संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २५६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २५६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५६ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके च ततो राजा पप्रच्छ लोमशं तु यत् ।कथयामि समासेन हृदयेन निबोध मे ॥१॥अश्वपाटल उवाच-क्षरश्चायं हि संसारस्तत्राऽक्षरो हि चेतनः ।कथं न मुञ्चति त्वेतत् क्षरं यात्यक्षरं न सः ॥२॥लोमश उवाच-गर्भे कर्मवशात् सुप्तः पच्यते पक्वमन्नवत् ।भूतसंस्कारतादात्म्यम् आपन्न इव भर्जितः ॥३॥क्षरधर्मान् समासाद्याऽज्ञानदशाऽभिभावितः ।क्षरात्मा स्व इति भ्रान्तिं प्राप्तः प्रसूयते ततः ॥४॥अहं बालो नरो नारी बाह्यशब्दैर्विबृंहितः ।शुक्ललोहितकृष्णार्थभानभ्रान्तिप्रमीलितः ॥५॥संकीर्णकल्पनां प्राप्तः सार्थसंगैर्जडीकृतः ।कृशः स्थूलो दुःखी सुखी ममाऽहंत्वंप्रबोधितः ॥६॥कर्मपाशायुष्यरज्जुबन्धितश्चाऽवशीकृतः ।प्राणकोष्ठलिकाग्रन्थिग्रथितश्चाऽविनाशितः ॥७॥मायातापपरिषेकशोकितश्च दृढीकृतः ।षाट्कौशिकरसैर्लिप्तस्तत्रैव च कृतासनः ॥८॥महालेपैर्लेपितश्च नेष्टे निर्गन्तुमप्रभुः ।तत्रैव तामसं वापि राजसं सात्त्विकं च वा ॥९॥प्रवाहं च रसं पक्वं स्वादं चाभ्यस्तमेत्ययम् ।पुष्टिमेति ततस्तैस्तैरिन्द्रियाहृतसद्रसैः ॥१०॥सुखानन्दैश्च पुष्णाति धावत्येव तदर्थकः ।तदर्थं यतते चापि ज्ञातुं प्राप्तुं पुनः पुनः ॥११॥भोक्तुं त्यक्तुं नवीकर्तुं सञ्चयितुं नवं पुनः ।तद्वेगवासनाक्षिप्तो मूढः क्षरे क्षरात्मकः ॥१२॥अभिन्नश्चाऽपृथग्भूत्वा वर्तते केशकर्षितः ।देहधर्मपरो भूत्वा देहानन्देन नन्दितः ॥१३॥पुनः पुण्यं करोत्येव दिव्यदेहादिलब्धये ।एवं चक्रेण वै गच्छन् देहात् कर्म ततो वपुः ॥१४॥पुनः कर्म पुनर्देहश्चेत्येवं क्षरगर्तके ।मुहुः पतति चाऽज्ञात्मा मुहुर्मोदं च वाञ्छति ॥१५॥नाऽस्यैवं वर्तमानस्य क्षरान्मुक्तिः क्वचिद् भवेत् ।प्रत्युत वर्धते मोहो बन्धनं संसृतिस्तथा ॥१६॥मोहान्मोहं चानुव्रज्य दृष्ट्वा दृष्ट्वा नवं नवम् ।प्राप्तुं भोक्तुं च यतते कर्म बध्नाति तन्मयम् ॥१७॥देहाद् देहसहस्राणि कर्मभिश्चाभिपद्यते ।तिर्यक्षु देववर्गेषु मानुषेषु च पक्षिषु ॥१८॥दैत्यदानवरक्षस्सु जायते च पुनः पुनः ।द्वन्द्वानेति च निर्द्वन्द्वस्तासु तास्वेव योनिषु ॥१९॥देवभोगान् साध्यभोगान् सिद्धभोगाननुत्तमान् ।ईश्वराणां तथा भोगानाप्तुं मथ्नाति सर्वशः ॥२०॥रोगे भोगे विहारे चोद्वेगे क्षये क्षतौ क्षते ।शरीरात्मा भ्रमभिन्नो ममेति चाभिमन्यते ॥२१॥भिन्नदेहेषु कुर्वन् वै राज्यं शेते विभिन्नके ।शयने गेन्दुके क्वापि बिले द्वैधे च कर्दमे ॥२२॥इष्टिकायां च गगने गर्ते च गह्वरे क्षितौ ।कण्टके भस्मनि क्षीणे जले फलेऽनिले नले ॥२३॥दधन् वस्त्राणि रम्याणि और्णानि कम्बलानि च ।तार्णानि राजसान्येव कार्दमेयानि चर्म च ॥२४॥यद्यद्योनौ प्रजायेत तत्तद्वस्त्रपरिग्रहम् ।भोजनानि विचित्राणि गन्धान्यगन्धकानि च ॥२५॥क्लेदशैवालभक्ष्याणि मन्यते स्वानि वैभ्रमात् ।विविधानि च कृच्छ्राणि भुंक्ते व्रतानि सिद्धये ॥२६॥कुरुते चाऽप्यभीष्टानि तान्यनुद्रवति प्रगः ।आत्मरूपगुणान् लाभान् विविधान् हृदयप्रियान् ॥२७॥धावते चानुभोगार्थं भोक्तव्यानि मयेति च ।ममत्वेनावृतो नित्यं तत्रैव परिवर्तते ॥२८॥सर्गकोटिसहस्रेषु त्रिषु लोकेषु तत्फलम् ।यथाकर्म समश्नाति मरणान्तासु मूर्तिषु ॥२९॥अशनारहितश्चापि साशनः समजायते ।निरिन्द्रियोऽपि मनुते सेन्द्रियं स्वं व्रणान्वितम् ॥३०॥अलिंगो लिंगवन्तं चाऽमृत्युर्मृत्युभयान्वितम् ।अदुःखो दुःखिनं चाप्यक्षरोऽपि मन्यते क्षरम् ॥३१॥एवं क्षराभिमानेन क्षरान्निर्याति नैव सः ।राजन्नज्ञानभावस्य नाऽस्यान्ते विद्यते क्वचित् ॥३२॥ऋते गुरूपनिषद्ं शास्त्राणां परिशीलनम् ।सत्संगं सत्कथालाभं हरेः सतां प्रसेवनम् ॥३३॥अनुग्रहं हृत्स्थहरेर्मुक्तानामनुवर्तनम् ।आराधनं हरेश्चापि ध्यानं तस्य परात्मनः ॥३४॥एतानि साधनान्येव दिव्यानि दिव्यदानि हि ।आत्मना युज्यते चात्मा परात्मा तत्र युज्यते ॥३५॥तदा पारं परं यात्यक्षरात्परस्थितं प्रभुम् ।यावद्धरिं श्रयेन्नैव सत्संगं नाचरेदपि ॥३६॥भक्तिं विधापयेन्नैवोपासनां न समाचरेत् ।प्रत्यक्षस्य हरेः सेवां गुरोः सेवां सतां तथा ॥३७॥यावत्कुर्यान्न वै तावत्संसारोऽस्य न लीयते ।सर्गकोटिसहस्राणि पतनान्तानि गच्छति ॥३८॥धाम्ना धामसहस्राणि मरणान्तानि याति च ।मायामायिकसेवाभिमायिकस्त्रिगुणो भवेत्। ॥३९॥मायासम्बन्धयोगेन मायागुणमयो भवेत् ।रत्यर्थमभिसम्बन्धादन्योन्यगुणसंश्रयात् ॥४०॥ऋतौ गर्भाश्रयाद् रूपं मायिकं लभते मुहुः ।एवं वै जायमानस्य मोक्षधर्मः कुतो भवेत् ॥४१॥तस्माद् ग्रन्थिं वासनाख्यां छित्वा भित्वा च संव्रजेत् ।तृष्णाक्षयं तपसैव कृत्वा ज्ञानेन वापि च ॥४२॥विवेकेन पृथक्कृत्वा मत्वाऽऽत्मानं ह्यमायिकम् ।ज्ञानप्रकाशमार्गेण गन्तव्यं सत्पथेन च ॥४३॥तदा गुणा वियुज्यन्ते निर्गुणाद्वै चिदात्मनः ।आगर्भादेव पुण्येन गुणभिन्नं समीक्षते ॥४४॥प्रह्लादवत्तथा मदालसाबाला इवापि च ।श्रीहरेः कृपया यद्वा दिव्यचक्षुः प्रकाशते ॥४५॥आत्माऽनात्मविवेकेन गुणहान्या निजं निजः ।परं पश्यति युक्तात्मा परात्परं हरिं तथा ॥४६॥एकाग्रता बलं तत्र ध्यानबलं च कारणम् ।विमुक्तः सर्वसंगेभ्यो ब्राह्मे मुहूर्तके स्थिरः ॥४७॥धारयेत्तु मनः कृष्णेऽपररात्रे हृदन्तरे ।बुद्ध्या वृत्तिं स्थिरीकृत्याऽप्यकंपो निश्चलो भवन् ॥४८॥हरिं पश्यति चान्तःस्थं तदा युक्तो भवत्ययम् ।युक्तस्य सर्वदा भानं परमेशपरायणम् ॥४९॥नान्यच्छृणोति चाघ्राति न रस्यति न पश्यति ।नैव स्पृशति गृह्णाति याति वक्ति च मेहति ॥५०॥न मनुते न च संकल्पयते मन्यते न च ।न बुद्ध्यति तदा चात्मा परात्मनि प्रमोदते ॥५१॥प्रकाशतेऽम्बरे सूर्यो निर्वाते दीपको यथा ।तं प्रपश्यन्ति मुनयो ब्रह्मयोनय ईश्वराः ॥५२॥तं परं परमात्मानं दृश्येतात्मदृशा तदा ।आत्मदृष्टिर्मता विद्या अविद्या मानसी दृशिः ॥५३॥अविद्या सर्गनाशाढ्या विद्या मुक्तिर्हि शाश्वती ।अव्यक्तं सृजतेऽविद्यां विद्या चात्माऽभिपद्यते ॥५४॥अविद्यया मृतिं यायाद् विद्ययाऽमृतमृच्छति ।विद्यालाभे त्वात्मनो वै विवेको बहुशाखवान् ॥५५॥कृतात्मनः प्रजायेत शृणु राजन् वदामि ते ।किं मया कृतमेतावत्कालेन मायिकेन वै ॥५६॥अज्ञेनेव झषेणात्र जालं समनुवर्तितम् ।जलादन्यन्न जानाति मत्स्यो जलाप्तजीवनः ॥५७॥तथा नाऽहं परं कंचिज्ज्ञातवान् भ्रमछादितः ।ममाचारे भ्रमे धिग्धिगस्तु मोहानुवर्तने ॥५८॥मोहानुवर्तनं प्राप्य नाऽवेदिषं परेश्वरम् ।माययाऽहं स्थितश्छन्नो वञ्चितः परमात्मनि ॥५९॥माययाऽहं वशीकृतः कालमेतं न बुद्धवान् ।वञ्चितोऽस्म्यनया यद्धि मोक्षमार्गं न लब्धवान् ॥६०॥न चाऽयमपराधोऽस्या अपराधो ममापि च ।योऽहमत्राऽवसं सक्तो लुब्धो विषयवासनः ॥६१॥अरूपश्चाप्यमूर्तश्च रूपमूर्तोऽभवं तया ।प्राकृतेन ममत्वेन धर्षितो वञ्चितस्ततः ॥६२॥ममकारविहीनेन मया ममत्वसञ्जुषा ।किं कृतं प्रक्षिप्य मोक्षं निरयं यत् प्रलब्धवान् ॥६३॥नानया मम कार्यं वै शिष्यते वारयोषिता ।आत्मानं बहुधा कृत्वा या मां युनक्ति वञ्चने ॥६४॥अथेदानीं प्रबुद्धोऽस्मि कृपया सद्गुरोर्हरेः ।अपेत्येमां श्रयाम्यद्य परमेशं गुरुं प्रभुम् ॥६५॥साम्यं यास्यामि देवेन नानया कूटयोषिता ।क्षेमं कृष्णेन यास्यामि व्रजिष्यामि परं पदम् ॥६६॥एवं कृत्वा विवेकोत्थं निर्णयं चात्मना ततः ।संगधर्मा हरेः संगाद्धरितुल्योऽभिपद्यते ॥६७॥एतदुक्तं परब्रह्म यस्मान्नावर्तते पुनः ।राजन् येन परं ज्ञानं प्राप्तं चेद्ं प्रमोक्षदम् ॥६८॥येन क्षराऽक्षरे ज्ञाते भयं तस्य न विद्यते ।श्रेयः प्रकुर्वतश्चात्र भयं चापि न यस्य ह ॥६९॥तस्य भयं परे लोके कदापि नैव जायते ।धर्मं सतां हितं पुंसां चाश्रयतो भयं न वै ॥७०॥स्वादुकामुककामानां वैतृष्ण्यं निर्भयं सदा ।ज्ञाने धर्मे परिचयं कुर्वतो न भयं क्वचित् ॥७१॥नित्यं वै बहुदातुश्च साधूनां सेविनः सदा ।सतां सत्कारशीलस्य भयं नैव भवेत् क्वचित् ॥७२॥न्यायमर्हाय दातुश्च हृदा शुद्धस्य वेदिनः ।विरक्तस्य विसंगस्य भयं नैव भवेत् क्वचित् ॥७३॥सर्वनिर्हृतदोषस्य सर्वप्राणिप्रसेविनः ।परोपकारशीलस्य भयं नैव भवेत् क्वचित् ॥७४॥तितिक्षोः सहमानस्य क्रोधहीनस्य देहिनः ।सरलस्य हितकर्तुर्भयं नैव प्रपद्यते ॥७५॥शुभाश्रयस्य दातुश्च संयमिनो दयाजुषः ।सर्वत्र मानभावस्य भयं नैव भवेत् क्वचित् ॥७६॥धृतात्मनः प्रशान्तस्य प्राज्ञस्य भक्तिचारिणः ।तपस्विनः सेवकस्य भयं नैव हि जायते ॥७७॥धर्माधर्मविमुक्तस्य सर्वसंशयनाशिनः ।जन्ममृत्युविमुक्तस्य परं श्रेयो हि निश्चितम् ॥७८॥पुण्यपापविमुक्तस्य ब्रह्मानुग्रहयोगिनः ।देहत्रयातिरिक्तस्य परं श्रेयो हि निश्चितम् ॥७९॥मूलप्रकृतितत्त्वे च विकाराणां च षोडशे ।प्रकृतिविकृतौ चापि यो बद्धः स मुच्यते ॥८०॥अन्यं देहं निजं चान्यं विद्याद् यः स न लिप्यते ।अन्यच्च मशकं विद्यादन्यदुदुम्बरं तथा ॥८१॥नवोदुम्बरयोगेन मशकस्तत्र लिप्यते ।अन्य च मत्स्यकं विद्यादन्यद् विद्याज्जलं तथा ॥८२॥न चापां संप्रसंगेन मत्स्यस्तत्र प्रलिप्यते ।अन्यश्चाग्निश्चुल्लिकान्या चुल्ल्याग्निर्नैव लिप्यते ॥८३॥जलं चान्यन् पद्ममन्यदद्भिः पद्मं न लिप्यते ।एतेषां सहवासश्च निवासो मिथ एव ह ॥८४॥तथाप्येतत्पृथग्भावं यः पश्यति स पश्यति ।एवं वै पश्यतस्तत्राश्रयनाशे न बन्धनम ॥८५॥तत्तज्जीवनपूराच्चेदधिकं जीवनं मिलेत् ।ततो जीवनमासाद्य सुखं तत्र प्रमोदते ॥८६॥परमात्मा जीवनं वै सर्वानन्दाऽमृतप्रदम् ।तमाश्रयं समासाद्य भयं मृत्युर्न नाशनम् ॥८७॥परंश्रेयः परंब्रह्म परामुक्तिः परं पदम् ।अजरामरलोकश्चाऽव्ययानन्दसुखाब्धिकम् ॥८८॥युक्तो मुक्तः सदा चात्र निजात्मनि समश्नुते ।नित्यप्रसादस्तृप्तात्मा सुखस्वपननिर्वृतः ॥८९॥मेघैर्यथा शिला नैव चलत्ययं तथाविधः ।न कम्पेत्तु कृतैर्घोषगर्जनागीतवादनैः ॥९०॥तैलपात्रं करे कृत्वा रज्ज्वा नटः प्रयाति च ।स्थाल्याऽपि संयतात्मा वै निर्भयः कम्पवर्जितः॥९१॥नाऽस्य पात्रात् स्रवते च तैलबिन्दुर्मनागपि ।प्रयाति चोत्तरप्रान्तं तया युक्तो जयं लभेत् ॥९२॥एतादृशो ब्रह्मयुक्तः पश्यति ब्रह्म चात्र ह ।परब्रह्म समासाद्य मुक्तो मोक्षमवाप्नुयात् ॥९३॥इत्येवं राधिके भूपं चोपदिश्य च लोमशः ।शान्तिं चावाप राजा च पुनः पप्रच्छ तत्सृतिम्॥९४॥यथा मुक्ता महात्मानो मुक्ता नैःश्रेयसार्थिनः ।प्रयान्ति चोत्क्रमणाद्यैस्तानि पप्रच्छ लोमिने ॥९५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायाम् आत्मनः क्षरमोचनं चाक्षरगमनं च कथं नेति प्रश्रः, तदुत्तरं तन्मोचनं तद्गमनं चेत्यादिनिरूपणनामा षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥२५६॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP