संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ७२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ७२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७२ Translation - भाषांतर श्रीकृष्ण उवाच-निबोध राधिके! चैतद् विज्ञानं परमाद्भुतम् ।ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥१॥आश्रमाः क्रमसम्पन्नाः कारणादन्यथाऽपि ते ।उत्पन्नज्ञानविज्ञानी वैराग्यं परमं गतः ॥२॥प्रव्रजेद् ब्रह्मचर्यात्तु गृहस्थाद्वा यथोचितम् ।दारानाहृत्य विधिवद् यजेच्च विविधैर्मखैः ॥३॥धर्मेणोत्पादयेत् पुत्रान् वैराग्ये सति सन्न्यसेत् ।अथ वैराग्यवेगेन स्थातुं नोत्सहते गृहे ॥४॥वानप्रस्थो भवेत् पूर्वं पश्चात् सन्यासमाश्रयेत् ।अतिवैराग्यवेगस्तु सन्यासमेव चाश्रयेत् ॥५॥वानप्रस्थाश्रमं गत्वा यद्वा सन्यासमित्यपि ।पुनर्न गृहमागच्छेत् न विशेद् दारसंगमे ॥६॥सर्वेषामेव वैराग्यं सन्यासे तु विधीयते ।अविरक्तस्तु सन्यासात् पतत्येन न संशयः ॥७॥एकाश्रमेऽथवा सम्यग् वर्तेताऽऽमरणान्तिकम् ।तद्धर्मिज्ञानिभक्तस्तु सोऽमृतत्वाय कल्पते ॥८॥धर्मार्थं दत्तसर्वस्वो ब्रह्मविद्यः प्रशान्तिमान् ।ज्ञानविज्ञानसम्पन्नो ब्रह्मभूयाय कल्पते ॥९॥ब्रह्मण्यर्पय्य कर्माणि कामसंगादिवर्जितः ।प्रसन्नाऽरक्तमनसा कुर्वाणो याति तत्पदम् ॥१०॥ब्रह्मणा दीयते देयं ब्रह्मैव दीयते हि तत् ।दीयते ब्रह्मणे दानं ब्रह्मार्पणमिदं परम् ॥११॥नाऽहं कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा ।एतद् ब्रह्मार्पणं कर्म ब्रह्मणि परिधीयते ॥१२॥पृणोतु श्रीकृष्णनारायणस्वामी स्वकर्मणा ।एवं मत्वा क्रियते तद् ब्रह्मार्पणमिदं परम् ॥१३॥फलानां चापि सन्यासं प्रकुर्यात्परमेश्वरे ।एवं फलप्रदानं च ब्रह्मार्पणमनुत्तमम् ॥१४॥कार्यमित्येव यत्कर्म नियतं संगवर्जितम् ।क्रियते विदुषा कर्म तद्भवेदपि मोक्षदम् ॥१५॥कर्मणां फलसन्न्यासो यदि ब्रह्मणि नेयते ।तदा फलेन बध्येत मोक्षरोधो भवेत्ततः ॥१६॥अर्पणात् क्षीयते पापं पुण्यं वा मोक्षबोधकम् ।ऐहिकं पौर्विकं वापि मनःप्रसन्नता भवेत् ॥१७॥आत्मवित्त्वं भवेच्चापि ब्रह्मविज्जायते ततः ।कर्मणा सहिताज् ज्ञानात् सम्यग् योगोऽभिजायते ॥१८॥योगात् श्रीमत्कृष्णनारायणसान्निध्यमीयते ।तस्मात् सर्वप्रयत्नेन यत्र तत्राश्रमे रतः ॥१९॥कर्माणीश्वरतुष्ट्यर्थं कुर्यान्नैष्कर्म्यमाप्नुयात् ।सम्प्राप्य ब्रह्मविज्ञानं नैष्कर्म्यं तत्प्रसादतः ॥२०॥निजात्मात्मपरब्रह्मानन्दे मग्नो जितेन्द्रियः ।एकाकी निर्ममः शान्तो जीवन्नपि समुक्तवत् ॥२१॥वीक्षते परमात्मानं परब्रह्म परेश्वरम् ।नित्यानन्दी निरुपाधिः श्रीहरौ लीनतां व्रजेत्। ॥२२॥तस्मात् सेवेत च राधे नैष्कर्म्ये त्वर्पणात्मकम् ।तृप्तये परमेशस्य तेन यायात् परं पदम् ॥२३॥एवं कृता तु या निष्ठा सिद्धिं ददाति शाश्वतीम् ।न त्वेतां समतिक्रम्य सिद्धिं विन्दति मानवः ॥२४॥एवं सर्वं ज्यामघोऽपि विचार्य चात्मनो हितम् ।उक्त्वा पत्न्यै समस्तं तु विज्ञानं ज्ञानपूर्वकम् ॥२५॥कृत्वा ज्ञानेन च निजां कान्तां तु ब्रह्मरूपिणीम् ।दत्वा राज्यं स्वानुजाय श्रीमघाय हरिप्रियः ॥२६॥ज्यामघः स्त्रीसहितश्च पित्रोः पादौ प्रणम्य च ।भ्रातरं च समाश्लिष्य क्षेममावेद्य सर्वतः ॥२७॥प्रजाशीर्वादमादाय साभ्रमतीनदीतटे ।आश्रमे तु सतां नित्यं सत्संगं प्रचकार ह ॥२८॥भ्रात्रा स्वनामसहितं तच्छ्रीनगरं ख्यापितम् ।ज्यामघस्तु ततो यज्ञं वैष्णवं परमं शुभम् ॥२९॥कारयामास स्वभ्रातृद्वारा साभ्रमतीतटे ।तद्भक्त्या होमसमये श्रीयुतः श्रीनरायणः ॥३०॥मूर्तिमाँस्तत्र चायातो यज्ञमण्डपमच्युतः ।वह्निः स्वयं मूर्तिमाँश्च ब्रह्मा शंभुस्तथाऽऽगताः ॥३१॥देवता बुभुजर्हव्यं ज्यामघेन समर्पितम् ।श्रीः प्रसन्ना च तं प्राह तव भक्त्या जनार्दनः ॥३२॥प्रसन्नो मां तव राज्ये स्थातुं चाज्ञां करोति हि ।नाहमेकाकिनी वासं करिष्ये प्रत्तने तव ॥३३॥यज्ञतृप्ताऽस्मि सञ्जाता साकं मत्पतिना सुरैः ।कारयाऽत्राऽऽलयं रम्यं यत्र वसामि नित्यदा ॥३४॥श्रुत्वा च ज्यामघो भ्रात्रा सह मुमोद भक्तराट् ।एवमुक्त्वा पुनः प्राह याहि कुंकुमवापिकाम् ॥३५॥अश्वपट्टसरःक्षेत्रं तत्र वसामि नित्यदा ।अनादिश्रीकृष्णनारायणसेवापरायणा ॥३६॥दम्पत्योस्तत्र तु पुनः सेवया दास्ययुक्तया ।दर्शनं मे स्वामिनश्च भविष्यति न संशयः ॥३७॥इत्युक्त्वा च तिरोरास सदेवा सनरायणा ।यज्ञः समाप्तिमगमन्नगरे श्रीर्व्यवर्धत ॥३८॥श्रीमघं पितरौ नत्वा ज्यामघो दत्तदक्षिणः ।साभ्रमत्यां नौकया च सपत्नीको विनिर्ययौ ॥३९॥श्रीमघः कारयामास मन्दिरं सप्तभूमिकम् ।मेघस्पर्शं सशिखरं नारायणाख्यघट्टके ॥४०॥तत्र लक्ष्मीयुतो नारायणो वैदिककर्मभिः ।प्रतिष्ठापित एवादौ राज्ञाऽस्मै वाटिकाऽर्पिता ॥४१॥पूजानैवेद्यशृंगारोत्सवाश्चापि नियोजिताः ।एवं भेजे श्रीमघोऽपि श्रीमत्कृष्णनरायणम् ॥४२॥लक्षवर्षं तु तद्राज्यं भुक्त्वा धाम परं ययौ ।ज्यामघोऽपि नदीमार्गादाययौ स्तंभवारिधिम् ॥४३॥ततः श्रीगोपनाथं च कृत्वा तीर्थं ततः परम् ।नावं विसृज्य यानेन ययौ कुंकुमवापिकाम् ॥४४॥अश्वपट्टसरो दृष्ट्वा वीक्ष्य श्रीलोमशाश्रमम् ।भूमिकां दिव्यशोभाढ्यां वीक्ष्याऽऽनन्दं परं ययौ ॥४५॥दृष्ट्वा श्रीमत्कृष्णनारायणप्रासादमुच्छ्रितम् ।व्योमचुम्बिशिखराणि ध्वजान् वीक्ष्य सगद्गदः ॥४६॥दण्डवत् प्रणनामादौ प्रदक्षिणं चकार तम् ।तावत् तत्र समायातो विप्रो बालस्वरूपवान् ॥४७॥रमणीयः श्रीनिवासः सर्वसौन्दर्यभाजनम् ।पद्मपत्रायतनेत्रः सूक्ष्मचक्रान्विताऽङ्गुलिः ॥४८॥वक्षोधृतोज्ज्वलमणिस्तेजःपरिधिशोभितः ।स्वागतं प्रचकाराऽसौ तीर्थस्थलानि दर्शयन् ॥४९॥निनाय मन्दिरे यत्र श्रीकान्तः संविराजते ।अनादिश्रीकृष्णनारायणं गजासनस्थितम् ॥५०॥दर्शयामास विप्रः स तत्र चान्तरधीयत ।ज्यामघस्तस्य राज्ञी च परमाश्चर्यमागतौ ॥५१॥साक्षान्मानवनाट्यस्य दर्शनं प्राप्य तत्परम् ।बालकृष्णस्य च तत्र दर्शनं प्राप्य वै पुनः ॥५२॥द्वयोरैक्यं स्वरूपे च स्वभावे गुणवर्तने ।मूर्तेरपीति विज्ञायाऽमन्यतां च कृतार्थकौ ॥५३॥अहो भाग्यमहो भाग्यं ज्यामघस्य च तत्स्त्रियाः ।साक्षाद् विप्रबटुरूपो बालकृष्णोऽभवत्तदा ॥५४॥आनिनाय गृहं नैजं बालकृष्णे तिरोऽभवत् ।अनेकजन्मपुण्यानां सेवया तत्प्रसन्नता ॥५५॥जायते येन भगवान् स्वयं स्वगृहमाययौ ।ततो गोपालकृष्णं च मातरं कम्भरासतीम् ॥५६॥भगवन्तं च सन्तोषां ददृशतुस्ततः परम् ।शुकं दृष्ट्वा वल्लभं च दृष्ट्वा वै सुरमण्डलम् ॥५७॥मुमुदतुस्तावत्यर्थं पुपूजतू परमेश्वरम् ।चन्दनाक्षतकुंकुमोशीरगुलालवारिभिः ॥५८॥पुष्पतुलसीकल्हारपुण्डरीकसुकेसरैः ।हारभूषाम्बरद्रव्यैः पूजयामासतुर्हि तौ ॥५९॥उपदाः स्वर्णपात्रादि न्यधातां पुरतस्तदा ।मिष्टपक्वान्नपात्रादि ताम्बूलकं जलादिकम् ॥६०॥ददतुस्तौ श्रीहरये मात्रे च जनकाय च ।आरार्त्रिकं चक्रतुश्च दण्डवच्च नमस्कृतिम् ॥६१॥बालकृष्णस्तु पप्रच्छागमने क्षेममित्यपि ।कुशलं च प्रवासेऽप्यपीडां सुखागमं तथा ॥६२॥तत आतिथ्यकार्यार्थं निनाय दम्पती हरिः ।भोजनं कारयामास जलं ताम्बूलकादिकम् ॥६३॥निवासार्थं स्वतन्त्रं च सौधं हरिः समार्पयत् ।दम्पतीभ्यां दासदासीर्ददौ वस्तूनि सर्वशः ॥६४॥विशश्रामाथ राजाऽसौ सायं त्वश्वसरोवरम् ।स्नातुं प्रययौ विधिना स्नात्वा सन्ध्यां चकार ह ॥६५॥अश्वपट्टसरसश्च तीर्थकोट्यन्वितस्य च ।अष्टोत्तरशतवर्तियुक्तं नीराजनं व्यधात् ॥६६॥जलं पीत्वा निजं सौधं समाययौ च सानुगः ।रात्रिं निनाय सुखतः प्रातःस्नानोत्तरं नृपः ॥६७॥पूजयित्वा स्वामिनं श्रीबालकृष्णं श्रियः पतिम् ।आरार्त्रिकादिकं कृत्वा ददौ दानानि सर्वशः ॥६८॥स्वर्णभूषाम्बरद्रव्यमुक्तामणीन् ददौ बहून् ।भोजयामास तीर्थस्थान् विप्रान् ऋषीन् सुकन्यकाः ॥६९॥सर्वेषां चापि देवानां तीर्थयात्रां चकार ह ।अश्वपट्टसरःप्रदक्षिणं कृत्वा गृहं ययौ ॥७०॥धन्यो वै गुन्द्रको वृक्षो धन्या तिन्तिडिका शुभा ।धन्यो दाडिमवृक्षश्च धन्यौ जम्बुद्वयद्रुमौ ॥७१॥धन्या सा बदरी यत्र भगवान् संविराजते ।धन्या सा कुंकुमवापी तीर्थोत्तमोत्तमोत्तमा ॥७२॥धन्योऽहं ज्यामघश्चापि धन्या धनालसा प्रिया ।येषामनादिदेवश्रीकृष्णनारायणाश्रये ॥७३॥वासो वै विद्यते ते तु ब्रह्मलोके वसन्ति हि ।एवं चिन्तयमानं तं राज्ञी प्राह त्वरान्विता ॥७४॥मन्दिरं श्रीदर्शितं तत् कारयाऽत्र महत्तमम् ।यत्र नारायणो देवः सदा नः पूज्यतां व्रजेत् ॥७५॥श्रुत्वा राजा मन्दिरं च कीदृग् विशालमुच्छ्रितम् ।कारयितव्यमेवेत्यचिन्तयत् क्षणमात्रकम् ॥७६॥तावत्तेजः परं श्रेष्ठं श्वेतं ददर्श चायतम् ।तत्र ददर्श शिखरं चैकं विशालमन्तरे ॥७७॥तत्र मध्ये शुभां मूर्तिं कृष्णनारायणात्मिकाम् ।वामे राधां श्रियं लक्ष्मीं पारवतीं प्रभां तथा ॥७८॥माणिकीं चेति पत्नीस्ता ददर्श दिव्यदर्शनाः ।दक्षे पितरं जननीं सन्तोषां भगिनीं तथा ॥७९॥भगवन्तं शुकं चापि वल्लभं हरिबान्धवान् ।ददर्श मण्डलं चैतत् स्वं राज्ञीं प्रददर्श च ॥८०॥सेवायां चेति तत्सर्वं ततश्चान्तरधीयत ।राजा शिल्पिवरं तत्र चाहूयाऽकथयत्तदा ॥८१॥शिल्पिवर्यश्चित्रपटं चकार तद्यथोदितम् ।ततो वै मन्दिरं रम्यं चाश्वपट्टस्य पश्चिमे ॥८२॥कारयामास सम्पूर्णं प्रतिष्ठां विधिनाऽपि च ।त्रयोदशप्रतिमानां कारयामास भूसुरैः ॥८३॥स्वसौधं कारयामास समाहूय च लोमशम् ।दीक्षां जग्राह च सांख्ययोगधर्मान्वितां शुभाम् ॥८४॥निजसौधे मन्दिरे तं श्रीमत्कृष्णनरायणम् ।भेजे भक्त्या सपत्नीकश्चोत्तमो वैष्णवो महान् ॥८५॥पूर्वजन्मस्वभावान् स क्षपयामास भक्तितः ।व्रतेन तपसा नित्यं ध्यानेन दास्यभावतः ॥८६॥महाभागवतो भूत्वा सर्वं चकार भावतः ।चतुर्विंशतितत्त्वानि हर्यर्थं प्रचकार सः ॥८७॥नृपः श्रीकृष्णदेवाय चार्पयामास चेतनम् ।सत्त्वं श्रीकृष्णदेवस्य प्रकाशने न्ययोजयत् ॥८८॥रजस्तस्य प्रवृत्त्यर्थं यथा तुष्टो भवेद्धरिः ।तमो भूतौ प्रलयार्थं न्ययुङ्क्त श्रीहरेस्तदा ॥८९॥महत्तत्त्वं बुद्धिरूपं तन्निर्णये न्ययोजयत् ।चित्तं तु चिन्तने चाहं तस्याऽभिमाननेऽकरोत् ॥९०॥मनस्तु मनने तस्य श्रोत्रं कथाश्रवे हरेः ।त्वगस्य स्पर्शनेऽरक्षत् चक्षुस्तद्दर्शनेऽकरोत् ॥९१॥रसना तत्प्रसादस्य स्वादे जिह्वाऽस्य कीर्तने ।नासा तत्पुष्पसौगन्ध्ये वागस्य गुणवर्णने ॥९२॥हस्तौ दास्ये च कैंकर्ये सेवायां सर्वदाऽकरोत् ।पादौ तमभिगमने प्रादक्षिण्येऽकरोत्तथा ॥९३॥पाद्यं चासनबन्धेऽस्य लिंगमानन्दनेऽस्य च ।बलं तद्भारवहने कलास्तत्सेवनेऽकरोत् ॥९४॥दैहिकं सर्वमेवाऽयं श्रीकृष्णाय समार्पयत् ।राज्ञी चापि तथा सर्वं बालकृष्णाय चार्पयत् ॥९५॥तन्मात्राणि विषयाँश्च शुभं चाशुभमित्यपि ।सर्वं ददौ तु हरये स्वयं प्राघूर्णिकाऽभवत् ॥९६॥क्रिया सर्वा वर्ष्मणस्तु श्रीकृष्णाय तथाऽऽर्पयत् ।पूजनं स्मरतां तस्य वन्दनं स्तवनं सदा ॥९७॥पादसम्मर्दनं विष्णोरर्चनं दास्यमित्यपि ।सख्यं केलिर्नर्मवाक्यं हसनं हास्यमित्यपि ॥९८॥कीर्तनं चार्पणं सर्वं श्रीमत्कृष्णेऽकरोत् सदा ।राज्ञी चापि महाभागवती भक्ता बभूव ह ॥९९॥मार्जनं लेपनं पक्वनैवेद्यकरणं तथा ।जलाहरणमेवापि वस्त्राणां क्षालनादिकम् ॥१००॥पात्राणां मञ्जनं चापि पुष्पानयनमित्यपि ।मालिकाग्रथनं चापि तुलस्यानयनं तथा ॥१०१॥वायोरान्दोलनं चापि दोलाऽऽन्दोलनमित्यपि ।सर्वं चकार हस्ताभ्यां शय्यास्तरणमित्यपि ॥१०२॥पादसंवाहनं कृष्णनारायणस्य सर्वदा ।किंकरीव विदधाति सर्वाऽऽर्पणं तदाऽकरोत् ॥१०३॥एवं संसेवमानौ तौ दिव्यपुण्याश्रितौ शुभौ ।प्रक्षीणकल्मषौ जातौ बालकृष्णाभ्यनुग्रहात् ॥१०४॥लोमशेन प्रापितो च मन्त्रं श्रीवैष्णवं परम् ।'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ॥१०५॥लब्ध्वा मन्त्रं पूजयित्वा हरिं चाषाढशुक्लके ।एकादश्यां रव्युदये ध्यानमग्नौ स्थिरौ क्षणम् ॥१०६॥अभवतां तदा दिव्यं विमानं त्वक्षराच्छुभम् ।सपार्षदं समायातं कोटिसूर्यसमप्रभम् ॥१०७॥देहौ त्यक्त्वा ज्यामघश्च धनालसा विमानके ।पार्षदानामाज्ञया चारोहतां दिव्यवर्ष्मणौ ॥१०८॥ययौ विमानं त्वरितं चाऽक्षरं परमं पदम् ।जयशब्दाश्चाऽभवँश्च श्रीनारायणमन्दिरे ॥१०९॥इत्येवं राधिके तौ तु भक्त्या मोक्षमवापतुः ।पाठको वाचकः श्रोताऽप्यस्य मोक्षपदं व्रजेत् ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने ज्यामघराज्ञस्तत्पत्न्या धनालसायाः कुंकुमवाप्यां त्वात्मनिवेदितभक्त्या मोक्षणमितिनिरूपणनामाद्वासप्ततितमोऽध्यायः ॥७२॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP