संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १६९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १६९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६९ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके प्रातरुत्थाय भगवान् स्नानमाचरत् ।ध्यानं जपं तथा होमं स्वाध्यायं तर्पणं तथा ॥१॥पूजनं निजरूपस्य पितृदर्शनवन्दनम् ।साधूनां च सतीनां च दर्शनं चाकरोत्ततः ॥२॥दुग्धामृतं मनाक् पीत्वा यज्ञभूम्यवलोकनम् ।कर्तुं करिणमारुह्य निर्ययौ स निजालयात् ॥३॥सपक्षहस्ती व्योम्नैवाऽसञ्चरत् सर्वभूमिषु ।व्यलोकयच्छुभां भूमिं सुदर्शनं प्रगृह्य च ॥४॥लीनं प्रकाशितं जातं यत्र तत्रैव वेदिकाम् ।विश्वकर्मकृतां वीक्ष्य प्रसन्नः स्थानमाययौ ॥५॥प्रशशंस हरिश्चेशानं देवं सर्वदृष्टिकम् ।भक्तं देवायनं विश्वकर्माणं कपिलादिकान् ॥६॥देवगुरुं गणेशादीन् प्रशशंस तदा हरिः ।सामग्रीदायकान् सर्वान् दासान् दासीश्च कोटिशः ॥७॥सर्वभूपालकाँश्चापि प्रशशंस हरिस्तदा ।सर्वतत्त्वानि भगवान् प्रशशंस मुहुर्मुहुः। ॥८॥राजानः ऋषयः सत्यः साधवः पार्षदादयः ।व्रह्मप्रियाद्याश्च ततश्चक्रुः पूजां हरेस्तदा ॥९॥लोमशादीन् हरिर्नत्वा विश्रान्तिं मन्दिरेऽलभत् ।प्रातः पेयानि भोज्यानि सर्वेभ्योऽदापयत् प्रभुः ॥१०॥रसशालाः प्रवर्तन्ते दीयन्ते भोजनानि च ।यथायोग्यानि चेष्टानि सर्वेभ्यः पूर्णतृप्तये ॥११॥प्रातरारभ्य वै भक्ष्यं पेयं चान्यदपेक्षितम् ।सातत्येन प्रवाहेण दीयते चाऽऽनिशामुखम् ॥१२॥यथा यानि तु तत्त्वानि वर्ष्माणि यादृशानि च ।यादृशं पथ्यमेतेषां तादृग् ददति वल्लिकाः ॥१३॥मणयो धेनवश्चापि वृक्षाश्च कल्पचिन्तनाः ।मुक्ता मुक्तान्य एवापि सिद्धयः श्रीरमादयः ॥१४॥ब्राह्म्यः सुशक्तयोऽनन्ता ऐश्वर्याणि गुणास्तथा ।अर्पयन्ति समस्तेभ्योऽपेक्ष्यभोज्यानि वै तदा ॥१५॥प्रतिमन्दिरमेतेभ्यः प्रापयन्तीष्टभोज्यकम् ।यद्यदपेक्षितं सर्वं त्वधिकं प्रापयन्ति हि ॥१६॥त्वं राधेऽमर्षमापन्ना दृष्ट्वा गांगेयगौरवम् ।किन्न स्मरसि शान्ता च मया त्वं सुनयैः कृता ॥१७॥भोजिता वन्दिता त्वं तु गंगया पादवाहिता ।शृंगारिता कवर्या च प्रसन्ना त्वं तदा ह्यभूः ॥१८॥चतुर्थ्यां राधिके तत्र प्राघूणिका विशेषतः ।समाययुर्विमानैश्च कोटिशो मानवा दिने ॥१९॥राशियानप्रदेशेभ्यो षोडशलक्षमानवाः ।प्राग्ज्योतिर्देशतो लक्षमानवाश्चाययुस्तदा ॥२०॥प्राचीनदेशतश्चापि दशलक्षाणि चाययुः ।ब्रह्मदेशाल्लक्षजना उष्ट्रालयाच्च लक्षकम् ॥२१॥आजनाभात् कोटिजना अब्रिक्तात् कोटिशो जनाः ।आरक्ताल्लक्षजनताश्चोत्तरादपि चाययुः ॥२२॥मानवानां कोटिचतुष्टयं तत्राऽभवत्तदा ।तदन्यानां तु लोकानां सृष्टित्रयनिवासिनाम् ॥२३॥आगतानां देहिनां तु संख्यासंख्या न विद्यते ।महीमानालया भूमौ जलेऽनिलेऽन्तरीक्षके ॥२४॥मेघे गिरौ च विवरेऽम्बरे तत्त्वेषु सर्वशः ।रचिताश्चाभवन् विश्वकर्मणा सूक्ष्मदर्शिना ॥२५॥सिद्धिमन्तस्तदा चाणूभूय मिश्रीप्रभूय च ।लीनीभूयाऽपि यज्ञेऽत्र तिष्ठन्ति हरिमानसः ॥२६॥परे ब्रह्मणि सर्वेषां त्वक्षरे चापि धामनि ।आन्तरभाववासेन समावेशोऽभवत्तदा ॥२७॥ममुः सर्वे परे धाम्न्यक्षरे साक्षाद्विराजिते ।आश्चर्यं नास्ति राधेऽत्र सर्वाश्रयो यतो हरिः ॥२८॥अणुदेशे सर्वसृष्टीः समावेशयितुं क्षमः ।स्वल्पे स्थले विशालत्वं प्रदर्शयितुमर्हति ॥२९॥तत्कृत्यन्तं न विन्देऽहं कोऽन्यो ज्ञातुं तदाऽर्हति ।अणौ सृष्टीः क्षणे कल्पान् दर्शयितुं स चार्हति ॥३०॥जलगण्डूषमात्रेण तर्पयितुं त्रिलोकजान् ।कणभक्षणमात्रेण तृप्तिं दातुं स चार्हति ॥३१॥असंभाव्यं तथाऽतर्क्यं तथाऽशक्यं न माधवे ।यन्मूर्तेः सर्वमेवेदं समभूत् चेक्षणात्पुरा ॥३२॥यत्संकल्पात्पुनर्ह्रासं चान्ते तत्रैव यास्यति ।कोऽहं का त्वं तथा चान्ये नारायणाश्चतुर्भुजाः ॥३३॥तदग्रे शक्तिमन्तो वै यन्मूर्तेरभवाम ह ।अलं चातिवचोभिश्च सर्वाधारो हरिर्हि सः ॥३४॥सर्वानकरोत् सुखिनो मखे संभावनादिभिः ।अथ श्रीबालकृष्णोऽसौ चतुर्थ्यां मध्यगे रवौ ॥३५॥मन्त्रान् ददौ नृपेभ्यश्च जनताभ्यश्च मण्डपे ।कोटिरूपधरो बालकृष्णः सर्वत्र सोऽभवत् ॥३६॥प्रत्याश्रयं तदा वृष्यां कुशजायां निषद्य च ।सजलं भक्तकर्णेषु मन्त्रानश्रावयत् प्रभुः ॥३७॥'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥३८॥'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ॥३९॥'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः' ।'अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ॥४०॥'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ॥४१॥'श्रीकृष्णवल्लभः कृष्णः स्वामी मेऽयं पतिर्हि मे' ।एवं शरणमन्त्रं चार्पणमन्त्रं च रक्षकम् ॥४२॥मनुं च ब्रह्मभावं च मन्त्रं स्वाम्यनिवेदकम् ।सर्वस्वं च मनुं कृष्णनारायणः परेश्वरः ॥४३॥यथाधिकारं संवीक्ष्याऽऽबालवृद्धनरीनरान् ।कृतार्थान् श्रावयामास चकार मानवान् बहून् ॥४४॥ततो वै भोजनं चक्रुर्दीक्षिताश्च हरिर्जनाः ।लक्ष्मीनारायणसंहिताख्यानं सायमेव वै ।लोमशः प्रचकाराऽथ चक्रे नीराजनं हरेः ॥४५॥जायन्ते चोत्सवास्तत्र रात्रौ तु भोजनोत्तरम् ।सर्वेषां सुखदा राधेऽपररात्रे विशश्रमुः ॥४६॥पञ्चम्यां च प्रगे ब्राह्मे मुहूर्ते श्रीहरिः स्वयम् ।सस्नौ तु संगमे नद्योः सर्वे सस्नुस्ततः परम् ॥४७॥नित्यविधीन् विधायाऽथ कृत्वा देवार्हणादिकम् ।कृष्णनारायणो यज्ञमण्डपं शीघ्रमाययौ ॥४८॥राजानश्च प्रजाः सर्वे ऋषयो मुनयस्तथा ।कर्मचाराः ऋत्विजश्च जापकाद्याः समाययुः ॥४९॥वादित्राणां निनादाश्च तदाऽभवन् सुसूचकाः ।अध्वरस्य क्रियाकाण्डं कुर्वन्तु भूसुरा इति ॥५०॥अनादिश्रीकृष्णनारायणश्चाजिज्ञपद् द्विजान् ।विप्राद्या मंगलं चक्रर्वेदमन्त्रैः प्रसुस्वरम् ॥५१॥आचार्यो लोमशस्तत्र देशकालावकीर्तयत् ।गणेशस्मरणं कृत्वा कृष्णनारायणः प्रभुः ॥५२॥आचार्यवरणं चक्रे नत्वा श्रीलोमशं गुरुम् ।प्रकोष्ठे बन्धनं चक्रे चक्रे चावाहनं क्षितेः ॥५३॥पञ्चगव्यकुशैर्भूमेः प्रोक्षणं प्रचकार ह ।भूताद्यपक्रमार्थं च प्राक्षिपत् श्वेतसर्षपान् ॥५४॥एवं भूमिं पूजयित्वा प्रायश्चित्तं चकार ह ।आचमनं प्राणायामं कृत्वा चक्रे प्रपूजनम् ॥५५॥स्वात्मकस्य गणेशस्य षोडशोपसुवस्तुभिः ।पुण्याहवाचनं चक्रे कलशस्थापनं तथा ॥५६॥आशीर्वादान् ददुस्तत्र ब्राह्मणा वेदवेदिनः ।शान्तिपाठाञ्जगुर्वारिसेकं चक्रुस्तदा द्विजाः ॥५७॥स्वस्तिवाचो जगुश्चापि चक्रुः कृष्णाभिसेचनम् ।मातृकापूजनं चक्रुर्नान्दीश्राद्धं प्रचक्रिरे ॥५८॥तदंगदक्षिणादानं चकार परमेश्वरः ।प्रत्येकाचार्यवरणं ब्रह्मवरणमित्यपि ॥५९॥ऋत्विजां वरणं द्वारपालवरणमित्यपि ।जापकानां वरणं च चक्रे पुपूज ताँस्ततः ॥६०॥ततः पृथिवीं सम्पूज्य चक्रे दिग्रक्षणं ततः ।सम्प्रोक्ष्य यज्ञसामग्रीः स्वस्तिमन्त्रान् जगाद ह ॥६१॥मण्डपपूजनं वास्तुपूजनं प्रचकार ह ।वास्तुदेवार्हणं सर्वं विधिना प्रचकार ह ॥६२॥कलशस्थापनं चक्रे फलौषधिमृदार्पणम् ।दर्भपवित्रदानं च तीर्थावाहनमित्यपि ॥६३॥अथाऽग्न्युत्तारण चक्रे सर्वदेवान् पुपूज च ।प्राणप्रतिष्ठामन्त्रांश्च जगाद परमेश्वरः ॥६४॥योगिनीक्षेत्रपालाँश्च पुपूज विधिना हरिः ।पीठदेवार्हणं चक्रे बलिं ददौ ननाम च ॥६५॥मण्डपस्याऽर्हणं चक्रे ब्रह्मपूजां चकार ह ।तथा मण्डपदेवानामर्हणं प्रचकार च ॥६६॥षोडशादिस्तम्भपूजां बहिर्देवादिपूजनम् ।शाखादेवप्रपूजां च ध्वजानां पूजनं तथा ॥६७॥सर्वकलशपूजां च वेदपूजां चकार ह ।वेदीकुण्डेषु सर्वेषु कुण्डपूजां चकार च ॥६८॥कुण्डमध्ये विश्वकर्मपूजनं प्रचकार सः ।मेखलापूजनं तत्र देवानां पूजनं तथा ॥६९॥योनिपूजां कण्ठपूजां नाभिपूजां चकार सः ।वास्तुपूरुषपूजां च वह्निस्थापनमाचरत् ॥७०॥नवग्रहार्हणं चाधिदेवतार्हणमाचरत् ।प्रत्यधिदेवतापूजां नागपूजां समाचरत् ॥७१॥लोकपालार्हणं चक्रे गणेशभूतपूजनम् ।दिक्पालपूजनं चक्रे श्रीदेवीपूजनं तथा ॥७२॥मण्डलस्थापितदेवार्हणं चक्रे हरिस्तथा ।कलशार्हणमेवापि षट्पञ्चाशत्सुरार्हणम् ॥७३॥ऋषीणां पूजनं पितृपूजनं सिद्धपूजनम् ।मृत्युकालार्हणं चक्रे सरित्सागरपूजनम् ॥७४॥शैलाऽऽयुधाऽर्हणं चक्रे आर्षीदेवीप्रपूजनम् ।कलशस्थापनं कृत्वा वरुणार्हणमाचरत् ॥७५॥चतुर्विंशत्यवतारान् वासुदेवादिकानपि ।ईश्वरान् तत्सतीः साध्वी सर्वाश्च हरिरार्चयत् ॥७६॥त्रिदेवपार्षदान् सर्वान् सर्वधामनिवासिनः ।ब्रह्मसृष्टिमयान् सर्वान् ईशसृष्टिमयानपि ॥७७॥जीवसृष्टिमयान् सर्वान् श्रीकृष्णः समपूजयत्॥चतुर्दशसु लोकेषु ये वसन्ति तु देहिनः ॥७८॥जडान् दिव्यान् चेतनाँश्च गुरून् दासीश्च दासकान् ।चतुःखनिषु चोत्पन्नान् सर्वान् कृष्णो ह्यपूजयत् ॥७९॥प्रतिकुण्डं च राजानस्तथा चक्रुः प्रपूजनम् ।तत्तन्महर्षिगुरुणा यथोद्दिष्टं तथा व्यधुः ॥८०॥द्रव्यत्यागं कुण्डवह्नौ चकार परमेश्वरः ।प्रोक्षणीप्रोक्षणं चक्रे तथाऽऽज्यहवनं व्यधात्। ॥८१॥चरुं त्वग्नौ समारोप्य तथाऽवस्थाप्य तत्स्थले ।समिधो हवनं चक्रे स्रुवेणाऽऽज्याहुतीर्ददौ ॥८२॥स्वाहा देवायाऽमुकायेत्येवं होमं चकार सः ।ब्रह्मसृष्टीश्वरसृष्टिजीवसृष्टिभ्य एव च ॥८३॥यज्ञदेवेभ्य एवाऽपि बह्वाहुतीर्ददौ प्रभुः ।कुण्डमण्डपवास्तूनां देवताभ्यो हवं ददौ ।सतीसाध्वीसेविकाशक्तिभ्यः कृष्णो हवं ददौ ॥८४॥योगिनीभ्यश्च मुक्ताभ्यो ब्रह्मप्रियाभ्य इत्यपि ।सर्वांगव्यापिनीभ्यः सिद्धिभ्यः कृष्णो हवं ददौ ॥८५॥आदित्यवसुरुद्राश्विकुमारेभ्यो हवं ददौ ।अवतारसहिताय निजाय चाहुतीर्ददौ ॥८६॥चर्वाहुतीर्ददौ चामृतात्मिकास्तृप्तये हरिः ।यूपारोपं ततश्चक्रे यूपदेवानपूजयत् ॥८७॥यूपमसिञ्चयच्चापि बलिं यूपाय वै ददौ ।निद्राकलशपूजां च प्राकारयद्धरिस्ततः ॥८८॥आमन्त्रितान् जीवजातान् यज्ञे भागं हरिर्ददौ ।पायसान्नं घृतं दुग्धं फलानि च रसान् ददौ ॥८९॥यथा यथा मखे वह्नौ सहस्रायुतधारिकाः ।पतन्त्याहुतयो हव्यात्मिकास्तथा तथाऽभितः ॥९०॥सर्वे जीवास्तृप्तिमन्तो जायन्ते हर्यनुग्रहात् ।व्रीहयश्च यवा निवाराद्या मुन्यन्नकानि च ॥९१॥खर्जुरा रसवन्तश्च कणा मिष्टरसान्विताः ।ओषधयश्च समिधः फलानि रसवन्ति च ॥९२॥शर्कराद्यास्तथा मिष्टान्नानि चाहुतयोऽभवन् ।वह्नयः सर्वजातीयाश्चागत्य तृप्तिमावहन् ॥९३॥अग्निमुखा देहिनश्च येऽन्ये ब्रह्ममुखास्तथा ।कृष्णमुखास्तथा सर्वे साधुमुखास्तथाऽपरे ॥९४॥सतीमुख्यो देविकामुख्यश्च याः शक्तयस्तथा ।स्वाहामुख्यश्च या लक्ष्मीश्रीमुख्यश्च तथाऽपराः ॥९५॥अन्नपूर्णानना याश्च सर्वास्तास्तृप्तिमावहन् ।जडचेतनतत्त्वानि तृप्तानि विविधैर्हवैः ॥९६॥पूर्णाहुतिं ददौ पश्चादारार्त्रिकं ततोऽकरोत् ।सर्वदेवादिसत्त्वानां विश्रान्तिं प्रददौ ततः ॥९७॥एवं वै सप्तविंशत्यात्मकेषु कुण्डकेषु च ।सर्वत्र ऋषिभिः पूजाबलिदानहवाः कृताः ॥९८॥राजभिर्युगलैश्चापि हवनेच्छायुतैस्तथा ।गृहीतो हवलाभश्च बालकृष्णाज्ञया मखे ॥९९॥दक्षिणाः प्रतिपूजायां भूयस्योऽर्प्यन्त एव च ।फलाहारा रसाहारा अन्नाहारा ह्यतिप्रियाः ॥१००॥दीयन्ते सर्वजन्तुभ्यः स्वस्वाहारास्तु शार्ङ्गिणा ।कल्पचिन्तामणिजन्या दीयन्ते भक्ष्यसद्रसाः ॥१०१॥एवं निर्वर्तितं रम्यं पञ्चमीहवनं शुभम् ।ततः सर्वानब्जकोट्यर्बुदपद्मादिसंख्यकान् ॥१०२॥मुक्तान् धामानि मुक्तानीश्चावताराँश्च तत्प्रियाः ।पार्षदान् पार्षदानीश्च भोजयामास चामृतान् ॥१०३॥मिष्टान्नानि च दिव्यानि पेयान्यनन्तकानि च ।भक्ष्यभोज्यानि सर्वाणि लेह्यान्यपि शुभानि च ॥१०४॥ब्रह्मप्रियास्तथा भक्ताः सतीः साध्वीर्हरिप्रियाः ।भोजयामास भगवान् कन्यका बहुसंख्यकाः ॥१०५॥ईश्वरानीश्वराणीश्च मायां मायाकुटुम्बकम् ।चतुर्विंशतितत्त्वानि भोजयामास माधवः ॥१०६॥अष्टावरणलोकस्थान् ब्रह्मेशविष्णुसेवकान् ।त्रिदेवदासदासीश्च भोजयामास माधवः ॥१०७॥त्रिदेवदेविकाः सर्वा ब्रह्मचर्याऽधिकन्यकाः।देवीः कुमारिका योगिनीः सांख्ययोगिनीः सतीः ॥१०८॥सर्वाः संभोजयामास व्रतैकादशिकादिकाः ।तिथिरूपान् देविकानां गणानप्सरसस्तथा ॥१०९॥सर्वाः संभोजयामास भगवान् कृष्णवल्लभः ।मेरुस्थान् सत्यलोकस्थान् महर्जनतपःस्थितान् ॥११०॥ऋषीन् पितॄन् तथाऽऽर्षीश्च पितृका मातृकास्तथा ।स्वःस्थान् देवान् देविकाश्च भुवर्लोकस्थिताँस्तथा ॥१११॥भूस्थान्नरान् नारीवर्गान् जरायुजाऽण्डजाँस्तथा ।स्वेदजानुद्भित्प्रजातान् भोजयामास माधवः ॥११२॥तीर्थान्यरण्यसरितः पर्वतान् सागरादिकान् ।अपि कीटपतंगाद्यान् भोजयामास माधवः ॥११३॥ब्रह्मपुत्रान् राजसांश्च तामसान् सर्वजातिकान् ।धर्माधर्मप्रजाताँश्च काश्यपान् सूर्यचन्द्रजान् ॥११४॥पातालस्थान् राक्षसाँश्च यक्षान् गन्धर्वकिन्नरान् ।सप्ततलिनो भूताँश्च प्रेतान् यमालयस्थितान् ॥११५॥किंपुंसो मागधान् सूतान् बन्दिजनानभोजयत् ।चारणान् शूद्रजातीयान् विद्याध्रान् वनवासिनः ॥११६॥क्रूरान् सत्त्वान् डाकिनीश्च शाकिनीश्च तथाऽपराः ।चाण्डालान् श्वपचान् पशून् भोजयामास माधवः ॥११७॥सर्पान्नागान् पक्षिगणान् कुष्माण्डान् प्रविनायकान् ।दैत्यान् देवानासुराँश्च भोजयामास माधवः ॥११८॥जडं च चेतनं सर्वम् आधाराधेयमिश्रितम् ।बुभुजे यज्ञभागं वै क्रतोः प्रासादिकं शुभम् ॥११९॥सर्वं त्रिसृष्टिजं नित्यमनित्यं स्थिरजंगमम् ।भुक्त्वा यज्ञप्रसादं सुतृप्तिमाप हि शाश्वतीम् ॥१२०॥राधाद्या मे प्रियाः सर्वास्तृप्तिमाप्ता प्रसादजाम् ।इत्येवं राधिके! यज्ञकार्यं चाद्यदिनेऽभवत् ॥१२१॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने यज्ञे भूमिपूजनं वास्तुकुण्डमण्डपादिदेवानां पूजनं ब्रह्मसृष्टीश्वरसृष्टिजीवसृष्टिदेहिनां पूजनं हवनं महापूर्णाहुतिदानंभोजनदानं चेत्यादिनिरूपणनामा नवषष्ट्यधिकशततमोऽध्यायः ॥१६९॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP