संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २०७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २०७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०७ Translation - भाषांतर श्रीकृष्ण उवाच-श्रीपतिं राधिके राजाऽनादिकृष्णनरायणम् ।अपूजयन्महामहोपचारैः सकुटुम्बकम् ॥१॥ध्यानमावाहनं सम्यगासनं पाद्यमर्घ्यकम् ।आचमनं मधुपर्कं पयो दधि घृतं मधु ॥२॥शर्करां प्रददौ तस्मै चाभ्यंगं निर्मलोदकम् ।अभिषेकं सुगन्धाढ्यं वस्त्रामार्जनमाददौ ॥३॥वस्त्रं यज्ञोपवीतं चाऽलंकारान् मालिकां ददौ ।गन्धसारं कुंकुमं च कज्जलं चाक्षतान् ददौ ॥४॥पुष्पमञ्जरिकाश्चापि तुलसीपत्रमाददौ ।अंगपूजां कृतवाँश्चाऽवरणाना प्रपूजनम् ॥५॥श्रीहरेस्तत्सेविकानां व्यूहानां च प्रपूजनम् ।पार्षदानामवतारमूर्तीनां च प्रपूजनम् ॥६॥तथाऽवतारिणीनां पूजनं पार्षदपूजनम् ।हेतीनां च तदैश्वर्यविभूतीनां प्रपूजनम् ॥७॥वाहनानां तथा भृत्यदासानां च प्रपूजनम् ।दासीनां पुत्रपौत्राणां कुटुम्बानां प्रपूजनम् ॥८॥गृहपालार्हणं द्वारपालार्हणं चकार ह ।श्वेतचूर्णं रक्तचूर्णं सिन्दूरकं हरिद्रिकाम् ॥९॥धूपं दीपमलक्तं च नैवेद्यं च जलं फलम् ।अपोशनं करोद्वर्त्तं ताम्बूलं दक्षिणां ददौ ॥१०॥छत्रं चामरकं चापि व्यजनं दर्पणं ददौ ।पादुके सर्वशृंगारं ददौ नीराजनं ततः ॥११॥वस्त्रनीराजनं वारिनीराजनं नमःक्रियाम् ।प्रदक्षिणां दण्डवच्च स्तुतिं पुष्पाञ्जलिं ददौ ॥१२॥अथ होमं ततो वह्नौ चकार नृपतिः स्वयम् ।आदावधिश्रिते चरोः स्रुवस्य तपनं व्यधात् ॥१३॥मार्जनं चाऽभ्युक्षणं च तपनं च निधानकम् ।आज्योद्वासनमेवाऽपि चरोरुद्वासनं तथा ॥१४॥पवित्राभ्यां तत आज्योत्पवनं चाप्यवेक्षणम् ।अपद्रव्यनिरासं च प्रोक्षिण्युत्पवनं तथा ॥१५॥पर्युक्षणं निधानं च कृत्वा होमं ददौ नृपः ।आघारावाज्यभागौ च ब्रह्मा होमे ददौ तदा ॥१६॥समिच्चरुतिलाज्यादिहविर्द्रव्याणि सन्ददौ ।परेशाय महेशाय प्रजानां पतये तथा ॥१७॥दिक्पालेभ्यस्तथेशेभ्यो लोकपालेभ्य इत्यपि ।नवग्रहेभ्यो देवेभ्यः प्रत्यधिदेवकोटये ॥१८॥अधिदेवेभ्य एवापि होमं ददौ नृपस्तदा ।वास्तुमण्डलदेवेभ्यो होमं ददौ ततः परम् ॥१९॥समित्तिलान् पायसादीनुदुम्बरसमिद्वराः ।अश्वत्थादीन् घृतमधुक्षीराणि प्रददौ तदा ॥२०॥तथामण्डलदेवानां होमं ददौ यथोचितम् ।फलैर्भिन्नैर्विभिन्नैश्च द्रव्यैर्होमं ददौ नृपः ॥२१॥ब्रह्मादिदेवताभ्यश्च होमं ददौ घृतादिभिः ।पीठदेवताभ्यश्चापि होमं ददौ घृतादिभिः ॥२२॥ततः समित्तिलाज्यैश्च चरुणा पायसेन वै ।होमं प्रधानं प्रददौ सहस्राऽयुतमेव च ॥२३॥आवरणसुरेभ्यश्च होमं ददौ ततो नृपः ।द्राक्षेक्षुपूगनारिंगैस्तिलाज्यैर्व्याहृतेर्हवम् ॥२४॥ददौ च जम्बिरं बीजपूरकं खारिकां तथा ।नारिकेलं दाडिमं च गुग्गुलं सर्षपादिकान् ॥२५॥लक्ष्म्यै ददौ ततो दुग्धं शर्कराकदलीघृतम् ।फलदूर्वाऽक्षताँश्चापि होमं चक्रे नृपः स्वयम् ॥२६॥गन्धं पुष्पं धूपदीपौ नैवेद्यं च ददौ ततः ।ब्रह्मा ददौ ततः स्विष्टकृद्धोमं च नवाहुतीन् ॥२७॥सर्वेभ्यश्च सुरेभ्यश्च बलिदानं यथोचितम् ।दिक्पालेभ्यो दीपयुक्तं पायसान्नं बलिं ददौ ॥२८॥गणेशाय च मातृभ्यो वास्तुदेवेभ्य एव च ।वास्तुपुंसे तथाऽऽदित्यादिभ्यो बलिं ददौ नृपः ॥२९॥योगिनीभ्यः क्षेत्रपालेभ्यश्च बलिं ददौ नृपः ।मण्डलस्य प्रधानस्य देवेभ्योऽपि बलिं ददौ ॥३०॥षटपंचाशद्देवताभ्यो बलिं ददौ सपूजनम् ।लक्ष्मीनारायणराधाकृष्णाभ्यां च बलिं ददौ ॥३१॥नरनारायणवासुदेवनारायणाय च ।अनादिश्रीकृष्णनारायणाय स्वबलिं ददौ ॥३२॥सर्वाभ्यश्च हरेः शक्तिभ्यश्च बलिं ददौ नृपः ।ब्रह्मप्रियाभ्यः सर्वाभ्यो बलिं राजा ददौ ततः ॥३३॥धामपालबलिं चापि दारपालबलिं तथा ।सृष्टिपालबलिं चापि क्षेत्रपालबलिं ददौ ॥३४॥नगरग्रामक्षेत्रादिस्थितेभ्योऽपि बलिं ददौ ।गृहारण्यवनस्थेभ्यो बलिं राजा ददौ ततः ॥३५॥पातालादिस्थितेभ्यश्च भूमिस्वर्वासिने तथा ।भुवर्लोकस्थितेभ्य सत्यान्तेभ्यो बलिं ददौ ॥३६॥आवरणस्थितेभ्यश्च वैराजलोकवासिने ।हिरण्मयाऽव्याकृतगोलोकवासेभ्य आददौ ॥३७॥वैकुण्ठाऽक्षरधामस्थमायास्थेभ्यो बलिं ददौ ।चेतनेभ्यो जडेभ्यश्च देह्यदेहिभ्य इत्यपि ॥३८॥बलिं ददौ तदा राजा तत्त्वेभ्यश्च यथोचितम् ।श्रेष्ठेभ्यश्च कनिष्ठेभ्यो ददौ बलिं यथोचितम् ॥३९॥आमन्त्रितेभ्यः सर्वेभ्यः स्थितेभ्यो मण्डपे तदा ।नरनारीसमेतेभ्यो बलिं राजा ददौ शुभम् ॥४०॥आमन्त्रिता ये चागता अनागतास्तथाऽध्वरे ।सकुटुम्बाः सभृत्याश्च सदासाः सानुगास्तथा ॥४१॥सपत्नीकाः सवंशाश्च सत्त्वरजस्तमोन्विताः ।त्रिगुणेभ्यश्च ये जाताः साध्याः साधनरूपिणः ॥४२॥यज्ञात्मका यज्ञदेहा यज्ञांगानि मखाश्रिताः ।सर्वेभ्यस्तत्र राजाऽसौ बलिं यथोचितं ददौ ॥४३॥सर्वकुण्डेषु राजानस्तत्तद्गुर्वर्षिनोदिताः ।ददुर्बलिं तथैवैते सर्वं कर्म व्यधुस्तथा ॥४४॥ग्राहका भोजकाश्चापि ये चाऽऽहुत्यदनाः सुराः ।असुरा वा मूर्तिमन्तो जगृहुः स्वबलिं करे ॥४५॥प्रत्यक्षं ते भुक्तवन्तः प्रत्यक्षाः स्वक्षणेऽनले ।सर्वे वै देहिनस्तत्र भुञ्जानास्तृप्तिमाययुः ॥४६॥येषां येषां यदन्नं तत् तत्र तत्र यथोचितम् ।अनादिश्रीकृष्णनारायणः संकल्प्य वै ददौ ॥४७॥आकण्ठतृप्ताः सर्वे ते सृष्टित्रयनिवासिनः ।माया तत्त्वानि मायोत्था मायिका देहिनस्तथा ॥४८॥आत्मा तत्त्वानि चात्मोत्था आत्मीया देहिनस्तथा ।ईशस्तत्त्वानि चेशोत्था ईशीया देहिनस्तथा ॥४९॥मुक्तास्तत्त्वानि मुक्तोत्था मुक्तीया देहिनस्तथा ।ब्रह्मतत्त्वानि ब्रह्मोत्था ब्रह्मीया देहिनस्तथा ॥५०॥शक्तिस्तत्त्वानि शक्त्युत्थाः शक्तीया देहिनस्तथा ।गुणौश्वर्यायुधभूषादिका ये केचनापि च ॥५१॥सर्वेभ्यः श्रीहरिस्तत्र बलिं दत्वा ह्यतर्पयत् ।तृप्तिं वै शाश्वतीं नैजां ददौ सर्वेश्वरः प्रभुः ॥५२॥सर्वे चोद्गारमापन्ना आकण्ठभक्षणास्तथा ।बहुतृप्तिं गतास्तत्र परमेशमखे जनाः ॥५३॥जरायूजाश्चाण्डजाश्चोद्भिज्जाः स्वेदजनास्तथा ।भौतिकाः कोशजाश्चापि कर्दमोत्था रसोत्थिताः ॥५४॥सर्वे तृप्तिं गतास्तत्र बालकृष्णमखेऽनले ।अथाऽन्तिमाहुतिं प्रादाल्लोमशस्तत्र कुण्डके ॥५५॥वसोर्धारायुतं बह्वाहुतिहोमं चकार सः ।परिहारं ततश्चक्रे देवानां शयनं व्यधात् ॥५६॥एवं नित्यं भवत्येव राधिकेऽर्हा हवादिकम् ।आमध्यान्तं ततः श्रीमद्बालकृष्णादयश्च ते ॥५७॥चक्रिरे भोजनान्येव महीमानादयस्तथा ।सर्वप्रजा भोजनानि चक्रिरे नित्यमेव ह ॥५ ८॥सप्तम्यां चापि चाष्टम्यां नवम्यां दशमीदिने ।एकादश्यां मखकार्यं नित्यं प्रवर्तते तथा ॥५९॥भोजनानि विचित्राणि नित्यं भवन्ति तत्र च ।असंख्यदेहिनस्तत्र भुंजते स्म दिवानिशम् ॥६०॥दीयतां दीयतामिति भुज्यतां भुज्यतामिति ।घोषणा त्वन्नदानस्य सततं वै प्रवर्तते ॥६१॥अन्नपूर्णा तथा लक्ष्मीस्तद्दास्योऽनेकशक्तयः ।सेवन्ते त्वन्नदानाद्यैर्यथालोकमपेक्षितैः ॥६२॥कल्पलताः कल्पद्रुमाः कल्पगावो निरन्तरम् ।कल्पकन्यास्तथा चिन्तामणयः कल्पचुल्लिकाः ॥६३॥कल्पह्रदाः कल्पपात्राण्यपि कल्पनदादयः ।कल्पपेटाः पूरयन्ति चेष्टभोज्यानि चार्थिषु ॥६४॥भोजनान्ते जनाः सर्वे विश्राम्यन्ति विशेषतः ।अनादिश्रीकृष्णनारायणस्तु भूभृदर्थितः ॥६५॥आमन्त्रणानुसारेण प्रयाति राजमन्दिरम् ।पुनः सायं मण्डपेऽत्र समायाति विमानतः ॥६६॥एवं पञ्चदिनं राष्ट्रे भ्रमणं हरिणा कृतम् ।पावितानि समस्तानि राष्ट्राणि गमनक्रमात् ॥६७॥मखे ददाति भगवान् दक्षिणाः कोटिशस्तथा ।मखाद् बहिश्चार्पयति यथेष्टं त्वर्थिनेऽपि सः ॥६८॥देयं देयं च दातव्यं शब्दस्त्वेवं हि सार्थकः ।हरेरग्रे जायते वै सर्वयज्ञफलप्रदः ॥६९॥यथेष्टं दीयते नित्यं राजानोऽपि ददत्यपि ।प्रजाश्चावसरं प्राप्य ददत्यपि धनान्यपि ॥७०॥गृहदानानि च कन्यादानानि बहुधा व्यधुः ।विद्याभूषाम्बरदानान्यपि व्यधुः प्रजाजनाः ॥७१॥यत्र स्वामी परब्रह्म श्रीपतिः कृष्णवल्लभः ।कर्ता दाता च भोक्ता च तत्राऽशुभं न वै क्वचित् ॥७२॥विघ्नं नास्ति निषेधश्च नास्ति यत्र प्रभापतिः ।कालो नास्ति यमो नास्ति बन्धो नास्ति परेश्वरे ॥७३॥सूतकं न च शोको न न वाऽपशकुनान्यपि ।कुमुहूर्तं च नैवास्ति यत्र श्रीपार्वतीश्वरः ॥७४॥सर्वं शुभं भवत्येव यत्र लक्ष्मीपतिः प्रभुः ।सर्वं पुष्टं भवत्येव यत्र श्रीमाणिकीपतिः ॥७५॥सर्वं दैवं भवत्येवाऽनुकूलं प्रियमित्यपि ।सर्वं सम्पत्प्रदं चास्ते यत्र देवः परेश्वरः ॥७६॥सर्वं तु मंगलं तत्र जायते यत्र माधवः ।विरुद्धा यद्वशे सन्ति को विरोधोऽस्य सन्निधौ ॥७७॥राधिके श्रीहरिश्चैवं मखोत्सवं व्यधाच्छुभम् ।सप्तम्यामथ मध्याह्नोत्तरं भुक्त्युत्तरं नृपः ॥७८॥रायरणजिद्भूपश्च प्रार्थयत्परमेश्वरम् ।निजं राष्ट्रं पावयितुं समायाहीति वै ततः ॥७९॥हरिः प्राह तथाऽस्त्वेव सज्जस्तूर्णं तदाऽभवत् ।आलायसर्षिमुनिराट् रणजिन्नृपतिस्तथा ॥८०॥शीघ्रमाज्ञां हरेः प्राप्य विमानेन निजालयम् ।आलाक्षाकप्रदेशस्थं मीनार्ककृष्णपत्तनम् ॥८१॥यूकासनानदीतीरगतं गत्वाऽग्रतस्तदा ।शीघ्रं सैन्यादिसहितं वाद्यमण्डलतत्परम् ॥८२॥जनतापूरराजच्चाऽशृंगारयद् यथोचितम् ।स्वागतार्थं सोपदाश्च जनता राजसेविकाः ॥८३॥शीघ्रं शीघ्रं चोपतस्थुर्नृपोद्याने महायते ।तदा वाद्यान्यवाद्यन्त ध्वजा धृतास्तथाऽम्बरे ॥८४॥तूपशब्दाः प्राभवँश्च श्रीहरेः स्वागताय वै ।घटिकायां कृतं सर्वं शृंगारितं नृपेण ह ॥८५॥तावच्छ्रीकान्तभगवान् पितृभ्यां शंकरेण च।लोमशेन तथेशैश्चावतारैश्च सुरेश्वरैः ॥८६॥यथापेक्षैः सह शीघ्रं राधालक्ष्म्यादिभिस्तथा ।नैजं विमानमारुह्य प्रकाशयन् दिशो दश ॥८७॥ययौ यूकासनातीरे मीनार्ककृष्णपत्तनम् ।दृष्ट्वा श्रीमत्सूर्यतुल्यं विमानं पारमेश्वरम् ॥८८॥रायरणजिद्भूपश्च आलायसर्षिसत्तमः ।विमानावतरणार्थं ददतुः स्थलसूचनाम् ॥८९॥भ्रमित्वाऽम्बरमेवैतद् विमानं तदवातरत् ।तदा वाद्यानि तूर्याणि चावाद्यन्त मुहुर्मुहुः ॥९०॥जयशब्दा हर्षनादाः प्रजानामभवन् शुभाः ।दुद्रुवुश्चातिवेगेन दर्शनार्थं समीपगाः ॥९१॥प्रजाजना वर्धयन्ति लाजाक्षतसुगन्धकैः ।कुसुमैश्चाऽञ्जलिभिश्च नेत्रवृत्त्यर्पणैस्तथा ॥९२॥भावदानैः स्वागताद्यैर्वर्धयामासुरच्युतम् ।राधिके भूभृता कृष्णनारायणो विमानतः. ॥९३॥हस्ते हस्तं गृहीत्वैवानीतोऽतिभावतो बहिः ।राजा पुष्पस्रजं कण्ठे बालकृष्णस्य वै ददौ ॥९४॥ऋषिश्चन्दनदानेनाऽपूजयत् परमेश्वरम् ।राजपुत्रादयोऽप्येनं समानर्चुः सुमादिभिः ॥९५॥विमानाग्रे क्षणं स्थित्वा दत्वा नैजं च दर्शनम् ।अवतीर्य हरिः पूजां जग्राह जनताकृताम् ॥९६॥सर्वाः प्रजाः सुखं प्राप्ताः पूजया दर्शनेन च ।ततो नृपालयान्तर्वै प्रविवेश शुभासने ॥९७॥निषसाद हरिश्चान्ये निषेदुर्योग्यकासने ।राजा राज्ञी राजपुत्र्यः कुमाराश्च कुटुम्बिनः ॥९८॥पुपूजुः परया प्रीत्या श्रीपतिं कृष्णवल्लभम् ।दशलक्षं सुवर्णं च ददौ राजाऽतिभावतः ॥९९॥कोटिमूल्यान् हीरकाँश्च ददौ कृष्णाय भूपतिः ।कन्यका विंशतिः कृष्णगले न्यधुर्हि मालिकाः ॥१००॥राज्ञी ददौ तदा श्रीमद्बालकृष्णाय ताः सुताः ।विंशतिः कन्यका प्राप्य बालकृष्णं पति प्रभुम् ॥१०१॥कृतकृत्या अभवँश्च हरिर्दुग्धं पपौ तदा ।ततो मीनार्ककृष्णाख्ये पत्तने श्वेतहस्तिना ॥१०२॥विजहार महासैन्यसम्मानितो गृहे गृहे ।प्रधानाः श्रेष्ठिनः सर्वे समानर्चुः स्थले स्थले ॥१०३॥भ्रमित्वा नगरीं रम्यां नृपसौधं समाययौ ।राधिके श्रीहरिः शान्तिं चालम्ब्योपादिदेश ह ॥१०४॥प्रजाजनाँस्तथा भूपं पारमार्थिकमुत्तमम्।उभयत्र महानन्दप्रदं पुमर्थसाधकम् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीयेत्रेतासन्ताने श्रीहरेः षोडशोपचारैः पूजनं वह्नावाहुतिप्रदानं सृष्टित्रयदेहिभ्यआहुतिप्रदानं सवेभ्य आहुतिप्रदानं, परिहारः, भोजनं, ततो रायरणजिद्राष्ट्रं प्रतिगमनम्, नगर्यां भ्रमणं पूजनं कन्यकार्पणं चेत्यादिनिरूपणनामा सप्ताधिकद्विशततमोऽध्यायः ॥२०७॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP