संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २३६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २३६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३६ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके बालकृष्णस्तु धनत्रयोदशीदिने ।धनलक्ष्म्याः पूजनं सम्प्रचकार विधानतः ॥१॥लक्ष्मीं निजां प्रियां श्रीं च सौवर्णी प्रतिमात्मिकाम् ।कारयामास दानार्थं तां सुमूर्तिं विधानतः ॥२॥प्रापूजयत् षोडशाद्योपचारैश्चन्दनादिभिः ।भोजयामास बहुधा पक्वान्नैर्नवधान्यजैः ॥३॥प्रत्यक्षां च ततो लक्ष्मीं पत्नीं निजां श्रियं तथा ।स्वर्णसिहासने निषाद्याऽऽर्चयच्चन्दनादिभिः ॥४॥केशवेषादिकं चक्रे स्वयं कृष्णो हि योषितोः ।कबरीं कृत्वा धम्मिलं ग्रन्थयामास वै स्वयम् ॥५॥पुष्पहारान् विभूषाश्च ग्रन्थयामास तत्र च ।शृंगारद्रव्यसद्रत्नैर्हीरकैः कज्जलादिभिः ॥६॥कुंकुमैर्गन्धसाराद्यैः केसरैः करकादिभिः ।पुष्पस्रग्भिश्च बिन्द्वाद्यैस्तयोः शृंगारमाचरत् ॥७॥तयोश्चारार्त्रिकं चक्रे प्रत्यक्षयोर्हि कन्ययोः ।ते ह्युभे सुप्रसन्ने च तदाशीर्वचनानि वै ॥८॥प्राहतुः श्रीपते लक्ष्मीपते विवाहमावह ।श्रीपतिश्च तथा लक्ष्मीपतिर्लग्नेन संभव ॥९॥राधापतिः रमापतिः पद्मावतीपतिर्भव ।माणिकीपतिरेवापि ब्रह्मप्रियापतिर्भव ॥१०॥दुःखहालक्ष्मीपतिस्त्वं विवाहविधिना भव ।असंख्यानीतपत्नीनां पतिर्लग्नेन संभव ॥११॥समयोऽयं विवाहस्य तव कृष्ण उपागतः ।योग्यो युवा भवस्यद्य यौवनांकुरवान् प्रभो ॥१२॥शुभे समये श्रीकृष्णो लक्ष्मीकृष्णो द्रुतं भव ।कन्यकाश्च वयं सर्वाः प्रतीक्षामो बिवाहनम् ॥१३॥लक्ष्मीवान् धनवान् श्रेष्ठः स्मृद्धिमान् वंशवान् भव ।अद्यापि ब्रह्मचारी त्वं महायोगी प्रशस्यसे ॥१४॥योगैश्वर्येण चास्माकं कामपूरो भवस्यपि ।अविप्लुतः सदा चास्ते किमसाध्यं हि योगिनः ॥१५॥तथापि विधिना कृष्णोत्सवं वैवाहिकं वह ।इत्युक्तो भगवान् कृष्णस्तथास्त्वेवं जगाद ह ॥१६॥मार्गशीर्षे करिष्येहं लग्नं मे सर्वयोषिताम् ।तावद्धैर्यं भवत्यौ चावहतां त्वपरास्तथा ॥१७॥इत्युक्त्वा दक्षिणां दत्वा व्यसर्जयत् प्रपूजनम् ।दक्षिणा विविधाश्चापि ददौ श्रीलोमशर्षये ॥१८॥स्वर्णमूर्तिद्वयं चापि ददौ श्रीलोमशर्षये ।विप्रेभ्यो दक्षिणाः स्वर्णपात्राण्यपि धनं ददौ ॥१९॥एवं महोत्सवं कृत्वा सरोवरमगाद्धरिः ।वासुदेवीयकं तीर्थं यत्र चाण्डाल उद्धृतः ॥२०॥तत्र स्नात्वा व्यूहतीर्थे वटवृक्षं ययौ हरिः ।तत्र ब्रह्मप्रियाः सर्वा विहर्तुं समुपागताः ॥२१॥ताभ्यो दत्वा धनान्येव कुबेरोपहृतानि वै ।प्रपूज्य सर्वपत्नीः स कन्यका दक्षिणादिभिः ॥२२॥प्रसाद्य सर्वसामग्रीश्चेष्टा दत्वा तटान्तिकम् ।विहर्तुं बर्बुरं वृक्षं दन्तधावनकैतवात् ॥२३॥स्प्रष्टुं चापि ययौ बालकृष्णो हि राधिके ततः ।ब्रह्मप्रियाद्याः सर्वास्ताः प्रपश्यन्ति तु माधवम् ॥२४॥यान्तं बर्बुरवृक्षाग्रं गत्वा स्पृशन्तमेव तम् ।दन्तधावनयोग्यां च प्रान्तप्रशाखिकां तदा ॥२५॥गृहीत्वाऽऽकर्षयन्तं च प्रपश्यन्ति स्म योषितः ।तावद् बर्बुरवृक्षः सः समूलश्चोत्पपात ह ॥२६॥ननाम भूतले चापि तस्माद् दिव्यो महानरः ।प्राविर्बभूव सहसा माहेन्द्रसदृशोऽपरः ॥२७॥दृष्ट्वा हरिं नमश्चक्रे पृथ्व्यां पपात पादयोः ।चकार दण्डवत्तूर्णं तुष्टाव परमेश्वरम् ॥२८॥परमेश कृपासिन्धौ स्मृत्वाऽहं तारितस्त्वया ।त्वं जीवानां समुद्धर्ता मोक्षकर्ता परेश्वरः ॥२९॥वर्तसेऽनुग्रहकर्ता समुद्धर्तुं जनानिह ।चर्मचक्षुर्न जानाति भवन्तं पुरुषोत्तमम् ॥३०॥मया प्राप्तः परेशस्त्वं वृक्षयोनिप्रमोक्षकः ।अद्याऽहं वै प्रगच्छामि दिव्यं स्वर्गं तवाऽऽज्ञया ॥३१॥इत्युक्त्वा प्रणनामापि पुष्पाणि बर्बुरस्य तु ।अर्पयित्वा माधवस्य पादयोर्गन्तुमिच्छति ॥३२॥तावत्तत्र समायाता आश्चर्यं परमं गताः ।ब्रह्मप्रियाः समस्तास्ताः पप्रच्छुः कान्तमेव ताः ॥३३॥कोऽयं वृक्षात् समुत्पन्नः कथं वृक्षो निपातितः ।कौतूहलं परं नोऽत्र वदैतत्कारणं प्रभो ॥३४॥श्रुत्वैतद् बालकृष्णोऽपि वर्णयितुं तु तं नरम् ।वृत्तान्तं च निजं सर्वमाज्ञापयद्धि तत्पुरः ॥३५॥राजा प्रणम्य सर्वास्ता आह वृत्तान्तमद्भुतम् ।पुराहमासं सम्राड् वै गौर्जरे साभ्रिकातटे ॥३६॥बर्बुरो नाम राजा वै धर्मकर्मपरायणः ।प्रजापालनदक्षश्च देवसाधुप्रपूजकः ॥३७॥व्रतदानपरो नित्यं नित्यवृद्धोपसेवनः ।कृष्णकथापरश्चापि वैष्णवो दुष्टशासकः ॥३८॥एकदा त्वगमं दीर्घेऽरण्ये साभ्रमतीतटे ।वनानि वीक्षितुं परिमेयभृत्योऽतिगो वने ॥३९॥दूरारण्ये प्रयातेन पद्भ्यां चाश्वो विलोकितः ।सप्तरूपाश्रयो दिव्यः कान्तिमद्रोमवर्मकः ॥४०॥मुखे शुक्लः शफे चौष्ठे रक्तश्च पुच्छपृष्ठयोः ।भ्रमरेऽप्युदरे भागे श्यामो नीलस्तु वै गले ॥४१॥पीतः कर्णे पार्श्वभागे जंघायां कपिशस्तथा ।नाडीमार्गेषु हरितश्चित्रः सर्वांगसन्धिषु ॥४२॥एवंविधं विचित्राश्च दृढं पुष्टं बलान्वितम् ।शोभनं संविलोक्यैव धर्तुं चाऽकरवं मनः ॥४३॥शनैः पार्श्वं तथा गत्वा यथा विश्वसितो भवेत् ।धृतवाँस्तं कर्णदेशे रश्मिना च गले ततः ॥४४॥गृहीत्वैव च तत्पृष्ठासनं च कृतवानहम् ।सोऽपि मया यथा संप्रेरितस्तथा जगाम ह ॥४५॥न जाने त्वस्य सारल्यं कुतश्चार्जवमागतम् ।यथा सञ्चालयाम्येनं तथाऽग्रे स तु गच्छति ॥४६॥एवं दैवतुरंगं तं ज्ञात्वा निन्ये पुरीं मम ।निजं भाग्यं मन्यमानो हर्षितश्चाऽभवं मुहुः ॥४७॥दैवं तं तुरगं नाहं क्षणं दूरं करोमि वै ।ततः स कोपमापन्नो मां शशाप रुषा वदन् ॥४८॥यस्मान्मां मुञ्चसि नैव नैव जानासि मां तथा ।नैव तृप्तिं प्रयात्येव दृष्ट्वा मां बन्धनान्वितम् ॥४९॥नैव विज्ञाय तत्त्वं मे मिष्टं ददासि भावतः ।पशुं ज्ञात्वा बन्धनेऽत्र निजं कृत्वा रुणत्सि माम् ॥५०॥ततो राजन् मम शापाद् भव बर्बुरपादपः ।कण्टकी सुवने तत्र दुःखं याहि दिवानिशम् ॥५१॥इत्युक्तोऽहं तदा शीघ्रं ज्ञात्वा पूज्योत्तमं मुनिम् ।पतितः पादयोस्तस्याऽश्वस्य शीघ्रं विमुक्तये ॥५२॥प्रार्थितः स मया देवो मुनिर्वाऽन्योऽपि यो भवान् ।अज्ञातो मम पूज्योऽसि क्षमां कुर्वत्र बालिशे ॥५३॥शापदुःखं यथा शीघ्रं निवर्तेत तथा कुरु ।निजरूपं च मे देव प्रदर्शय नमामि ते ॥५४॥अपराद्धं मया चाविजानता नान्यथा प्रभो ।तस्मात् क्षमां परां कृत्वा निजरूपं प्रदर्शय ॥५५॥इत्यर्थितो मुहुः सोऽश्वस्तिरो भूत्वा महानृषिः ।आश्वलायननामाऽभूद् राजवंशगुरुः स्वयम् ॥५६॥अहं रुरोद बहुधा ज्ञात्वा कुलगुरुं तु तम् ।क्षमां दिनतरो भूत्वाऽयाचं शापनिवृत्तये ॥५७॥पुत्रोऽपराद्धान् सन्धत्ते पिता क्षमतेऽहर्निशम् ।शिष्याद्धि गुरवश्चापि समिच्छन्ति पराभवम् ॥५८॥मया ह्यजानता चाऽश्वलोभेन नृपभावतः ।अपराद्धं तव पूज्य क्षमां कुरु विधेहि शम् ॥५९॥इत्यर्थितो हि भगवान्नाश्वलायनको मुनिः ।क्षमां कृत्वाऽऽह मां तत्र किं ते वदामि भूपते! ॥६०॥महतामवमानाद्वै महदासनलंघनात् ।पूज्यपूजाविलोपाच्च पुण्यं नश्यति सर्वथा ॥६१॥तव पुण्यं समग्रं वै नष्टं मत्पृष्ठरोहणात् ।राजभाक्त्वं न चाऽद्याऽस्ति शापदग्धो भवस्यपि ॥६२॥शापभोगोत्तरं स्वर्गं तव शीघ्रं भविष्यति ।परस्त्रीसंगमाद् राजन् गुरूणामवमाननात् ॥६५॥परपीडाकरणाच्चाऽऽयुष्यनाशो हि जायते ।असत्पक्षग्रहाच्चापि देवसाधुविनिन्दनात् ॥६४॥सतां द्रोहकरणाच्चायुष्यनाशो हि जायते ।पित्रोः कष्टप्रदानाच्च पत्नीनां पीडनादपि ॥६५॥हिंसायाः करणाच्चाप्यायुष्यनाशो हि जायते ।मद्यमांसव्यवायादिदोषाद् धर्मप्रपीडनात् ॥६६॥भूताऽऽवेशादिदोषाच्चाप्यायुर्नाशः प्रजायते ।त्वयाऽपराद्धं चात्यर्थं मया नोक्तं तु लज्जया ॥६७॥यदहं गुरुरस्याऽस्मि ह्यश्वरूपो वनेऽस्मि च ।राजाऽयं दृष्टवान् मां स न जानीयाद् गुरुं यथा ॥६८॥तथा रूपं मया न व्यावर्तितं तव सन्निधौ ।दूरं क्षणान्तरे राजा गमिष्यति ततः परम् ॥६९॥मम रूपं धरिष्येऽहं विचार्येत्थं तुरंगमः ।अभवं चाऽवर्तयं च तावत्त भवताऽन्तिकम् ॥७०॥समागत्य धृतश्चास्मि वाहितश्च गृहं प्रति ।तथाप्यचिन्तयं नाऽस्मै दर्शयितव्यमन्ततः ॥७१॥मद्रूपं यन्मन्दुरायां गृहे मोक्ष्यति मां यदा ।निर्जनेऽत्राऽन्धकारे वा रूपं धृत्वा निजं गृहात् ॥७२॥प्रयास्ये वै वनं तेन शोको नाऽस्य भविष्यति ।गुरोरत्यपराधस्येत्येवमचिन्तयं नृप ॥७३॥त्वया तु लोभभावेन नाहं त्यक्तो हि निर्जने ।चौरवद् बन्धने क्षिप्तः कारागारे स्थिरो यथा ॥७४॥ततोऽहं क्रोधमापन्नः शापं वै सृष्टवाँस्त्वयि ।पुण्यं तेन विनष्टं ते कृपा मे कियती वद् ॥७५॥ततो राजत्वमद्यैव दग्धं ते दोषकारणात् ।वर्बुरस्य द्रुमस्यैव शरीरं ते भविष्यति ॥७६॥करोम्यनुग्रहं तेऽत्र शीघ्रं शापविनाशने ।कुंकुमवापिकाक्षेत्रेऽक्षरभूमौ सरोऽन्तिके ॥७७॥बर्बुरो भव राजेन्द्र जलपानसुखादिमान् ।अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ॥७८॥'राजते भगवाँस्तत्र तद्योगं त्वं प्रयास्यसि ।दन्तधावनलाभार्थं तव शाखां ग्रहीष्यति ॥७९॥स्वहस्तेन यदा साक्षात् तस्य स्पर्शेन वै भवान् ।दिव्यभावं दिव्यदेहं समासाद्य हि दैवतम् ॥८०॥शीघ्रं यास्यसि नाकं तद् यत्रेन्द्रो वर्तते सदा ।तत्र कल्पं स्वर्गसुखं भुक्त्वाऽक्षरं प्रयास्यसि ॥८१॥त्यज चिन्तां वासनां च राज्ये पुत्रे प्रियास्वपि ।गताः पूर्वे हि राजानो गमिष्यन्त्यपरेऽपि च ॥८२॥हरेर्योगाद् गता ये ते गता भवन्ति नेतरे ।इत्येवं मां जगादाऽथ मुनिर्वनान्तरं ययौ ॥८३॥स्वस्ति तेऽस्त्विति मां चोक्त्वा यान्तं दृष्ट्वा मृतोऽप्यहम् ।अश्वपट्टसरस्तीरेऽभवं बर्वुरपादपः ॥८४॥दशवर्षाणि जातानि मेऽत्र बर्बुरवर्ष्मणि ।त्वया समुद्धृतः कृष्ण शापपापं विनाशितम् ॥८५॥पुण्यवानस्मि सञ्जातस्तव स्पर्शेन मुक्तिद ।किंकरोऽस्मि शरण्यस्त्वं देहि मंत्रं च वैष्णवम् ॥८६॥येन त्वन्ते भवेन्मोक्षो मे तथा त्वं विधत्स्व वै ।राजाऽहं राजरूपं त्वं नैजं मे त्वं प्रदर्शय ॥८७॥यत्स्वरूपं सदा ध्यात्वा स्वर्गान्मोक्षमवाप्नुयाम् ।इत्यर्थितस्तदा राधे हरिः राजस्वरूपधृक् ॥८८॥पृथुराजस्वरूपोऽभूद् भक्तेच्छापूरणाय वै ।ददौ मंत्रं च तस्मै स वैष्णवं षोडशार्णकम् ॥८९॥ 'ओः नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।गृहीत्वा तु मनुं त्वेनं विमानवरमास्थितः ॥९०॥पुष्पाद्यैर्वर्धयित्वैव श्रीकृष्णं पुरुषोत्तमम् ।ब्रह्मप्रियास्तथा सर्वा ययौ स्वर्गं सुरार्चितः ॥९१॥बालकृष्णं तदा ब्रह्मप्रियाः पृथुस्वरूपिणम् ।व्यलोकयन् पतिं नैजं त्रैलोक्यनृपतिं प्रभुम् ॥९२॥धनुश्चक्रधरं विष्णुं दृढं युवानमच्युतम् ।मोहमाप्ताश्च ताः पत्न्यो रेमिरे पृथुना तदा ॥९३॥आम्रवणे चिरं पश्चात् पूजयित्वा कृपानिधिम् ।प्रययुः सरसस्तीरे सस्नुश्च पतिना सह ॥९४॥तीर्थं तद् वर्बुराख्यं च पृथुतीर्थं ततोऽभवत् ।तत्र वासाद् भवेत् स्वर्गं शापनाशश्च मोक्षणम् ॥९५॥अनादिश्रीबालकृष्णः स्नात्वा धृत्वाऽम्बराणि च ।ब्रह्मप्रियाः सुखयित्वा प्रेषयित्वाऽऽश्रमं ततः ॥९६॥स्वगेहं चाययौ रात्रौ लक्ष्मीपूजां पुनस्ततः ।चकार भगवान् रात्रौ घृतदीपान् चकार ह ॥९७॥आरार्त्रिकं च नैवेद्यं प्रार्थयद्वै श्रियै तदा ।प्रसन्ना साऽभवल्लक्ष्मीः स्मृद्धाऽभवद् गृहे गृहे ॥९८॥इत्येवं राधिके कृत्वोत्सवं निद्रां जगाम सः ।पठनाच्छ्रवणादस्य लक्ष्मीवान् मोक्षगो भवेत् ॥९९॥शापितानां शापमोक्षश्चापराधविनाशनम् ।अपुण्यानां पुण्यलब्धिर्भवेन्नात्राऽस्ति संशयः ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरिणा धनत्रयोदश्यां धनलक्ष्मीपूजा ब्रह्मप्रियापूजा बर्बुरनृपस्य आश्वलायनर्षिशप्तस्य बर्बुरवृक्षीभूतस्यमोक्षणं पृथुतीर्थस्थापनं बर्बुरस्य स्वर्गं प्रति प्रेषणं चेत्यादिनिरूपणनामा षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३६॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP