संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १५४ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १५४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५४ Translation - भाषांतर श्रीकृष्ण उवाच-ततश्च श्रीहरिः प्राह देवायतनकाय यम् ।ब्रह्मप्रियादिहोमं च राधे तं ते वदाम्यपि ॥१॥अनादिश्रीकृष्णनारायणस्य ब्राह्मरूपिणीः ।ब्रह्मप्रियश्चत्वारिंशत् शतं चावाह्य पूजयेत्। ॥२॥स्वर्णसिहासनं ध्यात्वा विशालं ताः समाह्वयेत् ।तण्डुलेष्वथ वा पूगीफलेषु चार्चयेद् द्रवैः ॥३॥ओं श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे-नक्षत्राणि रूपमश्विनौ व्यातंन् इष्णं ।निषाणमुम्मईषाण सर्वलोकम्मइषाणः ॥४॥प्रथमं षण्महाब्राह्मीप्रियाश्चावाहयेन्मखी ।ओं श्रीराधिकायै स्वाहा इदं राधिकायै नमम ॥५॥आह्वयामि स्थापयामि पूजयामि नमामि ताम् ।धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥६॥ताम्बूलकं तथा नीराजनं समर्पयामि च ।ओं श्रीलक्ष्म्यै तथा स्वाहा इदं लक्ष्म्यै नमम ओम् ॥७॥आह्वयामि स्थापयामि पूजयामि नमामि च ।धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥८॥ताम्बूलकं तथा नीराजनं समर्पयामि च ।ओं श्रीमाणिक्यायै स्वाहेदं माणिक्यायै नमम ॥९॥ओं श्रीब्रह्मविद्यायै स्वाहा इदं ब्रह्मविद्यायै नमम ।ओ श्रीरमायै च स्वाहा इदं रमायै च नमम ॥१०॥ओं श्रियै च तथा स्वाहा इदं श्रियै च वै नमम ।आह्वयामि स्थापयामि पूजयामि नमामि च ॥११॥धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ।ताम्बूलकं तथा नीराजनं समर्पयामि च ॥१२॥परविद्यां चाह्वयामि पूजयामि नमामि च ।धूपं दीपं सुनैवेद्यं समर्पयामि ओं नमम ॥१३॥ब्रह्मप्रियास्तथा गीता उपनिषद इत्यपि ।जयन्तीश्चैकादशीश्चाऽऽराधनां चाह्वयामि च ॥१४॥महालक्ष्मीं तथा भक्तिं राधां रमां पतिव्रताम् ।गंगां च रोहिणीं कामदुघां च पृथिवीं तथा ॥१५॥आह्वयामि स्थापयामि पूजयामि नमामि च ।धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥१६॥ताम्बूलकं तथा नीराजनं समर्पयामि च ।संज्ञा विभूतिं दुःखहालक्ष्मीं च कमलां तथा ॥१७॥सिद्धिं मोहिनीमुर्वशीं मुक्तां बुद्धिं च पार्वतीम् ।दीक्षां लीलां विरजां च वृन्दां नारायणीं तथा ॥१८॥सरस्वतीं स्वर्णरेखां सितां च देविकां तथा ।विभावरीं च तुलसीं मूर्तिं जयां च गोमतीम् ॥१९॥आह्वयामि स्थापयामि पूजयामि नमामि च ।धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥२०॥ताम्बूलकं तथा नीराजनं समर्पयामि च ।प्रेमसखीं रुक्मिणीं गोदावरीं मञ्जुलां तथा ॥२१॥हंसां सुगुणां ललितां धात्रीं रंभां कुमुद्वतीम् ।चम्पां च शीतलां स्वर्णगौरीं नन्दां दयां कलाम् ॥२२॥दुर्गां च नन्दिनीं साध्यां विजयां वञ्जुलीं तथा ।धन्या दोलां च सावित्रीं पुण्यां च कोकिलां मनुम् ॥२३॥आह्वयामि स्थापयामि पूजयामि नमामि च ।धूपं दीपं च नैवेद्यं चन्दनादि जलं तथा ॥२४॥ताम्बूलकं तथा नीराजनं समर्पयामि च ।चित्रलेखां पूर्णिमां शारदां मां मञ्जरीं तथा ॥२५॥देविकां प्रेयसीं श्रेयसीं विकुण्ठां तथाऽरुणाम् ।ज्योष्ट्रीं शबरीं पम्पां च गालवीं सुदुघां तथा ॥२६॥याज्ञसेनीं वसुमतीं पद्मावतीं च भार्गवीम् ।पद्मिनीं श्रीमतीं जरत्कार्वीं लीलावतीं तथा ॥२७॥कलावतीं च कदलीं रेवां कान्तिमतीं तथा ।कालिन्दीं वर्धिनीं पुण्यनैधेयिकां सुमित्रिकाम् ॥२८॥आह्वयामि स्थापयामि पूजयामि नमामि च ।धूपं दीपं चन्दनादि नैवेद्यं च जलं तथा ॥२९॥ताम्बूलकं तथा नीराजनं समर्पयामि च ।बन्दुलां च सुशीलां च मानसां माधवीं तथा ॥३०॥शर्मवतीं दीर्घिकां कर्णोत्पलामक्षमालिकाम् ।उदुम्बरीं बदरीं कुब्जिकां हैमीमृतम्भराम् ॥३१॥मंगलां चाऽमृतां महावेदीं कृष्णां हरिप्रियाः ।आह्वयामि स्थापयामि पूजयामि नमामि च ॥३२॥धूपं दीपं चन्दनादि नैवेद्यं च जलं तथा ।ताम्बूलकं तथा नीराजनं समर्पयामि च ॥३३॥सन्तोषां कंभरालक्ष्मीमाह्वयामि नमामि च ।स्थापयामि पूजयामि धूपदीपजलादिभिः ॥३४॥नैवेद्यं चन्दनं ताम्बूलकं समर्पयामि च ।ओं राधाषट्काय च स्वाहेदं राधाषट्काय नमम ॥३५॥पायसं पोलिका मिष्टान्नादि सद्व्यंजनानि च ।भक्ष्यभोज्यानि लेह्यानि चोश्यानि चार्पयामि च ॥३६॥ओं पराविद्यादिकानां चत्वारिंशद्युजे शताय च ।स्वाहा इदं पराविद्यादिभ्य ओं ताभ्यो नमम ॥३७॥पायसं पोलिका मिष्टान्नादि सद्व्यंजनानि च ।भक्ष्यभोज्यानि लेह्यानि चोश्यानि चार्पयामि च ॥३८॥ओं सन्तोषायैः कंभरालक्ष्म्यै स्वाहा ताभ्यां नमम ।पायसं पोलिका मिष्टान्नानि सद्व्यंजनानि च ॥३९॥भक्ष्यभोज्यानि लेह्यानि चोश्यानि चार्पयामि च ।इति ब्राह्मीः पूजयित्वा ह्यवतारान् प्रपूजयेत् ॥४०॥मत्स्यं कूर्मं च वाराहं कपिलं च हरिं तथा ।वासुदेवं पृथुं दत्तात्रेयं हंसं नृसिंहकम् ॥४१॥ऋषभं वामनं पर्शुरामं यज्ञं कुमारकान् ।रामं हयग्रीवदेवं नारदं राजराजकम् ॥४२॥व्यासं कृष्णं च गोपालं बुद्धं कलिकं च मोहिनीम् ।धन्वन्तरिं बालकृष्णं नारायणं नरं तथा ॥४३॥सहस्रहस्तं व्यूहं च स्थापयेत् स्वर्णमूर्तिषु ।तन्दुलेषु पूगिकासु मणिष्वपि निधापयेत् ॥४४॥आह्वयामि स्थापयामि पूजयामि नमामि च ।धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥४५॥ताम्बूलकं नीराजनं समर्पयामि ओं नमः ।ओं मत्स्यादिभ्यश्च स्वाहा इदं मत्स्यादिभ्यो नमम ॥४६॥पायसं पोलिका मिष्टान्नानि सद्व्यंजनानि च ।भक्ष्यभोज्यानि लेह्यानि चोश्यानि चार्पयामि च ॥४७॥सशक्तिकाः सायुधाश्च सभूषाश्च ससेवकाः ।प्रगृह्णन्त्वष्ट्युक्छतं भोज्यानां तु मखेऽर्पितम् ॥४८॥ओं यज्ञेन यज्ञमयजन्त देवास्तानिधर्माणि प्रथमान्यासन् ।ते ह नाकं महिमानः सचन्तयत्र पूर्वे साध्याः सन्ति देवाः ॥४९॥इत्येवं त्ववताराणां होममष्टोत्तरं शतम् ।यद्वा प्रत्येकमेवाऽपि कुर्यान्मखी यथाबलम् ॥५०॥अथ सिंहासने स्वर्णे सगुणं तु चतुष्टयम् ।वासुदेवं चानिरुद्धं प्रद्युम्नं च संकर्षणम् ॥५१॥आह्वयामि स्थापयामि पूजयामि नमामि च ।अष्टोत्तरशतद्रव्यैरर्चयामि सशक्तिकम् ॥५२॥वासुदेवादिभ्यः स्वाहा इद्ं चतुष्ट्याय नमम ।पायसं पोलिकाः शाकान्यपि रसाँश्च मिष्टकान् ॥५३॥अथ सिंहासने स्वर्णे निर्गुणं तु चतुष्टयम् ।अनादिश्रीकृष्णनारायणं कृष्णनरायणम् ॥५४॥लक्ष्मीनारायणं नरनारायणं समाह्वयेत् ।आह्वयामि स्थापयामि पूजयामि नमामि च ॥५५॥अष्टोत्तरशतद्रव्यैरर्चयामि सशक्तिकम् ।अनादिश्रीकृष्णनारायणादिभ्यश्च वै स्वाहा ॥५६॥इदं तेभ्यश्च नमम नीराजयामि वै नमः ।पायसं पोलिकाः शाकान्यपि रसांश्च मिष्टकान् ॥५७॥इति सम्पूज्य परमेश्वरान् हवनमाचरेत् ।तत्तन्नाम्नाऽष्टाहुतीश्चार्पयेत्पायसाज्यकैः ॥५८॥विष्णोर्मासूरमयश्चरुः क्षीरमयश्चरुः शुभः ।इदं विष्णुरिति गृणान् द्वादशाऽक्षरविद्यया ॥५९॥ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।षोडशाक्षरमनुना सहस्रं साष्टकं शतम् ॥६०॥चरुं जुहुयात् ओं नमो भगवते वासुदेवाय स्वाहा ।समिद्भिश्चाज्ययवतिलैः फलैर्जुहुयात्तथा ॥६१॥ओं इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।समूढमस्य पांसुरे स्वाहा इदं तु विष्णवे ॥६२॥अनेन चापि सहस्रं साष्टकं शतमर्पयेत् ।ओमग्नये स्विष्टकृते स्वाहेदमग्नये नमम ॥६३॥तत ओं भूः स्वाहेदमग्नये नमम शं मखे कुरु ।ओं भुवः स्वाहेदं वायवे नमम शं मखे कुरु ॥६४॥ओं स्वः स्वाहेदं सूर्याय नमम शं मखे कुरु ।इतिव्याहृतिहोमं च कृत्वा तु मण्डपस्थितान् ॥६५॥सम्पूज्य च बलिं दद्यात् सर्वदेवेभ्य एव च ।ततश्च बहिरागत्य लोकपालेभ्य आर्पयेत् ॥६६॥पूर्वे इन्द्र समागच्छ रक्षाऽध्वरं नमोऽस्तु ते ।दिशं रक्ष बलिं भक्ष यजमानोदयं कुरु ॥६७॥इन्द्रस्याऽनुचराः सर्वे भक्षयन्तु बलिं सुखाः ।आग्नेय्यामग्ने आगच्छ रक्षाऽध्वरं नमोऽस्तु ते ॥६८॥दिशं रक्ष बलिं भक्ष यजमानोदयं कुरु ।अग्नेश्चानुसराः सर्वे भक्षयन्तु बलिं सुखाः ॥६९॥दक्षिणे यम आगच्छ नैर्ऋत्यामेहि नैर्ऋते ।पश्चिमे वरुणाऽऽगच्छ वायव्यामेहि वायुराट् ॥७०॥उत्तरस्यां कुबेरैहि ऐशान्यामेहि ईश्वर ।दिशं रक्ष बलिं भक्ष यजमानोदयं कुरु ॥७१॥तत्तदनुचराः सर्वे भक्षयन्तु बलिं सुखाः ।ईपूमध्ये एहि ब्रह्मन् निपमध्ये ह्यनन्तराट् ॥७२॥दिशं च रक्षतं बलिं भक्षतं सानुसेवकौ ।कुरुतं यजमानस्याऽभ्युदयं च मखोदयम् ॥७३॥अथ क्षेत्रपाल बलिं गृह्ण रक्ष मखं सदा ।सानुचरो यजमानोदयं कुरु सुखं कुरु ॥७४॥दधिमाषादिकं भक्षेत्युक्त्वा तु तण्डुलान् क्षिपेत् ।अथ चतुष्पथे भूता बलिं गृह्णन्तु शूर्पगम् ॥७५॥पिष्टं माषान्नदध्योदनहरिद्रादिकज्जलम् ।सिन्दूरकं गन्धरक्तपुष्पादि चत्वरे मखी ॥७६॥गन्धपुष्पार्चितं शूर्पं स्थापयेद्वै गृणन् मनून् ।बलिं गृह्णन्तु ते देवा आदित्या वसवस्तथा ॥७७॥मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ।जृम्भकाः सिद्धगन्धर्वा माला विद्याधरा नगाः ॥७८॥असुरा यातुधानाश्च पिशाचा डाकिनीगणाः ।शक्तयो यक्षवेताला ये च विघ्नविनायकाः ॥७९॥भूताः प्रेताश्च कूष्माण्डाः शाकिन्यो मातरस्तथा ।तृप्ता भवन्तु बलिना यज्ञप्रसादरूपिणा ॥८०॥मा विघ्नं यजमानस्य रोगं दुःखमनिष्टकम् ।कुर्वन्तु तत्कुटुम्बस्य मा सन्तु परिपन्थिनः ॥८१॥सर्वे भवन्तु तृप्ताश्च रक्षां कुर्वन्तु मेऽध्वरे ।देवताभ्यश्च पितृभ्यो भूतेभ्यः सहजन्तुभिः ॥८२॥एतत्स्थानाधिवासिभ्यः प्रयच्छामि बलिं नमम ।त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ॥८३॥देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।किंपुरुषाः किन्नराश्च साध्या सन्तश्च साध्विकाः ॥८४॥ऋषयो मुनयो गावो देवमातर इत्यपि ।काश्यप्यस्तस्य वंशीया राजसास्तामसाः सिताः ॥८५॥एते ममाऽध्वरे रक्षां कुर्वन्तु देहधारिणः ।मूर्ताऽमूर्तस्वरूपाश्च यमा याम्याश्चरन्तु शम् ॥८६॥एतेभ्यश्चापि सर्वेभ्यः स्वाहा बलिं च ओं नमम।कृत्वाऽथाचमनं शुद्धिं यायान्मण्डपसन्निधौ ॥८७॥विश्रम्य यूपकार्यं च तत आचार्य आचरेत् ।इति राधे प्रभूक्तं ते मयोक्तं ब्राह्मकर्म तत् ॥८८॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने राधिकादिषट्कपराविद्याचत्वारिंशद्धिकशतसन्तुष्टाकम्भराद्वयपरमेशावतारविष्णुलोकपालभूतादिपूजाबलिसमर्पणादिनामा चतुष्पञ्चाशदधिकशततमोऽध्यायः ॥१५४॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP