संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ९० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ९० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९० Translation - भाषांतर श्रीकृष्ण उवाच-शृणु राधे चमत्कारं कृष्णनारायणस्य वै ।अन्यं ते संकथयामि लोकरक्षाकरं परम् ॥१॥नरनारायणौ देवौ धर्मपुत्रौ हिमालये ।बदर्यां श्रीकृष्णनारायणं सस्मरतुः पुरा ॥२॥ऊर्जकृष्णैकादश्यां तौ तापसौ स्वोद्भवं प्रभुम् ।गंगातीरे दध्यतुश्च स्वाश्रमे दर्शनोत्सुकौ ॥३॥पृथिव्यां पश्चिमे प्रान्ते सौराष्ट्रे चाजनाभजे ।क्षेत्रे कुंकुमवाप्याख्ये कम्भराश्रीगृहे हरिः ॥४॥यस्त्वास्ते बालरूपोऽसौ परब्रह्म परः प्रभुः ।सर्वावतारहेतुः सः कदा दास्यति दर्शनम् ॥५॥इत्येवं स्मरतोर्भ्रात्रोर्नरनारायणात्मनोः ।संकल्पं सम्पूरयितुं कृष्णनारायणः स्वयम् ॥६॥अश्वपट्टसरःक्षेत्रगतान् भक्तान् प्रभाष्य च ।ययौ यानेन दित्येन हैमाद्रिबदरीवनम् ॥७॥लोमशं सह नीत्वैव शेषान् संस्थाप्य तत्र च ।रक्षणार्थं कथयित्वा हराय क्षेत्रपाय च ॥८॥एकादश्यां गतं कृष्णनारायणं तु बान्धवौ ।पुपूजतुर्जलैः पुष्पैः फलैः कार्तिकपक्षके ॥९॥सेवनं तौ चक्रतुश्च धर्मभक्ती तथर्षयः ।तापसा अपि चक्रुश्च सेवनं प्रत्यहं प्रभोः ॥१०॥मार्गशीर्षं श्रेष्ठमासं यज्ञीयं वीक्ष्य तापसाः ।प्रचक्रे वैष्णवं यज्ञं बदर्यां ते महर्षयः ॥११॥पर्णशालां ददौ नित्यं निवासार्थं यथोचिताम् ।लोमशाय तथा बालकृष्णाय श्रीनरायणः ॥१२॥मार्गशीर्षे बभूवाऽयं यज्ञोत्सवो महान् शुभः ।तत्र देवो हरिः साक्षात्परमात्मा परेश्वरः ॥१३॥यज्ञेश्वरोऽनले स्थित्वा हव्यानि वुभुजे तदा ।साक्षाद् दिव्याक्षरमुक्तास्तथा गोलोकवासिनः ॥१४॥वैकुण्ठवासिमुक्ताश्च तथाऽन्यधामवासिनः ।समाययुः क्रतौ तत्र प्रसादलालसा हरेः ॥१५॥सुरा महर्षयो देव्यस्तीर्थानि पितरस्तथा ।सिद्धाश्चारणगन्धर्वा भूसुरा व्योमगामिनः ॥१६॥भक्ता दैत्या दानवाश्च समाययुः क्रतौ तदा ।एवं हि भगवाँस्तत्र राजते परमेश्वरः ॥१७॥एतस्मिन्नेव समये कार्तिके तु सुराष्ट्रके ।शंभोर्दूती महामारी शंभोर्निदेशतो निशि ॥१८॥अश्वपट्टसरःक्षेत्रं सीम्नि स्थिता प्ररक्षति ।तदा वै सिंहलद्वीपात् स्मृत्वा वै भ्रातृपुत्रकम् ॥१९॥कुभीनसी तथा शृंगी राक्षस्योऽन्याः शतद्वयम् ।व्योमगाः कामरूपिण्यो मायाजालविशारदाः ॥२०॥ज्ञात्वा त्वधर्मजीवस्य मरणं वै सुराष्ट्रके ।वैरं निर्यापयितुं शस्त्राऽस्त्रयुक्ताः समाययुः ॥२१॥सिंहारण्यानि चोल्लंघ्य व्योम्ना सौराष्ट्रमाययुः ।कृष्णायां तु चतुर्दश्यां कार्तिकस्याऽसिते दले ॥२२॥दीपोत्सवात् पूर्वरात्र्यां चावतेरुस्तदाऽम्बरात् ।उल्मुकान् दर्शयन्त्यश्च वह्निज्वालास्तथा मुखात् ॥२३॥मूर्धजेभ्यस्त्रिशूलाँश्च दर्शयन्त्यो हि वह्निमान् ।मारयैताः खादयैताः शत्रोः प्रियाः कुमारिकाः ॥२४॥भेदयैताश्चर्वयैता नयैता राक्षसार्थकम् ।ज्वालयैता धर्षयैताः सर्वाः कृष्णप्रिया बलात् ॥२५॥नास्त्यासां रक्षकश्चाऽत्र समयो विजयस्य नः ।इत्येवं भाषमाणास्ता लोमशस्याऽऽश्रमे द्रुतम् ॥२६॥निपेतुर्धर्षणार्थं वै राक्षस्यः क्रूरयोषितः ।सीमरक्षाकरी दूती महामारी हि भैरवी ॥२७॥ज्ञात्वाऽऽकस्मिकसंघर्ष युद्धोपद्रवमित्यपि ।सहस्ररूपिणी भूत्वा सशस्त्रा त्वभ्यधावत ॥२८॥कन्यावासेषु सर्वत्र रात्रावाक्रोश उल्बणः ।अभवत् त्रासकृत् तत्र राक्षसीनामुपद्रवात् ॥२९॥भैरवी पाशमादाय सम्मन्त्र्य नागबन्धनैः ।मुमोच राक्षसीसंघे राक्षस्यो वन्धनान्तरे ॥३०॥नागैर्बद्धाश्चाऽभवँश्च निगडैश्चौरवत्तदा ।हस्तेष्वपि तथा कट्यामुदरे च गलेष्वपि ॥३१॥सर्वा एव तु नागानां पाशैर्नद्धा विचेष्टिताः ।अभवन्न्यपतन् भूमौ विषदग्धास्तथाऽभवन् ॥३२॥अथ सा भैरवी शंभुं सुप्तं चागत्य संस्तवैः ।बोधयामास शीघ्रं चाऽऽवेदयामास घर्षणम् ॥३३॥श्रुत्वोपद्रवमीशानो लोमशाश्रममाययौ ।दृष्ट्वा नागास्त्रसन्नद्धा राक्षसीस्तुष्टमानसः ॥३४॥प्राहैनां भैरवीं दूतीं कुर्वेता गतबन्धनाः ।युद्धं कृत्वा तु ताः सर्वा विनाशाय विलोकये ॥३५॥इत्याज्ञप्ता भैरवी सा नत्वा शंकरपादयोः ।राक्षसीस्ता बन्धहीनाश्चकार शंकराज्ञया ॥३६॥उवाचैता रणं कर्तुं राक्षस्यो बलगर्विताः ।युद्धं चक्रुः शस्त्रधर्त्र्यो विविधैर्युद्धतर्कटैः ॥३७॥शक्तिभिर्मुद्गरैश्चापि यष्टिभिः प्रस्तरैस्तथा ।खड्गैरसिभिश्छुरिकामुष्ट्याद्यैः पादताडनैः ॥३८॥पर्वतप्रायदेहाश्च वृष्टिभिश्चाभिचारकैः ।युयुधुस्ता व्योमगा हि भैरवीभिर्निरन्तरम् ॥३९॥भैरव्यो रुद्रबलतो वज्रदेहास्तदाऽभवन् ।संकल्पजा बहुरूपा युयुधुस्तत्र हेतिभिः ॥४०॥कृपाणैः परशुभिश्च कुठारैश्च त्रिशूलकैः ।चक्रैर्भल्लैस्तथा स्तम्भैर्वज्रैर्दण्डैश्च जालकैः ॥४१॥शलाकाभिः क्षेपणैश्च स्फोटगोलैश्च शाखिभिः ।निजघ्नुश्चातिरुष्टास्ता भैरव्यो राक्षसीस्त्वति ॥४२॥चित्कृत्योत्प्लुत्य चाकाशे निपेतुस्ताः परस्परम् ।राक्षस्यो मायया नैकरूपिण्यो जघ्नुरीश्वरीः ॥४३॥ईशान्यो जघ्नुरीशस्य मन्त्रयुक्शूलशक्तिभिः ।सीताभिर्भल्लकैर्जघ्नुर्बिभिदुर्हृदयानि हि ॥४४॥राक्षसीनां महासैन्यं कृत्रिमं समजायत ।कृत्रिमा भैरवीयोषा विद्यत्पाशैस्तु तास्तदा ॥४५॥बबन्धुर्ज्वालयामासुरवचित्य च मूलिनीम् ।एवं युद्धे महाघोरे जायमाने सहस्रशः ॥४६॥निपेतुस्तत्कबन्धाश्च शैलप्राया विहायसः ।कुंभीनसी तथा शृंगी दुद्रुवतुर्भयाद् बहिः ॥४७॥तदन्याः शतसंख्याश्च भैरवीभिस्तु भक्षिताः ।शतसंख्याः परास्तत्र भिन्ना मृताश्च जीवतः ॥४८॥भैरवीनां तदा जातो विजयः शांकराद् बलात्॥शंभुस्ताभ्यः प्रसन्नोऽभूत् क्षेत्ररक्षा यतः कृता ॥४९॥लोमशस्याश्रमस्यापि कन्यकानां च रक्षणम् ।कृतं रात्रौ महायुद्धं कृत्वा वचःप्रपालनम् ॥५०॥प्रसन्नः सन्नुवाचैता महामारीर्वरप्रदः ।प्रसन्नोऽस्मि वरदानं याचध्वं प्रददामि वः ॥५१॥महामार्यस्तदा प्राहुर्नत्वा श्रीशंकरं तथा ।मूलां तां भैरवीं पूज्यां मातरं जननीं पराम् ॥५२॥यदि शंभो प्रसन्नोऽसि यदि देयो वरोऽस्ति नः ।तदा क्षुधासमव्याप्ता वयं तृषाऽऽकुलास्तथा ॥५३॥तन्निवृत्तिकरं भोज्यं परिश्रमविनाशकम् ।पुष्टिदं बलदं पेयं तामसं देहि नः प्रभो ॥५४॥तमोजन्या वयं सर्वास्तामस्यो युद्धदुर्मदाः ।युद्धजं मांसरक्तादि भक्षयन्त्योऽतिपुष्टिदम् ॥५५॥तदेव भोजनं पेयं समिच्छामो ददासि चेत् ।इत्युक्तः शंकरः प्राह धर्मक्षेत्रे सुराष्ट्रके ॥५६॥परब्रह्मनिवासेऽत्र तद्दानं चातिदुष्करम् ।कथं कृपालुनाथस्य देशेऽत्र तद्धि संभवेत् ॥५७॥तदा प्राहुस्तु ताः सर्वा हरेर्भक्तान् विहाय वै ।तामसान् पापिनः क्रूरान्नास्तिकान् भक्तिवर्जितान् ॥५८॥अनाचारान् दुराचारान् पूजापाठविवर्जितान् ।अस्नातान् तीर्थयात्रादिवर्जितान् दांभिकान् शठान् ॥५९॥हरेः प्रसादहीनाँश्च तुलसीस्रग्विवर्जितान् ।अशांभवन् सत्त्वहीनान् अवैष्णवान् परार्तिदान् ॥६०॥परद्रव्याद्यपहारकारकान् पुण्यवर्जितान् ।यमयात्रार्थयोग्याँश्च भक्षयिष्याम एव तान् ॥६१॥तादृशीश्च मलिनाश्च नारीर्धर्मविवर्जिताः ।उपासनाविहीनाश्च भक्षयिष्याम एव ताः ॥६२॥एवं कृते भगवाँस्तु न रोषं समुपेष्यति ।अधार्मिकाणां पापानां दण्डार्थं यमपत्तनम् ॥६३॥कृतं तेनैव स कस्माद् दुष्टानां भक्षणे कृते ।सन्तुष्टो न भवेन्नाथो वयं तं प्रभुमीश्वरम् ॥६४॥प्रतोषितं विधास्यामः सेवया किंकरीस्त्रियः ।इत्युक्त्वा ता विरेमुश्च शंभुः कृपापरस्तु ताः ॥६५॥प्राह तथास्विति भोज्यं पानं दुष्टप्रजास्वदात् ।महामार्यस्तु तं नत्वा नत्वा चापि हरिप्रियाः ॥६६॥नत्वा च कुंकुमवापीं नत्वाऽश्वपट्टसारसम् ।नत्वा श्रीकम्भरालक्ष्मीं नत्वा गोपालकृष्णकम् ॥६७॥स्मृत्वा गोपालतनयं श्रीपतिं स्वामिनं प्रभुम् ।दशयोजनतः क्षेत्राद् बहिस्ताः प्रययुर्मुदा ॥६८॥मृतानां राक्षसीनां तु देहान् उत्थाप्य पश्चिमे ।महागर्ते विनिःक्षिप्य मानवेषु द्रुतं च ताः ॥६९॥विविशुश्चाऽवैष्णवेषु शैवभिन्नेषु वै द्रुतम् ।अभक्तेषु च दुष्टेषु दंभिषु नास्तिकेषु च ॥७०॥शठेषु धर्महीनेषु बाह्यतश्चिह्नधारिषु ।आन्तरेषु तु मालिन्यसंभृतेषु जनेषु च ॥७१॥भक्तनिभेषु ख्यातेषु बाह्यतोऽन्तश्च पापिषु ।नरेषु तादृशीषु स्त्रीष्वपि प्रविविशुश्च ताः ॥७२॥महामारीसहस्रं तत् सहस्राणां सहस्रकम् ।सौराष्ट्रे गौर्जरे चापि महाराष्ट्रे च दक्षिणे ॥७३॥मध्ये पूर्वे चोत्तरे च पश्चिमे सर्वभूमिषु ।महामार्योऽभवन् व्याप्ता अदृश्या वायुविग्रहाः ॥७४॥तूर्णं प्रविश्य देहेषु तिष्ठन्ति हृदयेषु च ।मांसं रक्तं द्रुतं ह्युष्णं खादन्ति च पिबन्ति च ॥७५॥नरा नार्यो भवन्त्येव क्षणान्ते प्राणवर्जिताः ।आसमुद्रान्तमेवैता गत्वा गत्वा प्रजाजनान् ॥७६॥पापिष्ठान्नरनार्यादीन् प्रभक्षयन्ति लक्षशः ।ग्रामे ग्रामे नरा नार्या म्रियन्ते प्रत्यक्षं तदा ॥७७॥विंशत्यंशाः प्रजानां वै प्रतिसाहस्रमेव ह ।महामार्यस्तदा क्रूरा गणयन्ति न बालकान् ॥७८॥कन्यका न वधूंश्चापि यूनो वृद्धान्न गर्भिणीः ।अनाथान्नाप्यतिथीँश्च महीमानान्न देशिकान् ॥७९॥न राज्ञो न तथा राज्ञीर्न धनाढ्यान्न निर्धनान् ।न कषायधृगश्चापि न वा सूतकसंस्थितान् ॥८०॥न यज्ञहोमकर्माढ्यान् न पूजापाठकारिणः ।पापयुक्तान् विलोक्यैव भक्षयन्ति नरान् स्त्रियः ॥८१॥म्रियन्ते प्रत्यहं नार्यो नराश्च भुवि लक्षशः ।एकं धृत्वा बहिर्यान्ति मृतस्तावत्परो भवेत् ॥८२॥परं मृतं विनिष्कास्य यावदायान्ति वै गृहम् ।तावदन्ये मृताः सन्ति पञ्च सहैव तत्क्षणे ॥८३॥पञ्च निष्कास्य च यावदायान्ति ग्रामगोपुरम् ।तावदन्ये दश सन्ति मृता वा च ततोऽधिकाः ॥८४॥केषाञ्चिद् गृहवर्त्येव कुटुम्बं निधनं गतम् ।केषाञ्चित्त्वर्धभागेन मानवा निधनं गताः ॥८५॥कुत्रचिच्छिष्यते बालः कुत्रचित्तु नवा वधूः ।कुत्रचिद् वृद्धजरठः कुत्रचित्पशुमात्रकम् ॥८६॥कुत्रचिन्नगरे लक्षे सहस्रं त्ववशेषितम् ।कुत्रचिद् ग्रामभागे तु ग्रामार्धं सर्वशो मृतम् ॥८७॥कुत्रचिन्मानवैः शून्या ग्रामा जाता भयंकराः ।म्रियमाणप्रजानां च जलदाता न विद्यते ॥८८॥कुतोऽन्नदाता लभ्येत यत्र नास्त्येव दर्शकः ।एवं नाशो महानासीन्मर्दनं बहुशोऽप्यभूत् ॥८९॥मासमध्ये तु लोकानामर्धे पृच्छां मृतं ह्यभूत् ।कोटिशस्तु महामार्योऽभक्षयन् पापिनो जनान् ॥९०॥राक्षसा अपि दैत्यांश्च दानवानासुराँस्तथा ।शठान्नैष्कृतिकाँश्चापि नास्तिकान् धर्मवर्जितान् ॥९१॥अभक्षयन् हि मासान्ते हाहाकारो दिगन्तरे ।अभवद् वै तदा लोकास्त्यक्त्वा ग्रामान् गृहाण्यपि ॥९२॥पत्तनानि नगराणि ययुर्भयादरण्यकम् ।वनेषु वनिवद् वासान् चक्रुः कालभयार्दिताः ॥९३॥अरण्यानि नगराणि नगराणि वनानि तु ।वैपरीत्येन जातानि महामारीभयात्तदा ॥९४॥अश्वपट्टाक्षरक्षेत्रे दशयोजनविस्तृते ।महामारीभयं नाऽभूद् भक्तेष्वेव तदा प्रिये ॥९५॥अभक्ता येऽपि तत्रस्थास्तत्तद्भाग्येन देशिताः ।ययुर्बहिर्हि ये क्षेत्रं त्यक्त्वा ते निधनं गताः ॥९६॥त्राहि त्राहि प्रजाश्चोचुः सस्मरुः परमेश्वरम् ।रोगस्याऽस्य विनाशार्थं प्रजाश्चक्रुर्हि मानताम् ॥९७॥नैवेद्यानि विविधानि दास्यामो देवतागृहे ।वस्त्रभूषाम्बरस्वर्णं दास्यामो देवसन्निधौ ॥९८॥करिष्यामोऽन्नसत्राणि पारायणानि सन्मखान् ।धर्मकार्याणि धर्माश्च करिष्यामः प्रसेवनम् ॥९९॥हरेस्तदीयसाधूनां पूजनं देवसेवनम् ।भजनं संकरिष्यामः संत्यक्ष्यामोऽघपातकम् ॥१००॥सूर्यं शिवं सतीं लक्ष्मीं पूजयिष्याम ईशिनीम् ।गणेशं च महाकालं मातृकाः पितृदेवताः ॥१०१॥तीर्थयात्रां करिष्यामश्चाश्वपट्टसरोवरे ।यत्र नास्ति महामारी बालकृष्णप्रभावतः ॥१०२॥प्रजाः सर्वत्र च भयान्मरणस्यातिविह्वलाः ।प्रतिज्ञां संप्रचक्रुश्च कृष्णनारायणं प्रभुम् ॥१०३॥भीजष्यामो यदा जीविप्प्राणाः स्थास्याम एव तु ।भैरवि! ते महामारि! कृष्णनारायणस्य ते ॥१०४॥शपथोऽस्ति यदि मां त्वं स्पृशसि तत्र मा स्पृश ।आणं ददुः प्रजास्त्वेवं हाहाकारोऽभवद् भुवि ॥१०५॥शंकरस्य शपथस्ते पित्रोस्ते शपथस्तथा ।मा स्पृशाऽस्मान् महामारि! दद्मः संयावमत्र ते ॥१०६॥इत्येवं राधिके लोका मानताः संप्रचक्रिरे ।सत्यः साध्व्यो द्विजाः सन्तो व्योम्ना श्रीबदरीं ययुः ॥१०७॥सद्योजातमहादेवाय ते चास्तु नमो मुहुः ।महाकालाय च कालभैरवाय च ते नमः ॥१०८॥अजापालाय च वीरभद्राय ते नमो मुहुः ।मृत्युंजयाय च महाकाल्यै चाण्ड्यै नमो मुहु ॥१०९॥दुर्गायै नम इत्येव दीनप्रजास्तदोचिरे ।श्रीहरिर्ज्ञातवान् सर्वं पूर्वमेनमुपद्रवम् ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोर्बदर्यां गमनं, राक्षसीनां कुंकुमवाप्यामागमनम्, महामार्या राक्षसीनां नाशनम्, ततः पापिप्रजासुभक्षणार्थं व्यापकता, चेत्यादिनिरूपणनामा नवतितमोऽध्यायः ॥९०॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP