संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ९८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ९८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९८ Translation - भाषांतर श्रीकृष्ण उवाच-अथ क्षणान्तरे सर्वे योगिनः परमेश्वरम् ।पप्रच्छुः राधिके! चक्रवाकीरक्षा यथा कृता ॥१॥यथा लक्ष्मीः पुरा त्यक्ता प्रियाऽपि परमात्मना ।यथा मार्जारिकाऽपत्यान्यरक्षयद्धरिः पुरा ॥२॥के तेऽभवन् कथं भक्ताः कथं रक्षा च कीदृशी ।पुण्यमेषां कीदृशं च यद्रक्षां माधवोऽकरोत् ॥३॥श्रीहेमशालायन उवाच-चक्रवाकी भक्ता तव कीदृशी पूर्वजातिजा ।कथं स्नेहस्त्वदर्थं वै तिरश्चां छिन्धि संशयम् ॥४॥श्रीकृष्णनारायण उवाच-शृणुतेमां कथां विप्राश्चक्रवाक्याः पुराभवाम् ।सनत्सुजातनामाऽसौ ब्रह्मणो मानसः सुतः ॥५॥वेदवेदांगतत्त्वज्ञो भक्तिमार्गपरायणः ।ब्रह्मचर्यपरश्चापि ब्रह्मविद्योपदेशकः ॥६॥चतुर्दशसु लोकेषु चाऽव्याहतगतिर्व्रती ।किशोरभावेनोर्व्यां स व्यचरत् तीर्थकांक्षया ॥७॥नारायणसरो यातः कच्छे स्नातुं स चैकदा ।पूर्णचन्द्राननः सौम्यस्तेजोपरिधिशोभितः ॥८॥रूपानुरूपावयवो वल्कलैरावृतो मुनिः ।हृष्टपुष्टावयवश्च कामकान्तिसमुज्ज्वलः ॥९॥स्त्रीणां मनोहरश्चातिक्षमासौजन्यशोभितः ।प्रसन्नमानसश्चैकप्रभुध्यानपरायणः ॥१०॥वल्कलानि समुत्सृज्य कौपीनमात्रवस्त्रकः ।अवाततार च नारायणसरोजलान्तरे ॥११॥अवगाह्य तटं याति प्रजप्त्वा वेदमातरम् ।पुनर्जलान्तरे याति पुनस्तटे च तिष्ठति ॥१२॥हरिं ध्यायन् च गायत्रीं जप्त्वा पुनर्जलान्तरे ।गत्वा स्नाति सुखं सूर्यं नत्वाऽवगाहते जले ॥१३॥बहिरागत्य च ध्याने स्थितो वै घटिकावधिम् ।तावत् तत्रोर्वशी नारायणपुत्री हिमालयात् ॥१४॥बह्वीभिः सह सखीभिः समाययौ निजेच्छया ।ऊरोरुत्पादिता सा तु महेन्द्राय समर्पिता ॥१५॥यद्दिनात् तद्दिनाद् बद्रीं पितुर्दर्शनकारणात् ।समायाति प्रतिपक्षं पूर्णाऽमादिवसेषु सा ॥१६॥बदर्यां सा पितुर्नारायणस्य दर्शनं शुभम् ।विधायैव च तीर्थार्थं नारायणसरोवरम् ॥१७॥समाययौ महाभक्ता वैष्णवी विष्णुपुत्रिका ।महाभागवती देवी चाप्सरोगणमूर्धजा ॥१८॥अप्सरसां निसर्गस्तु चाञ्चल्यं सुभगे नरे ।एवं चञ्चलभावेन भक्ताऽपि युवलालसा ॥१९॥भासन्तं तेजसा रम्यावयवं दृष्टिगोचरम् ।एकलं सविलोक्यैषा मनोभववशीकृता ॥२०॥रन्तुं सनत्सुजातं तमृषिं चार्थयदग्रगा ।ननर्त बहुभावेन भूत्वा किशोरिकाकृतिः ॥२१॥सतालं गायनं चक्रे गीतिकां प्रजगौ मुदा ।चक्रवत् परितस्तस्य भ्रमणं नर्तने बहु ॥२२॥चक्राकारं चकारैषा ख्यापयन्ती स्वचापलम् ।वाचा त्वरञ्जयञ्चक्रनृत्येन सह सा मुनिम् ॥२३॥मुनिः शुश्राव वाचं च चक्रनृत्यं व्यलोकयत् ।सापि सम्मनुते मुग्धं मुनिं नृत्यति चाधिकम् ॥२४॥हावभावांगचेष्टाभिः प्रेमहार्दविलोकनैः ।मुनिं सा मोहयामास मुनिर्जहास वै मुहुः ॥२५॥सापि ज्वरयुता स्प्रष्टुं यावन्मुनिं समिच्छति ।तावद्विवेकवान् विप्रः सनत्कुमारको मुनिः ॥२६॥मा स्पृशेत्याह च ततः समुत्थाय सधर्मधृक् ।ययौ दूरं हसन्नेव निषसाद स्थलान्तरे ॥२७॥तस्य वै सरसस्तीरे तदा सापि वशंगता ।ययौ तत्र चकारापि पुनर्नृत्यं मनोहरम् ॥२८॥पुनः पुनश्चेक्षमाणा प्रार्थयित्री च तं मुनिम् ।रन्तुकामाऽभिसृत्यैव पार्श्वगा सा स्थिरा ह्यभूत् ॥२९॥ऋषिः प्राह कथं चेटि! चेटीवद् वर्तसेऽत्र वै ।साक्षान्नारायणपुत्री या त्वं स्पर्शे न लज्जसे ॥३०॥अहं वै ब्रह्मणः पुत्रस्त्वं पुत्रपुत्रपुत्रिका ।ब्रह्मव्रतोऽहमेवाऽस्मि मा वृथा चेष्टनं कुरु ॥३१॥स्नाहि तीर्थजले रम्ये नारायणे सरोवरे ।मा वृथा मानसीं पीडामावहाऽस्थानके सुते! ॥३२॥इत्युक्ता सा निराशा च सन्तापखेदसंयुता ।उवाचैनं युवानं वै त्यक्तमर्यादचेतसा ॥३३॥वयं त्वप्सरसो विप्र सर्वसामान्यभोगदाः ।ब्रह्मणा विष्णुना चापि शम्भुना सम्मताः सुरैः ॥३४॥तस्मान्नाऽहं सुता योगिन् द्रष्टव्याऽत्र त्वया क्वचित् ।सर्वा नारायणपुत्र्यो नारायणप्रियास्तथा ॥३५॥नारायणांगसञ्जाता लक्ष्मीर्नारायणप्रिया ।राधा कृष्णांगसञ्जाता राधा कृष्णस्य कामिनी ॥३६॥अजवंशे तु सञ्जाता गायत्री ब्रह्मणः प्रिया ।अजपुत्रस्य दक्षस्य पुत्र्यो धर्मादियोषितः ॥३७॥देवसृष्टौ न बाधोऽस्ति तस्मात् त्वां समुपस्थिता ।त्वया हास्यं भावना च दर्शिते रतिबोधिके ॥३८॥तस्माद् गृहाण विप्रेन्द्र न चेच्छप्स्यामि सत्वरम् ।इत्युक्त्वा सा सनत्सुजातस्याऽङ्के निपपात ह ॥३९॥ऋषिः सनत्सुजातस्तु शापस्य भयकारणात् ।यद्वा ब्रह्मव्रतहानेर्न तां जगाद किञ्चन ॥४०॥किन्तु योगं तदा कृत्वा प्राणानाकृष्य तत्क्षणम् ।ब्रह्मरन्ध्रं समाधौ तु गत्वोवास यथासुखम् ॥४१॥ऊर्वशी तं मुनिं कान्तं कामशून्यं विलोक्य च ।अतृप्तिदं बिडालस्य वृत्तिं धृत्वाऽऽत्मनि स्थितम् ॥४२॥शशाप वै तदा शीघ्रं बिडाली भव धूर्तराट् ।यस्य नास्ति स्त्रिया मूल्यं भक्ताया अपि सर्वथा ॥४३॥स्त्रिया दुःखं न जानाति स्त्रीकामं वर्धयत्यपि ।अग्निमुद्भाव्य च दूरे दह्यमानां प्रपश्यति ॥४४॥तादृशस्य तु षण्ढस्य मार्जारीजन्मयोग्यता ।भवत्वेव दयाहीना मार्जारी दुःखवेदिनी ॥४५॥स्त्रीदुःखं कामभेदेन कीदृशं ज्ञास्यसे यथा ।तथा मार्जारहीना त्वं मार्जारी भव भ्राष्ट्रगा ॥४६॥इत्येवं शापमापन्नः ऋषिर्मार्जारिकाऽभवत् ।जातिस्मरश्च तत्रैव नारायणसरस्तटे ॥४७॥समाधेरुत्थितो द्राक् च स्वं देहं चावलोकयत् ।मार्जारीभावमापन्नं क्रोधं चावाप वै तदा ॥४८॥स्नान्तीं तदोर्वशीं प्राह चक्रवन्नर्तने रता ।वाग्विलासेन मोहं च करोषि मादृशानपि ॥४९॥अलब्धाशा च शपसे सदोषा दोषवर्जितम् ।तस्मात् त्वं जलशून्ये वै प्रदेशे तृष्णया युता ॥५०॥अतृप्ता भव चेटी च चक्रवाकी स्मरातुरा ।चक्रवाकविहीना च सखीजनविवर्जिता ॥५१॥इत्येवं चोर्वशी शप्ता चक्रवाकी क्षणान्तरे ।तत्रैव जाता चित्राढ्या सपक्षा पक्षिजातिजा ॥५२॥अथाऽन्या व्योममार्गेण सख्यस्तूर्णं विहाय ताम् ।ययुर्दिवं महेन्द्रं च ता ऊचुस्तद् यथाऽभवत् ॥५३॥संसारे कामना दोषो बहुदुःखप्रदो यतः ।न गुणे गण्यते विज्ञैर्यद्यप्यानन्दशेवधिः ॥५४॥अथेन्द्रः शोकमापन्नो ययौ श्रीपरमेष्ठिनम् ।निजगाद च वृत्तान्तं व्रह्माऽपि शोकमातवान् ॥५५॥द्वौ तौ विष्णुं तदुद्धारकर्तारं बदरीवने ।नरनारायणरूपं ययतुः शापमुक्तये ॥५६॥प्रणेमतुर्ववन्दाते चार्चयामासतुर्हरिम् ।नारायणः स्वयं नत्वा ब्रह्माणं परमेष्ठिनम् ॥५७॥मधुपर्कं ददौ कृत्वा स्वागतं समुवाच ह ।कुशलं सर्वथा कच्चित् प्रजानां च पितामह ॥५८॥ब्रह्मा प्राह हरे सर्वं प्रजानां कुशलं सदा ।यदर्थं तप्यसे चात्र तासां चाऽकुशलं कथम् ॥५९॥किन्तु ते चोर्वशी पुत्री या चेन्द्राय समर्पिता ।सनत्सुजातो मे पुत्रो योगीन्द्रः सांख्ययोगवित् ॥६०॥द्वावेतौ शापयोगेन तिर्यग्भावमुपागतौ ।द्वौ भक्तौ वैष्णवौ श्रेष्ठौ सुता सुतस्तथाऽऽवयोः ॥६१॥चक्रवाकी च मार्जारी जाते कच्छप्रदेशके ।नारायणसरस्तीरे कामेनाऽन्योन्यशापिते ॥६२॥जातिस्मरे च .भवतस्तन्मोक्षश्च यथा भवेत् ।तथा विधीयतां देव दयालो भगवान् भवान् ॥६३॥कर्तुमकर्तुमन्यथाकर्तुं शक्तोऽस्ति शासकः ।श्रुत्वैवं भगवानाह विचिन्त्य वेधसं तदा ॥६४॥तयोरुद्धारमेवाऽहं करिष्ये स्वल्पकालतः ।शापेन तिर्यग्भावे च किञ्चिद् दुःखमवाप्स्यतः ॥६५॥जातिस्मरस्वभावेन मद्भक्त्या मां स्मरिष्यतः ।तिर्यग्योनिविमोक्षार्थमुद्भाव्य च निमित्तकम् ॥६६॥तदाऽन्तिके तयोः शीघ्रं गत्वा दास्ये प्रमोक्षणम् ।भक्तयोर्न चिरं दुःखं चिन्तां त्यज पितामह ॥६७॥इत्युक्तौ च प्रसन्नौ तौ महेन्द्रश्च पितामहः ।नारायणं प्रपूज्यैव नत्वा नारायणं सरः ॥६८॥आययतुश्च तत्तीरे यत्र चेटीबिडालिके ।जातिस्मरे तु ते दृष्ट्वा महेन्द्रं वेधसं तथा ॥६९॥आययतुर्द्रुतं पार्श्वे रुरुदतुश्च दुःखतः ।आश्वासिते च ते ताभ्यां शापमुक्तिर्निवेदिता ॥७०॥स्वल्पकालेन भगवान् शापमुक्तिं विधास्यति ।कुरुतं भजनं स्वाम्यनादिनारायणस्य वै ॥७१॥ज्ञानिनां नैव शोकोऽस्ति आगमा नाशिनो यतः ।शरीराणि समानानि भौक्तिकानि हि देहिनाम् ॥७२॥विज्ञत्वं शिष्यते तत्र ज्ञानं दुःखविनाशकम् ।अज्ञानिनां तु यद्दुःखं ज्ञानिनां सुखमेव तत् ।७३॥परिणामैश्च वस्तूनां तापैस्त्रिविधकैस्तथा ।संस्कारैश्च विभिन्नैश्च दुःखं सर्वं विवेकिनाम् ॥७४॥यौवनं सर्वथा दुष्टं दुःखदं कामकारणात् ।तृष्णा सहचरी तस्य सुख्यपि दुःखमाप्नुयात् ॥७५॥संसारे यदि दुःखं न को विशेषोऽस्य मोक्षतः ।तस्माद् दुःखं हि संसारः सुखं मुक्तिर्निगद्यते ॥७६॥सुखमिश्रं सदा दुःखं मायायां चाभिवर्धते ।तृष्णाक्षये महानन्दो माया तत्र न बाधते ॥७७॥तृष्णां परित्यजेत् प्राज्ञो यदिच्छेत् सुखमात्मनः ।कोटीन्द्रियसुखाग्र्याणां तृष्णानाशस्य नांऽशता ॥७८॥विषयाणामुपभोगस्तृष्णां वर्धयते नवाम् ।तृष्णा दोषो विषयाणां फलं दुःखतरं हि तत् ॥७९॥ज्ञानिनां तु विषयाणामुपभोगो निवृत्तये ।इच्छानाशे फलं श्रेष्ठं सुखं मोक्षसहायकम् ॥८०॥योगिनां ज्ञानिनां चैवं भोगा अपि न बन्धदाः ।प्रत्युताऽदर्शनजन्यतृषानिवर्तका हि ते ॥८१॥तृषातृप्त्यन्तविश्रान्ता ज्ञानयुक्ता यदा हि सा ।तृषा तृष्णावर्धिनी च मौढ्यभावान्विता यदि ॥८२॥मौढ्यं ज्ञानेन नश्येद्वै गुरुर्ज्ञानस्य कारणम् ।गुरोः प्राप्तिः पुण्ययोगात् पुण्यं शास्त्रश्रवादिभिः ॥८३॥शास्त्रश्रवाद्याः श्रद्धाभिः श्रद्धा मुमुक्षुतादिभिः ।मुमुक्षुता च कृपया हरेरेव प्रवर्तते ॥८४॥हरेः कृपा तु भजनात् सेवनात् स्मरणादितः ।अनादिश्रीकृष्णनारायणस्वामिपरेश्वरः ॥८५।श्रोतव्यश्चापि मन्तव्यो निदिध्यासेऽर्थ्य एव सः ।तस्य शरणमापन्ना तरन्ति दुःखसागरान् ॥८६॥सर्वथाऽर्पणमेतस्मै कार्यं सर्वात्मना सह ।प्रेमभक्तिः सदा कार्या तस्यैव भवपारदा ॥८७॥यदि स्यामो वयं तस्य सोऽपि स्यात्सर्वदा तु नः ।भक्तो भजते भक्तेशं भक्तेशो भजतेऽनुगम् ॥८८॥सुखसागरयोगेन चापगा सुखितां व्रजेत् ।दुग्धसागरयोगेन सरिद्वारि पयो भवेत्। ॥८९॥न माया परमेशेऽस्ति न दुःखं तृष्णिका न च ।न दोषा सन्ति वै कृष्णे नारायणे परेश्वरे ॥९०॥गुणा दिव्या अनवधिकातिशयविवर्जिताः ।सन्ति देवे महाकृष्णे भक्तास्तानाप्नुवन्ति वै ॥९१॥स्मर्यतां च भवद्भ्यां श्रीकृष्णनारायणप्रभुः ।स एवाऽचिरकालेन शापमोक्षं विधास्यति ॥९२॥निमित्तं च समुद्भाव्य स्वयमेवागमिष्यति ।तिर्यग्भावेऽपि चात्रैव तीर्थे स्नानं स्मृतिं हरेः ।९३॥नमनं मस्तकेनापि फलपत्रार्पणादिकम् ।नामरटणमेवाऽपि न त्यक्तव्यं कदाचन ॥९४॥एतादृशी यदि भक्तिस्तिर्यग्भावेऽपि जायते ।मानुषादपि देहात्स लाभः श्रेष्ठतमो भवेत् ॥९५॥विना भक्तिं पशुत्वं चात्मनां तुल्यं सुरेष्वपि।को विशेषः सुरत्वेऽपि यदि भक्तिर्न विद्यते ॥९६॥राज्यस्थस्याऽपि जिह्वाया रसग्राहे समानता ।सर्वेन्द्रियाणां सामर्थ्यं दरिद्रस्य च भूपतेः ॥९७॥समानं वै मया क्लृप्तं विशेषो नाऽत्र विद्यते ।शरीरं तु समानं वै समानानीन्द्रियाण्यपि ॥९८॥रसास्तेषां समानाश्च तृप्तिः समाऽपि सर्वथा ।दत्ताः सर्वशरीरिभ्यो विशेषो नाऽत्र विद्यते ॥९९॥हरेर्भक्तिः केवलैका कृता साऽत्र विशिष्यते ।तस्माद् भक्त्या भवतोश्चोद्धारः शीघ्रं भविष्यति ॥१००॥गच्छावोऽस्मत्सुसंस्थानं शं वामस्तु च भक्तितः ।इत्युक्त्वा पूज्यमानौ तौ महेन्द्रवेधसावुभौ ॥१०१॥चेटीबिडालिकाभ्यां सुस्प्रष्टौ भावेन पादयोः ।नतौ सुवन्दितौ व्योम्ना ययतुश्च निजं दिवम् ॥१०२॥ते ह्युभे पितुरादेशाद् भजेते श्रीनरायणम् ।दिवानिशं जपतश्च स्वामिनं श्रीरमापतिम् ॥१०३॥इत्येवमृषयस्तत्र नारायणसरोवरे ।ते ह्युभे भवतां शापकारणात् पशुपक्षिजे ॥१०४॥इत्युक्त्वा राधिके! कृष्णनारायणपरेश्वरः ।विशाश्राम क्षणं भक्तार्पितं वारि पपौ शुभम् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उष्ट्रालयदेशे हेमशालायनेन पृष्टायाश्चक्रवाकीमार्जारिकापूर्वजन्मकथाया वर्णननामाऽष्टनवतितमोऽध्यायः ॥९८॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP