संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ६३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ६३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६३ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके श्रीमद्बालकृष्णस्य चेष्टितम् ।भक्तरक्षाकरं चान्यदष्टमेऽब्दे समुद्रजम् ॥१॥रेवातटे तु नगरं चन्द्रोदयाह्वयं शुभम् ।सर्वभक्ताश्रितं धर्मपरायणप्रजाश्रितम् ॥२॥आसीत्तत्र महाश्रेष्ठी धनधान्यसमृद्धिमान् ।वसुमेध इतिनाम्ना वैष्णवो मनसा शुचिः ॥३॥सतां सेवापरो नित्यं देवपूजां करोति च ।सूर्यं विष्णुं गणेशं च सतीं शंभुं श्रियं हरिम् ॥४॥प्रातः स्नात्वा चोपचारैः सम्पूजयति सादरम् ।विभज्य भुंक्ते सततं दानं ददाति नित्यशः ॥५॥गवां सेवां सतां सेवां पितृतृप्तिं करोति च ।व्यापारः पण्यविषयो बहुलाभोऽस्य वर्धते ॥६॥पुत्राः पञ्च च कुशलाः पत्नी धर्मपरायणाः ।सुशीलाख्या चैकभुक्तं व्रतं चरति सर्वदा ॥७॥शालग्रामं समभ्यर्च्य तुलसीदलमिश्रितम् ।पतिपादोदकस्पृष्टं भुंक्ते भोज्यं प्रसादजम् ॥८॥पुत्राश्च वैष्णवाः सर्वे मालाध्यानजपार्थिनः ।मोक्षभिलाषुकाः सम्यक् कृतशास्त्रकथाश्रवाः ॥९॥अथ तत्र महर्षिश्च शतानन्दाभिधोऽभवत् ।उद्दालकस्य पुत्रः स वने कृताश्रमोऽभवत् ॥१०॥शतानन्दो नातिदूरे चन्द्रोदयस्य सन्निधौ ।विप्राश्रमे सदा सायं समायाति यदृच्छया ॥११॥लक्ष्मीनारायणसंहितां च वाचयति प्रगे ।कथां कृत्वा गृहीत्वा च भिक्षां याति निजाश्रमम् ॥१२॥ग्रामंजनाः समायान्ति कथां शृण्वन्ति नित्यशः ।तत्र श्रुतं तु सौराष्ट्रे चाश्वपट्टसरोवरे ॥१३॥कुंकुमवापिकाक्षेत्रे कम्भराश्रीगृहे हरिः ।अनादिश्रीकृष्णनारायणो गोपालनन्दनः ॥१४॥वर्तते बालरूपो वै भगवान् पुरुषोत्तमः ।शंखचक्रगदापद्ममीनध्वजत्रिशूलवान् ॥१५॥धनुःस्वस्तिकवज्रादिचिह्नचिह्नितहस्तवान् ।प्रत्यक्षो वर्तते सर्वेश्वरः श्रीपतिरव्ययः ॥१६॥कोटिकोट्यब्जगोपीनां प्राणेशः परमेश्वरः ।श्रुत्वैवं च कथां चित्रां श्रुत्वा श्रीसोमतीर्थकम् ॥१७॥श्रूत्वा स्वर्णपुरीं पुण्यां चमत्कारपुरं तथा ।तीर्थार्थं कृतसंकल्पः सकुटुम्बः सहानुगः ॥१८॥अन्नवारिफलकन्दकणादिकृतसंग्रहः ।विशालां नावमारुह्य धनधान्यसमृद्धिमान् ॥१९॥त्रिंशद्व्यक्तिकृतसार्थो नर्मदासलिलानुगः ।नाविकैश्चाल्यमानायां नौकायां स स्थितो ययौ ॥२०॥यात्रार्थं त्वाययौ नावा रेवासागरसंगमम् ।कृष्णनारायण विष्णो परब्रह्म परेश्वर ॥२१॥कीर्तयति सततं ससार्थो जपति मालिकाम् ।माघे विश्रम्य रेवायाः संगे सस्नौ सहाऽनुगैः ॥२२॥ददौ दानानि वस्त्रान्नस्वर्णरूप्याणि भावतः ।अथ नावं समारुह्याऽखातं वार्धेः समागमत् ॥२३॥किंनदीसंगमे स्नात्वाऽखातमुल्लंघ्य चाययौ ।शत्रुञ्जिताब्धिसंयोगे सस्नौ तु विधिनाऽत्र सः ॥२४॥तस्माद् ययौ गोपनाथं तीर्थं हरिहराश्रितम् ।ततो मूलां ययौ स्वर्णपुरीं कृष्णनरायणीम् ॥२५॥सोमनाथं ययौ स्नात्वा सरस्वत्यब्धिसंगमे ।हिरण्यासंगमे स्नात्वा कृत्वा तीर्थविधिं ततः ॥२६॥मकरालयतीर्थं च कृत्वा भद्राब्धिसंगमम् ।ययौ तीर्थविधिं कृत्वा कृष्णस्वर्णपुरीं ययौ ॥२७॥द्वीपं दृष्ट्वा ततः कच्छे नारायणसरो ययौ ।परावृत्य च नौकायां चमत्कारपुरं ययौ ॥२८॥ततस्त्वखातमार्गेण परावृत्य च सागरे ।स्वर्णपुरीं परित्यज्य जलमार्गेण गच्छति ॥२९॥सोमनाथं तदा मध्ये सामुद्रं विघ्नमागमत् ।झंझावातोऽतिवेगाच्च ववौ क्षोभकरो महान् ॥३०॥सामुद्रलशोभश्च प्रालेय इव चाभवत् ।नौः समाकृष्यते मध्ये प्रतिकूलेन वायुना ॥३१॥तरंगैर् वीचिकल्लोलैस्तालवृक्षोच्छ्रयैस्तदा ।बह्व्यो नौका निमग्नाश्च भग्ना नष्टाश्च मानवाः ॥३२॥वसुमेधस्य नौकाऽपि समुत्पतति वक्रगा ।पार्श्वयोः पतमाना च कल्लोलैर्जलपूरिता ॥३३॥अभवत् नाविकाश्चाप्यशक्ता वै रक्षणेऽभवन् ।वसुमेधो वणिग्वर्यस्तत्पत्नी च सुतादयः ॥३४॥सस्मरुः श्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।शोकं चक्रुश्च बहुधा यदर्थं वयमागताः ॥३५॥श्रुत्वा शतानन्दकथाद्वारा तं बालकृष्णकम् ।अविलोक्य मृताः स्याम सामुद्रेऽत्र जलेऽबलाः ॥३६॥नौकायां पूर्यते वारि निष्कासाऽधिकमत्यति ।वायुना हन्यते चापि जलेन ताड्यते मुहुः ॥३७॥पार्श्वभावेन चावर्तान् करोति जलताडिता ।इमाश्चान्या जननावो व्यापारिणो लयं गताः ॥३८॥अस्मन्नौकाऽपि सान्निध्ये तलवासं समिच्छति ।स्मरन्तु तं प्रभुं कृष्णनारायणं परेश्वरम् ॥३९॥यदर्थं वयमायाताः स नो रक्षतु हृच्छ्रयः ।नौकाव्याप्तः स भगवान् नौका स्थिरीकरोतु च ॥४०॥झंझावातगतः कृष्णो वातं शामयतु क्षणात् ।जलस्थः श्रीबालकृष्णो जलस्थैर्यं करोतु च ॥४१॥यद्वा चेन्मृत्युमापन्नान् स्वात्मानं दर्शयत्विह ।सर्वथा वै वयं नाथ ते स्मः शरणमागताः ॥४२॥अनादिश्रीकृष्णनारायण गोपालनन्दन ।कम्भराश्रीकुमार त्वं रक्ष गोपीपते प्रभो ॥४३॥एवं कृष्णपराः सर्वे हतोत्साहाः सुदुःखिताः ।निराशा जीवने जाता नौकायां वायुवेगतः ॥४४॥जलं प्रपूरितं भूरि वायुताडनवक्रिता ।गता जलतलं तूर्णं तावच्छ्रीभगवान् स्वयम् ॥४५॥द्रागेव तत्र चायातस्तले कूर्मस्वरूपतः ।पृष्ठे चकार नौका तां जलोपरि समानयत् ॥४६॥द्वितीयेन च रूपेण नौकावाहोऽभवत् प्रभुः ।अन्यैर्दशस्वरूपैश्च जलनिष्कासकोऽभवत् ॥४७॥अन्यैर्विंशतिरूपैश्च जले मग्नाँस्तु मानवान् ।उद्धृत्योद्धृत्य च नौकामध्ये सर्वानवासृजत् ॥४८॥नौकागतानि वस्तूनि जलान्तःपतितानि च ।यानि तान्यपि हस्तैश्चोद्धृत्य नावि समाक्षिपत् ॥४९॥झंझावातश्च कृपया रुद्धो जलं स्थिरं ह्यभूत् ।नौका स्थिराऽभवच्चाऽपि भक्ता भगवताऽविताः ॥५०॥झन्झावातेन ये चान्ये भक्ता नौकान्तरेऽपि च ।आसन् मग्नाश्च सलिले तानुद्दधार लीलया ॥५१॥एवं रक्षां स्वभक्तानां कृत्वा भूत्वैकरूपधृक् ।किशोरः श्रीकृष्णनारायणस्तत्र तिरोऽभवत् ॥५२॥नाविकैः सा शनैः शनैश्चालिता त्वग्रगा ययौ ।प्राप्ता श्रीसोमनाथं सा तत्र पक्षस्थिरीकृता ॥५३॥नौवाहाँस्तत्र संस्थाप्य वसुमेधः ससार्थकः ।शकटैस्त्वरितो भूत्वा प्राचीं सरस्वतीं ययौ ॥५४॥तत्र स्नात्वा पितृदेवाँस्तर्पयित्वा ततः परम् ।अर्कतीर्थं तथा बलिमखस्थलं ययौ शुभम् ॥५५॥ततश्चाग्रे वामनस्य स्थलीं वस्त्रापथं तथा।स्वर्णरेखाकृतस्नानो ययौ राष्ट्रसरोवरम् ॥५६॥वटस्थलीं ययौ पश्चाद् ययौ कुंकुमवापिकाम् ।दूराद् विलोक्य तत्क्षेत्रं चकार भुवि दण्डवत् ॥५७॥अश्वपट्टसरो गत्वा स्नात्वा तीर्थविधिं तथा ।कृत्वा प्रदक्षिणं सर्वतीर्थानि सम्प्रणम्य च ॥५८॥महासौधं ययौ द्रष्टुं बालकृष्णं परेश्वरम् ।कानके मन्दिरे दिव्यसिंहासनगतं हरिम् ॥५९॥मध्यसूर्यप्रभं चन्द्राननं शीतलकान्तिकम् ।रूपाऽनुरूपावयवं वह्निशुद्धांशुकान्वितम् ॥६०॥सौवर्णमुकुटं रत्नहीरमौक्तिकमालिनम् ।देवमानवगान्धर्वैः स्तुतं संपूजितं जनैः ॥६१॥नत्वा तुष्टाव च प्रेम्णाकुटुम्बसहितो वसुः ।नेत्राश्रूणि प्रमुक्त्वा विह्वलो गद्गदया गिरा ॥६२॥बहुजन्माऽर्जितपुण्यैः प्राप्यते पुण्यशालिभिः ।यः परेशः स मयाऽऽप्तो रक्ष मां परमेश्वर ॥६३॥योगिभिर्योगयत्नैश्च प्राप्यते बहुवत्सरैः ।स मयाऽद्य प्रभुर्लब्धो रक्ष मां परमेश्वर ॥६४॥भक्तैः सम्प्राप्यते भक्त्या सर्वस्वार्पणया तु यः ।सोऽयं श्रीकान्तभगवान् मयाऽऽप्तो रक्ष मां हरे ॥६५॥तपतां चिरकालेऽपि कष्टसाध्यो हरिस्तु यः ।प्राप्तो मयाऽद्य जीवेशो रक्ष मां पुरुषोत्तम ॥६६॥तारितोऽब्धौ प्रमज्जन् वै कुटुम्बसहितस्त्वया ।समुत्तारय देवेश संसाराब्धेश्च मां पुनः ॥६७॥त्वां विना जीवनं नास्ति सन्ति प्राणा न शाश्वताः ।त्वां विना सम्पदः सर्वा विपदः सम्भवन्ति वै ॥६८॥त्वं हृदि त्वं चक्षुषोश्च त्वमात्मनि विराजसे ।त्वं कुटुम्बे च नौकायां जले स्थले विराजसे ॥६९॥अद्य मे सफलं जन्म सफलं तीर्थचारणम् ।सफलं मे कुटुम्बं च सर्वं सफलतां गतम् ॥७०॥यदर्थं तु गृहं त्यक्त्वा निर्गतस्तीर्थवाञ्च्छया ।तानि तीर्थानि सर्वाणि निर्वृत्तान्यत्र ते पदे ॥७१॥प्राप्तं प्राप्तव्यमेवाऽत्र कर्तव्यं नाऽवशिष्यते ।रक्ष नाथ कृपासिन्धो तवाऽस्मि शरणं गतः ॥७२॥इत्युक्त्वा पूजयामास पपात चरणे मुहुः ।रत्नभूषाम्बराद्यैश्च सुगन्धचन्दनादिभिः ॥७३॥कुटुम्बं तस्य सर्वं च पूजयामास तं हरिम् ।तिष्टंश्च श्रीहरेरग्रे नीराजनमथाऽकरोत् ॥७४॥श्रीहरेराज्ञया मिष्टं भोज्यं फलजलादिकम् ।अर्पयामास च तत्र स्थाल्यां त्वग्रे हरेस्ततः ॥७५॥भगवान् बुभुजे प्रेम्णा प्रसादं शेषममृतम् ।ददौ च वसुमेधाय कुटुम्बिनेऽत्यनुग्रहात् ॥७६॥वसुमेधादयः सर्वे बुभुजिरे पपुर्जलम् ।न्यूषुर्विश्रान्तिसौधे च दत्ते भगवता ततः ॥७७॥एवं ते दशदिवसान् यापयामासुरेव तु ।एकादशे दिने प्रातर्वसुमेधस्तथा प्रिया ॥७८॥सुशीला प्रातरेवैनमपश्यतां नरायणम् ।स्वप्ने विमानमारुह्य धाम नेतुं समागतम् ॥७९॥अथाऽसौ धर्ममेधस्तु सुशीला च द्रुतं तदा ।पुत्रादींश्च समुद्बोध्य स्वाप्नं वृत्तान्तमुत्तमम् ॥८०॥तेभ्योऽकथयतां सर्वं मोक्षलाभात्मसूचकम् ।पुत्रा हर्षं परं प्राप्ताः स्नात्वा सम्पूज्य देवताः ॥८१॥तूर्णं ययुश्च ते सर्वे बालकृष्णालयं तदा ।हरिस्तेभ्यो ददौ नैजं दर्शनं निजगाद तान् ॥८२॥लोमशाद्वै प्रगृह्णन्तु मन्त्रं दीक्षां स्रजं तथा ।ततोऽद्य सायं पित्रोर्वो मोक्षगतिर्भविष्यति ॥८३॥इत्युक्तास्ते सत्वरं च ययुः श्रीलोमशाश्रमम् ।जगृहुश्च मनुं दीक्षां वैष्णवीं तौलसीं स्रजम् ॥८४॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।गृहीत्वा च मनुं भोज्यं दानं बहुविधं ददुः ॥८५॥आययुश्च निजावासं भेजुः श्रीबालकृष्णकम् ।अपराह्णे ध्यानमग्नौ त्वभूतां पितरौ तदा ॥८६॥पुत्राः क्षमामयाचन्त सेवां चक्रुर्यथोचिताम् ।क्षणान्तरे समायातं विमानं दिव्यपार्षदम् ॥८७॥वसुमेधं सुशीलां च दिव्यदेहौ विधाय च ।नीतवच्च ब्रह्मधाम पुत्रा धन्यं व्यधुस्तदा ॥८८॥और्ध्वदैहिकमेवास्य कृतवन्तः समाहिताः ।एवं मोक्षगतिं प्राप्तौ भक्तौ नारायणाश्रितौ ॥८९॥पुत्राश्चक्रुः श्राद्धकर्म तथाऽन्यच्च यथोचितम् ।ययुः शकटमार्गेण यत्र नौका प्रवर्तते ॥९०॥नावमारुह्य च सर्वे नैजं देशं ययुर्हि ते ।प्राप्य देशं चमत्कारं प्राहुर्नारायणस्य वै ॥९१॥श्रुत्वा जना हरिं भेजुः साक्षाच्छ्रीपुरुषोत्तमम् ।एवं ते कथितं राधे चरित्रं पावनं हरेः ॥९२॥भुक्तिमुक्तिप्रदं श्रोतुर्वक्तुः रक्षाकरं सदा ।तीर्थफलप्रदं स्वर्गप्रदं सम्पत्प्रदं शुभम् ॥९३॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने चन्द्रोदयपत्तनवासिनो वसुमेधश्रेष्ठिनो नर्मदाद्वारा नौकया तीर्थार्थं सौराष्ट्रसमुद्रे यातस्य झंझावातेन जलमग्नस्य सकुटुम्बस्योत्तारणं श्रीकृष्णनारायणेन कृतं, मुक्तिदानं चेत्यादिनिरूपणनामा त्रिषष्टितमोऽध्यायः ॥६३॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP