संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २०१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २०१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०१ Translation - भाषांतर श्रीराधिकोवाच-कान्त कान्त कृपासिन्धो राधापते रमापते ।अमरीणां प्रदेशेषु किं किं चकार माधवः ॥१॥क्व क्व कुत्र ययौ तस्थौ कैः कैः संसेवितो हरेः ।चमत्काराश्च के तत्र दर्शिताः परमात्मना ॥२॥प्रजाभिः किं कृतं तत्र प्राप्ते परेश्वरे प्रभौ ।काँस्कान् देशान् जगामाऽयं भगवान् भूतभावनः ॥३॥वदाऽमरीप्रदेशानां भगवच्चरितानि मे ।यानि यान्यभवँस्तत्र ब्रह्मप्रियानिषेवितुः ॥४॥बहुतृप्ता भवाम्यस्य भूत्वा नाथस्य सत्कथाः ।पुनस्तृषा भवत्येव श्रोतुं तच्चरितानि मे ॥५॥श्रीकृष्ण उवाच-शृणु त्वं राधिके यावच्चरित्राणि वदामि ते ।यज्ञः पूजा स्वागतादि समर्पणं निदेशनम् ॥६॥भ्रमणं मन्त्रदानं च दिव्यदर्शनकानि च ।मोक्षणं देहिनां तीर्थीकरणं सरितां तथा ॥७॥सरसां सागराणां च पावनीकरणं शुभम् ।कथयामि समासेन चमत्कारमयानि ते ॥८॥यज्ञं चकार भगवान् विनिपारसरस्तटे ।शेषकाष्ठवनासंगे विशाले भूतले शुभे ॥९॥वैष्णवं सर्वदेवानां तृप्तिदं प्राणिनामिह ।सृष्टित्रयस्थदेह्याद्या जडाश्च चेतनास्तथा ॥१०॥बालकृष्णस्य हस्ताभ्यां तृप्तिं ते शाश्वतीं ययुः ।केनाटकप्रदेशानां खण्डानां सार्वभौमकः ॥११॥राजा पंचसरसां वै रायकिन्नरनामकः ।दिविमानायनर्षिश्च साहाय्यं चक्रतुः क्रतौ ॥१२॥वैष्णवौ परमौ तौ द्वौ लालायनस्य संगमात् ।तुषितस्य प्रतापेन भक्तोत्तमौ बभूवतुः ॥१३॥लालायनस्य शिष्यो वै राजा ऋषेर्निदेशतः ।मंगलपत्रिकाः सम्प्रेषयामास मखार्थिनीः ॥१४॥लालायनस्य योगेन चामरीणां प्रदेशकाः ।वैष्णवीभिः प्रजाभिश्च वासिताः सन्ति धर्मिणः ॥१५॥खण्डे खण्डे च राजानो भवन्तश्च प्रजाजनाः ।वैष्णवत्वं चोपगता अहोभाग्यानि तानि नः ॥१६॥यो वै नारायणानां श्रीनारायणः परेश्वरः ।यद्भक्ताश्च वयं स्मोऽत्र स श्रीकृष्णनरायणः ॥१७॥मम राज्ये समागत्य यज्ञं वै वैष्णवं शुभम् ।करिष्यतीति सर्वैरागन्तव्यं तन्मखोत्सवे ॥१८॥भाद्रशुक्लस्य सप्तम्यां क्रत्वारंभो भविष्यति ।पञ्चम्यां परमात्मा स विमानादागमिष्यति ॥१९॥खण्डगैः राजभिश्चात्र संहितव्यं पुरा दिने ।स्वागतार्थं हरेः सर्वैः प्रजाजनैश्च सात्त्वतैः ॥२०॥सैन्यशोभासुसहितैः कर्तव्यं हरिमाननम् ।एकादश्यां समाप्तिश्च क्रतोरस्य भविष्यति ॥२१॥लालायनाऽऽज्ञया रायकिन्नरोऽहं लिखामि च ।उक्तैरनुक्तैः सर्वैरागन्तव्यं स्त्रीनरैरिह ॥२२॥इत्येवं चामरीणां वै प्रदेशेषु सुपत्रिकाः ।प्रेषयामास दूतैः स रायकिन्नरभूपतिः ॥२३॥प्राप्याऽऽमन्त्रणपत्राणि त्वाययुस्त्वरितं जनाः ।उत्सुका नरनार्याद्या दर्शनार्थं कुटुम्बिनः ॥२४॥विमानैर्वाहनैर्यानैराजग्मुश्चोपदायुताः ।स्वर्णरूप्यकधान्याद्यै रत्नहीरकसद्रसैः ॥२५॥यज्ञीयवस्तुभिर्योग्यैर्देयैः सह समाययुः ।कोटिशो मानवाः शेषकाष्ठावनानदीतटे ॥२६॥विनिपारसरोयोगे राजानोऽपि तदाऽभवन् ।सैन्यानि बहुरंगानि समायातानि भूभृताम् ॥२७॥स्वागतार्थं हरेश्चासन्नुपस्थिताः सुवेषिणः ।वाद्ययुक्ता ध्वजापताकिकावावटशोभिताः ॥२८॥हेतिहस्ता गजवाहा अश्ववाहोष्ट्रवाहिनः ।दशयोजनविस्तारे क्लृप्तनूतनपत्तने ॥२९॥सम्मर्दोऽभूत्तदा शेषकाष्ठवनानदीतटे ।सरस्तीरेऽनुशयिनां कोट्यब्जनरयोषिताम् ॥३०॥स्वर्गवद्भ्राजते यज्ञपत्तनं नूतनं तदा ।पत्तनं तद्धरिकृष्णोऽलोकयत्त्वम्बरान्मुहुः ॥३१॥मण्डपार्थं समालोक्य भूमिं सरसोरान्तरे ।दिविमानायनर्ष्युक्तदिशां वीक्ष्य समस्थलीम् ॥३२॥चक्रं विधाय सर्वोर्ध्वेऽवातारयद्विमानकम् ।वादित्रनिनदाश्चासन्नमरीणां च गीतिकाः ॥३३॥जयध्वानाः प्रजानां च तदाऽऽसन् व्योमयोगिनः ।तूपशब्दा यन्त्ररवा मानने त्वभवन् हरेः ॥३४॥श्रेष्ठा दश नृपस्तत्र सार्वभौमा ह्युपस्थिताः ।गृहीत्वा चोपदाः स्वर्णपात्रेषु सप्रधानकाः॥३५॥रायकिन्नरनृपतिः रायरोकीश्वरो नृपः ।रायरणजिद्भूपश्च रायवाकक्षको नृपः ॥३६॥रायमारीशभूपश्च रायबालेश्वरो नृपः ।रायलम्बारभूपश्च रायनवार्कभूपतिः ॥३७॥रायहण्डेशभूपश्च रायकूपेशभूपतिः ।एते सैन्यैः सुयुक्ताश्च स्वागतार्थं हरेस्तदा ॥३८॥विमानैस्तत्र चागत्य प्रागेव समुपस्थिताः ।हस्त्यश्वरथवाहाद्यैः शृंगारितसुविग्रहैः ।सैन्यं स्वागतकार्यार्थं तदाऽभूत्तु व्यवस्थितम् ॥३९॥वादका नीतिकर्तारश्चाग्निरञ्जनवेषिणः ।जलवाद्यविधर्तारो नृत्यवाद्यप्रशब्दिनः ॥४०॥गलवाद्यप्रभावज्ञा मयूरवंशिवाद्यकाः ।तारवाद्यातिकुशलाः पटहध्वानकारिणः ॥४१॥सहशारीरचेष्टाकाः सशस्त्रा नमनार्थिनः ।वेत्रधरा गणवेषा व्याघ्रवेषाश्च भाल्लुकाः ॥४२॥पिंगवेषाः परीवेषा अवधूतस्वरूपिणः ।शूलचक्रधराश्चापि चर्मखड्गधरास्तथा ॥७३॥तांसकैः करतालैश्च विगुलैर्लक्षिता अपि ।शंखिनो वज्रिणश्चापि सुकन्यावेषिणस्तथा ॥४४॥जटावेषधराश्चापि योद्धृवेषातिशोभनाः ।अर्जुनाम्बरयुक्ताश्च रक्ताम्बराः प्रचित्रिणः ॥४५॥सुछत्रैर्व्यजनैश्चापि चामरैर्गुच्छकैस्तथा ।वर्धयित्वा दर्पणैश्च स्वागतार्थं ह्युपस्थिताः ॥४६॥अमर्यो योषितस्तत्र पाण्डुराभाः सुयौवनाः ।कन्यका रक्तकाधराः पूरवेगातिसंभृताः ॥४७॥नीलपीतहरिद्वर्णवेषाः स्वर्णविभूषणाः ।किंकिणीजालमालाद्यैरम्बरैरतिशोभिताः ॥४८॥धृतस्थाला हरेरर्चनार्थं लाजाक्षतान्विताः ।कल्हारपद्मकुमुदैः कादम्बपारिजातकैः ॥४९॥कुन्दसाहस्रपत्रैश्च स्थलपद्मैः सुकेसरैः ।चाम्पकैः कामलैर्हारैः शेखरैः स्रग्भिरन्विताः ॥५०॥कुंकुमवाटिकायुक्ताः पूजार्हचन्दनान्विताः ।अमर्यस्तत्र चायाता लक्षशो दिव्ययोषितः ॥५१॥सहस्रशो राजयोषा असंख्याताः प्रजास्त्रियः ।केनाटकाः सर्वदेशा मंगलामन्त्रणैस्तदा ॥५२॥सम्राजो मन्दिरे रायकिन्नरस्य मखोत्तमे ।आयास्यतो बालकृष्णहरेर्दर्शनलब्धये ॥५३॥आबालवृद्धा मनुजाः कोट्यर्बुदाब्जसंख्यकाः ।आययुस्ते स्वागतार्थ हरेः समुपतस्थिरे ॥५४॥शेषकाष्ठवनानद्या विनिपारसरोवरे ।संगमस्याऽतिदीर्घ भूतले समुपतस्थिरे ॥५५॥आगन्तुकानां वासार्हं नगरं बहुयोजनम् ।मखसेवाभिधं व्यद्योतत स्वर्गमिवाऽपरम् ॥५६॥मणिसेवानगर्याः सन्निधौ पूर्वं सरोवरात् ।राजदर्शितमार्गेण भगवान् कृष्णवल्लभः ॥५७॥विमानं सूर्यसदृशं चावातारयदम्बरात् ।द्योतयत्तु दिशः सर्वाः स्वर्णवर्णमशोभत ॥५८॥भूमौ स्थैर्य समवाप्य चन्द्रतुल्यं व्यदृश्यत ।अन्यान्यपि विमानानि चावतेरुस्ततोऽम्बरात् ॥५९॥आकृतिग्राहकयन्त्रैः कुशला जगृहुः कृतिम् ।राजानस्तं त्वेकसूत्रे तिष्ठन्तश्चक्रुरानतिम् ॥६०॥सैन्यानि नेमिरे देहैर्वाद्यैर्नृत्यकलादिभिः ।सम्राजा सहिताः सर्वे नृपास्तन्निकटं ययुः ॥६१॥ईशानो लोमशश्चोभौ विमानाग्रं प्रजग्मतुः ।वृकायनो नीलकर्णश्चोभौ पश्चात् समागतौ ॥६२॥द्वारपालाः पार्षदाश्चांऽगणे तस्थुः सवेत्रकाः ।निःश्रेणी समधिप्राप्य राजानस्तस्थुरीक्षकाः ॥६३॥तावद्धरिर्बालकृष्णः पितृभ्यां सहितो बहिः ।विमाने त्वाययौ चाग्रे सुभास्वरे तु गोपुरे ॥६४॥कोटिकोट्यर्कचन्द्राग्निविद्युद्भास्वरविग्रहः ।तोरणाऽधःस्थितं चञ्चद्विद्युदाभां तु वल्लभीम् ॥६५॥करेण च मनाक् स्पृष्ट्वा मन्दहास्यं मनोहरम् ।श्रीकृष्णं तं बालकृष्णं रायकिन्नरभूपतिः ॥६६॥प्रणम्य गन्धविपुलां मालतीपुष्पमालिकाम् ।चित्ररंगां ददौ कण्ठे रत्नहारं ददौ ततः ॥६७॥गुच्छं पौष्पं ददौ हस्ते चन्दनार्क तु भालके ।ददौ सुगन्धसाराणि पात्रेण सन्धृताम्बरे ॥६८॥पादयोश्चाक्षतान् स्वर्णमयान् मूर्ध्नि सुतन्दुलान् ।पुष्पाणि विग्रहे राजा चिक्षेपार्हणकर्मणा ॥६९॥जलं दुग्धं ददौ ताम्बूलकं फलं च सन्निधौ ।कृताञ्जलिः प्रार्थयच्च मखार्थक्ष्मां विलोकितुम् ॥७०॥हरिः शनैः स्वर्णसोपानकैरवाततार ह ।ततो दत्तासने सैंहे क्षणं वा निषसाद ह ॥७१॥रायरोकीश्वरः पुष्पहारै रत्नैरपूजयत् ।रायरणजिद्भूपश्च मण्याद्यैस्तमपूजयत् ॥७२॥रायवाकक्षको राजा स्वर्णाद्यैस्तमपूजयत् ।रायमारीशभूपोऽपि रत्नाद्यैस्तमपूजयत् ॥७३॥रायबालेश्वरो राजा हीरकैस्तमपूजयत् ।रायलम्बारभूपश्च धनाद्यैस्तमपूजयत् ॥७४॥रायनवार्कभूपश्च माणिक्यैस्तमपूजयत् ।रायहण्डेशभूपश्च मुक्ताभिस्तमपूजयत् ॥७५॥रायकूपेशभूपश्च राजतैस्तमपूजयत् ।अथ प्रधानाः सर्वेऽपि पुपूजुर्भूषणादिभिः ॥७६॥श्रेष्ठिनोऽपि प्रभुमानर्चुश्च धनान्नसद्रसैः ।हव्यकव्यादिभिश्चापि समिद्भिर्बहुवस्तुभिः ॥७७॥पुपूजुश्च प्रजावर्गाः श्रीपतिं पुरुषोत्तमम् ।पूजास्वागतमातः श्रीहरिः पप्रच्छ ताँस्तदा ॥७८॥अनामयं सुकुशलं क्षेमं योगं सुखादिकम् ।राजाद्याः सम्प्रणम्यैव प्राहुस्ते कृपया सुखम् ॥७९॥सर्वविधं विद्यतेऽत्र दिनेऽद्य तु महत्सुखम् ।स्वर्णसूर्योदयस्त्वद्य जातो नस्ते कृपा यतः ॥८०॥प्राप्तोऽद्य शाश्वतो लाभो यद्भवद्दर्शनं त्विह ।सिद्धाश्चाद्य चतुर्वगाश्चत्वारश्च पुमर्थकाः ॥८१॥राज्यभारफलं त्वद्य लब्धं लब्धव्यलाभतः ।श्रीः सर्वा चेन्द्रपदवीप्रदात्री नो गृहेऽद्य वै ॥८२॥पुण्यं त्वक्षयमद्यैवाऽऽसादित तव दर्शनात् ।पावना नोऽद्य देशा वै भवदागमनात् प्रभो ॥८३॥सम्पदः सार्थकास्त्वद्य भवता विनियोजिताः ।सत्कार्ये सफलाः सर्वा लक्ष्मम्बोऽपि विविधा ध्रुवाः ॥८४॥मानवाः कृतकृत्याश्च वय माधवदर्शनात् ।नरा नार्यो बालबाला वृद्धाः पुण्यतमा ननु ॥८९॥पशवो वृक्षवल्ल्याद्या बहुपुण्या दिनेऽद्य वै ।पक्षिणो जलगाश्चापि भूमिगा वनिनोऽपि च ॥८६॥यदत्र भवतां पादौ स्पृशतो भूतलादिकम् ।भूरियं बहुभाग्या च धामतुल्या हि मोदते ॥८७॥जाताऽद्य पुलकाढ्या सा गन्धदानैर्विशेषतः ।क्षा द्र्रुमास्तृगस्तम्बा धन्यभाग्या दिनेऽद्य वै ॥८८॥यदत्र भवतां पादरजःपूता भवन्ति ते ।धन्याः पिपीलिकाद्याश्च भवत्प्रसादभागिनः ॥८९॥धन्या जनपदास्त्वेते यत्र नारायणागमः ।प्राकट्यं मोक्षदं त्वद्य प्रावर्तत हरेस्तव ॥९०॥धनं धान्यं राज्यमृद्धिः पुत्राः पुरो गजादयः ।यानवाहनसमृद्धिः सर्वं सफलमेव यत् ॥९१॥तवागमेन भगवन् किं किं न्यूनं भवेन्ननु ।सर्वं नः पूर्णमेवाऽस्ति हरेर्लाभो हि दुर्लभः ॥९२॥यज्ञं कृत्वा पावयाऽस्मान् कल्याणं कुरु शाश्वतम् ।सदा देशेऽत्र वसतिं तवेच्छामोऽनुगास्तव ॥९३॥इत्युक्त्वा तु नमस्कारं चक्रे राजा तु किन्नटः ।अन्ये नृपाः प्रणेमुश्च ततो वै भगवान् स्वयम् ॥९४॥समुत्थाय क्षितिं योग्यां द्रष्टुं चचार चाभितः ।शेषकाष्ठवनानद्याः संगमाद् दक्षिणे स्थले ॥९५॥बहुयोजनविस्तारे मण्डपार्हां क्षितिं शुभाम् ।वीक्ष्य चाज्ञापयामास राजानं मण्डपाय वै ॥९६॥राजदूता विष्णुदूताः शिवदूतास्तथाऽपरे ।स्मृतास्तत्राऽऽययुः शीघ्रं विश्वकर्मा समाययौ ॥९७॥तानाज्ञाप्य नवकुण्डान् कर्तुं श्रेष्ठं च मण्डपम् ।आप्रातः सर्वमेवैतद् यथा स्यात् समुपस्थितम् ॥९८॥हरिर्निवाससौधं च ययौ मध्याह्नके ततः ।भोजनादि चकाराऽथ विशश्राम ससार्थकः ॥९९॥सर्वे ते मण्डपं चक्रुः रात्रावेव सुशोभनम् ।कुण्डवेदीमहावेदीशोभितं कलशगृहैः ॥१००॥वस्तुगृहैर्वह्निशालाभिश्च युक्तं मनोहरम् ।मणिसेवानगर्यन्तं मण्डपं संविधाय च ॥१०१॥पार्षदा यज्ञसमिधश्चाहर्तुं परितो गताः ।ऋषयः सर्वगांगेयास्तथा लोमशशिष्यकाः ॥१०२॥यज्ञसंभारकान् चक्रुर्देवा देव्यश्च तन्मयाः ।षष्ठ्यां कृताह्निकः कृष्णो महीमानपुरीं नवाम् ॥१०३॥वीक्षितुं प्रययौ हस्तिपृष्ठासनो नृपैर्युतः ।पाकशाला रसशालाः स्नानशाला महायताः ॥१०४॥स्वापशालाः शान्तिशाला हव्यशाला व्यलोकयत् ।राजभिः पूरिताः पात्रशाला महानसानि च१०५॥व्यलोकयत्सुसामग्रीसंभृताः सर्वसंविधाः ।हरिः सस्मार वै प्रातर्देवेन्द्रं चाऽमृतान्वितम् ॥१०६॥शीघ्रं समाययौ तत्र महेन्द्रोऽमृतसंयुतः ।अमृतस्य ह्रदस्तत्र परितोऽक्षयतृप्तिकृत् ॥१०७॥स्मृताः कल्पलतास्तत्र त्वाययुः फलसंयुताः ।फलानां पर्वतास्ताभिः कृता यज्ञार्थमेव ह ॥१०८॥स्मृताः पुष्पकणदाश्च वृक्षसस्यद्रुमादयः ।कल्पवृक्षाः कणपुष्पादीनां वै पर्वतान् व्यधुः ॥१०९॥आगताः कामदुग्धध्राः स्मृता वै निजधामतः ।घृतकुल्या दधिकुल्याः पयःकुल्याश्च धेनुभिः ॥११०॥संभृता हव्यशालासु त्वक्षया द्रव्यपूरिताः ।अन्नपूर्णा सती देवी शिवा लक्ष्मीस्तदा स्मृता ॥१११॥आगतास्ताः पर्वताँश्च चक्रुः पक्वान्नकल्पितान् ।पृथ्वी मूर्ता समागत्य मिष्टं शर्करपर्वतम् ॥११२॥व्यधाद्धरेर्वचनात् सा जलदेवो रसान् व्यधात् ।ओषधयः समस्ताश्च वेषवारादिकान् व्यूधुः ॥११३॥ब्रह्मा स्वयं स्मृतस्तत्र समायातश्चतुर्मुखः ।निर्ममे योग्यसंवासाँस्तथोपकरणानि च ॥११४॥कुबेरो दक्षिणार्थं च स्वर्णरूप्यादिकं न्यधात् ।एवमन्ये राष्ट्रपाला लोकपालाः प्रजेश्वराः ॥११५॥संस्मृतास्त्वाययुः शीघ्रं पूर्तये हव्यकव्ययोः ।षष्ठ्यां मध्याह्नके जाते सर्वं सम्पूर्णमूर्जितम् ॥११६॥सुसम्पन्नं समभूच्च न्यूनं किञ्चिन्न विद्यते ।कोटिशो मानवान् राजा किन्नरो मिष्टभोजनैः ॥११७॥तर्पयामास बहुधा समस्ताँस्तान्प्रजाजनान् ।हरिः कुटुम्बसहितो महर्षिमण्डलान्वितः ॥११८॥निजसार्थयुतस्तत्र जग्राह भोजनानि वै ।ततो राजाऽऽर्थयत् कृष्णं रायकिन्नरभूपतिः ॥११९॥राधिके स्वालये कृष्णं त्वागन्तुं सैन्यसत्कृतम् ।नगरे भ्रमितुं चापि कृष्ण ओमाह तत्क्षणम् ॥१२०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने केनाटकेषु क्रतोर्मंगलपत्रिकाप्रेषणम् । समागतहरेर्दशभूपादिकृतं स्वागतम्, कुशलप्रश्नादिकम्, मण्डपादिनिर्माणाज्ञा, भोजनादिकं क्रतुपकरण-संचयादीत्यादिनिरूपणनामैकाधिकद्विशततमोऽध्यायः ॥२०१॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP