संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ९९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ९९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९९ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके पश्चादनादिश्रीनरायणः ।यथोद्धारं कृतवान् श्रीहरिः प्रोवाच तां कथाम् ॥१॥श्रीकृष्णनारायण उवाच-हेमशालायनर्षे त्वं कथा शृणु ततः पराम् ।याऽभून्मार्जारिका नारायणसरस्तटे तु सा ॥२॥वृकादिभयमापन्ना ययौ खेटं समीपगम् ।यत्र वै श्रीहरेर्भक्ता वसन्ति पशुपालकाः ॥३॥नरा नार्यो वैष्णवास्ते भजन्ते परमेश्वरम् ।तत्र सा ह्यटति नित्यं प्रतिग्रहं क्षुधान्विता ॥४॥दुःखेनाऽऽसाद्य भोज्यं 'वै चौर्येण बहुयत्नतः ।वर्तते साऽथवा चौर्यं करोत्येव न च क्वचित् ॥५॥शुनां भयात्तु सा रात्रौ शेते पुलकसञ्चये ।तृणानां सञ्चये चापि गृहपृष्ठस्थसञ्चये ॥६॥यथाकथञ्चित्सम्प्राप्योच्छिष्टं वृत्तिं करोति सा ।यत्र नास्त्येव मार्जारजातिस्तत्रेयमेकला ॥७॥विना नरं वसत्येव युवती ऋतुधर्मिणी ।कामदाहेन मार्जारी पीड्यतेऽहनिंशं तदा ॥८॥शापस्य कारणेनैव मार्जारं लभते न सा ।खेटाद् दूरतरा ग्रामास्तत्र गन्तुं न शक्यते ॥९॥मध्ये वन्यपशूनां सा भयात्तत्रैव तिष्ठति ।एवं सा पीडिता कामदाहेनाऽष्टसमावधिम् ॥१०॥नवमे वत्सरे वृष्टिश्चातिवृष्टिरभूद्भुवि ।तत्प्रवाहेण वै कश्चिन्मार्जारो दूरभूमितः ॥११॥तरंगैरुह्यमानः सः सरोवारिषु चाययौ ।वृक्षशाखां समालम्ब्य जीवन् सरोवरान्तिके ॥१२॥जलेन वक्रवेगेन शाखया सहितस्तु सः ।मार्जारो वाहितस्तीरं शाखा तीरगताऽभवत् ॥१३॥जले लीने बिडालः सः ययौ शनैः शनैस्तदा ।खेटं विलोक्य तत्रैव यत्र मार्जारिकाऽस्ति सा ॥१४॥तेन योगं गता सा च सगर्भा सम्बभूव ह ।कुंभकारगृहे सा तु घासकच्चरमध्यगा ॥१५॥सगर्भा पूर्णकालेन प्रसूता पञ्चबालकान् ।निदधे तृणपुञ्जे तान् ततो वै चापरस्थले ॥१६॥ततः स्थलान्तरे चापि ररक्ष निजबालकान् ।अथाऽपक्वस्थले चामपात्रपुञ्जे ररक्ष सा ॥१७॥कुंभकारेण संक्लृप्ते पाकार्थं वह्निगर्तके ।आमपात्रेषु बालान् सा गोपयित्वा बहिर्ययौ ॥१८॥निजभोज्यस्य लाभार्थं पश्चात् कुभकृताऽनलः ।दत्तः पात्रप्रपाकार्थं सा दृष्ट्वा धूम्रमेव तम् ॥१९॥शीघ्रं तत्र समायाता ददर्शाऽग्रेऽनलं मुखे ।पृष्ठेऽपत्यानि तिष्ठन्ति मार्गो निर्गमनाय न ॥२०॥वह्निर्वृद्धिं गतस्तत्र ज्वालामालासमुज्ज्वलः ।सापि श्वभयतस्तत्र पार्श्वे तृणेषु कच्चरे ॥२१॥सुगुप्ता चाऽरुदच्चाति बाला रुदन्ति चानले ।बालानां प्राणरक्षार्थं ह्युपायो विद्यते न वै ॥२२॥कुंभकारो न तत्रास्ति रोदनं शृणुयात्तु कः ।अपत्यस्नेहसम्पन्नाऽपत्यरक्षणहेतवे ॥२३॥अनादिश्रीकृष्णनारायणस्वामिनमस्मरत् ।तुष्टाव कल्पितैर्भावैर्नारायणं परेश्वरम् ॥२४॥वह्निः पात्रप्रगर्ते तु परितश्चावृतोऽभवत् ।अपत्यानि तु पात्राणां मध्ये तिष्ठन्ति तत्तले ॥२५॥ज्वलते चाऽनलश्चोर्ध्वं तले नैवाऽभियाति च ।मार्जारिकाऽतिभावेनाऽजपत् कृष्ण हरे प्रभो ॥२६॥रक्ष मे बालकान् कृष्ण यत्नेन प्रापितान् शुभान् ।निर्दोषान् ज्ञानहीनाँश्च रक्ष स्वामिन्नरायण ॥२७॥यद्यहं त्वयि भक्ताऽस्मि रक्ष मे बालकान् विभो ।गर्भे रक्षा कृता येन यत्पिता च जलान्तरे ॥२८॥रक्षितो येन देवेन स मे बालान् प्ररक्षतु ।नारायण हरे कृष्ण स्वामिन् श्रीमन् पुमुत्तम् ॥२९॥येनाऽहं जनिता पूर्वं स मे बालान् प्ररक्षतु ।अग्नौ जले पृथिव्यां चाम्बरे वायौ निवासकृत् ॥३०॥हृदये चामपात्रे च गर्ते भ्राष्ट्रे च चुल्लके ।यः सदा व्यापको देवः स मे बालान् प्ररक्षतु ॥३१॥हरे कृष्ण हरे स्वामिन् कृष्ण रक्षय बालकान् ।प्रियान् मे प्राणतः स्वल्पाननाथान् संप्ररक्षय ॥३२॥लक्षजपान् करिष्येऽहं तव तुष्ट्यर्थमेव यत्॥रक्ष मे शावकान् कृष्णनारायण जगद्गुरो ॥३३॥शरणागतरक्षाकृत् पोतकान्मे प्ररक्षय ।इत्येवं प्रार्थयित्री सा कुंभकारांगणे स्थिताम् ॥३४॥तुलसीं प्रति गत्वैव नेमे च दश दण्डवत् ।प्रदक्षिणाश्च पञ्चाशच्चक्रे मत्वा द्रुमे हरिम् ॥३५॥कृष्णनारायणस्वामिन् श्रीपते कमलापते ।रक्ष राधापते ब्रह्मपते मुक्तपते प्रभो ॥३६॥पार्वतीश प्रभास्वामिन् हंसेश मञ्जुलायते ।सगुणेशाऽऽत्मसाक्षिँस्त्वं रक्ष बालान् हरे मम ॥३७॥आत्मात्मन् करुणासिन्धो लक्ष्मीपते जयापते ।अमृतप्रद देवानां रक्ष शान्तापतेऽच्युत ॥३८॥श्रीपते भूपते बद्रीपते लीलापतेऽनघ ।भूतिपतेऽक्षरपते शक्तिपतेऽव बालकान् ॥३९॥गोलोकाधिपते हैमीपते च ललितापते ।गह्वरावास गर्भास्य रक्ष वह्निपते पते ॥४०॥हृषीकेश महेशेश ब्रह्मप्रियेश भीहर ।अक्षरक्षेत्रवासाऽस्मद्बालकान् रक्ष मेश्वर ॥४१॥वह्निर्देवोऽवतु बालान् शान्तदाहोऽस्तु सर्वग ।बाला मे त्वमृतदेहा भवन्तु भवदाश्रये ॥४२॥यत्राऽन्यस्त्वाश्रयो नास्ति तत्राश्रयो भवान् गुरुः ।तारकश्च शरण्यश्च नाथ रक्षय बालकान् ॥४३॥इत्येवं चार्थयमाना बिडाली तुलसीं मुहुः ।नत्वा पत्राणि चादाय वह्निस्थान गताऽभवत् ॥४४॥पत्राणि त्वर्पयामास वह्निदेहाय शार्ङ्गिणे ।रक्ष मे बालकान् अग्ने वार्धक्यफलरूपिणः ॥४५॥इत्युक्त्वा च नमस्कृत्य प्रचकार प्रदक्षिणम् ।नाऽन्योपायोऽत्र च हरेः स्मृतिं विना तु रक्षणे ॥४६॥इत्येवं मनसा वाचा कर्मणा परमेश्वरम् ।अपूजयद् बिडाली सा पत्रैः श्रीपुरुषोत्तमम् ॥४७॥जेपे नाम च सततं तस्थौ भ्राष्ट्राग्निसन्निधौ ।जीविताशां समालम्ब्य भजमाना जगत्पतिम् ॥४८॥अथैवं सा स्थिता पार्श्वे कश्चिन्नायाति मानवः ।दृश्यते नैव रक्षाकृत् निराशा भजते हरिम् ॥४९॥तावच्छुश्राव बालानां वाक्यानि भ्राष्ट्रिकान्तरात् ।जीविताशावती सा च प्रसन्नमानसाऽभवत् ॥५०॥वह्निश्चोपरिभागे चाऽम्बरीषोर्ध्वे प्रवर्धते ।नीलहरितपिङ्गाभिर्ज्वालाभिश्च समन्ततः ॥५१॥रक्तचित्राभिरुग्राभिः श्वेतमूलाभिरुल्बणः ।अग्निर्निम्भ्राष्ट्रके व्याप्तोऽभवद्वै परितोऽभितः ॥५२॥अन्तर्बहिस्तथा पार्श्वे मध्ये तलेऽपि सर्वशः ।आमपात्राणि पक्वानि विगतं च दिवानिशम् ॥५३॥क्षुधातृषायुता सापि मार्जारी बालकान्निजान् ।शृणोति वदमानाँश्च रमतः क्षुधिताँस्तथा ॥५४॥एकः प्राह कदा माता प्रागमिष्यति चाग्रज ।क्षुधा मे बाधते चाति समाह्वय च मातरम् ॥५५॥ज्येष्ठः प्राहाऽनलश्चास्ते मार्गान् रुद्ध्वा समन्ततः ।कथं माता समागच्छेत् स्मर श्रीपरमेश्वरम् ॥५६॥येन गर्भे कृता रक्षा सोऽत्र रक्षां करिष्यति ।जीवयिष्यति भगवान् दत्वा भक्त्या हि भोजनम् ॥५७॥अग्निं पश्योष्णमत्युग्रं ज्वालामालासमेधितम् ।कथं माताऽत्र चागच्छेत् स्मर कृष्णनरायणम् ॥५८॥कृपा भगवतश्चैषा जीवामो यद्विभावसौ ।शीतले विवरे चात्र रक्षणं हरिणा कृतम् ॥५९॥अग्निर्नात्र समायाति सत्यपीन्धनसञ्चये ।पश्य ज्वाला न दहति धूमो मूर्छां करोति न ॥६०॥एह्यागच्छ बहिर्यामो निर्वह्निसुषिराद् द्रुतम् ।शीतो बह्निरयं भाति मे न दह्यति चानुज ॥६१॥मातरं प्रति गच्छाम श्चेत्युक्त्वा निर्ययुर्द्रुतम् ।वह्निमध्याद् विनिर्गत्याऽदग्धरोमाण एव ताम् ॥६२॥मातरं प्रययुः सर्वे बाला भ्राष्ट्राद् विनिर्गताः ।हर्षव्याप्ताः क्षुधाव्याप्ता अपिबन् मातृसत्पयः ॥६३॥माता स्नेहं प्रचक्रे च लिलेहापि पुनः पुनः ।मात्रे प्राहुस्तु ते भ्राष्ट्रं शीतलं रक्षणालयम् ॥६४॥पय आपीय चाऽऽपृच्छ्य भ्राष्ट्रे प्रविश्य ते पुनः ।भ्राष्ट्रिकायास्तले गत्वा विशश्रमुः सुखं मुदा ॥६५॥योऽग्निश्चाऽऽमघटादीन्वै पक्वान् करोति दाहतः ।योऽग्निश्चेन्धनघासादीन् दग्धा भस्म करोत्यपि ॥६६॥सोऽयमेव बिडाल्यास्तु बालकार्थे सुशीतलः ।तदानीं दाहहीनो वै जातः कृष्णकृपावशात् ॥६७॥मार्जारी चावलोक्यैतत् स्वयं च निर्भया सती ।भ्राष्ट्रीतले समागन्तुं ययौ भ्राष्ट्रीमुखं प्रति ॥६८॥तावद् वह्निस्तथा स्प्रष्टोऽत्युष्णश्चात्यन्तदाहकः ।आश्चर्यं परमं प्राप्ताऽस्मरत् कृष्णनरायणम् ॥६९॥अहो देवस्य माहात्म्यं ह्येकमेव तु वस्तु यत् ।सुखायैकस्य भवति दुःखायाऽन्यस्य तत् खलु ॥७०॥सर्वेषां दाहकर्ताऽयं पक्षे दाहकरोऽभवत् ।अवश्यं श्रीनरनारायणेन परमात्मना ॥७१॥रक्षिता बालका मेऽत्र रक्ष्यन्ते च पुनः पुनः ।इदं मे भक्तिमाहात्म्यं बालानां शरणागतिः ॥७२॥यद्वा तद्वा भवेत्पुण्यं प्राग्भवीयं महत्तरम् ।येन बाला रमन्ते मे वह्निमध्ये यथा गृहे ॥७३॥मार्जारी कृष्णमाहात्म्यं ज्ञात्वा पूर्णतमं तदा ।भेजे चातीव भावेन श्रीहरिं परमेश्वरम् ।७४॥क्षुधातृषाभिसन्तप्ता कृत्वा दृढं च निश्चयम् ।मया नाऽन्यत्र गन्तव्यं हरिर्दास्यति भोजनम् ॥७५॥मह्यं मम च बालेभ्यो रक्षकः रक्षयिष्यति ।इत्येवं मन्यमाना सा जजाप औं हरेऽच्युत ॥७६॥कृष्णगोविन्दगोपालनारायणनरायण ।श्वासोच्छ्वासं जजापैवं वाचा च मनसा हृदा ॥७७॥निषसाद समीपे च भ्राष्ट्रिकाया हरिश्रिता ।दिनद्वयं गतं तावन्नोत्तिष्ठति न याति च ॥७८॥कृष्णो नारायणो देवो नरोत्तमो नरायणः ।दृढं च निश्चयं ज्ञात्वा भक्तिं ज्ञात्वा परात्पराम् ॥७९॥शरणागतरक्षाकृत् कुंभकारस्वरूपधृक् ।भाद्रश्राद्धे कृतं क्षीरपाकं च पूरिकास्तथा ॥८०॥करे धृत्वा समायातो ददौ पितृभ्य एव सः ।अम्बरे च ददौ काकपक्षिभ्यो धेनवे ददौ ॥८१॥ददौ भूतेभ्य एवाऽसौ मार्जार्यै चापि सन्ददौ ।तावत् तद्बालका वह्निभ्राष्ट्रतो बहिराययुः ॥८२॥तेभ्यो दुग्धं श्राद्धपक्वमपाययत् सुखप्रदम् ।पीत्वा ते विविशुस्तत्र भ्राष्ट्रीतले सुखावहे ॥८३॥एवं कुंभकृता तेनाऽऽहुताः कुंभकृतोऽपरे ।पश्यन्तु वह्निमध्ये वै जीवन्ति हि बिडालकाः ॥८४॥इत्युक्त्वा दर्शयामास कुंभकृद्भ्यो हि बालकान् ।भ्राष्ट्र्यधिपालकश्चापि ददर्शाश्चर्यमाप्तवान् ॥८५॥आमपात्राणि पच्यन्ते नैव दह्यन्ति बालकाः ।आश्चर्यं परमं त्वेतत् तत्र प्रकाशतां गतम् ॥८६॥आययुर्जनसंघास्तु वीक्षितुं भ्राष्ट्रिकाऽर्भकान् ।पुपूजुर्वह्निदेवं च बिडाल्यै भोजनं ददुः ॥८७॥अर्भकेभ्यो ददुर्दुग्धं बालाश्चागत्य ते बहिः ।पीत्वा प्रयान्ति भ्राष्ट्र्यां ते सुषिरेण पुनः पुनः ॥८८॥एवं विलोक्य लोकास्ते निश्चिक्युर्हरिरक्षिताः ।जीवन्त्येते न दुह्यन्ति दीनरक्षाकरो हि सः ॥८९॥अथाऽधिपः कुंभस्रष्टा वह्निशान्त्युत्तरं स्वयम् ।दूरीचकार भस्मादि कुंभान् पात्राणि सर्वशः ॥९०॥तलं रिक्तं चकाराऽपि यत्र बाला व्यवस्थिताः ।तत्र श्रीभगवत्पादचिह्ने संदृष्टवान् हि सः ॥९१॥कुंभकारश्चकाराऽत्र भगवत्पादवेदिकाम् ।तीर्थं मार्जाररक्षाख्यं प्रसिद्धं त्वभवद्धि तत्। ॥९२॥बालका रक्षिता येन नारायणेन योगिना ।सोऽपि तत्रैव सर्वेषु मध्ये तदा विराजते ॥९३॥कुंभकारस्वरूपेण नान्ये विदन्ति तं प्रभुम् ।अथाऽयं भगवान् बद्रीनारायणः स्वयं तदा ॥९४॥कृपया दर्शयामास रूपं निजं चतुर्भुजम् ।कुंभकारा हरिं दृष्ट्वा पुपूजुः श्रद्धयाऽन्विताः ॥९५॥मार्जारिका ददर्शैनं श्रीमन्नारायणं हरिम् ।द्रागेव स्मरणं प्राप्ताः सनत्सुजातरूपिणः ॥९६॥शोकं चकार विविधं बिडालीप्रसवादिजम् ।क्वाऽहं सनत्सुजातोऽस्मि क्वाऽहं बिडालतां गतः ॥९७॥अद्य नारायणः साक्षाच्छापनाशार्थमागतः ।इत्येवं त्वाप्तवैराग्यो नेमे नारायणं हरिम् ॥९८॥नारायणोऽपि तां तिर्यग्देहाद् विवृत्य सत्वरम् ।सनत्कुमाररूपं च ददौ ब्रह्मसुतात्मकम् ॥९९॥अर्भकाः कुंभकारैश्च रक्षिता वर्धितास्तथा ।तद्वशास्ते वनीया वै मार्जारा अभवँस्ततः ॥१००॥अथ नारायणो देवस्तथा सनत्सुजातकः ।ययतुश्च सरः स्नातुं कुंभकारा ययुस्ततः ॥१०१॥तदा देवैः पुष्पवृष्टिर्मुक्ता व्योम्ना सरोवरे ।नारायणेन वै साक्षाद् यत्र स्नातं ततः सुरैः ॥१०२॥नारायणसरश्चेति तीर्थं प्रख्यापितं शुभम् ।रक्षाकृन्मुक्तिकृच्चापि नारायणस्य दायकम् ॥१०३॥सनत्सुजातसहितः स्नात्वा नारायणः प्रभुः ।ययौ श्रीबदरीं हैमशैले विशालिकां निजाम् ॥१०४॥ऋषिः सनत्सुजातश्च स्नात्वा त्रिपथगाजले ।नत्वा नारायणं सत्यलोकं ययौ क्षणात्ततः ॥१०५॥ग्रामो मार्जारपुरसंज्ञकोऽभवत् प्रजाकृतः ।इत्येवं श्रीकृष्णनारायणो हेमायनर्षये ॥१०६॥मार्जारपुत्ररक्षायाः कथामकथयत्तथा ।विरराम क्षणं राधे प्रापुर्हर्षं महत्तरम् ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मार्जारिकाऽपत्यानां कुंभकारमहाभ्राष्ट्रीवह्नितो नारायणकृतरक्षणं मार्जारिकायाः शापमोक्षणं चेत्यादिनिरूपण-नामा नवनवतितमोऽध्यायः ॥९९॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP