संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ११९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ११९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११९ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु चान्यं चमत्कारं राधे! भक्तस्य वै हरेः ।नाम्ना देवायतनस्य सौराष्ट्रवासिनः प्रिये ॥१॥ग्रामे समाधियानाख्ये भक्तोऽभवच्छुभाश्रयः ।आभीरजातिमूर्धन्यो देवायतनसंज्ञकः ॥२॥नित्यस्नानपरोऽनादिकृष्णनारायणाश्रितः।हरे कृष्ण हरे स्वामिन् हरे नारायण प्रभो ॥३॥श्रीगोपाल हरे कृष्ण कम्भराश्रि रमे सति! ।अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ॥४॥अक्षरेश प्रभाराधामाणिकीपार्वतीपते ।सत्पते मुक्तधामेश बालकृष्ण हरे हरे ॥५॥एवं नित्यं कीर्तनं स करोति सरितस्तटे ।वालुकासु जले चापि वृक्षाश्रये च भूतले ॥६॥गृहे क्षेत्रे वाटिकासूद्यानेऽरण्ये वनेऽपि च ।सर्वकर्मसु कृष्णं तं परमेशं स्मरत्यथ ॥७॥भोजने शयने याने गमने चासने सदा ।म्रोडे क्षुतौ चाप्लवने शौचे चालस्यमन्दिरे ॥८॥चत्वरे च सभायां च जातिकुटुम्बकोत्सवे ।सूतके शोकविषये हर्षस्थानेऽपि सर्वदा ॥९॥हरे कृष्ण हरे स्वामिन् तालीवादनपूर्वकम् ।नामसंकीर्तनं कृष्णनारायणस्य सर्वदा ॥१०॥श्रद्धया स करोत्येव स्नानोत्तरं च पूजनम् ।अनादिश्रीकृष्णनारायणमूर्तेः करोति च ॥११॥आरार्त्रिकं च नैवेद्यं फलान्नजलशोभितम् ।ददात्येव भगवते भावप्रेमप्रपूरितः ॥१२॥ग्रामे देशे जनास्तं तु देवायतर्षिसंज्ञया ।प्राहुर्देवायतर्षिश्चैकदा वृक्षतले स्थितः ॥१३॥टिम्बुरुफलमादाय पक्वं मिष्टं सुखप्रदम् ।सस्मार श्रीकृष्णनारायणं निवेदनाय वै ॥१४॥अनादिश्रीकृष्णनारायणो भक्त्या वशंगतः ।आययौ तुम्बुरुवृक्षस्थले यत्र स भक्तराट् ॥१५॥बालगोपालवेषो वै समागत्य हसँस्तदा ।देवायतनहस्ताभ्यां तुम्बुरुद्रुफलानि तु ॥१६॥पक्वमिष्टानि संगृह्य बुभुजे मिष्टतद्रसम् ।भक्तो देवायतनर्षिश्चारुफलानि संददौ ॥१७॥प्रसादं कृष्णदत्तं च भुंक्ते नृत्यति शंसति ।तल्लीनो मूर्तिसंमग्नो दिव्यदृग् दिव्यदेहवान् ॥१८॥अभवद् बन्धनशून्यो व्योमाक्रमणशक्तिमान् ।बालकृष्णः फलान्यत्त्वा नदीं यातो जलाय तु ॥१९॥देवायनोऽपि तत्पृष्ठे नदीं यातो जलाय वै ।कृष्णाकृष्टेन्द्रियप्राणवर्ष्मा वाटं ययावनु ॥२०॥पर्वतान् वनवृक्षादीन् समुल्लंघ्य हरिं त्वनु ।जगाम व्योममार्गेण निरावरणदेहवान् ॥२१॥आययौ कुंकुमवापीक्षेत्रं चाश्वसरोवरम् ।श्रीहरिं ध्यानवृत्त्या वै लक्ष्यीकृत्य सरोवरे ॥२२॥सस्नौ श्रीकृष्णयोगेन सोपानैश्च जलान्तरे ।देहं विस्मृत्य सलिले मग्नोऽभूल्लीलया क्षणात् ॥२३॥देहो वै जलमध्ये सन्तिष्ठन्नेव जलाविलः ।जलं पीत्वाऽऽत्मना दिव्यो भूत्वा वै स जलोपरि ॥२४॥हरे कृष्ण हरे रवामिन्नेवं रटन् बहिस्तटे ।निर्गत्य दिव्यदेहेन क्षणं तस्थौ च यावता ॥२५॥तावत् तस्य समायातो विचारो जीवतारकः ।यद्यहं दिव्यदेहेन कारयामि प्रजासु तु ॥२६॥भजनं कीर्तनं विष्णोर्जीवा यास्यन्ति मोक्षणम् ।इत्येवं संविचार्यैव भजनं श्रीहरे हरे ॥२७॥कुर्वन् त्वारण्यकं व्याघ्रं सिंहारण्यं ततः परम् ।ततः संयमनीं याम्यां पुरीं गत्वाऽप्यकीर्तयत् ॥२८॥हरे कृष्ण हरे स्वामिन् हरे नारायण प्रभो ।श्रीगोपाल हरे कृष्ण कंभराश्रि हरे विभो ॥१९॥बालकृष्ण रमाराधालक्ष्मीपारवतीपते ।कमलेश प्रभामाणिकीश नारायण प्रभो ॥३०॥इत्येवं भजनं चक्रे नामकीर्तनघोषणाम् ।श्रुत्वा याम्यनिगडस्था विपाशा बन्धनच्युताः ॥३१॥बभूवुः सहसा शुद्धाः पापतापविवर्जिताः ।मुक्तियोग्या दिव्यदेहा वैकुण्ठयोग्यदेहिनः ॥३२॥पुण्यदेहाश्च ते भूत्वा श्रुत्वा नाम हरेर्मुहुः ।धर्मराजं नमस्कृत्य ययुर्ब्रह्म सनातनम् ॥३३॥देवायनोऽपि याम्याना भ्रमित्वा सर्वभूमिषु ।बालकृष्णस्य च हरेः श्रावयित्वाऽभिधां मुहुः ॥३४॥प्रज्वाल्य पापिपापानि प्रेषयामास धाम च ।यमदूता विलोक्यैतन्महाश्चर्यं यमं प्रति ॥३५॥त्वरिताः प्रययुर्विज्ञापयामासुरनिष्टकम् ।यमराज महाबाहो कारागाराणि पापिनाम् ॥३६॥केनचित्तु समागत्य संश्राव्य नाम वै हरेः ।विधाप्यन्ते तु रिक्तानि प्रयान्ति ब्रह्म पापिनः ॥३७॥पुण्यदेहाः पुण्यरूपाः पुण्यात्मानो विहायसा ।दिव्ययानेन वै गन्तुं समर्थास्ते प्रयान्ति हि ॥३८॥नाऽस्माँस्ते गणयत्यत्र योजितान् दण्डदायिनः ।तिरस्कृत्य च नः सर्वान् प्रदर्श्याङ्गुष्ठदन्तकान् ॥३९॥विहस्याऽस्मान् प्रयान्त्येते पश्य रिक्तं पुरं तव ।इत्युक्तो यमराजोऽसौ यावत् पश्यति पत्तनम् ॥४०॥याम्यं सर्वं दण्डलोकं रिक्तं संदृष्टवाँस्ततः ।तं ददर्श दिव्यदेहं भक्तं देवायनं हरेः ॥४१।नाम गृणन्तं तानेन श्रावयन्तं च नारकान् ।प्रक्षालयन्तं पापानि कुर्वन्तं दिव्यमुक्तताम् ॥४२॥प्रेषयन्तं हरेर्धाम बलिष्ठं सात्त्वतं स्थितम् ।यमराजो विलोक्यैनं भक्तं ननाम भावतः ॥४३॥प्राह स्वागतमर्घ्यं च मधुपर्कं ददौ तथा ।आसनं प्रददौ तस्मै उपाविवेश भक्तराट् ॥४४॥पप्रच्छ कुशलं सर्वं निरामयं च नाम च ।आगमं चेति भक्तस्य भक्तो जगाद वै शुभम् ॥४५॥यमः प्राह हरेर्नाम पापिनां पापनाशकम् ।भवान् गृह्णाति भक्ताग्र्य तद्योग्यं वै विधीयते ॥४६॥संसारोऽयं तु पापिष्ठो दुःखदः कर्मभिर्वृतः ।कर्मणा जायते जन्तुः कर्मणैव विलीयते ॥४७॥कर्मणा भुज्यते दुःखं कर्मणा सुखमाप्यते ।साधुकर्मप्रकर्ता वै स्वर्गं प्राप्नोति चैश्वरम् ॥४८॥असाधुकर्मकर्ता वै नारकं दुःखमृच्छति ।अधर्मकृतकार्याणां पापिनां दण्डहेतवे ॥४९॥विष्णुना दण्डशालाऽत्र निर्मिता विद्यते सदा ।तत्राऽहं सूर्यपुत्रोऽस्मि नियुक्तो धर्मदेहवान् ॥५०॥धर्मरूपस्य मे पुत्रो हरिर्नारायणः स्वयम् ।कृष्णो नरश्च ते पुत्राश्चत्वारो मम वै पुरा ॥५१॥विशालायां बदर्यां वै मानसा ह्यभवैंश्च मे ।तन्नाम्ना सर्वदा पापिपापानि प्रज्वलन्ति हि ॥५२॥मुक्तिं प्रयान्ति जीवाश्च कर्मभूमेर्बलात् खलु ।यमस्य नगरं त्वेतद् द्ण्डशाला हि केवला ॥५३॥नैषा कर्मक्षितिश्चास्ते नाऽत्र भक्तप्रवेशनम् ।अन्तरेण फलभुक्तिं नाऽस्मात् स्थानान्निवर्तनम् ॥५४॥इत्येवं श्रीहरेराज्ञा मनोराज्ञा विधेस्तथा ।तामनुसृत्य चैवाऽत्र फलं ददामि देहिने ॥५५॥तन्मध्ये न क्षतिः कार्या येन केनापि वै क्वचित् ।इत्येवं नियमस्त्वद्य भक्त त्वया प्रधर्षितः ॥५६॥अविगणय्य कृष्णस्य नियमं यद् भवानिह ।समागतोऽस्ति पापानां विनाशको विमुक्तिदः ॥५७॥तद् योग्यं न कृतं भक्त मा हरेः कीर्तनं कुरु ।इत्येवं चानुनीतोऽपि न मेने श्रीहरेर्बलात् ॥५८॥प्राह भक्तो यमं तत्र मुञ्चेदं व्याधपत्तनम् ।हरेर्नाम्ना तु ते धर्म मुक्तिं करोमि तेऽपि च ॥५९॥हरे कृष्ण हरे स्वामिन् वद नारायणेति च ।भजैनं श्रीबालकृष्णं वाचमन्यां विमुञ्च वै ॥६०॥तं विदित्वा चातिमृत्युमुपैति नेतरा सृतिः ।मोक्षार्थं खलु जीवानां मुक्तिदानं परं मतम् ॥६१॥दीनाऽनाथदरिद्राणामशक्तानां प्रमोक्षणम् ।अज्ञानां चाऽप्यसुराणां रक्षसां मोक्षणं सदा ॥६२॥कार्यं विजानता नित्यं संसारे पापसंकुले ।मया त्वत्र समागत्य पापिनां पापवार्धयः ॥६३॥प्रदह्यन्ते हरेर्नाम्ना तद् योग्यं क्रियते यम ।एकोऽपि मानवस्त्वत्र नाम्ना चेदुद्धरेदितः ॥६४॥तस्य पुण्यस्य वै पारं नैव पश्यामि सूर्यज ।यमदूताः कथं न्वेते रक्षिता राक्षसा इव ॥६५॥दीयतां वै त्वया तेभ्यश्चाद्यदिनादभृत्यताम् ॥श्रवणाद्याश्चित्रगुप्ताः प्रगच्छन्तु च मोक्षणम् ॥६६॥श्रावयामि हरेर्नाम कुर्वन्तु निर्जनां पुरीम् ।वसन्तु भगवद्भक्ताः सर्वे दुःखविवर्जिताः ॥६७॥प्रक्षालयन्तु यन्त्राणि पापिनां मोक्षणं कुरु ।वैष्णवाश्च भवन्त्येव सर्वे दयालुसात्त्वताः ॥६८॥हरेर्नामबलात् सर्वान् मोक्षयिष्ये न संशयः ।याम्यापुरी भवत्वेषा स्वर्गपुरी सुखान्विता ॥६९॥पापिरिक्तां करोम्येषो भजनेन हरेरिह ।यथेष्टं कुरु याम्येश भज नारायणं हरिम् ॥७०॥इत्युक्त्वा च यमं नत्वा भजन्नारायणं हरिम् ।बालकृष्णं हृदि धृत्वा ययौ कुण्डेषु पापिनाम् ॥७१॥हरेकृष्ण हरेस्वामिन् हरेनारायण प्रभो ।बालकृष्ण हरेकृष्ण श्रीपते पार्वतीपते ॥७२॥परब्रह्माऽक्षरातीत माणिकीश रमापते ।राधालक्ष्मीपते कृष्ण प्रभापतेऽव पापिनः ॥७३॥इत्येवं करतालाभ्यां शब्दयन् कण्ठतस्तथा ।पुरीं याम्यां सुखयंश्च पापिनः परितो ययौ ॥७४॥असंख्यान् पापिनस्त्वेवं संश्राव्य कीर्तनं मनुम् ।पापानि संप्रदाह्यैव प्रेषयामास चाक्षरम् ॥७५॥यमराजो विह्वलः सन् ययौ कुंकुमवापिकाम् ।अक्षरं परमं क्षेत्रं दिव्यं चाश्वसरोवरम् ॥७६॥अकस्माच्छ्रीहरेश्चाग्रे त्वागत्य दण्डवत् भुवि ।पतितः साश्रुनेत्रश्च मौनमास्थाय संस्थितः ॥७७॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।जानन्नपि नृनाट्येन पप्रच्छैनं हि कारणम् ॥७८॥जगाद यमराजोऽपि भक्तं याम्ये समागतम् ।अर्पयन्तं प्रमुक्तिं च पापिभ्यो नामकीर्तनात् ॥७२॥हरिः प्राह तु तच्छ्रुत्वा भक्ताऽधीनोऽस्म्यहं यम ।भक्तेच्छापूरकश्चाऽस्मि भक्तवश्यः करोमि किम् ॥८०॥न निरोद्धुमहं शक्तस्त्वेनं ब्रह्मादयोऽपि च ।तस्माच्छृणु ममाज्ञां त्वं मा शुचश्चात्र संभवे ॥८१॥एकवारं याम्यलोकं रिक्तं कारयितुं हि ते ।मद्भक्ताय तु समयं देहि पश्चात् गमिष्यति ॥८२॥रिक्तायां यमपुर्यां स नाऽवलोक्य तु पापिनः ।कृतकार्यं तु मत्वा स्वं स्वयं गतो भविष्यति ॥८३॥अद्य मे जनिदिवसश्चतुर्दशसमाकृतः ।पापिनां निगडानां वै मोक्षणं भवताद् यम ॥८४॥इत्युक्तो यमराजोऽपि कृष्णाज्ञां प्राप्य पूजनम् ।हरेश्चकार विधिना मुमुदे सुखतः स्थितः ॥८५॥भोजयामास भगवान् यमराजं ततः परम् ।ददौ च मुकुटं तस्मै सौवर्णं मस्तके हरिः ॥८६॥कण्ठे हारं च सौवर्णं रत्नहीरकशोभितम् ।'ओंनमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥८७॥मन्त्रं ददौ च तुलसीमालां यमेश्वराय वै ।पारितोष्यं ददौ मूर्तिं प्रतिमां स्वां सुवर्णजाम् ॥८८॥ततश्च भगवान् बालकृष्णो जगाद सूर्यजम् ।भक्तं देवायनं ब्रूहि जय कृष्णनरायण ॥८९॥विमानं सर्वगाम्येतद् देहि तस्मै सुखास्पदम् ।यात्रार्थं सर्वलोकानां कल्पवल्ल्यादि संश्रितम् ॥९०॥अधिरुह्य प्रयाहि त्वं यमराज विमानकम् ।प्रसादं तु मम नीत्वा देहि सर्वेभ्य एव च ॥९१॥त्वत्पुरं पावनं चास्तु चाद्याऽपराधिवर्जितम् ।देवायने प्रयाते तु पुनः पूर्णं भविष्यति ॥९२॥इत्युक्तो यमराजः स राधिके श्रीहरिं तदा ।नत्वा कृत्वा दण्डवच्च भूत्वा वै वैष्णवो महान् ॥९३॥ययौ विमानवर्येण याम्यं नैजं पुरं पुनः ।श्रावयामास सर्वेभ्यो यद्वृत्तं हरिसन्निधौ ॥९४॥देवायनोऽपि यच्छ्रुत्वा मुमुदेऽति ननर्त च ।नामसंकीर्तनं चक्रे भ्रमित्वा परितः पुरम् ॥९५॥रिक्तं यमपुरं चक्रे संश्राव्य नाम वै हरेः ।यमराजो ददौ तस्मै प्रसादं च विमानकम् ॥९६॥यमदूताः पापिनां च पीडनं प्रजहुस्ततः ।मोचिता निगडेभ्यश्च बन्धनेभ्यस्तथा तदा ॥९७॥गताः सर्वे हरेर्नाम्ना स्वर्गं सत्यं सुखाश्रयम् ।वैकुण्ठं चापि गोलोकं चाव्याकृतं तथाऽमृतम् ॥९८॥अक्षरं धाम परमं निवर्तन्ते न यद्गताः ।इत्येवं सुचमत्कारो दृष्टो जातो जनैस्तदा ॥९९॥चतुर्दशस्थलोकैर्वै तथा धामनिवासिभिः ।भुक्तिमुक्तिप्रदः कृष्णः समर्थो न करोति किम् ॥१००॥यस्य सर्वं यत्र सर्वं यद्वशे सर्वमेव च ।यस्मात् सर्वं स वै शास्ता किं न करोति राधिके ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने देवायतनर्षिभक्तो यमपुर्यां श्रीहरेर्नामसंकीर्तनं कृत्वा याम्यान् सर्वान् मोचयामासेत्यादिनिरूपणनामानवदशाधिकशततमोऽध्यायः ॥११९॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP