संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १६२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १६२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६२ Translation - भाषांतर श्रीकृष्ण उवाच-माघपूर्णांतिथौ राधे चमत्कारोऽपरोऽभवत् ।कथयामि समासेन शृणु तं ज्ञानदायकम् ॥१॥पाञ्चाले पश्चिमे देशे विष्टिजातिसमग्रणीः ।आसीद्भक्तः शतोढुश्च नाम्ना परमवैष्णवः ॥२॥दासवर्गोऽस्य वशगः शिबिकावाहकोऽभवत् ।राज्ञां च श्रेष्ठिनां यानवाहकत्वं चरन्ति ते ॥३॥विष्टयो दूरदेशं च यात्रालुभिः सहैव तु ।गच्छन्ति विष्टिकर्माणः सोमक्षेत्रं तथाऽपरम् ॥४॥गोपक्षेत्रं चमत्कारपुरं सिद्धपुरं तथा ।माथुरं क्षेत्रमेवापि क्षेत्रं च पुष्पकरं तथा ॥५॥वाराणसीं नर्मदां च गोदावरीं च गोमतीम् ।स्वर्णरेखां तथा चाश्वपट्टतीर्थं प्रयान्ति च ॥६॥एकदा स शतोढुश्च कथां शुश्राव वैष्णवीम् ।संहितां पुत्रहीनस्य गतिर्नास्तीति सर्वथा ॥७॥अपुत्रस्य शतोढोश्च हृदये सा कथा स्थिता ।पुत्रार्थं प्रैरयत् सोऽपि मौनमादाय नित्यशः ॥८॥मालां जप्त्वा नदीतीरे शमीस्थां भुवनेश्वरीम् ।पुपूजाऽऽराधयामास रात्रौ रात्रौ तदैकलः ॥९॥स्वग्रामनिकटे नित्यं शमीवृक्षतले स्थितः ।धूपं दीपं शमीपत्रं नैवेद्यं चणकादिकम् ॥१०॥समर्प्यैवं बलिं मालावृत्तिं करोति वै शतम् ।भुवनेशि भुवनेशि भुवनेशीति संजपन् ॥११॥अन्ते देहि च पुत्रं मे प्रार्थ्य गृहं प्रयाति सः ।एवं वै वर्षपर्यन्तं प्रचकार तपः शुभम् ॥१२॥वर्षायां शिशिरे तापे शैत्याधिक्येऽपि सर्वथा ।व्रतभंगं न चाऽवाप श्रद्धया तीव्रया तथा ॥१३॥तितिक्षया गुणेनापि व्रतं पूर्णं चकार सः ।वर्षान्ते भुवनेशी सा नवरात्रान्तिमे दिने ॥१४॥साक्षाद्बभूव भक्तस्य प्रसन्नाऽस्मीत्युवाच तम् ।भक्तोऽपि वीक्ष्य तेजोऽन्तमूर्तिं दिव्यां सुरूपिणीम् ॥१५॥त्र्यक्षां शूलधरां श्वेतां प्रसन्नवदनां सतीम् ।सिंहस्थां वरदानार्थं कृतोर्ध्वहस्तकां शुभाम् ॥१६॥प्रणनाम जयशब्दं जगाद च ननर्त च ।मातर्मनोरथश्चाद्य फलितो मे सुपुष्पितः ॥१७॥या साक्षाज्जगतां धात्री मम दृष्टिमुपागता ।स्वल्पेनैव हि तपसा फलं लब्धं मया बहु ॥१८॥किं करोमि च पूजादि चात्मनाऽर्पितवाहनम् ।पादयोस्ते पतितोऽस्मि मानसं निहितं त्वयि ॥१९॥यासां प्रजानां जननी रक्षयित्री च पोषिका ।वर्तते सर्वथा तासां दुःखं सर्वं विनश्यति ॥२०॥मम दुःखं गतं सर्वं विष्टिजातीयकस्य वै ।इत्युक्त्वा प्रददौ श्रेष्ठं बलिं पूजां तथोपदाः ॥२१॥प्रसन्ना भुवनेशी सा जगाद प्रणतं जनम् ।वरं वृणु द्रुतं भक्त किं ते मनसि वर्तते ॥२२॥शीघ्रं ददामि वरदा नाऽदेयं विद्यते तव ।इत्युक्तः सः शतोढुश्च देवीप्रभावधर्षितः ॥२३॥मौनं धृत्वा कराभ्यां च चेष्टया बालकं शुभम् ।वव्रे कुक्षौ करौ कृत्वा मौनिचिह्नेन पुत्रकम् ॥२४॥देवी तथाऽस्त्विति प्राह मूकः पुत्रो भविष्यति ।इत्युक्त्वा तु तिरोभावं प्राप्ता शतोढुरित्यपि ॥२५॥शमीं प्रणम्य देवीं च कृत्वा प्रदक्षिणं मुहुः ।क्षमां प्रार्थ्याऽन्तिमां पूजां कृत्वा गृहं ययौ ततः ॥२६॥पत्न्यै प्राह कथां सर्वां मूकपुत्राभिदायिनीम् ।सापि श्रुत्वा पुत्रमोदं मूकाऽमोदं जगाम ह ॥२७॥अथ वर्षान्तरे जातो बालो देवीप्रतापतः ।ववृधे चन्द्रसदृशो मूको वाणीविवर्जितः ॥२८॥संस्कृतो बहुधा चेष्टाविज्ञानैः प्रतिबोधितः ।जनयामास हर्षं स पित्रोर्वंशसुतन्तुकः ॥२९॥वाणीशून्यत्वमेवात्र शोकस्थलं हि वर्तते ।पिता विष्टिस्वरूपेणैकदा श्रेष्ठिप्रवाहणः ॥३०॥अश्वपट्टसरस्तीर्थयात्रार्थं गतवाँस्तदा ।कथां शुश्राव च रात्रौ लोमशस्याश्रमे शुभाम् ॥३१॥लक्ष्मीनारायणसंहितायाः सर्वार्थसाधिकाम् ।चक्षुर्ददाति देवेशश्चान्धाय सुप्रसादितः ॥३२॥कर्णौ ददाति भगवान् बधिराय प्रराधितः ।पङ्गुं पादौ समर्प्यैव दधाति सुखिनं हरिः ॥३३॥वृक्णं करौ प्रदायैव करोति सुखिनं श्रितम् ।कुष्ठिनं कुष्ठरहितं करोत्येव जनार्दनः ॥३४॥दरिद्रं सम्पदा युक्तं करोत्येव श्रियाः पतिः ।सर्वकामान् हरिः सोऽयं स्वामिकृष्णनरायणः ॥३५॥पूरयत्येव भक्तस्य गोपालकम्भरासुतः ।तीर्थे वासः सदा कृत्वा यश्चैनं पूजयेद्धरिम् ॥३६॥तस्य सर्वं भवेत् सिद्धं प्रयत्नो निष्फलो नहि ।इत्येवं स शतोढुश्च श्रुत्वा कथां सरस्तटे ॥३७॥सुष्वाप च तदा रात्रौ निद्रायां बालकृष्णकः ।भगवान् दिव्यरूपः स शतोढोः सन्निधौ तदा ॥३८॥आगत्याह च ते भक्त चिन्ता दूरे भविष्यति ।वोढुर्नाम्ना तव पुत्रश्चात्रागत्य च तप्स्यति ॥३९॥तस्य वाणी स्वयं चात्र सांकुरा संभविष्यति ।याहि गृहं ततः पुत्रं नीत्वा चाश्वसरोवरम् ॥४०॥समायाहि ततस्तेऽत्र मानसं फलवद् यतः ।इत्युक्त्वा भगवान् कृष्णनारायणस्तिरोऽभवत् ॥४१॥प्रबुद्धश्च शतोढुस्तन्महाश्चर्यं ह्यचिन्तयत् ।सत्यं क्षेत्रफलं जातं तीर्थागमनमात्रतः ॥४२॥यथा दृष्टं मया स्वप्ने तथा करोमि वै शुभम् ।इत्येवं च विनिर्णीय कृत्वा तीर्थं तु सार्थकैः ॥४३॥श्रेष्ठिनः शिबिकास्थाँश्च प्रापय्य तद्गृहाणि च ।गृहं गत्वा निजां भार्यां प्राह सर्वं यथायथम् ॥४४॥पुत्रस्य शारदासिद्ध्यै चाश्वपट्टसरोवरे ।वासो योग्यो मतो मे श्रीकृष्णनारायणाग्रहात् ॥४५॥इत्युक्त्वा सम्मतिं प्राप्य पत्न्याः पुत्रं निनाय सः ।शतोढुश्च सह पत्न्या त्वश्वपट्टसरोवरम् ॥४६॥वोढुस्तत्र महामूको जन्ममूको निशामुखे ।सुप्तः स्वप्नं ददर्शाऽथ तपसा वाक्प्रकाशताम् ॥४७॥चेष्टया पितरौ प्रातर्विज्ञाय स्वाप्नवैभवम् ।वोढुः स्वयं चकारैव तपस्तापसिनः क्रमात् ॥४८॥प्रथमं स ययौ तत्र लोमशस्य महाश्रमम् ।मन्त्रं जग्राह विधिना पञ्चगव्यस्य चादनम् ॥४९॥चकार देहशुद्धिं च दधार तौलसीं स्रजम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥५०॥सम्प्राप्तं तं मनुं शश्वज्जपन् श्रीकृष्णवल्लभम् ।द्रष्टुं देवालयं गत्वा नत्वा श्रीपुरुषोत्तमम् ॥५१॥पीत्वा पादोदकं तस्य सरस्तटमुपाययौ ।प्रणम्य चरणौ पित्रोश्चामलकीद्रुमाश्रये ॥५२॥भूतले स निषद्यैव कुशासने तु मालया ।जपं कुर्वन् हरिं ध्यायन् श्रीमत्कृष्णनरायणम् ॥५३॥वृत्तीः सर्वाश्चान्तरे च कृत्वा तपसि संस्थितः ।वागर्थं स तपस्तेपे चाश्वपट्टसरस्तटे ॥५४॥मूर्तिं विधाय वै स्वल्पां बालकृष्णस्य सैकतीम् ।सर्वोपचारकैस्तस्याः पूजां चक्रे त्रिकालिकीम् ॥५५॥मालाजपं चकारापि वाणीं देहीति मानसम् ।तुलसीवनतो नित्य समाहृत्य दलायुतम् ॥५६॥अर्पयति स्म नित्यं वै बालकृष्णाय पूजने ।स्वयं तुलसीपत्राणि भुंक्ते मासं निनाय सः ॥५७॥मासे द्वितीयके वन्यफलाहारो बभूव सः ।तृतीये मासि भाजानां पत्रादः स बभूव च ॥५८॥चतुर्थे कन्दमूलानामाहारेण स वर्तते ।पञ्चमे जलमात्रेण षष्ठे वायुप्रजीवनः ॥५९॥सप्तमे फेनपश्चापि बभूव जलशायनः ।जले कृत्वा विचारं स नश्यामि वा वदामि वा ॥६०॥अर्पयामि हरयेऽत्र चात्मानं मोक्षणाय तु ।इत्येवं स विनिर्धार्य जलवासोऽभवत्ततः ॥६१॥नामरटणमात्रं वै जानात्येव न चेतरत् ।मानसं रटणं सर्वं प्राणान्तं च तपः परम् ॥६२॥विदित्वा बालकृष्णोऽयं तुतोष बालकाय सः ।वोढुश्चाऽयं शारदार्थं तपस्तपति दारुणम् ॥६३॥मदर्थं त्यक्तसर्वस्वो मरणाय कृतादरः ।तोषणीयो मया भक्तो वाणीदानेन वै भुवि ॥६४॥शरणागतरक्षोऽहं भक्तत्राता भवामि च ।कृपया साध्य एवाऽहं कृपया तोषयामि तम् ॥६५॥इति विचार्य भगवान् भक्तानुग्रहसंभृतः ।अनादिश्रीकृष्णनारायणः कपिलरूपधृक् ॥६६॥साधुवेषः पिङ्गजटः स्कन्धे धृतोपवीतकः ।करे कमण्डलुं बिभ्रन् कुक्षौ चाधारपावटीम् ॥६७॥मृगचर्म दधन् मालां स्फाटिकीं जोलिकां दधन् ।युवा तेजःप्रवाहैश्च संशोभद्विग्रहः शुभः ॥६८॥भस्मच्छन्नशरीरश्च कौपीनाम्बरभूषितः ।सुरूपः शान्तमूर्तिश्च हृदये स्वर्णरेखकः ॥६९॥मत्स्यशूलधनुःस्वस्तिध्वजचिह्नितहस्तकः ।वामसक्थ्नि शुभ्रलक्ष्मीचन्द्रचिह्नविराजितः ॥७०॥साधुवेषोऽपि भगवान् दिव्यसिद्धिविराजितः ।अकस्माद् व्योममार्गेण तेजोमण्डलमध्यतः ॥७१॥अवाततार सलिले भक्ताग्रे सुस्थिरोऽभवत् ।अनाधारो जलाधारो भगवान् वोढुमेव तम् ॥७२॥दक्षहस्तेन चोन्नीत्वा सरस्तटे निधाय च ।नेत्रे प्रमृज्य चोद्धाट्य दर्शनं प्रददौ निजम् ॥७३॥प्राह कस्माज्जले त्वं वै वर्तसेऽत्र किमिच्छसि ।वद दास्ये समग्रं ते तपसाऽस्मि प्रतोषितः ॥७४॥अनन्यस्य भवाम्येव चात्मसमर्पकोऽप्यहम् ।अनन्यो मे भवाञ्जातस्तवाऽनन्यो भवाम्यहम् ॥७५॥वद शीघ्रं वरं याचस्वात्र ददामि चेप्सितम् ।इत्युक्त्वा विररामाऽसौ भगवान् करुणानिधिः ॥७६॥वोढुः स्वास्थ्यं समापन्नो भानयुक् श्रीहरिं तदा ।साधुवेषं वरदं च रम्यरूपं विलोक्य वै ॥७७॥अतिहर्षातिमग्नश्चोत्थाय पपात पादयोः ।हरेश्चरणतलयोश्चावलेहं चकार सः ॥७८॥हृदये भगवत्पादौ न्यधात् क्षणं सुखं ययौ ।मस्तके करकमले न्यधात् चकार दण्डवत् ॥७९॥नेत्राश्रूणि मुमोचापि स्नेहोद्भरातिविह्वलः ।रोमाञ्चतां तदा प्राप्तोऽचेष्टयत् परमेश्वरम् ॥८०॥मानसेनैव भावेन जिह्वां प्रदर्श्य चेष्टया ।नास्ति वाणी कृपासिन्धो वाणीं देहि कृपां कुरु ॥८१॥इति सर्वं चेष्टयैव ज्ञापयामास माधवम् ।पिङ्गलं कपिलं कृष्णं दर्शयामास जिह्विकाम् ॥८२॥भगवानपि दीनस्योद्धारकर्ता करेण ताम् ।प्रहसन् दर्शितां जिह्वां पस्पर्शाऽङ्गुलिभिर्मुदा ॥८३॥समाकृष्य मनाक् तत्र कमण्डलोर्जलं ददौ ।श्वेतवर्णं सर्वविद्याश्रितं लीनं च तत्र तत् ॥८४॥बभूव यत्र सलिले साक्षात् सरस्वती ह्यभूत् ।ब्रह्मज्ञानं ह्यभूद्यत्र सांख्यविज्ञानमित्यपि ॥८५॥वेदानां सर्वविज्ञानं तत्त्वदृष्टिरभूत्तथा ।एवं जलमिषेणैव तत्त्वप्रदर्शितां ददौ ॥८६॥तावद्वाणी देववाणी गीर्वाणवाक् सुसंस्कृता ।प्रादुरभूत् तदा वोढुजिह्वायां कृपया हरेः ॥८७॥स्तुतिं चकार विविधां वोढुर्वेदमयीं हरेः ।बृहद्ब्रह्मण्ययनवान् दिव्यविप्रासनश्च यः ॥८८॥ईशनीभिर्जुष्टपदः श्रीशोऽवत्वखिलास्पदः ।प्राविर्भावांऽशदिव्यात्माऽसंख्यधर्माभिरर्चितः ॥८९॥ईशकोटिरथो जुष्टो भगी मे भरणं कुरु ।वेदहृद् वाङ्प्रविस्तारः शारदाधिपतिः पुमान् ॥९०॥सरस्वतीपतिः पाताऽरणं मे कुरु पिंगलः ।इन्द्रेन्द्रोऽगोचरो वाचां देहभेदात्मदर्शकः ॥९१॥प्राकृतांऽशपृथग्रूपः कपिलो मां सदाऽवतु ।यः क्रतुर्जातवेदाश्च सिद्धर्षिब्रह्मपादपः ॥९२॥सतीर्थ्यश्चात्मनां स्तम्बः साम्बः कृष्णः प्ररक्षतु ।पृथुभूतानि सूक्ष्माणि रश्मयश्च प्रवाहणम् ॥९३॥स्फुर्तयश्चापूरकाणि यच्छ्रयाणि स माऽवतु ।यज्जीवं चांकुरात् सर्वं यदात्मकं विशिष्यते ॥९४॥यत्प्रत्नं सक्रियं चैतज्जायते बुध्नकं पुनः ।तस्मै देवाय दिव्याय विधेम हविषा हृदा ॥९५॥राधयेयं च तं कृष्णनारायणं तु कंभृतम् ।काम्भरेयं कापिलाख्यं गुरुं शमस्तु तत्पदे ॥९६॥इति स्तुत्वा राधिके स पपात कृष्णपादयोः ।कपिलाख्यहरिस्तत्र शीघ्रमन्तरधीयत ॥९७॥वोढुर्विज्ञानमापन्नो दिव्यर्षिश्चाभवत्ततः ।सांख्ययोगादितत्त्वानां व्याख्याता पण्डितः शुभिः ॥९८॥अनादिश्रीकृष्णनारायणं कपिलरूपिणम् ।यत्र तीर्थे ददर्शाऽसौ कपिलं तीर्थमेव तत् ॥९९॥अश्वपट्टसरस्येव जातं विद्याप्रदं शुभम् ।तत्र वोढुर्ददौ लोकेभ्यो विज्ञानं तु तात्त्विकम् ॥१००॥वोढ्वाश्रमे हरेर्मूर्ति कापिलीं सुन्दरांगिनीम् ।सरस्तीरे प्रतिष्ठाप्य वोढुः पुपूज नित्यशः ॥१०१॥मन्दिरं रमणीयं वै कापिलेयं ततोऽभवत् ।माघपूर्णादिने वोढुर्ज्ञानं वाणीं च दर्शनम् ॥१०२॥अवाप श्रीहरेस्तत्र चिरं वासं चकार सः ।ततो मोक्षं गतो वोढुः राधिके युगपर्यये ॥१०३॥तत्र स्नात्वा कथां श्रुत्वा ब्रह्मज्ञानमवाप्नुयात् ।ऐहिकीं तु परां सिद्धिं चाप्नुयान्नहि संशयः ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने शिबिकावाहशतोढुतपस्यया लब्धस्य मूकपुत्रस्य वोढोश्चाश्वपट्टसरसि तपसा कपिलरूपेण श्रीहरेर्दर्शनं सांख्यज्ञानवाणीसिद्धिप्राप्तिश्चेतिनिरूपणनामा द्वाषष्ट्यधिकशततमोऽध्यायः ॥१६२॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP