संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ४२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ४२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४२ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! राजा कन्थाधरो हि नित्यशः ।नारीयोगादभवच्च नास्तिकः स्वार्थतत्परः ॥१॥घोषयामास नगरे दुरात्मा वेदनिन्दकः ।न दातव्यं न यष्टव्यं न होतव्यं कदाचन ॥२॥अहमेकोऽत्र वै वन्द्यः पूज्योऽहं भवतां सदा ।मया वै पालिता यूयं निवसध्वं प्रजाः सुखे ॥३॥तन्मत्तोऽन्यो न देवोऽस्ति युष्माकं य-प्परायणम् ।मह्यं देयं च हवनं हव्यं दानं च दक्षिणा ॥४॥राजाऽहं लोकपालोऽहं प्रजापालोऽहमेव च ।दाता धाता विधाता च प्रजानामहमेव च ॥५॥प्राणदाता सस्यदाता धन्यदाताऽहमेव च ।सुखदो दण्डदश्चापि रक्षाप्रदोऽहमेव च ॥६॥मन्मुखं वह्निरेवाऽस्ति देयं तत्रैव नाऽनत्ठे ।मत्कर१पात्रमूर्धन्यौ दानं तत्रैव युज्यते ॥७॥करो दानं न तु भिक्षा करो देयो हि नीतिजः ।वस्त्राणि पशवो गावो महिष्योऽजाऽविकादिकम् ॥८॥धनं सर्वं प्रदेयं मे यत्पुनश्च प्रजाकृते ।दुर्भिक्षादौ प्रयुज्येत प्रजानां सुखहेतवे ॥९॥एतच्छ्रुत्वा तु वचनं ब्राह्मणा ब्रह्मदर्शिनः ।प्रजावृद्धाश्च विद्वांसो वेदनेत्रा विदुत्तमाः ॥१०॥परस्परं सुसम्भूय राजशिक्षार्थमाययुः ।प्रणिपत्य च राजानं सत्कृता वाक्यमब्रुवन् ॥११॥श्रुतिः प्रमाणं धर्मस्य ततो यज्ञः प्रतिष्ठितः ।यज्ञैर्विना प्रियन्ते न देवाः सस्यप्रदा दिवि ॥१२॥अप्रीतेषु च देवेषु दुर्भिक्षं सम्प्रजायते ।प्रजानाशो भवेद् राजन् देशविप्लव इत्यपि ॥१३॥तस्माद् राजन् भूतशान्तिर्ग्रहशान्तिस्तथा सदा ।देवतृप्तिः पितृतृप्तिर्विधातव्या महाध्वरैः ॥१४॥यज्ञो नैव निरोद्धव्यः श्रुतिमूलो यतो मखः ।वह्निमुखाः सदा देवास्तर्पणीयाः सुखप्रदाः ॥१५॥इत्युक्तोऽपि नृपः कन्थाधरोऽमन्यत नैव च ।वेदान् विनिन्द बहुधा प्रतारणपरा इति ॥१६॥विप्राः स्वार्थपरा धूर्तकल्पिता वेदराशयः ।द्विजा मिष्टान्नलुब्धाश्च वहिमुद्दिश्य देवताः ॥१७॥किंचित्प्रक्षिप्य वह्नौ च स्वयं मिष्टानि भुंजते ।दक्षिणाधनपात्राणि गोवाजिकरिणः स्वयम् ॥१८॥गृह्णन्ति तन्निमित्तेन तस्मात्स्वार्थपरा हि ते ।मूर्तिस्थो नैव देवोऽस्ति न भुंक्ते नाऽस्य रोचते ॥१९॥विप्रो देवस्तु प्रत्यक्षः सर्वं यदस्य रोचते ।देवं निमित्तमुद्भाव्य मिष्टान्नं मिष्टवारि च ॥२०॥आभूषणं पुष्पामालां भुंक्ते गन्धं च भूसुरः ।गोदानं दुग्धपानं च शय्यादानं गृहार्पणम् ॥२१॥वाटिका देवतार्थं या भुंक्ते सर्वं च भूसुरः ।यानं पात्राणि रम्याणि छत्रं चामरवाहनम् ॥२२॥मृद्वास्तरणं भोग्यानि भुंक्ते सर्वं तु भूसुरः ।रसान् फलानि पक्वान्नान्युत्तमानि च ॥२३॥दासान् दासीश्च भृत्याँश्चोपभुंक्ते पूजको द्विजः ।तस्मात् स्वार्थपरा विप्रा मखमुद्दिश्य भुञ्जते ॥२४॥अतो नैव हि यष्टव्यं दातव्यं नैव नैव च ।इत्याज्ञा हृड्डकायिन्या राज्ञ्या मे वर्तते दृढा ॥२५॥उल्लङ्घ्यैता कामकारो मद्दण्डभाग्भविष्यतिइत्येवं डिण्डिमा राज्ञा राष्ट्रे सर्वत्र कारिता ॥२६॥तत आरभ्य देवानां पूजा मखा न चाऽभवन् ।दुर्भिक्षं चाऽभवत्तेन प्रजाश्च दुःखपीडिताः ॥२७॥प्रसह्य प्रबला द्रव्यं निर्बलानां हरन्ति च ।राजा च विषयासक्तो रक्षाकार्यं करोति न ॥२८॥कालवेगात् तदा राष्ट्रं विपरीतमभूत् खलु ।दण्डः सिद्धिप्रदः शंभोस्त्यक्त्वा भूपं तिरोऽभवत् ॥२९॥तदा राजा शुशोचाऽति मम नष्टं हि जीवनम् ।ऐश्वर्यं विगतं चापि देवानामवमाननात् ॥३०॥प्रजा रुष्टाश्च धान्यार्थं रुरुधुर्भूभृदङ्गणम् ।धान्यं गृहीत्वा प्रययुस्ततो द्रव्यं गवादिकम् ॥३१॥राज्यस्मृद्धिं प्रजह्रुश्च प्रजाश्चातीव निर्धनाः ।अथ कन्थाधरस्तस्य पत्नी च हृड्डकायिनी ॥३२॥उभौ भयात् प्रययतुररण्यं चातिदुःखितौ ।तयोश्चासीत् कुमारस्तु वर्षमात्रोऽतिकोमलः ॥३३॥ब्राह्मणास्तं प्रजह्रुश्च रक्षणार्थं निजालयम् ।विमानं दिव्यदण्डश्च दिव्योपकरणानि च ॥३४॥विगतानि निजं स्थानं राज्यं शून्यमभूत्तदा ।पुण्यपुञ्जे वर्धिते तु वर्धन्ते वै विभूतयः ॥३५॥पुण्यनाशे विनश्यन्ति देवानामस्य का कथा ।राधिके स नृपोऽरण्ये कालधर्ममुपागतः ॥३६॥अन्नं जलं परित्यज्य मृताऽपि हृड्डकायिनी ।वार्धेस्तीरे म्लेच्छजन्माऽवापतुस्तौ च नास्तिकौ ॥३७॥निकटे तौ भाग्ययोगादुत्पन्नौ दुःखभागिनौ ।कुमारो द्वादशवर्षोऽभवद् रणंगमाऽभिधः ॥३८॥सोपवीतो विप्रवाक्यैर्ज्ञात्वा पितृविचेष्टितम् ।असद्गतिं वने चापि चिन्तयामास वै मुहुः ॥३९॥विद्याभ्यासं विधायैव राज्यभारवहोऽभवत् ।तं योग्यं च परं मत्वा धर्मकार्यपरायणम् ॥४०॥अभ्यषिञ्चन् ब्राह्मणास्तं राजानं भूमिपालकम् ।ततः स रञ्जयामास प्रजा धर्मेण पालयन् ॥४१॥यज्ञं चकार धर्मात्मा देवपूजामवर्तयत् ।ततो ब्राह्मणमध्यस्थो जगाद प्रणिपत्य तान् ॥४२॥पिता मम तथा माता यज्ञविच्छेदकारकौ ।मृतौ वने क्रिया तयोः कथं कार्या मया द्विजाः ॥४३॥आवेदयत इत्येवं ब्राह्मणानां च सन्निधौ ।तेजसा भासमानश्च स्वयंप्रकाशनामकः ॥४४॥अनादिश्रीकृष्णनारायणशिष्यो विहायसा ।सोमक्षेत्रं प्रयास्यन् वै कोटीनारमवातरत् ॥४५॥विप्रान् विलोक्य सहसा तान्प्रत्यभ्याजगाम ह ।तस्मै ते त्वासनं दत्वा पप्रच्छुः प्रणिपत्य च ॥४६॥धन्या वयं समये च प्राप्ता महर्षिदर्शनम् ।लोकानां दुःखनाशार्थं श्रेयोऽर्थं चरणं तव ॥४७॥भगवन् सर्वलोकस्य जानासि त्वं शुभाशुभम् ।साक्षादनादिकृष्णस्य शिष्योऽसि हृदयंगमः ॥४८॥पिताऽस्य राज्ञो दुष्टात्मा देवब्राह्मणनिन्दकः ।स्वधर्मरहितः पत्निसहितोऽरण्यमाश्रितः ॥४९॥वने मृत्युं गतो भाति क्वास्ते वा पापकर्मणा ।कथं तस्य भवेन्मुक्तिर्वद बालोऽस्य पृच्छति ॥५०॥स्वयं प्रकाशो दिव्यात्मा ज्ञात्वा दिव्येन चक्षुषा ।कुंकुमवापिकास्थं श्रीकृष्णं स्मृत्वाऽब्रवीदिदम् ॥५१॥पश्चिमाऽब्धितटे चास्ते राजा राज्ञीयुतः खलु ।म्लेच्छमध्ये समुत्पन्नः क्षयकुष्ठसमन्वितः ॥५२॥तस्योद्धारश्च कर्तव्यः पुत्रेणाऽनेन सर्वथा ।पुत्रः स कथ्यते लोके यः पितृँस्त्रायते भयात् ॥५३॥गच्छतु तत्र पुत्रोऽयं म्लेच्छं नीत्वा सभार्यकम् ।अश्वपट्टसरस्तीर्थे कृष्णनारायणाश्रिते ॥५४॥तस्य देहं तीर्थजले करोतु निर्मलं ततः ।निष्पापः सप्रियो मुक्तिं प्रयास्यति न संशयः ॥५५॥स्वयंप्रकाशवचनं श्रुत्वा विप्रा प्रजाजनाः ।रणंगमं कुमारं तं प्राहुर्याहीति तं प्रति ॥५६॥कुमारः स च विप्रैश्च परिमेयपुरःसरैः ।सहितः प्रययौ चाब्धितटं यत्र पिता स्थितः ॥५७॥स गत्वा पश्चिमं स्थानं म्लेच्छाश्रयं द्रुमान्वितम् ।मकरालयनामाढ्य मार्गयामास किंकरैः ॥५८॥ददृशुः किंकरास्तं च कुष्ठिनं क्षयरोगिणम् ।ददृशुस्तां हृड्डकिनीं सकुष्ठां क्षयरोगिणीम् ॥५९॥उभौ जातिस्मरौ चास्तां प्रतीक्षमाणौ पुत्रकम् ।उद्धारकं चागतं संश्रुत्वाऽतिमुदितौ तदा ॥६०॥म्लेच्छो म्लेच्छी सोत्सुकौ च किंकरैः सह सत्वरम् ।आययतुर्यत्र चास्ते कुमारस्तु रणंगमः ॥६१॥रुरुदतुश्च तं वीक्ष्योद्धारं प्रति पुनः पुनः ।प्रार्थयामासतुस्तत्र तस्थतुस्तस्य सन्निधौ ॥६२॥पुत्रस्तौ कुष्ठिनौ वीक्ष्य तथा क्षयसमन्वितौ ।स्वयं शोकेन महता सन्तप्तो वाक्यमब्रवीत् ॥६३॥आज्ञां पित्रोस्तु युवयोः समादाय नयाम्यहम् ।अश्वपट्टसरस्तीर्थं करिष्यामि निरामयौ ॥६४॥अथाऽनयोः पितृवर्गे गत्वा राजाऽब्रवीदिदम् ।हा म्लेच्छा नौमि वश्चात्र कुष्ठिनौ द्वाविमौ जनौ ॥६५॥चिकित्सार्थं क्षयस्यापि स्वगृहं च नयाम्यहम् ।तत्राऽहमेतौ निरुजौ करिष्ये, चेद् भवन्मतम् ॥६६॥तथेति सर्वतो म्लेच्छाः कुमारं तं दयापरम् ।ऊचुः प्रणतसर्वांगा यथा जानासि तत् कुरु ॥६७॥तत आनीय पुरुषान् शिबिकावाहनान्वितान् ।द्वौ पूर्वपितरौ राजा शिविकायां न्यषादयत् ॥६८॥राजा चानुचराश्चापि विप्राश्च प्रातरेव ह ।प्रययुः सत्वरं सायं चाश्वपट्टसरो ययुः ॥६९॥ऋषिः स्वयंप्रकाशोऽपि चाश्वपट्टाश्रमं ययौ ।नृपाद्यास्तु निजं स्थानं विदधुर्वटसन्निधौ ॥७०॥पश्चिमे तु तटे चास्य सरसो वायुदिग्भुवि ।रात्रौ सर्वे तीर्थभूमौ चक्रुर्विश्रान्तिमुत्तमाम् ॥७१॥राजा विप्राश्च तौ प्रातः स्नापयितुं सरोवरे ।समुद्यतास्तदा वायुरन्तरीक्षेऽब्रवीदिदम् ॥७२॥मा राजन् साहसं कार्षीस्तीर्थं रक्ष प्रयत्नतः ।इमौ पापेन घोरेण सर्वविधेन वेष्टितौ ॥७३॥वेदनिन्दाकरौ देवद्रोहिणौ यज्ञनाशकौ ।धर्मनाशकरौ पापौ पापान्तो नैव विद्यते ॥७४॥पाते सरस्यनयोस्तु सरः शुष्कं भविष्यति ।इमौ स्नातौ महत्तीर्थं नाशयिष्यत उल्बणौ ॥७५॥तस्मान्नैतौ सरस्तीरे जले समवगाहय ।एतद् व्योमवचः श्रुत्वा दुःखेन महताऽन्वितः ॥७६॥उवाच शोकसन्तप्तो व्योमवाणीं प्रति प्रभो! ।यद्येतौ घोरपापिष्ठौ स्नानार्हौ नैव नैव च ॥७७॥प्रायश्चित्तं करिष्येऽहं तयोरर्थे वद प्रभो ।ततो वायुश्च देवाश्च तीर्थान्यपि समन्ततः ॥७८॥अभिलक्ष्य च राजानं सर्वे वचनमब्रुवन् ।स्नात्वा स्नात्वा च तीर्थेषु अश्वसरःस्थितेषु च ॥७९॥मुहुस्त्वमभिषिञ्चस्व तीर्थकलशवारिभिः ।आगसां लुम्पनं यावत् तयोः स्यात् तावदेव ह ॥८०॥स्वार्थपोषयितुर्देवदूषयितुर्जनस्य वै ।सकृत् स्नानेन शुद्धिर्न जायते कुत्रचित्क्वचित् ॥८१॥तस्मादेतौ समुद्दिश्य स्नात्वा तीर्थेषु भक्तितः ।अभिषिञ्चस्व तोयेन मुहुः पूतौ भविष्यतः ॥८२॥इत्येवं वचनं श्रुत्वा कृत्वा तत्राश्रमं ततः ।तीर्थे तीर्थे मुहुः स्नात्वा समानीय घटे जलम् ॥८३॥दिने दिने च तीर्थेषु कृत्वा चाप्लवनं नृपः ।अभ्यषिञ्चत् स्वपितरौ तीर्थतोयेन नित्यशः ॥८४॥एवं तीर्थजलैः सर्वैरभिषिक्तौ पुनः पुनः ।अश्वतीर्थस्य माहात्म्यात् तौ पुत्रेण च पावितौ ॥८५॥निष्पापौ तु यदा जातौ तीर्थान्याहुस्तदा नृपम् ।एतौ पवित्रौ परमौ सरसि चावगाहय ॥८६॥इत्युक्तो रणगो राजा वैशाखे तावगाहयत् ।नियतौ तत्क्षणाज्जातौ दिव्यदेहसमन्वितौ ॥८७॥म्लेच्छता लयमापन्ना दिव्यप्रभा प्रवर्धिता ।कन्थाधरो विमानस्थो सस्त्रीको देवताऽभवत् ॥८८॥अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।तुष्टाव परया प्रीत्या विमानस्थोऽतिहर्षितः ॥८९॥परब्रह्म परोद्धारकृपानुग्रहविग्रह ।तव शिष्येण ऋषिणा तारितौ पापिनौ प्रभो ॥९०॥पुत्रेण तारितौ चापि त्वयाऽपि तारितौ हरे ।तोयैश्च तारितौ दुष्टौ परोपकृतिशालिभिः ॥९१॥विप्रैश्च तारितौ घोरात्तमसोऽज्ञानवैभवात् ।नारकी तारितौ कृष्णनारायण तवाऽऽश्रयात् ॥९२॥परेश्वराय हृत्स्थाय विप्रस्थाय च ते नमः ।स्वयंप्रकाशरूपाय तीर्थात्मकाय ते नमः ॥९३॥नमः शरण्यदेवाय पापिप्राणहिताय च ।श्रितमोक्षाय बालाय बालकृष्णाय ते नमः ॥९४॥त्वप्प्रतापात् तरन्त्येव यक्षराक्षसपन्नगाः ।दैत्याश्च दानवा दुष्टा आसुरास्तामसास्तथा ॥९५॥मायिका वासनायुक्ता गर्विष्ठाश्चाभिमानिनः ।व्यवायिनः पिशितादाः स्तेना आसवपायिनः ॥९६॥वर्णसंकरकाराश्च गोस्त्रीहत्याकरास्तथा ।त्वत्प्रतापात्तरन्त्येव कृपानुग्रहशेवधेः ॥९७॥आवां च तारितौ यामस्तव धामाऽमृतं प्रभो ।इत्युक्त्वा प्रणिपत्यैतौ पुत्र स्वस्ति तवाऽस्तु च ॥९८॥दत्वाऽऽशिषो ययतुश्च लोमशस्याऽऽश्रमं प्रति ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥९९॥इतिमन्त्रं लोमशाच्च गृहीत्वा तुलसीस्रजम् ।परमौ वैष्णवौ भूत्वा ययतुर्वैष्णवं पदम् ॥१००॥आश्चर्यं परमं प्राप्तास्तैर्थिकाश्च कुटुम्बिनः ।यदत्र स्नानमात्रेण मुक्तिर्जाता हि शाश्वती ॥१०१॥अनादिश्रीकृष्णनारायणस्येयं दया परा ।राधिके प्रबलेच्छा च करुणा प्रबला हरेः ॥१०२॥यत्र मुक्तावभवतां कन्थाध्रो हृड्डकायिनी ।कन्थाध्रं तत्परं तीर्थं ख्यातिमापद्धरातले ॥१०३॥रूपद्वयं दधाराऽथ देवी सा हृङ्डकायिनी ।छायारूपा ययौ नैजं पितरं यमराजकम् ॥१०४॥यमराजाऽऽज्ञया सा चाऽभवत् हिक्कास्वरूपिणी ।सर्वप्रजासु नियतावासं चकार योगिनी ॥१०५॥द्वितीयेन स्वरूपेण दिव्या हृच्छायिनी सती ।मुक्तिमार्गं गता दिव्यपतिना साकमेव सा ॥१०६॥मुक्तिभावं गता साऽपि पितृमार्गानुगामिनी ।हिक्कारूपा वासनया छायारूपा बभूव ह ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेकन्थाधरस्य हृड्डकायिनीपत्नीयोगेन नास्तिक्यं, वेदकर्मादिनिरोधेनैश्वर्यनाशे वने मरणं म्लेच्छजन्म, पुत्रेण रणंगमेनाऽश्वपट्टसरस्तीर्थे कृतोद्धारश्चेतिनिरूपणनामा द्वाचत्वारिंशोऽध्यायः ॥४२॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP