संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २८१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २८१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २८१ Translation - भाषांतर श्रीकृष्ण उवाच-अथैवं मण्डपे जाते सर्वलोकसमुज्ज्वले ।सूर्यतेजांसि सौराष्ट्राद् व्यवर्तन्ताऽम्बराद् दिवः ॥१॥मण्डपस्यैव तेजांसि सौराष्ट्रे दिनता व्यधुः॥रात्रिर्देशान्तरं याता तेजोनिस्सारिता तदा ॥२॥रात्रिभानं तु लोकानामक्षरक्षेत्रवासिनाम् ।मण्डपान्निःसरद्भिश्च तेजोभिरानुमानिकम् ॥३॥मण्डपान्तर्गतानां तु मणौ यत्सर्वदर्शनम् ।तद्यदा जायते नैव तदा निशाऽनुमानकम् ॥४॥यदा मणौ चान्तर्मणौ प्रकाशन्ते हि सृष्टयः ।तदा भानं दिवसस्य जायते भानिवासिनाम् ॥५॥इत्येवं मण्डपे जाते किमाश्चर्यं हरेर्गृहे ।सर्वं वै घटते तस्य स्वल्प एषस्तु मण्डपः ॥६॥एवं मण्डपनिर्माणे ततोऽवाद्यन्त तद्गताः ।दिव्यवाद्यविशेषाश्च तथा लौकिकवाद्यकाः ॥७॥द्रष्टुं तन्मण्डपं लोका आययुश्च समन्ततः ।देवा वै हंसरूपाश्च व्योम्नाऽऽययुः पुनर्ययुः ॥८॥अथ कुंकुमपत्रीं च लिलेख भगवत्पिता ।लोमशं तु समाहूय नारदं च महामुनिम् ॥९॥स्वतःप्रकाशं देवं च पप्रच्छ तन्मुहूर्तकम् ।सूर्योदयोत्तरं सार्धघटीद्वयादनन्तरम् ॥१०॥प्रतिपत्रीमुहूर्तं च विलोक्याऽऽहुश्च ते त्रयः ।सर्वविजयदः कालो वर्ततेऽद्य शुभावहः ॥११॥प्रवर्तते तु समयः शुभो लिखतु पत्रिकाम् ।इत्युक्त्वा विप्रवर्यास्ते स्वस्तिमंगलमन्त्रकान् ॥१२॥जगुर्वेदगतान् सूक्तान् सर्वमंगलशोभनान् ।पत्रं च लेखिनीं चापि द्रवपात्रं च पट्टिकाम् ॥१३॥रक्तद्रवं तथा सर्वे पूजयामासुरुत्सुकाः ।गणेशपूजनं चक्रुर्धूपदीपाऽक्षतादिभिः ॥१४॥श्रीविष्णुपूजनं चक्रुस्तथा गोपालपूजनम् ।तथा श्रीबालकृष्णस्य चक्रुर्वै पूजनं तदा ॥१५॥बालकृष्णः पितृयुक्तः पूजयामास तानपि ।दत्तासनेषु ऋषयो विप्राश्चान्येऽपि मानिताः ॥१६॥निषेदुः पूज्यवर्गास्ते नार्योऽगायँस्तु गीतिका ।कुंकुमपत्रिकां चामन्त्रणार्थां योगबोधिकाम् ॥१७॥अलिखच्छ्रीमहाविष्णुर्गोपालकृष्णकः पिता ।नत्वा देवानृषीन् वृद्धान् स्मृत्वा श्रीपुरुषोत्तमम् ॥१८॥श्रीमद्ब्रह्मपुराधिपो हि भगवान् सर्वावतारेश्वरः,श्रीकृष्णश्च नरायणोऽपि च हरिः श्रीवासुदेवः शिवः ।श्रीविष्णुश्च नराग्रजश्च धवलद्वीपस्थनारायणः,शेषस्थश्च हरिर्गणेश्वर इमे कुर्वन्तु नो मंगलम् ॥१९॥श्रीमद्ब्रह्मसरूपिणी भगवती सर्वावतारेश्वरी,श्रीराधा च नरायणी च हरिणी श्रीवासुदेवी शिवा ।श्रीर्लक्ष्मीः कमला रमा च धवलद्वीपस्थनारायणी,सावित्री च सरस्वती विदधतु द्युस्थाश्च नो मंगलम् ॥२०॥श्रीकान्तः पुरुषोत्तमश्च विभवा व्यूहाश्च धामाधिपा,लक्ष्मीशाश्च तथेश्वराश्च पितरश्चार्षाः सुरास्तत्स्त्रियः ।आदित्या वसवोऽश्विनौ दिगधिपा रुद्रास्त्रिदेवेश्वरा,दम्पत्योर्गृहधर्मसंभृतमिदं तन्वन्तु शं मंगलम् ॥२१॥श्रीकाशीनगरीश्वरस्य विबुधैः संपूजितस्यैव च,श्रीमच्छ्रीनिधिशंकरस्य तनुजालक्ष्म्याः परं मंगलम् ।श्रीकाश्यां भविता सुतेन तु मम श्रीबालकृष्णेन वै,मार्गे शुक्लचतुर्थिकानिशि, सुतोगन्ताऽक्षरक्षेत्रतः ॥२२॥ब्रह्माण्डे तु चतुर्मुखस्य च विधेः पद्मासनस्यैव वै,भूलोकेऽपि च मेरुदक्षिणदिशाखण्डे ह्यजानाभिके ।आयान्त्वेव सुराष्ट्रके स्थितवतो गोपालकृष्णस्य मे,ख्याते कुंकुमवापिकाख्यनगरे तूर्णं स्वकैः संयुताः ॥२३॥अद्याऽऽद्येऽह्नि तु मण्डपस्य समयस्ताम्बूलपानस्य च,श्वो भावि श्रीमतः सुतस्य तु तनौ सत्पिष्टिकामर्दनम् ।तार्तीये तु दिने सुराऽर्हणमथो यात्रा च काशीं प्रति,तुर्ये हस्तसमग्रहो हि भविता तद्दीपयन्त्वर्थये ॥२४॥ये वै ब्रह्मसुसृष्टिगाऽक्षरजना धामादिवासाश्च ये,ये चापीश्वरसृष्टिगाश्च जडगाश्चाऽष्टाऽऽवृतिस्था अपि ।ये वै जीवनसृष्टिगाश्च विविधा लोकाश्च लोकाधिपा,राजानश्च निजाः प्रजाश्च सुहृदश्चायान्तु सम्बन्धिनः ॥२५॥स्वस्वैश्वर्ययुताः स्वभृत्यसहिताः सर्वानुगैः संयुताः,स्वस्वैर्दिव्यसमाश्रितैश्च सहिताः स्त्रीपुत्रपुत्रीयुताः ।तत्तन्मित्रयुताः प्रमित्रसहिताश्चाबालवृद्धान्विता,मत्पुत्रस्य सुमंगलेऽभित इहाऽऽयान्त्वेव शोभावहाः ॥२६॥श्रेष्ठः श्रीभगवान् तदग्रज इति भ्राजन् शुकश्चाऽपरः,श्रीमद्वल्लभनामकोऽनुगरतिस्ते बान्धवाः सर्वथा ।तद्वच्चान्यकुटुम्बिनोऽपि च वयं सर्वान्प्रतीष्टाऽर्थनां,कुर्मो यद् भवतामवश्यमनघे सन्दर्शनं स्तादिह ॥२७॥मुक्ता ब्रह्मगताश्च धामसु गता ये पार्षदाः श्रीपते-रीशेशादिकधामगा अपि महैश्वर्याश्च मुक्ताश्च ये ।ब्रह्माद्याऽभिमताश्च सिद्धपुरुषाः सन्तश्च ये साधवो,दम्पत्योश्च शुभं सुमंगलमयं कुर्वन्तु शं शाश्वतम् ॥२८॥इत्येवं राधिके! तत्राऽलिखद् गोपालकृष्णकः ।कुंकुमाक्तां पत्रिकां चाऽप्रेषयत् सर्वसृष्टिषु ॥२९॥ऋषीन् ब्रह्माण्डगोलेषु मुक्तानक्षरधामसु ।नारदादीनीशलोकेष्वप्रेषयत् प्रदाय च ॥३०॥पूजितां कुंकुमैश्चाप्यक्षतैः पुष्पादिभिस्तथा ।पुटितां पर्णके चापि दोरकेणाभिवेष्टिताम् ॥३१॥तुलसीपत्रसंयुक्तां कोट्यर्बुदप्रतिकृतिम् ।समादाय ययुः सर्वे त्वाज्ञप्तास्ते मनोजवाः ॥३२॥ददुश्च कुंकुमपत्रं प्राप्य सत्कारमाययुः ।मण्डपेऽत्र तदा राधे! गोपालकृष्णको ददौ ॥३३॥दुग्धपानं च मिष्टान्नं ताम्बूलकं समुत्सवे ।समागतान् नृपान् भक्तान् विप्रान् लोकान् प्रजाजनान् ॥३४॥श्रेष्ठिनश्चाप्यनाथाँश्च महतोऽपि दरिद्रकान् ।मान्यान् पूज्यान् वन्दनीयान् वैश्यान् दासाँश्च दासिकाः ॥३५॥भृत्यान् कार्यकराँश्चापि स्थानिनस्तैर्थिकानपि ।आगन्तुकान् महीमानान् प्रसंगाच्च समागतान् ॥३६॥पानं पूगीफलं दुग्धं पायसं मिष्टमन्नकम् ।फलं जलं दलं चापि ददौ गोपालकृष्णकः ॥३७॥वाद्यन्ते तत्र वाद्यानि तूर्याणि विविधान्यपि ।गीतिकाश्चापि जायन्ते सर्वस्त्रीणां च मण्डपे ॥३८॥आयान्ति च प्रयान्त्येत्य प्राप्य ताम्बूलकादिकम् ।सौराष्ट्रं सर्वमेवेति नगरं च समस्तकम् ॥३९॥समायादुत्सवे तत्र राधे! ताम्बूलकोत्सवे ।ताम्बूलदानकं तत्र दीयते सततं प्रिये ॥४०॥भोजनार्थं पंक्तयश्चाऽभवन् मध्याह्नकेऽपि तु ।मण्डपं वीक्षितुं तत्राऽऽययुः सहस्रशो जनाः ॥४१॥तेऽपि सर्वे भोजनानि जगृहुः श्रीहरेर्गृहे ।महीमाना नगरस्था देशेभ्य आगता अपि ॥४२॥वर्धयित्वा बालकृष्णं प्राप्य सुस्वागतं ततः ।भोजनानि कृतवन्तो विश्रान्तिं परमां ययुः ॥४३॥ब्राह्मणाश्च तदन्याश्च स्वामिनो भृत्यजातिकाः ।दीनाऽनाथा भिक्षुकाश्च भोजनानि प्रचक्रिरे ॥४४॥मिष्टान्नानि पायसानि क्षीराणि भक्ष्यकाणि च ।लावणानि स्वादवन्ति बुभुजिरेऽतितृप्तिकम् ॥४५॥ताम्बूलानि तथा पूगीफलानि प्राप्य वै ततः ।आगन्तुका भोजनानि कृत्वा यान्ति निजालयम् ॥४६॥महीमाना येऽद्य पत्र्याऽऽमन्त्रिता देशगा अपि ।विदेशगास्तथा भिन्नलोकगा भिन्नसृष्टिगाः ॥४७॥आगच्छन्ति मनोवेगा योगिनस्तत्र चोत्सवे ।मण्डपे ते स्वादवन्ति मधुपर्काणि भावतः ॥४८॥ताम्बूलकं तथा लब्ध्वा विलोक्य मण्डपं तथा ।बालकृष्णं वर्धयित्वा गृहीत्वा भोजनानि च ॥४९॥मिलित्वा च महीमानान् ततो यान्त्यर्पिताऽऽसनम् ।तूर्याणां निनदाश्चाव्याहता जायन्त उत्तमाः ॥५०॥गीतिकाः कन्यकानां च प्रवर्तन्तेऽपि सर्वतः ।दीयतां दीयतां चेति भुज्यतां भुज्यतामिति ॥६१॥सत्कारं गृह्यतां चेति शब्दा रोधं व्रजन्ति न ।भूमिमार्गाद् वायुमार्गान्महीमानव्रजाश्च खात् ॥५२॥आयान्ति स्म विमानाद्यैर्वाहनैश्च मनोजवैः ।महन्मण्डपमध्ये तान् गोपालकृष्णसेवकाः ॥५३॥निवासयन्ति च यथाकल्पितेषु गृहेषु वै ।स्वागतार्थं पार्षदाश्च तिष्ठन्ति सततं पुरः ॥५४॥कन्यका दासदासाश्च सेवन्ते कृतिनस्तदा ।एवं वै राधिके! सायंपर्यन्तं पानदानकम् ॥५५॥ताम्बूलादेः प्रदानं च भोजनं संव्यवर्तत ।ततः सन्ध्यावन्दनादि नीराजनं हरेस्तथा ॥५६॥अभवच्च ततो रात्रौ महोत्सवः कृतोऽभवत् ।गायका वाद्ययुक्ताश्च गायन्ति तालमानतः ॥५७॥गायन्ति गीतिकाश्चापि गान्धर्व्यो गायिकास्तदा ।नृत्यन्ति नृत्यकारिण्यः सुवेषाः सुमनःप्रियाः ॥५८॥अप्सरसो ब्रह्मसरसश्च गायन्ति गीतिकाः ।नृसरसस्तथा पर्यो गायन्ति नृत्यसंयुताः ॥५९॥कन्यका विविधाऽऽयामा भिन्नभंगीकृतश्रमाः ।देहयष्टीः प्रविवृत्य दर्शयन्त्यासनीकलाः ॥६०॥एवं वै राधिके जाते ततो रासार्थमागताः ।रंगमण्डपमध्ये ताः कन्यका रासमादधुः ॥६१॥सर्वास्ताः समवेषाश्च समकान्तिसमाम्बराः ।समभूषाः समभावा रासयन्ति हि मण्डपे ॥६२॥वादिका वादयन्त्येव गायन्ति गायिकास्तथा ।मध्यपरे नृत्यवत्यौ द्वे स्त्रियौ नृत्यतस्तदा ॥६३॥अन्याश्चक्रभ्रमेणैव गायन्ति च भ्रमन्ति च ।हस्ततालीप्रदानैश्च पादन्यासैश्च विक्रमैः ॥६४॥पृष्ठपादैर्वक्रपादैर्वक्रदेहैश्च मण्डले ।वक्रग्रीवादिभिश्चापि वक्रनेत्रैः रमन्ति च ॥६५॥एवं रासे कृते पश्चान्मल्लास्तत्र समाययुः ।सबलाः शिखरप्रायाः पुष्टा नादविनादिनः ॥६६॥स्वभावचञ्चला पृष्ठकूर्दनैर्हास्यकारिणः ।मण्डले मण्डलाकारे द्वौ द्वावाजग्मतुस्तदा ॥६७॥योधने चक्रतुश्चापि विकर्षणाऽपकर्षणैः।उत्तानक्षेपणैश्चापि भूमुखक्षेपणादिभिः ॥६८॥स्वमुखक्षेपणैश्चापि स्वाम्याकर्षणकादिभिः ।पृष्ठताडनकैश्चापि सक्थिताडनकैस्तथा ॥६९॥अग्रे वेगक्षेपणैश्चाऽम्बरे क्षेपणकैस्तथा ।भ्रामणै रेचनैश्चापि पादबाहुप्रयोधनैः ॥७०॥वक्षोयोधनकैश्चापि जयाजयपरायणैः ।गुरुभारवहाश्चाऽन्ये दन्तभारप्रतोलकाः ॥७१॥वक्षःपाषाणभेदाश्च पृष्ठहस्तिगमास्तथा ।करेणशकटीरोधाः स्कन्धे दशजनाश्रयाः ॥७२॥इत्येवं बहुधा भेदान् मल्लाः प्रदर्शयन्ति च ।ततो याता नाटयकरा नेपथ्यधारिणः शुभाः ॥७३॥बालाश्च बालिकाश्चापि चक्रुर्नेपथ्यमंगलम् ।नाटकं बालकृष्णस्याऽवतारस्य यथातथम् ॥७४॥चक्रुः सुशोभनं चाकर्षणकारि मनोहरम् ।वैकुण्ठादागमो यद्वल्लक्ष्म्या नारायणस्य च ॥७५॥शंभोः सुनर्तनं चापि पृथ्व्यास्तले तथाऽऽगमः ।लक्ष्म्यास्तपस्तथा श्रीमद्बालकृष्णस्य दर्शनम् ॥७६॥एवं वै नाटकं पुरावृत्तं चक्रुर्हरेर्हि ते ।नाट्यरंगे विनिर्वृत्ते विद्वांसस्तत्र चाययुः ॥७७॥सूताश्च मागधाश्चापि बन्दिनः कवयस्तथा ।काव्यानि नूतनान्येव श्रावयन्ति समाजके ॥७८॥नारायणगुणाँश्चापि प्राचीनचरितान्यपि ।गुणाँश्च दुःखहालक्ष्म्याः सत्याश्चापि शिवस्य च ॥७९॥श्रीमद्गोपालकृष्णस्य कंभराया हरेस्तथा ।अथाऽभवन् कथा रम्याः संहितासु तु याः स्थिताः ॥८०॥ततः श्रीबालकृष्णस्य पूजनं च निशार्धके ।अभवत् पानदानाद्यैर्वस्त्राम्बरविभूषणैः ॥८१॥ताम्बूलानि भोजनानि मिष्टपेयानि वै तदा ।ददौ गोपालकृष्णश्च सर्वरंगेभ्य एव ह ॥८२॥बालो वापि प्रमत्तो वा दीनो वा नाऽवशिष्यते ।सर्वैर्लब्धं भोजनं च ताम्बूलकं च दक्षिणा ॥८३॥ददौ कार्यकरेभ्यश्च रंगेभ्यो भगवत्पिता ।पारितोषिकपात्रेभ्यः पारितोषिकमुत्तमम् ॥८४॥स्वर्णरूप्यकरत्नानि मणिमौक्तिकहीरकान् ।अमूल्यहाराऽऽभूषाँश्चाम्बराणि दिव्यकान्यपि ॥८५॥कण्ठस्रजः प्रकोष्ठकसौवर्णकटकानि च ।मुद्राश्चान्योपकरणान्यपि ददौ हरेः पिता ॥८६॥सन्तुष्टास्तै दर्शकास्तु रंगशोभाकरा अपि ।आयासिनश्च सन्तुष्टाः कलाकौशल्यशालिनः ॥८७॥स्वस्वविद्याकलाप्रदर्शकास्तोषमगुर्धनैः ।धन्या धन्या वदन्तश्च नेमुः कृष्णं च गोपकम् ॥८८॥पितरं ते प्रणेमुश्च तथा नार्यः कलाक्रियाः ।नर्तक्याद्या गायिकाश्च वस्त्रभूषाम्बराण्यपि ॥८९॥पारितोषिकमासाद्य रत्नमौक्तिकमालिकाः ।हीरकाँश्च शाटिकाश्च कञ्चुकीः स्वर्णसूत्रजाः ॥९०॥शृंगारोपकरणानि सम्प्राप्य तोषणं ह्यगुः ।पीत्वा भुक्त्वा नमःकृत्वा स्वस्वावासं ययुस्ततः ॥९१॥महीमाना ययुश्चापि महामण्डपगालयान् ।पत्तनीया ययुर्नैजालयान् महर्षयः कुटीः ॥९२॥सन्तो निजाश्रमाँश्चापि भृत्याः स्वस्वालयान् ययुः ।श्रीमद्गोपालकृष्णोऽपि कृत्वा सात्त्विकभोजनम् ॥९३॥भोजयित्वा गृहजनान् बालकृष्णादिकाँस्ततः ।परावृत्याऽमूल्यवेषं सामान्यं वेषमाप्य च ॥९४॥विश्रान्त्यर्थं ययौ नैजे त्वालये निद्रितोऽभवत् ।बालकृष्णोऽपि भगवान् निद्रामवाप योगिनीम् ॥९५॥वाद्यानां वादकाश्चापि विरम्य भोजनानि च ।कृत्वा नैजानालयाँश्च प्रययुर्निद्रिता अपि ॥९६॥क्षेत्रपालाः शंकराद्या भुक्त्वा च देवतागणाः ।स्वस्वमन्दिरमास्वाद्य विश्रान्तिं लेभिरे निशि ॥९७॥कान्दविकाः सेवकाश्च परिहारकरास्तथा ।कर्मचाराः प्रभुक्त्वैव स्वस्थानेषु च निद्रिताः ॥९८॥तदा रात्रौ राधिके! ये रक्षकाः पालकाः जनाः ।रात्रिचरा जाग्रतास्ते कुर्वन्ति क्षेत्रवीक्षणम् ॥९९॥सशस्त्राश्चापि वाहाद्यैर्भ्रमन्ति परितोदृशः ।जागरूका निद्रितानामालयान् रक्षयन्ति च ॥१००॥इत्येवं राधिके! रात्रिर्व्यतीता चोज्ज्वला हि सा ।प्रातर्जातं सर्वदिव्यमांगल्यसंभृतं पुनः ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लिखित्वा कुंकुमपत्रिकायाः सर्वसृष्टिषु प्रेषणं, ताम्बूलपूगीफलादिमहोत्सवः रात्रौ गायिकानृत्यवाद्यनाट्यमल्लकाव्यपारितोषिकभोजनाद्युत्सवाः, परिहारो निद्रा चेत्यादिनिरूपणनामैकाशीत्यधिकद्विशततमोऽध्यायः ॥२८१॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP