायनी च गौतमी ॥१४॥धाराशरी औपस्वती भारद्वाजी च कौशिकी ।कापी वैयाघ्रपदी चाऽऽलम्बी वात्सी च सौभगी ॥१५॥वार्कारुणी प्रजायन्ती चात्रेयी चार्तभागिनी ।काण्वी आलम्बायनी च माण्डुकी भालुकी तथा ॥१६॥राथीतरी क्रौंचिकी च वैदभृत्या सुरायणी ।साञ्जिवी प्राचीनयोगी प्राश्नी च कार्शकेयिका ॥१७॥सतीशाऽमरदुहिता धन्येश्वरी च राणिकी ।इत्येताः ऋषिपत्न्यश्च तत्रोत्सवे समाययुः ॥१८॥दिव्या दिव्यविभूषाश्च वह्निशुद्धांऽशुकाऽन्विताः ।तपस्तेजोभिरापूर्णाः पुण्यपुञ्जनिभाः शुभाः ॥१९॥अत्रिर्वशिष्ठश्च्यवनो भरद्वाजो महातपाः ।गर्गो गार्ग्यो याज्ञवल्क्यः श्वेतव्यासश्च भीमकः ॥२०॥धर्मो वत्सः पुलहश्च जैगीषव्यः पुलस्त्यकः ।अगस्त्यः सौभरिश्चापि सनकश्च सनातनः ॥२१॥सनन्दश्च सनच्चापि सुजातश्च कुमारकः ।केतुः पञ्चशिखश्चापि दुर्वासाश्चांगिरास्तथा ॥२२॥शुको रामः कुशिकश्च ऋष्यशृंगो विभाण्डकः ।वामदेवस्तथा शृंगी क्रतुर्यतिस्तथाऽऽरुणिः ॥२३॥शुक्रो बृहस्पतिश्चापि वामनः पारिभद्रकः ।अष्टावक्रश्च पैलश्च वाल्मीकी मधुजित्तथा ॥२४॥प्रचेताः पुरुजिच्चापि भृगुर्मरीचिरेककः ।द्वीतश्चाप्यथ त्रीतश्च कात्यायनः सुमन्तुकः ॥२५॥मार्कण्डेयः कश्यपश्च दक्षः सूर्यः शशी तथा ।संवर्त्तश्चाप्युतथ्यश्च नरो नारायणस्तथा ॥२६॥विश्वामित्रः शतानन्दो जाबालिस्तैतिलस्तथा ।उपमन्युर्गौरमुखो मैत्रेयश्च कठः कचः ॥२७॥अदितिश्च दितिश्चापि कृत्तिकाश्च पतिव्रताः ।कुटुम्बशिष्यसहिताः श्रीकृष्णस्याऽऽश्रमं ययुः ॥२८॥श्रीमद्गोपालकृष्णस्तान् ववन्दे दण्डवत् भुवि ।अथ हंसस्थितो ब्रह्मा सावित्रीसहितो ययौ ॥२९॥दिव्ययानस्थितः शंभुर्व्योम्ना सतीयुतो ययौ ।नन्दी कालो वीरभद्रः सुभद्रमणिभद्रकौ ॥३०॥पारिभद्रो गणेशश्च स्कन्दो रुद्रः समाययुः ।कुबेरश्च वरुणश्च महेन्द्रोऽग्निस्तथाऽनिलः ॥३१॥यमश्च ग्रहवसव आदित्याः शेषभोगिनः ।एवं सर्वे महद्भावाः पूज्या मान्याः समाययुः ॥३२॥गोपालकृष्णो भक्त्या तान् ववन्दे शिरसा भुवि ।तुष्टाव परया प्रीत्या तत्तत्सृष्टीश्वराँस्तदा ॥३३॥श्रीगोपालकृष्ण उवाच-परब्रह्म परे धाम्नि राजमानः परेश्वरः ।परात्परः स्वयंमुक्तैः सहितः पुरुषोत्तमः ॥३४॥अद्य वै मद्गृहे चास्ते जगतां परमेश्वरः ।अहो भाग्यं मम कृष्णो नारायणोऽत्र चागतः ॥३५॥अहो भाग्यं मम वासुदेवादयः समागताः ।अहो भाग्यं चावताराः परमेशाः समागताः ॥३६॥ईश्वरा धाममुक्ताश्च मुक्तान्यश्च समागताः ।भूमा विराट् स्वयं विष्णुर्विधाता विश्वसृट् प्रभुः ॥३७॥पत्नीव्रतो महाविप्रश्चापि मद्गृहमागतः ।सिद्धसाध्वीयतियोगिपूज्यो गुरोर्गुरुः स्वयम् ॥३८॥ब्रह्मा मम गृहे त्वास्ते महाभाग्यं ममाऽद्य वै ।यं प्रपूज्य जनो याति भुक्तेर्मुक्तेः सलोकताम् ॥३९॥सर्वसंकटनाशश्च यत्प्रतापाद् भवेदपि ।श्रीमत्कृष्णस्वरूपोऽयं गणेशो मम चालये ॥४०॥देवानामग्रगः पूज्यो धन्योऽहं भुवि सर्वथा ।शंकरो भगवाँश्चापि विष्णुर्लक्ष्मीसमन्वितः ॥४१॥जगतां जननी राधा पार्वती चादिरूपिणी ।मूलप्रकृतिराद्या च परब्रह्मस्वरूपिणी ॥४२॥यत्पादौ सम्परिपूज्य वाञ्छितं लभते व्रती ।सा साक्षान्मद्गृहे चाऽद्य विद्यते जननी शुभा ॥४३॥धामकन्या धाममुक्तोत्तमाः साध्यो मम गृहे ।धन्येयं कम्भरालक्ष्मीर्यस्याश्चैतद्विलोकनम् ॥४४॥सम्पन्नं चाद्य साक्षाद्वै ब्रह्मसृष्टेस्तु योषिताम् ।ईशसृष्टेश्च साध्वीनामीशानामपि दर्शनम् ॥४५॥धन्यं सरश्चाश्वपट्टं धन्या कुंकुमवापिका ।धन्यः सौराष्ट्रदेशश्च यत्र श्रीपरमेश्वराः ॥४६॥पितरः ऋषयो देवा देव्यस्तत्त्वानि मद्गृहे ।सर्वपातालवासाश्च मूर्ताऽमूर्तं गृहे मम ॥४७॥अद्य मे सफलं जन्म सफलोऽयं कृतो युगः ।सफलं सर्जनं चाद्य सफलं जीवनं मम ॥४८॥यद्गेहे च महीमानास्त्रिसृष्टिवासिनोऽद्य वै ।ब्रह्मसृष्टिरीशसृष्टिर्जीवसृष्टिर्गृहे मम ॥४९॥एवं सर्वानभिवन्द्य योग्यकिंहासनेषु तान् ।वासयामास विधिना शातभौमे महालये ॥५०॥पूजयामास विधिवत् क्रमेण दशयोजने ।कामरूपधरः कोट्यर्बुदरूपधरः पिता ॥५१॥प्रत्येकं वरयामास परमेशान् सुरादिकान् ।मुनिवर्गान् ऋषीन् साधून्मुक्तान्देवान्द्विजांस्तथा ॥५२॥लोमशं च मुनिं भक्त्या वव्रे नैजं पुरोहितम् ।रत्नैः प्रवालैहारैश्च कल्पमुक्ताविभूषणैः ॥५३॥वसनैर्गन्धमाल्यैश्च मणिमाणिक्यहीरकैः ।गन्धसारैश्चन्दनैश्च रत्नसिंहासनस्थितम् ॥९४॥सर्वमध्ये श्रीगणेशं वरयामास पूजने ।शुभकार्ये स्थितं देवं गजाननं तु वारिभिः ॥५५॥ब्राह्महृदाऽऽहृतैश्चापि विरजाहृतवारिभिः ।जलावरणवार्भिश्च स्वर्गगामेरुवारिभिः ॥५६॥सप्तसामुद्रवार्भिश्च सर्वतीर्थजलैस्तथा ।पुष्पचन्दनसौगन्ध्यामृतयुक्तैः प्रशीतलैः ॥५७॥तथा दुग्धेन दध्ना च घृतेन मधुनाऽपि च ।शर्कराभिः पञ्चगव्यैः स्नपयामास भक्तितः ॥५८॥गणेशं श्रीकृष्णरूपं सर्वविघ्नविनाशकम् ।सर्वमांगल्यद्ं देवं पूजयामास वस्तुभिः ॥६९॥पारिजातस्य पुष्पैश्च ब्राह्मैश्च कमलैस्तथा ।वैकुण्ठस्य तु दुर्वाभिस्तथा रत्नेन्द्रभूषणैः ॥६०॥वह्निशुद्धांशुकैश्चापि ब्राह्मसिन्दूरकैस्तथा ।गन्धचन्दनपुष्पैश्च सौवर्णाङ्गुलभूषणैः ॥६१॥एवं सम्पूज्य विधिवद् गणेशं च ततः परम् ।राधां लक्ष्मीं पार्वतीं च प्रभां श्रीं माणिकीं रमाम् ।मञ्जुलां सगुणां हंसां जयां च ललितां दयाम् ॥६२॥तथाऽन्याः श्रीसतीः साध्वीर्धामधामनिवासिनीः ।कार्ष्णीश्चापि महालक्ष्मीः सावित्रीं च सरस्वतीम् ॥६३॥गंगां दितिं चादितिं च ऋषिपत्नीः पतिव्रताः ।देवीश्चापीश्वरिणीश्च पितृपत्नीश्च भामिनीः ॥६४॥योगिनीः सांख्ययोगिनीर्लोपामुद्रादिकास्तथा ।पतिव्रता महीमानीः पूजयामास कम्भरा ॥६५॥तथाऽर्बुदाऽब्जकन्याश्च सौभाग्यशोभिता अपि ।कम्भराऽर्बुदरूपैश्च समाश्लिष्य पुनः पुनः ॥६६॥परस्परं च सम्भाष्य सर्वाः संश्लिष्य वै मिथः ।ताः सर्वाः कम्भरालक्ष्मीर्वेशयामास मन्दिरे ॥६७॥वरयामास माल्यैश्च वासोभिः रत्नभूषणैः ।ब्रह्मवृक्षस्य पुष्पैश्च पारिजातस्य पुष्पकैः ॥६८॥सिन्दूरबिन्दुकैश्चापि सीमन्ते शोभितैस्तथा ।भाले सुचन्द्रपत्रैश्च बिन्दुभिश्चान्दनैस्तथा ॥६९॥कस्तूरीकुंकुमालक्तप्रभृतिभिः सुगन्धिकैः ।सम्पूज्य भोजयामास मिष्टान्नैस्तत्तदर्हकैः ॥७०॥अमृतं वारि ताम्बूलं कर्पूरादिसुवासितम् ।प्रददौ कम्भराश्रीश्च मुनिपत्नीः क्रमेण तु ॥७१॥पूजयामास विधिवत् पतिपुत्रवतीः सतीः ।धामकन्या ईशकन्याः पितृकन्या मनोहराः ॥७२॥देवकन्या नागकन्या मनुकन्या वृषाश्रिताः ।बन्धुकन्या भक्तकन्या गान्धर्वाऽसुरजास्तथा ॥७३॥पूजयामास विधिना भोजयामास सादरम् ।वासयामास सौधेषु महोद्यानान्वितेषु च ॥७४॥वाद्यानि वादयामासुर्वादका मंगलानि हि ।मंगलं कारयामास भोजयामास भूसुरान् ॥७५॥श्रीदेवी पूजयामास कुंकुमवापिकेश्वरीम् ।सर्वैः स वस्तुभिः षष्ठीं तथा मंगलदेवताम् ॥७६॥ग्रामदेवान् सरोदेवान् पूजयामास भावतः ।महीमानान् सर्वभावैः पूजयामास वै पिता ॥७७॥ततः पुण्यं स्वस्त्ययनं कारयामास मंगलम् ।वेदांश्च पाठयामास गापयामास गीतिकाः ॥७८॥सुवर्णकलशस्थैश्च गांगवारिभिरच्युतम् ।स्नापयामास माता च श्रीमत्कृष्णनरायणम् ॥७९॥वस्त्रचन्दनमाल्याद्यैर्वेषं रम्यं चकार सा ।दिव्याम्बरविभूषाभिर्दिव्यलेपनचन्दनैः ॥८०॥ततः सभाऽवताराणामीश्वराणां तपस्विनाम् ।ऋषीणां च सुराणां च मानवानां च देहिनाम् ॥८१॥सृष्टित्रयाऽऽगतानां च सम्पन्ना तत्र वै हरिः ।आययौ च यदा कृष्णनरायणः सपितृकः ॥८२॥तदाऽवतारा ईशाश्च देवा मनवो मानवाः ।ऋषयोऽन्ये समुत्तस्थुर्ववन्दिरे परेश्वरम् ॥८३॥त्वं परब्रह्म साक्षाद्वै बालकृष्णो विराजसे ।अवतारधरस्त्वं वै साक्षी कृपाप्तविग्रहः ॥८४॥निर्लेपश्चात्मशयनः सर्वसृष्टयादिकारणम् ।महाविष्णुर्विराड् भूमा ब्रह्मा शेषादयस्त्वयि ॥८९॥वर्तामः श्रीपते कृष्ण ब्रह्माण्डे मशका इव ।त्वदंशाश्च वयं सन्तो देवाः स्म सर्वसृष्टिषु ॥८६॥ब्रह्माण्डानि ह्यसंख्यानि शेषभोगे वसन्ति च ।शेषस्तिष्ठति कूर्मे च कूर्मो जले प्रवर्तते ॥८७॥जलं तेजोबलादूर्ध्वं त्वभ्रवद् वर्तते सदा ।तेजो वायुकृताधारं वायुराकाशवर्तनः ॥८८॥आकाशोऽयं चिदाकाशे चिदाकाशश्च चाक्षरे ।अक्षरं ब्रह्मभावे च परमेशे विराजते ॥८९॥अयं श्रीपरमेशस्त्वं वर्तसे कम्भरासुतः ।गोपालबालकः साक्षादस्मद्तगोचरो ह्यसि ॥९०॥इत्येवं वन्दितो बालस्वरूपः कृष्ण एव ह ।सभामध्येऽतिशुशुभे राधारमाप्रभापतिः ॥९१॥द्विभुजः श्वेतकान्त्याढ्यः स्वर्णवर्णो मनोहरः ।ईषद्धास्यप्रसन्नास्यो विभूषाभिर्विराजितः ॥९२॥देहशुद्ध्यर्थमेवादौ कृतकृच्छ्रत्रयोऽच्युतः ।अथ मंगलसमये शुभलग्ने समागते ॥९२॥सौम्यग्रहैः परिदृष्टे जाग्रल्लग्नाधिपे स्थिते ।असौम्यग्रहदृष्ट्याद्यविषये कर्म चारभत् ॥९४॥कामचाराशनपानदोषशुद्ध्यर्थमेव सः ।धेनुत्रयं ददौ दाने स्वस्तिवाचमवाचयत् ॥९१॥लोमशस्याज्ञया स्वर्णसहस्रं मणिशेवधिम् ।ददौ दाने ब्राह्मणेभ्यो नमश्चकार देवताः ॥९६॥विष्णुं शिवं गणेशं पार्वतीं सूर्यं प्रपूज्य च ।वह्निं सम्पूज्य विधिना श्रीमद्गोपालकृष्णकः ॥९७॥पुत्राधिवासनं चक्रे वेदमन्त्रैश्च संसदि ।देवान् ग्रहान् दिशां पालान् सम्पूज्य मातृकास्तथा ॥९८॥नान्दीश्राद्धं महाशान्तिं विधाप्य तदनन्तरम् ।स्थण्डिले च समुद्भवाऽनले होमं चकार सः ॥९९॥प्रदत्वा वसुधारां च सप्तवारं घृतैस्ततः ।वृद्धिश्राद्धं दैवश्राद्धं चक्रे पितृप्रतर्पणम् ॥१००॥क्षौरितस्नातमुक्तायाऽलंकृतब्रह्मचारिणे ।कटिसूत्रं च कौपीनं यज्ञसूत्रं ददौ पिता ॥१०१॥मौञ्जीं बध्वा त्रिरशनां कट्यां कर्णे च लोमशः ।मन्त्रं ददौ च गायत्र्यास्त्रिवारं दक्षिणश्रुतौ ॥१०२॥आज्यहोमं कारयित्वा मुनिर्धर्मानुपादिशत् ।ततो भिक्षां ददावस्मै श्रीरमाराधिकाप्रभाः ॥१०३॥ईश्वराण्यश्च मुक्तान्यः साध्यो देव्यश्च कन्यकाः ।महालक्ष्मीः प्रकृतिश्च हंसा लक्ष्मीश्च पार्वती ॥१०४॥मञ्जुला सगुणा धामकन्या ईशसुतास्तथा ।देवनागनृपकन्याः सृष्टित्रयसुतादिकाः ॥१०५॥कार्ष्ण्यः सर्वा लोमशस्याश्रमस्था दिव्यविग्रहाः ।कंभराश्रीश्चामृता च देवदैत्यादिमातरः ॥१०६॥मुनिपत्न्यो ब्रह्मविष्णुमहेशानां च योषितः ।कामिन्योदिक्प्रपालानां ददुर्भिक्षाः पृथक् पृथक् ॥१०७॥अमूल्यरत्नसन्नद्धदिव्यस्वर्णसुपात्रके ।भिक्षां गृहीत्वा भगवान् लोमशाय ददौ मनाक् ॥१०८॥आमौलिब्रह्मदण्डं चाऽजिनमुत्तरवस्त्रकम् ।पूजां सन्ध्यां ददौ कमण्डलुं शीलं च लोमशः ॥१०९॥अन्ये सर्वे भगवन्तो ददुस्तस्मै महार्हणाम् ।भिक्षां रत्नावलिहारान् मणीन् काञ्चनविकृतीन् ॥११०॥अमृतानि विचित्राणि चोपभोग्यानि यानि च ।ददुश्चास्मै निजलोकाहृतानि देवयोनयः ॥१११॥अथैवं कर्म निर्वाप्य दक्षिणां लोमशाय च ।स्वर्णहीरकरत्नानि ददौ गोपालकृष्णकः ॥११२॥पुत्राय हीरहारं च ददौ रक्षाकरं पिता ।देव्यः सौभाग्यवत्यश्च कन्याश्च मातरस्तथा ॥११३॥शुभाशिषं प्रददुश्च शुक्लपुष्पैश्च दुर्वया ।ये ये समाययुर्यज्ञे तै तै शुभाशिषो ददुः ॥११४॥गीतिकाश्चाप्यगायन्ताऽवाद्यन्त तूर्यकाणि च ।गोत्रं च प्रवरान् वेदं शाखां चाऽशिक्षयत् पिता ॥११५॥परब्रह्मात्मकं गोत्रं प्रवरास्त्रय इत्यमी ।अक्षरब्रह्म श्रीकृष्णः श्रीनारायण एव ते ॥११६॥वेदः सर्वात्मकश्चैकः सामः श्रीमुखनिर्गतः ।शाखा पत्नीव्रतीया च शाखी त्वं परमेश्वरः ॥११७॥इत्येवं राधिके कर्म समाप्य महीमानकान् ।संसदः परिहारं च चक्रे गोपालकृष्णकः ॥११८॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीकृष्णनारायणस्य यज्ञोपवीतप्रदानविधिपूजादि- निरूपणनामा षट्षष्टितमोऽध्यायः ॥६६॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP