संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ९१

त्रेतायुगसन्तानः - अध्यायः ९१

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके संशृणु साध्वि! गत्वा श्रीबदरीं द्विजाः ।
सत्यः साध्व्यस्तथा सन्तो व्योम्ना सस्नुः सरिज्जले ॥१॥
गंगायां च कृतस्नाना नामसंकीर्तनं हरेः ।
चक्रुः सह मिलित्वैव ययुर्यत्र नरायणः ॥२॥
नरं नारायणं नत्वा नत्वा महर्षिमण्डलम् ।
तत्रत्यकृतसत्कारा लब्धस्वागतपूजनाः ॥३॥
स्वीकृतमधुपर्काश्च कृष्णनारायणस्य ते ।
पर्णकुटीं ययुः पृष्ट्वा यत्रास्ते लोमशोऽपि च ॥४॥
लोमशो वीक्ष्य भक्ताँश्चागतान् शोकितमानसान्।
पप्रच्छ कुशलं शीघ्रं चागमेऽपि प्रयोजनम् ॥५॥
दत्तासनास्तु ते सर्वे जगदुर्लोमशं मुनिम् ।
दर्शनं श्रीहरेः कृत्वा कृत्वा प्रपूजनं तथा ॥६॥
ततो वक्ष्याम एवाऽस्मद्गमने त्वत्र कारणम् ।
इत्युक्त्वा श्रीहरिं पर्णकुट्यां स्थितं च लोमशः ॥७॥
द्रागेवाऽन्तर्गृहं गत्वा चावेद्य स्वजनागमम् ।
स्नेहभृतं हरिं नीत्वा सहैव स बहिर्ययौ ॥८॥
आगतं श्रीहरिं शालांऽगणे श्रीबदरीतले ।
दण्डवच्च नमस्कारान् चक्रुस्ते यात्रिकास्तदा ॥९॥
प्रेम्णा हरिस्तु पप्रच्छ कुशलं स्वागतं सुखम् ।
तदा चाश्रूणि मुक्त्वैव जगदुः श्रीहरिं च ते ॥१०॥
महामारी भैरवी या सीमरक्षणकारिणी ।
तया सिंहलद्वीपस्य राक्षस्योऽसंख्यका हताः ॥११॥
याऽश्वपट्टसरःक्षेत्रे युद्धार्थं समुपागताः ।
अधर्मजीवदैत्यस्य वैरनिर्यापनकृते ॥१२॥
कन्यका रक्षिताश्चापि रक्षितं चाश्रमं तथा ।
महामार्या तथा रात्रौ तस्यै शंभुः स्वयं तदा ॥१३॥
प्रसन्नो वरदानार्थं प्राह साऽपि तदाऽऽर्थयत् ।
महामार्यो मदुत्पन्ना युद्धकर्त्र्यः क्षुधार्दिताः ॥१४॥
तामस्यश्च समिच्छामो नरमांसाशनं शिव! ।
शंभुनोक्तं न तद् योग्यं ततः प्राह तु भैरवी ॥१५॥
भक्तान्नैव ग्रहीष्यामः श्रीहरेः शरणागतान् ।
शिवभक्तान् हरेर्भक्तान् त्यक्त्वा ये पापिनश्च तान् ॥१६॥
नास्तिकान् धर्महीनाँश्च देवद्रोहिण एव तान् ।
शठान् विनिन्दकान् तीर्थद्रोहिणः कपटान्वितान् ॥१७॥
स्नानपूजाजपभक्तिहीनान्नराँश्च योषितः ।
भक्षयिष्याम एवाऽत्र बहिर्वै दशयोजनात् ॥१८॥
तथाऽस्त्विति हरः प्राह महामार्योऽयुताऽयुताः ।
भक्षयामासुरत्यर्थं बालान् वृद्धान् जनान् द्रुतम् ॥१९॥
सगर्भा जरठा नारीर्युवतीर्यून इत्यपि ।
एवं वै विप्लवो जातो ग्रामा मानववर्जिताः ॥२०॥
विद्यन्ते काकवासाश्च जनाः कुटुम्बवर्जिताः ।
अर्धा वसतयो जाता निर्वंशाश्चापि केचन ॥२१॥
अयं तूपद्रवो नाथ बलमासाद्य वर्तते ।
महाकालस्य वेगेन म्रियन्ते मानवाः प्रभो ॥२२॥
संख्या नास्ति मृतानां वै वाहका न मिलन्त्यपि ।
अरण्यं पत्तनं जातं जाता ग्रामा वनानि च ॥२३॥
शीघ्रमागत्य रक्षां नः कुरु तत्प्रलयात्प्रभो।
इत्युक्त्वा रुरुदुः सर्वे दयालुस्तु दयावशः ॥२४॥
भूत्वोत्थाय ततः शीघ्रं सुसस्मार नरायणम् ।
नरनारायणौ पर्णकुट्यां त्वाययतुस्तदा ॥२५॥
अग्रे निषेदतुर्नत्वा परमेशं परात्परम् ।
पप्रच्छतुस्तदाज्ञां च किमेवं व्यग्रता प्रभो ॥२६॥
हरिः प्राहाऽऽजनाभे तु खण्डे पृथ्व्यां व्यजायत ।
मनुष्याणां महामार्या विनाशो पापिनां बहुः ॥२७॥
म्रियन्ते तत्र भक्ताश्च स्वल्पदोषा अपि श्रिताः ।
संहारोऽयं समजनि चाधर्मजीवरक्षसः ॥२८॥
विनाशेन पुलस्त्यस्य वंशे खरसुतस्य वै ।
खरस्य या भगिन्यस्तु राक्षस्यस्ताभिरेव तु ॥२९॥
उपद्रवः कृतो नश्च क्षेत्रे तत्प्रतिकारिका ।
भैरवी च महामारी शंभोर्दूती च तामसी ॥३०॥
पारितोषिकरूपेण भक्षयत्येव पापिनः ।
पापिनां संगमे स्वल्पपापाः सुपुण्यशालिनः ॥३१॥
भक्ताश्चापि प्रभक्ष्यन्ते तद्रक्षार्थं मया द्रुतम् ।
गन्तव्यं तत्र भक्तैश्च साकमेभिः सुराष्ट्रके ॥३२॥
इत्युक्तः श्रीनरनारायणः प्राह कृपानिधे ।
स्वतन्त्रस्य परेशस्य यथेच्छा तद्भवेत् खलु ॥३३॥
मया नित्यं पूजनार्थं कार्तिके भगवान् स्मृतः ।
पञ्चवारं प्रत्यहं सम्पूजितः कार्तिके मया ॥३४॥
वन्दितः सेवितो नित्यं पादसंवाहनादिभिः ।
फलैः संभोजितश्चापि भक्तिधर्मादिभिस्तथा ॥३५॥
तोषितश्चापि ऋषिभिः पावितं बदरीवनम् ।
पाविताः ऋषयः सर्वे पावितश्च हिमालयः ॥३६॥
पाविता देवगंगा च पाविता पर्णशालिका ।
सदा तीर्थस्वरूपेयं स्थास्यत्येवेयमाश्रमे ॥३७॥
संकल्पाः पूरिताः सर्वे दर्शिता तापसी स्थितिः ।
रीतिश्च संयमलभ्या त्वत्तो नाथ समर्जिता ॥३८॥
सर्वं पूर्णं मम जातं स्वेष्टो मखो व्यजायत ।
क्रतुः स वैष्णवः पूर्णो विधिवत् परिवर्तते ॥३९॥
परमेशास्तथेशाश्च सुरा महर्षयस्तथा ।
पितरस्तोषिता नाथ त्वया यज्ञे प्रतिष्ठता ॥४०॥
गृह्णता च हविः साक्षाद् वह्निमुखेन भास्वता ।
किंन्यूनं मे वर्ततेऽद्य मुक्ताः सन्तोषितास्तथा ॥४१॥
सर्वं प्रपूरितं नाथ मानसं भवता मम ।
सार्धमासोत्तरं चात्रोषित्वा बदरी पाविता ॥४२॥
इत्युक्त्वा श्रीनरनारायणौ भक्तिर्महर्षयः ।
घर्मस्तथाऽन्यदेवाश्च पुपूजुः परमेश्वरम् ॥४३॥
आरार्त्रिकं प्रचक्रुश्च प्रदक्षिणं सुमाञ्जलिम् ।
क्षमामप्यर्थयामासुस्ततः कृष्णनरायणः ॥४४॥
आशीर्वादान् ददौ तेभ्यश्चाह नरं नरायणम् ।
भक्तिं धर्मं महर्षींश्च समागच्छन्तु मद्गृहम् ॥४५॥
कुंकुमवापिकाक्षेत्रं चाऽश्वपट्टसरोवरम् ।
लोमशस्य गुरोश्चाप्याश्रमं पश्यन्तु पावनम् ॥४६॥
अक्षरं परमं क्षेत्रं कुर्वन्तु पावनं मम ।
हैमस्थानां भवतां तु दर्शनं दुर्लभं क्षितौ ॥४७॥
इत्युक्तवान्, नरनारायणाद्या हृष्टमानसाः ।
मार्गशीर्षस्य पूर्णायां स्नात्वा यात्रां प्रचक्रिरे ॥४८॥
ऋषयो व्योममार्गस्थाः कुंभकेन ययुस्तदा ।
नरनारायणौ सन्तो धर्मो भक्तिश्च लोमशः ॥४९॥
साध्व्यो हरिस्तथा मुक्ता विमानेनाऽऽययुर्गृहम् ।
सायं प्रापुश्च सौराष्ट्रं कालशोकितमानवम् ॥५०॥
नष्टभ्रष्टगृहाचारं नष्टार्धमानवोज्झितम् ।
सतेजस्को यथापूर्वं चासीन्नासीच्च तादृशः ॥५१॥
सौराष्ट्रश्च यथा तद्वन्मार्गे देशा विलोकिताः ।
कुरवः शूरसेनाश्च मरवो गौर्जरास्तथा ॥५२॥
नष्टप्रजाधनाः शुष्का निस्तेजस्का गृहा इव ।
महामारीभक्षिताश्च कालवेगेन नाशिताः ॥५३॥
मानवा वनवासाश्च गृहवासाः पिशाचकाः ।
शवा मृत्युनिवासाश्च तिर्यग्वासं च जीवनम् ॥५४॥
आगाराणि श्मशानानि मृत्युदूताश्च मूषकाः ।
विलोक्यन्ते नगरेषु ह्यतर्क्यः प्रलयो यथा ॥५५॥
एतत्सर्वं विदित्वैव भगवान् पुरुषोत्तमः ।
क्षणं विचार्य यानाच्च तदा सस्मार शंकरम् ॥५६॥
क्षेत्रपः शंकरस्तत्र चाश्वपट्टसरस्तटे ।
उपस्थितोऽभवत्तूर्णं ननाम परमेश्वरम् ॥५७॥
शंकरं श्रीहरिः प्राह महामारीभिरेव यत् ।
विनाश्यते जगत्सर्वं महामारीं निवारय ॥५८॥
द्रागेव शंकरो नैजं गलनादं चकार ह ।
कम्पितं सर्वमण्डं च भुवनानि चतुर्दश ॥५९॥
कम्पितान्यभवत्तूर्णं महामारी समाह्वयत् ।
दिग्भ्यः सर्वाभ्य एवैताः कोटिरूपधराः स्त्रियः ॥६०॥
भक्षिका मद्यमांसानामाययुर्हरसन्निधौ ।
शंकरस्तास्ततः प्राह नारायणः परेश्वरः ॥६१॥
दयालुर्भगवानत्र लोकरक्षणकारकः ।
निषेधति स्वयं श्रीमान् पापिपापविनाशकः ॥६२॥
मा भक्षयन्तु पापीश्च भक्ष्यन्ते पापिसंगतः ।
भक्ताश्चापि च भक्तानां कुटुम्बान्यपि सर्वशः ॥६३॥
तेषां रक्षा मया कार्या त्यजन्तु तद्विनाशनम् ।
इत्युक्तास्ता महामार्यां निवृत्ता भयतो हरेः ॥६४॥
ययाचिरे क्षमां चापि हरेश्चरणसेवनम् ।
हरिस्ताः प्राह वै सर्वा यान्तु सर्वत्र भूतले ॥६५॥
तिलकं चन्द्रको मे स्याद् भाले कण्ठे च मालिका ।
येषां तान् सम्प्रदायैव प्राणान् शक्तिं च चेतनाम् ॥६६॥
जीवय देवजीवान् भक्तिमार्गप्रवर्तकान् ।
ततस्ताः प्राह भगवन् न शक्ता हि वयं तथा ॥६७॥
चेतनं जीवनं दातुं किं कुर्मोऽत्र तवाऽऽज्ञया ।
हरिर्ददौ तदा ताभ्यः कल्पलता सुजीवनीः ॥६८॥
ता गृहीत्वा ययुः सर्वा जीवयामासुरीष्टकान् ।
भक्तान् सर्वानर्धपापान श्रीहरेस्तु निदेशतः ॥६९॥
तदाऽऽनन्दः पुनर्जातः पृथिव्यां मानवेषु वै ।
येषां वै तिलकं कण्ठी ते भवन्ति सजीवनाः ॥७०॥
इत्युद्घोषे प्रवृत्ते च मृतानामपि तज्जनाः ।
कण्ठ्या युक्तं शवं कृत्वा विलोकयन्ति जीवनम् ॥७१॥
केचित् कुर्वन्ति तिलकं भाले शवस्य वै तदा ।
कण्ठेऽर्पयन्ति कण्ठीं च तौलसीं जीवनाय वै ॥७२॥
एवं देशेषु सर्वत्र शवास्तिलकस्रग्धराः ।
सजीवा उत्थिता भूमौ साश्चर्यं चाऽवलोकयन् ॥७३॥
वैष्णवास्ते तदा जाता मानवाश्चाजनाभके ।
कृष्णनारायणस्वामिविष्णो मृत्योर्निवारक ॥७४॥
रक्ष रक्ष सदा चैवं त्वार्थयच्छ्रीहरिं प्रति ।
तदा श्रीशंकरः प्राह सर्वास्ता भैरवी सतीः ॥७५॥
'ओ नमः श्रीकृप्णकरायणाय स्वामिने स्वाहा' ।
मन्त्रमिमं भवप्यश्च गृह्णन्तु मत्त एव च ॥७६॥
जीवितान् मानवान् कर्णे श्रावयन्त्वपि सर्वशः ।
एवमुक्ताः क्षणात् सर्वा मनोवेगाः सुगृह्य तम् ॥७७॥
मन्त्रं भूत्वा च वैष्णस्-यो ददुर्मन्त्रान् तु सर्वशः ।
कल्पवल्लोसमुत्थेभ्यः कारयित्वा तु वैष्णवान् ॥७८॥
जगदुज्जीवयामासुर्भक्तशोकान् प्रजह्रिरे ।
चक्रुश्चैतादृशं लोके न भूतं न भविष्यति ॥७९॥
परब्रह्म विना तादृक् कर्तुमर्हसि कोऽपरः ।
नाडीप्राणा यस्य हस्ते तेन कर्तुं हि शक्यते ॥८०॥
ब्रह्माण्डे चोत्सवा जाता ग्रामे ग्रामे गृहे गृहे ।
मृताश्चोज्जीविताः श्रीमत्कृष्णनारायणेन वै ॥८१॥
तीर्थार्थं त्वाययुः सर्वे प्राप्तनूतनजीवनाः ।
क्षेत्रं कुंकुमवापीं तु तथा कृष्णनरायणम् ॥८२॥
महामारीसमूहाँश्च दृष्ट्वाऽऽश्चर्यं प्रपेदिरे ।
पौषे माघे फाल्गुने च चैत्रेऽपि त्वाययुर्जनाः ॥८३॥
भूत्वा सर्वे कृतकृत्या यान्ति स्म निजमन्दिरम् ।
नरा नार्यः कोटिसंख्या जीविता हरिणा तदा ॥८४॥
अथ ता राधिके देव्यो महामार्योऽपि माधवात् ।
वव्रुः श्रीबालकृष्णाद्वै सेवनं निजपादयोः ॥८५॥
हरिस्ताभ्यो ददौ वासं ततः सौराष्ट्रके वने ।
भवत्यो बदरीवृक्षा भवन्तु दिव्यरूपिणः ॥८६॥
क्षेत्रेषु चाप्यरण्येषु स्वल्पा वै चिरजीविनः ।
कण्टकद्वययुक्ताश्च तामसैः कण्टकैर्युताः ॥८७॥
सौराष्ट्रे मच्चरणयोः रजोभिः संपरिप्लुताः ।
पादसेवातुल्यलाभा भवन्त्वाकल्पसंस्थिताः ॥८८॥
अहं रामस्वरूपेण भक्षयिष्ये फलानि वः ।
शबरीजातिका मेऽत्र दास्यन्त्यपि फलानि वः ॥८९॥
इत्येवं ताः कृता भक्ताः स्तम्बरूपा भुवस्तले ।
क्षुद्रिकास्ता बदर्यश्च द्राग्जाताश्चिरजीवनाः ॥९०॥
नरनारायणादीनामृषीणां भक्तिधर्मयोः ।
स्वागतं श्रीहरिश्चक्रे माता पिता च लोमशः ॥९१॥
वासं नैजे चालयेऽपि कानके प्रददौ हरिः ।
भोजनं तापसेभ्यश्च हव्यादि प्रददौ प्रभुः ॥९२॥
विशश्रमुस्ततः सर्वे प्रातस्त्वश्वसरोवरे ।
सस्नुस्ततो ययुः सर्वे द्रष्टुं श्रीलोमशाश्रमम् ॥९३॥
विस्तीर्णं दिव्यरूपं च ब्रह्मप्रियाभिरुज्ज्वलम् ।
यत्र माया न चैवास्ति दिव्याऽक्षरसमं शुभम् ॥९४॥
ततस्तीर्थविधिं कृत्वा गृहीत्वा पूजनं ततः ।
तीर्थदेवान् मिलित्वा च धृत्वा रूपद्वयं च ते ॥९५॥
तीर्थे तीर्थस्वरूपेण स्थित्वाऽपरेण ते ततः ।
आज्ञां लब्ध्वा हरेः सर्वे ययुः श्रीबदरीवनम् ॥९६॥
धर्मतीर्थंं भक्तितीर्थं नरतीर्थं तथोत्तमम् ।
नारायणस्य तीर्थं च ऋषितीर्थं शुभं तथा ॥९७॥
बदरीतीर्थमित्येतज्जातं चाश्वसरोवरे ।
एवं वै राधिके तत्र चमत्कारो महानभूत् ॥९८॥
भुक्तिमुक्तिप्रदश्चापि स्मरणान्मृत्युहारकः ।
कन्यारक्षानिमित्तेन जगद्वै वैष्णवं कृतम् ॥९९॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने महामारीभिर्बहुमानवनाशे साध्वीसाधुविप्रर्षिगणो बदरीं गत्वा प्रभवे निवेदयित्वा हरिमानयामास, हरि-
मृतान् जगज्जीवान् जीवयामासेत्यादिनिरूपणनामैकनवतितमोऽध्यायः ॥९१॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP