संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ३७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ३७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३७ Translation - भाषांतर श्रीकृष्ण उवाच-अथ दैत्यस्ततो राधे! दैत्यानाह महत्तमान् ।पावदुर्गं मख्खनं च सैंहिकेयं च चोटिलम् ॥१॥धारेयं च विश्वसनं योद्धृमुख्यान्महाबलान् ।ऐरकं थूरकं नीम्बं चैरकं बर्बुरं तथा ॥२॥शाल्मलिं झिम्पटं कूर्चिं कर्कशं गृञ्जकं तथा ।तमलाकं च लशुनं पलाण्डुकं च भंगकीम् ॥३॥अहिफेनं महाजिह्मं वत्सनागमफेनकम् ।हिरकं विषकन्दं च ह्येतान् दैत्यधुरन्धरान् ॥४॥सौराष्ट्रराज्यलब्ध्यर्थं युद्धार्थं समुवाच सः ।कर्कं च कृकलासं च शिल्लकं गोधकं तथा ॥५॥घोरखादं वृकं द्वीपं शीतधारं च नायकान् ।मन्त्राणार्थं च युद्धार्थं प्राह वराटको बली ।६॥विप्रः कश्चित्तु मां प्राह तपः कष्टं महत्तरम् ।निष्किञ्चनानां धर्मः स निर्बलानां विशेषतः ॥७॥सबलानां तु समरो धर्मो राज्यं यतो लभेत् ।तस्मात् सौराष्ट्रदेशानां स्वायत्तीकरणं यथा ॥८॥अस्माकं दैत्यवर्याणां तथा स्यात् कुरुत द्रुतम् ।विना रणं न वै भूमिर्विना यूथं न वै जयः ॥९॥विनोद्योगं न वै सम्पद् यूथोद्योगरणाः सुखाः ।अस्माभिश्च प्रकर्तव्यं हरणं सम्पदां बलात् ॥१०॥सौराष्ट्रस्य तु देशस्य तथा राज्यमकण्टकम् ।सर्वे प्राहुस्तदा मग्ना ओं बाढं विजयोऽस्तु ते ॥११॥अथ पश्चिमवार्धेस्तु समारभ्याऽसुरास्तु ते ।ग्रामस्थान् पीडयामासुर्जह्रुश्च गृहसम्पदः ॥१२॥ग्रामाणां तु सहस्रं वै पश्चिमोदधिसन्निधौ ।प्रसह्य दैत्यैः स्वायत्तीकृतं भूश्च तथोत्तरा ॥१३॥खाडिकासन्निधौ स्वायत्तीकृता प्रायशश्च तैः ।शुश्राव राजा खट्वांगः सार्वभौमोऽसुरैः कृतम् ॥१४॥प्रजानामर्दनं सम्पद्धरणं ब्राह्मणार्दनम् ।राज्यसंस्थापनं चेति विज्ञाय नृपतीश्वरः ॥१५॥व्योममार्गेण तु सैन्यं प्रेषयामास भूरि सः ।परितो व्यूहमारच्य युयुधिरे च तद्भटाः ॥१६॥दैत्या अपि तदा व्योम्नि युयुधिरे च तैः सह ।अस्त्रैः शस्त्रैः शरैः कुन्तैर्भल्लैस्तोमरशक्तिभिः ॥१७॥प्रासैर्बाणैः खड्गवर्यैरसिभिर्मुद्गरादिभिः ।परिघैश्च गदाभिश्च वह्निगोलैः सुरंगकैः ॥१८॥जलगोलैर्विषगोलैरश्रुबाष्पैर्विषाऽनिलैः ।क्ष्वेडाऽनलैः शीतवृष्ट्या विद्युद्वृष्ट्या विहायसि ॥१९॥झंझावातैर्धूमवातैः शिलावृष्ट्या च पांसुभिः ।परस्परं सुबह्वीभिः कृतेन्द्रजालसृष्टिभिः ॥२ ०॥मायाप्रयोगकैर्व्योमकृत्रिमपुत्तलैस्तथा ।कृत्रिमयानगभटैः सैन्यानि युयुधुस्तदा ॥२१॥नष्टास्तत्राऽसुराश्चाऽन्ये मानवा बहुदेहिनः ।पराजिता असुरास्ते निराशा अभवन् यदा ॥२२॥अब्धिं प्रविष्टुं चेच्छन्ति धावमाना इतस्ततः ।किन्तु खट्वांगदसैन्यान्यभितः परितस्तथा ॥२३॥भूमौ व्योम्नि जले कृत्वा प्राकाराणि समन्ततः ।विद्यन्तेऽतो न निर्गन्तुं शेकुर्देशाद् बहिर्हि ते ॥२४॥अथ मुग्धा हि ते दैत्या जीवनेच्छापरास्तदा ।अश्वपट्टसरो दिव्यं विशालं चाप्यगाधकम् ॥२५॥विचार्य सम्प्रधाव्यैव विविशुस्तज्जले तलम् ।मनसा ते तु रक्षार्थं तुष्टुवुः परमेश्वरम् ॥२६॥अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।कम्भरानन्दनं श्रीमद्गोपालकृष्णबालकम् ॥२७॥करुणाशेवधिं देवं शरण्यं श्रीपतिं प्रभुम् ।उद्धारार्थं जगत्यस्मिन् प्रादुर्भावगतं हरिम् ॥२८॥दिनाऽनाथ कृपासिन्धो दुःखोद्धारकर प्रभो ।शरणागतरक्षाकृज्जीवदानं प्रदेहि नः ॥२९॥खट्वांगदस्य सैन्यानि नाशयन्त्यभितो हि नः ।अपराधप्रकर्तॄंस्तन्नः प्रपन्नानव प्रभो ॥३०॥युद्धधर्मं समाश्रित्य बलधर्मं तथाऽपराम् ।दैत्यदानवरीतिं च राज्यमाप्तुं कृतोद्यमाः ॥३१॥तत्रैव यद्यपराद्धं तव केशव रक्षय ।क्षमां कुरु कृपासिन्धो शाधि दण्डं विधेहि च ॥३२॥इत्येवं जलमध्यस्थाः स्तुतिं चक्रुर्यदाऽसुराः ।बालकृष्णस्तदा शंखं दध्मौ स्वस्य रणाऽङ्गणे ॥३३॥कोटिरूपोऽभवत्तत्र व्योम्नि भूमौ जलेऽपि च ।वीक्ष्य सैन्यानि तत्रैव विगर्वा ह्यभवन् क्षणात् ॥३४॥अथ सेनाधिपतयो व्योम्ना तं शरणं ययुः ।हरिश्चाऽऽज्ञापयत् ताँश्च, मा घात्याः शरणागताः ॥३५॥जीवग्राहान् गृहीत्वैव दास्याम्येतानहं भटाः ।यथापराधदण्डं वै करिष्यामि प्रयान्तु शम् ॥३६॥स्वागतं चापि सत्कारं भोजनं पानमित्यपि ।गृह्णन्तु लोमशात्त्वत्र गुरोर्योगिवराच्छुभाः ॥३७॥इत्युक्तास्ते तु सैन्यानां परिहारं व्यधुर्द्रुतम् ।लोमशेन यथाज्ञं च सत्कृता भोजनादिभिः ॥३८॥'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।इति मन्त्रप्रदानेन वैष्णवास्ते भटाः कृताः ॥३९॥अथ तेषां सन्निधौ च लोमशस्याऽऽश्रमे शुभे ।निशि दैत्यान् समाहूय बालकृष्णः स्वयं प्रभुः ॥४०॥चक्रेऽपराधवद्दण्डं तेषां वै राधिके यथा ।तत्र वराटकं दैत्यं दण्डं गिरिं व्यधाद्धरिः ॥४१॥पश्चिमे त्वब्धितीरे स वराडो नाम पर्वतः ।समभूच्छ्रीहर्षदेवीसेवितश्च बृहस्पतेः ॥४२॥वरदानाद् भूभृदयं पर्वतः समजायत ।पावदुर्गं हरिश्चापि पावादुर्गं तु पर्वतम् ॥४३॥निर्ममे दण्डरूपं तत्सौराष्ट्रपूर्वतो दिशि ।मख्खनं पर्वतं चापि निर्ममे मख्खनाभिधम् ॥४४॥सैंहेयकं च सिंहाद्रिं चोटिलं चापि पर्वतम् ।चोटीलकं निर्ममे च धारेयं धाररूपिणम्॥४५॥विश्वसनं च वै विश्वामित्रं नाम तु पर्वतम् ।चक्रे श्रीभगवाँस्तेषां तीर्थावासेन पुण्यता ॥४६॥श्रीनारायशरणागतेः प्राप्तं शुभं फलम् ।यत्र वै मुनयः सन्तः सद्वा वसन्ति पावनाः॥४७॥अथ यास्यन्ति मुक्तिं ते कल्पान्ते ब्रह्मणा समम् ।अथ येऽन्येऽपि दैत्या वै योद्धारस्तेभ्य इत्यपि ॥४८॥ददौ दण्डं वदाम्यत्र राधिके तूद्भिदुद्भवम् ।ऐरकं तु समुद्रे वै स्तम्बं पत्रान्वितं तदा ॥४९॥कृत्वा ददौ वरं कुष्णप्राप्तिः क्वचिद्भविष्यति ।चैरकाचापि ३वार्धौ वासं स्तम्बात्मकं ददौ॥५०॥थूटकं कण्टकं हस्तान्वितं प्राकारवद् भुवि ।रक्षाकरं चकारापि चिरजीवित्वमिप्यपि ॥५१॥निम्बं कटुं कृतं वृक्षं तं ररक्ष नृपांगणे ।बर्बुरं कण्टकव्याप्तं दन्तधावनपादपम् ॥५२॥नदीशैलादितीर्थेषु न्यवासयच्छुभाश्रयम् ।शाल्मलिं पर्वतेऽरण्ये मृदुरुफलभूषितम् ॥५३॥वृक्षं कृत्वा ददावस्मै रुफलं चौपधानिकम् ।तूलैर्भवति सर्वत्र सुखदं श्रेष्ठिनां हि तत् ॥५४॥अथ वै झिम्पटं स्तम्बं शलाकाढ्यं चकार सः ।दीर्घा मार्जनिका येषां भवन्ति ह्युपकारिकाः॥५५॥कूर्चिं खर्जनिकावल्लीं चकार भगवान् वने ।कर्कटं चातिकटुकं वल्लीरूपं व्यधात्प्रभुः ॥५६॥गृञ्जकं च तमालं च धूम्रपानार्थकं व्यधात् ।लशुनं च पलाण्डुं च कन्दरूपे व्यधात्प्रभुः ॥५७॥अहिफेनं महाजिह्मं भंगां च वत्सनागकम् ।विषरूपान् व्यधात् कृष्णोऽफेनकं क्षारकं व्यधात्॥५८॥हीरकं खनिजन्यं तु विषाक्तं कंकरं व्यधात् ।विषकन्दं भूमिगर्भं व्यधात्कन्दं विनाशकम् ॥'९९॥कृकलासं शिल्लकं गोधकं कर्कं सरीसृपान् ।घोरखादं वृकं द्वीपं शितधारं पशून् व्यधात् ॥६०॥तान्सर्वानसुरान् कृषानारायणः पृथक् पृथक् ।आवासयद् वने भूमौ जले वृक्षे च भित्तिषु ॥६१॥एते सर्वे ह्यसुराश्च वंशविस्तारवर्धिताः ।तीर्थयोगेन तु मुक्तियोग्याः कृता हि शार्ङ्गिणा॥६२॥ततः प्रजानां क्षेमं च कुशलं च व्यजायत ।बृहस्पतिर्महेन्द्रं च ययौ प्राह वराटकः॥६३॥तापसा च्यावितो युद्धबुद्धिमारोपितस्तदा ।युद्धं चकार राज्यार्थं प्रापितः शैलतां स हि ॥६४॥अन्येऽपि च तथा दैत्या दण्डेन यमिता दृढम् ।श्रुत्वा शान्तिं जगामाऽथ सौराष्ट्रमभवत् सुखम् ॥६५॥एवं प्रभोः शुभैश्वर्यं राधिके! कथितं तव ।सतां तीर्थप्रसंगेन ते वै यास्यन्ति मोक्षणम् ॥६६॥अथाऽन्यत्ते कथयामि चरित्रं पापिशोधकम् ।अनादिश्रीकृष्णनारायणस्य राधिके शृणु ॥६७॥म्लेच्छा डफ्फरजातीया अटवीमनुसृत्य च ।समुद्रयानमार्गैश्च न्यूषुर्गत्वा सुराष्ट्रके ॥६८॥पापाः पापसमाचाराः पशुमांसादनास्तथा ।पक्षिमत्स्याशनाः पत्नीपतिधर्मविवर्जिताः ॥६९॥पाशवीं वृत्तिमारूढाः परसम्पत्प्रजीवनाः ।चौर्यकर्मकराः शश्वत् दानधर्मादिवर्जिताः ॥७०॥यत्र क्वापि निवासाश्च परक्षेत्रान्नहारकाः ।अस्त्रशस्त्रधराः श्वादिक्रूरप्राणिप्रपोषकाः ॥७१॥व्याधधर्मपराः शश्वदटव्यां वासिनः खलाः ।लुण्टका मारकाः सर्वहारकाः क्रूरचारिणः ॥७२॥शकटोष्ट्रखरवाहाः परभाग्योदरंभराः ।सस्यविनाशकाः कृषिकर्मकारप्रपीडकाः ॥७३॥सहस्रमानवाः साक्षाद् यमदूतभयंकराः ।मद्यपानकराः क्वापि मनुष्यज्ञातिनाशिकाः ॥७४॥निर्दया धूर्ततायुक्ता देवधर्मादिनिन्दकाः ।सौराष्ट्रवासिनः सर्वान् पीडयन्ति स्म सर्वतः ॥७५॥हाहाकारोऽभवद् देशे दिक्षु विदिक्षु तत्कृतः ।जनास्तु पीडितास्तैश्च स्वश्वपट्टसरोवरम् ॥७६॥आययुर्निजरक्षायाः प्रार्थनार्थं हरिं प्रति ।अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥७७॥न्यवेदयन् स्वकां पीडां तज्जातां सर्वघातिनीम् ।श्रुत्वा श्रीभगवानाह करोमि तस्य चौषधम् ॥७८॥इत्युक्त्वा स प्रसस्मार चक्रं स्वस्य सुदर्शनम् ।तथा तत्क्षेत्रपालाँश्च कालीं म्लेच्छविनाशिनीम् ॥७९॥अर्धनारीश्वरसैन्यं सर्वशस्त्रास्त्रमण्डितम् ।गरुडं च गजं दिव्यं प्रसस्मार हरिस्तदा ॥८०॥आययुः शीघ्रमेवैते नेमुश्च पादयोर्हरेः ।ज्ञापयामासुराज्ञार्थं श्रीहरिस्तानुवाच ह ॥८१॥म्लेच्छा दफ्फरजातीयाः पीडयन्ति सुराष्ट्रकम् ।चोरयन्ति धनान्नानि कृषिवस्तूनि सर्वथा ॥८२॥कृषेश्चाऽप्युपकरणान्यटवीस्थानि यानि तु ।छेदयन्ति सुवल्ल्यादि वृक्षान् स्तम्बान् लतादिकाः ॥८३॥गुल्मान् पुष्पफलाढ्याँश्च शाककन्दान् हरन्ति च ।पत्रसस्यादिधान्यानि चारयन्ति पशून् निजान् ॥८४॥पक्वकणिशशूकाँश्च हरन्ति क्षेत्रसस्यतः ।घ्नन्ति क्वचिन्मनुष्याँश्च हरन्ति वृषगोधनम् ॥८५॥हरिणाँश्च शशादीँश्च मारयन्ति हि पापिनः ।प्रजाजनान् प्रसह्याऽपि बध्वा नयन्ति वै क्वचित् ॥८६॥नरान् नारीर्बालकाँश्च पीडयन्ति प्रजाजनान् ।सहस्रशोऽत्र वर्तन्ते ह्यटव्यामित उत्तराम् ॥८७॥दिशं यान्त्वपराधिभ्यो दण्डं ददतु तान् यथा ।यथा नैवं पुनः कुर्युर्यद्वा घ्नन्तु समन्ततः ॥८८॥इत्युक्ता मूर्तिमत् चक्रं सुदर्शनं च कालिका ।अर्धनारीश्वरं सैन्यं गरुडश्चेति सेवकाः ॥८९॥मिलित्वा प्रययुः शीघ्रं दिक्फरान् शासितुं तदा ।दिक्फरास्ते विलोक्यैतान् शिक्षकान् हन्तुमुद्यताः ॥९०॥प्रासतोमरभल्लैश्च गदामुद्गरखड्गकैः ।बन्धूकीभिः शरैश्चापि चक्रादिभिर्व्यधुर्मृधम् ॥९१॥तदा सैन्यं त्वर्धनारीश्वरस्यैतान् जघान ह ।प्रासैस्तोमरभल्लाद्यैर्गदादण्डाऽसिमुद्गरैः ॥९२॥शरैर्बाणैः क्षेपणैश्च प्रस्तरैर्गोलिकादिभिः ।शक्तिभिः पाशभेदैश्च युयुधे दफ्फरैः सह ॥९३॥प्राणग्लहं समभवद् युद्धं परमदारुणम् ।उभयोः पक्षयोर्विरा निद्रां गच्छन्ति शाश्वतीम् ॥९४॥विलोक्यैवं तदा चक्रं सुदर्शनं स्वयंप्रभम् ।वह्निचक्रं स्वयं भूत्वा डफ्फराऽनीकमापतत् ॥९५॥कबन्धेभ्यो मस्तकानि निकृन्तति स्म वेगतः ।यस्य यस्य गले लग्नं द्वेधा कृत्वा प्रगच्छति ॥९६॥डफ्फरास्ते बहवो वै हतास्त्वन्ये विदुद्रुवुः ।अनादिश्रीकृष्णनारायणं ते शरणं ययुः ॥९७॥शरणागतरक्षा संकर्तव्या प्रभुणा यतः ।जीवतो न हताः शेषा देशपारं निवासिताः ॥९८॥शतानि पञ्च जीवन्तो ययुर्नत्वाऽन्यतः स्थलम् ।किन्तु स्वकृतपापैस्ते समुद्रे नौप्रभञ्जनात् ॥९९॥जले मग्ना ययुर्मृत्युं दपफना म्लेच्छजातयः ।सौराष्ट्रः सुखवानास्ते श्रीकृष्णस्य प्रतापतः ॥१००॥पीडाः सर्वा गता लोपं प्रजाः सौख्यं समाश्रिताः ।सुदर्शनाद्यास्तत्कार्यं कृत्वा श्रीहरिसन्निधौ ॥१०१॥सजीवनाः स्वयं भूत्वा दिव्या ये युद्धमर्दिताः ।तेऽप्यागत्य नमश्चक्रुस्ततो मूर्तौ लयं गताः ॥१०२॥अर्धनारीश्वरसैन्यं सरस्तीरे तिरोऽभवत् ।जयकारोऽभवत् पृथ्व्यामायुधानां हरेरपि ॥१०३॥इत्येतद् राधिके बालकृष्णस्य चरितं तव ।कथितं श्रावपाठाभ्यां स्वर्गमोक्षप्रदं शुभम् ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वराटकाख्याऽऽसुरसैन्यादिपराजयदण्डादिका डफ्फरजातीयम्लेच्छनाशनं चेत्यादिनिरूपणनामा सप्तत्रिंशोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : April 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP