संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ८० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ८० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८० Translation - भाषांतर श्रीकृष्ण उवाच-श्रूयतां च त्वया राधे चमत्कारो हरेः परः ।तारिता दुःखतो भक्ता भीमासरित्तटे पुरा ॥१॥दक्षिणे पौंड्रकसंज्ञे पत्तने क्षत्रियर्षभः ।नाम्ना बलेशवर्माऽभूद् राजा खण्डधरापतिः ॥२॥वैष्णवः परमो भक्तो योगक्रियाविशारदः ।कपिलस्याऽभवच्छिष्यः सांख्यज्ञानविवेकवान् ॥३॥भीमातटे नातिदूरे पर्वते कपिलाश्रमे ।सांख्यानां योगिनां योगं समागमं करोति सः ॥४॥यदाश्रमे पुरा देवः कपिलस्तीर्थयोगकृत् ।दशवर्षाणि तत्रैव तस्थौ रम्ये वने शुभे ॥५॥अद्रिभागेऽतिशुभगे शान्तिदे निर्जनेऽमले ।तदा बलेशवर्माऽसौ संसेव्य कपिलं मुनिम् ॥६॥प्राप्तवान् सांख्ययोगौ च परमैश्वर्यसम्पदः ।सिद्धीश्चाऽदृश्यभावं च बहुरूपभवादिकम् ॥७॥कपिलस्तु तथैश्वर्यं दत्वा ययौ स्थलान्तरम् ।राजा नित्यं समायाति तदाश्रमं विलोकितुम् ॥८॥क्षणं ध्यात्वा पदं तच्च गुरुं संस्मृत्य वै मुहुः ।प्रपूज्य पीठमेतच्च ततो योगिजनान् परान् ॥९॥साधून् वने स्थिताँश्चापि नत्वा याति निजं गृहम् ।एवं करोति नित्यं स सांख्ययोगपरायणः ॥१०॥अथैकदा व्रतं कर्तुं राजा श्रीकपिलाश्रमे ।समाययौ सपत्नीकः कार्तिके न्यवसद् बहिः ॥११॥वृक्षच्छायां समाश्रित्य भूशयानः फलाशनः ।ब्रह्मचर्यपरः कृच्छ्रव्रतस्थिता च तत्प्रिया ॥१२॥आतिथ्यधर्मनिरतश्चान्नसत्रप्रबन्धनः ।नित्यं होमपरश्चापि सहस्रदीनभोजनः ॥१३॥दानधर्मपरश्चातुर्मास्यान्तव्रततत्परः ।बहवः साधवस्तत्र सिद्धाः साध्यश्च योगिनः ॥१४॥यात्रिणो वनवासाश्च समायान्ति सदाव्रते ।अन्नार्थिभ्यो ददात्यन्नं वस्त्रार्थिभ्यस्तथाऽम्बरम् ॥१५॥पात्रार्थिभ्यश्च पात्राणि धनार्थिभ्यो धनानि च ।यद्यदिष्टं भवेद् यस्याऽर्थिनस्तस्मै तदिष्टकम् ॥१६॥ददात्येव बलेशः स दक्षिणां प्रददाति च ।कार्तिके धृतवान् श्रेष्ठं व्रतं यो यत्प्रयाचते ॥१७॥तत्तस्मै सम्प्रदेयं वै नकारो वाच्य एव न ।राज्ञः पुत्रोऽभवत्तत्र द्वादशाब्दोऽतिकोमलः ॥१८॥राज्ञी शीलवती नाम्ना पातिव्रत्यं प्ररक्षति ।पुत्रश्च पुण्ड्रको नाम्ना ब्रह्मभक्तिं करोति हि ॥१९॥त्रयस्ते लोकसाधूनां सेवापरा भवन्ति वै ।तारकायननामा च महर्षिर्वैष्णवो महान् ॥२०॥तत्रैव वसति योगी योगध्यानपरायणः ।वैहायसगतिर्दिव्यः कामरूपधरो यतिः ॥२१॥अष्टसिद्ध्याश्रयश्चास्ते सर्वकामान्यवर्जितः ।स मुनिर्ध्यानयोगेन ज्ञात्वा कुंकुमवापिकाम् ॥२२॥साक्षादनादिश्रीकृष्णनारायणसमाश्रिताम् ।लोमशस्याश्रमं गत्वा कृत्वा श्रीकृष्णदर्शनम् ॥२३॥गृहीत्वा च मनुं मोक्षप्रदं श्रीपतिमाधवात् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥२४॥जजाप नित्यदा नैजाश्रमे स्थित्वान्तरे स्थले ।नित्यं व्योम्ना प्रगे याति चाश्वपट्टसरोवरम् ॥२५॥कृत्वा हरेर्दर्शनं च पुनः प्रयाति चाश्रमम् ।तारकायनसंज्ञोऽयं महर्षिर्व्योमतो भुवम् ॥२६॥अवातरत् तदा राजा दर्शनार्थं ययौ द्रुतम् ।पप्रच्छ विनयी भूत्वा प्रणतार्तिहरं मुनिम् ॥२७॥गम्यते क्व ऋषे! नित्यं प्रातः कल्याणकृद् यदि ।जिज्ञासितं तु मे वाच्यं यदि रोधो न विद्यते ॥२८॥साधूनां संगतिः स्वर्गप्रदा मोक्षप्रदा तथा ।दुःखनाशकारी चापद्विनाशिनी मता सदा ॥२९॥योगिनामीश्वराणां च साधूनां च सतामपि ।विहारो यत्र तत्राऽस्ति नारायणो हि गोचरः ॥३०॥साधूनां चरणः पूज्यो जलं पेयं पदामृतम् ।भोज्यं प्रासादिकं तेषां ग्राह्यं वचो मुखोद्भवम् ॥३१॥सतां सेवा हरेः सेवा सतां संगो हरेर्हि सः ।सतां देहो हरेर्देहः सन्तो वै हरिमूर्तयः ॥३२॥सन्तो ध्येयाः सदा ध्याने सन्तो धार्या सदा हृदि ।सन्तः सेव्याः सर्वदानैः सत्सु हरिर्विराजते ॥३३॥सतां दृष्टिर्हरेर्दृष्टिः सतां स्पर्शो हरेर्हि सः ।सतामाश्लेषणं कृष्णाश्लेषणं पापनाशकम् ॥३४॥सतां पादरजो धार्यं मस्तके हृदि चानने ।सतां पादजलं धार्यं मुखे शिरसि विग्रहे ॥३५॥सतां प्रसन्नता प्राप्या देहगेहसुतादिभिः ।धनसम्पत्प्रदानैश्च स्वात्मार्पणेन सर्वथा ॥३६॥अनित्यः सर्वथा देहो रक्षितोऽपि विनश्यति ।तेन सेवा सदा कार्या ग्राह्या प्रसन्नता सताम् ॥३७॥यत्रेन्द्रिये च विषये रुचिः स्वस्याऽतिवेगिता ।तत्रेन्द्रिये हि कर्तव्या सेवा तूभयतुष्टये ॥३८॥साधूनां हृदये साक्षात्परमात्मा विराजते ।शुभास्तस्मात् क्रियाः सर्वाः सतामिन्द्रियदेहजाः ॥३९॥सन्तो दिव्याः क्रिया दिव्या दिव्यो देहः सतां सदा ।दिव्यश्चेन्द्रियवर्गश्च सतां दिव्या हि धातवः ॥४०॥सतां विचारो दिव्यश्च बुद्धिर्दिव्या सतां सदा ।सतां स्वप्नं च शयनं रमणं दिव्यमेव तत् ॥४१॥सत्सु मायाकृतं कार्यं विद्यते नैव सर्वथा ।सत्सु पुण्यं तथा पापं परमेश्वरमाश्रितम् ॥४२॥लेपहीनं सदा दिव्यं शाश्वतानन्ददायकम् ।पुण्यानां खनयः सन्तः पापलेशो न यत्र वै ॥४३॥तादृशस्त्वं मुने दिव्यो वर्तसे तारकायन ।यथा विष्णुस्तथा त्वं वै तारकोऽसि भवार्णवात् ॥४४॥वद ते संगमाप्तेभ्यो नश्च भाग्यं हि नो महत् ।इत्युक्त्वा नृपतिस्तस्थौ प्रतिक्षँस्तदृषेर्वचः ॥४५॥तं तारकायनः प्राह शृणु राजन् बलेश्वर ।यो लोके प्रथितश्चास्ति भगवान् पुरुषोत्तमः ॥४६॥परब्रह्म च वेदेऽस्ति सर्वावतारधृक् प्रभुः ।परधामस्थितो यः सः सौराष्ट्रे कम्भरागृहे ॥४७॥अश्वपट्टसरःक्षेत्रे कुंकुमवापिकाभुवि ।श्रीमद्गोपालबालः स लोमशभ्वां विराजते ॥४८॥यत्र ब्रह्मप्रियाः कोट्यर्बुदाब्जपद्मसंख्यकाः ।सर्वाश्च शक्तयस्तीर्थकोटयः सन्ति देहिनः ॥४९॥मानवे पादपे तार्णे तैर्यञ्चे भौतिकेऽपि च ।सर्गे ब्रह्मप्रिया यत्र तिष्ठन्ति ब्रह्मलालसाः ॥५०॥मुक्ता धामगताश्चापि बहुधामनिवासिनः ।प्रच्छन्ना भिन्नवर्ष्माणो यत्र तिष्ठन्ति योगिनः ॥५१॥तं प्रभुं परमात्मानं द्रष्टुं गच्छामि नित्यशः ।प्रातः सम्पूज्य तं देवं पीत्वा तच्चरणाम्बुजम् ॥५२॥ततस्तीर्थानि कृत्वैव समागच्छामि चासनम् ।इत्युक्तो नृपतिः प्राह कदा तद्दर्शनं मम ॥५३॥भविष्यतीति मे ब्रह्मन् वद साधो कृपां कुरु ।मुनिः प्राह गृहाणैनं मन्त्रं जपपरो भव ॥५४॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।इत्येनं राधिके मन्त्रं दत्वा च तौलसीं स्रजम् ॥५५॥महावैष्णवसेव्यं च दत्वा हरेः पदामृतम् ।ऋषिर्ययौ निजावासं राजा राज्ञी सुतस्ततः ॥५६॥जेपुस्तं परमं मन्त्रं ध्याने बभूवुरास्थिताः ।सस्मरुस्तमनादिश्रीकृष्णस्वामिनरायणम् ॥५७॥अथ श्रीबालकृष्णस्तु परीक्षार्थं हि भूभृतः ।आजगामाऽतिथिरूपो मध्याह्ने भोजनोत्तरम् ॥५८॥सप्तमेऽह्नि कृष्णवर्णो लोहवलयधारकः ।रक्ताक्षः कौपीनमात्रवसनो जंगली यथा ॥५९॥प्राह राजा तु तं वीक्ष्य समायाहि वनेचर ।गृहाण भोजनं वारि ततो याहि यथासुखम् ॥६०॥जंगमी प्राह नोच्छिष्टं मया वै भुज्यते क्वचित् ।नान्यपक्वं च भुंजेऽहं कथं ददासि भोजनम् ॥६१॥अहं वै जंगली चास्मि भोजनं तामसं मम ।अन्यप्राणिसमुत्थं तु नाऽहं भुंजे कदाचन ॥६२॥यदि सत्यप्रतिज्ञोऽसि नकारो नोच्यते त्वया ।देहि मे भोजनं राजन् प्रियं यच्छान्तिदं भवेत् ॥६३॥नृपः प्राह यथेष्टं ते दातुं शक्तोऽस्मि भोजनम् ।वद स्वैष्टं ददाम्यत्र नाऽदेयं मेऽत्र विद्यते ॥६४॥सात्त्विकं राजसं वाऽपि तामसं तेऽत्र रोचते ।अन्योत्थं नेष्यते चेद्वे स्वोत्थं वद ददामि ते ॥६५॥यच्छक्तं तद् ददाम्येव कार्तिकेयं व्रतं मम ।दातव्यमेव लभ्यं चेद् वद वनिन् ददामि ते ॥६६॥वनी प्राह शृणु राजन् मांसादोऽस्मि वने वसन् ।कार्तिकेऽपि मया त्वेतद्व्रतं पालितमेव ह ॥६७॥राज्ञः पुत्रस्य मांसं वै मया भक्ष्यमयाचितम् ।राजा यदि स्वयं दद्याद्धृदयस्यैव नेतरत् ॥६८॥इत्येवं मे व्रतं त्वास्ते रक्तं पेयं च हृद्गतम् ।नैव वारि प्रपेयं च व्रतं मे तामसं यतः ॥६९॥नाऽहं याचे नृप त्वत्तो व्रतं मया प्रकाशितम् ।याचना नैव कर्तव्या व्रतभंगकरी यतः ॥७०॥इत्युक्त्वा स ततः स्थानाद् वनं प्रति विलोक्य च ।गन्तुं पदक्रमान् चक्रे यथा याञ्चाकरो न वै ॥७१॥राज्ञी प्राह विलोक्यैव वनिन् तिष्ठ स्थिरो भव ।पादप्रक्षालनं कुर्वे चातिथेः परमात्मनः ॥७२॥क्षणान्तरे ददात्येषः राजा त्वदिष्टभोजनम् ।आसनं स्वीकुरु त्वेतत् काम्बलं तिष्ठ शान्तितः ॥७३॥वनी प्राह व्रतं मेऽस्ति स्थेयं वै कार्तिके सदा ।कुमारीकन्यकासक्थि विवस्त्रं चेत्तु लभ्यते ॥७४॥तस्या ऊरौ मया चासीतव्यं न त्वन्यथा क्वचित् ।राज्ञी पुत्रीं तदा प्राह भव पुत्रि शुभासनम् ॥७५॥कन्याः कृष्णा तथा भीमा तुंगभद्रा च नामतः ।तिस्र आसँश्च तद्राज्ञस्तिस्रस्तत्र ह्युपस्थिताः ॥७६॥कृष्णा वस्त्रं परित्यज्य ददौ सक्थि यथासुखम् ।निषसाद वनी तत्र ध्यानमग्नो बभूव ह ॥७७॥पुत्रः प्राह पितरं तु राजन् शीघ्रं हि हृन्मम ।भित्त्वा देहि परेशायाऽतिथये मुक्तये भवेत् ॥७८॥क्षणाद् राजा तु खङ्गेन द्वेधा स्कन्धात् कटिं प्रति ।विभिद्य पुत्रहृदयं ददौ रक्तं हि तत्क्षणे ॥७९॥तावत् कन्या द्वितीयाऽपि भीमा वस्त्रं विना निजम् ।सक्थि ददौ वनिनेऽत्र वनी मांसं निधाय च ॥८०॥वुभुजे च पपौ रक्तं तावच्च तुङ्गभद्रिका ।विवस्त्रा वनिनो हस्तमूरौ संस्कृत्य वै मुहुः ॥८१॥मुखं संस्कृत्य सक्थ्ना च पादसंवाहनं मुहुः ।देहसम्मर्दनं चापि चक्रुस्तद्वनिनस्तदा ॥८२॥अथोत्थाय प्रगन्तुं च वनी यावत् समीहते ।तावद्राजा दक्षिणार्थं ददाति वचनं शुभम् ॥८३॥वनी प्राह व्रतं मेऽस्ति यन्मांसं भक्षितं भवेत् ।तन्माता दक्षिणायां वै ग्राह्या नान्यत् कदाचन ॥८४॥वनिनीत्युक्तवत्येव राज्ञी शीघ्रमुपस्थिता ।एषाऽहं तव दास्यास्मि दक्षिणां स्वीकुरु प्रभो ॥८५॥वनी तां त्वम्बरशून्यां कृत्वा वृक्षतलेऽभवत् ।रमणं कृतवान् व्योम्नि पृथ्वीं चैवाऽस्पृशन् क्षणम् ॥८६॥आकाशे तां धृतां दृष्ट्वा राजा व्यतर्कयत् तदा ।अहो मे परमं भाग्यं पुत्रस्य योषितस्तथा ॥८७॥कन्यकानां महाभाग्यं हर्यर्थे योजिता वयम् ।वनी वा स्याद् वानप्रस्थो वनेचरोऽवनेचरः ॥८८॥अन्तरात्मा हरिस्तृप्तोऽनित्यदेहादितो मम ।अनित्यं नाशमायाति परार्थं सफलं यदि ॥८९॥किमस्मात्परमं भाग्यं यैर्हि तृप्यति माधवः ।धन्योऽहं कृतकृत्योऽहं सर्वं मे सफलं कृतम् ॥९०॥आगत्य वनिना चात्र व्रतार्थं भौतिकं मम ।नकारस्याऽत्र वै स्थानं न जातं मम चानने ॥९१॥मत्पत्न्या वा सुतानां वा पुत्रस्येति जयो मम ।धन्यास्ताः पुत्रिकाश्चापि धन्यः पुत्रोऽपि मे प्रियः ॥९२॥धन्या राज्ञी च मे त्वत्र व्रते नं नहि जगृहुः ।तारितोऽहं कुटुम्बेन सत्यं कुटुम्बकं मम ॥९३॥अतिथ्यर्थं चोपयोगे स्वीकारितं स्वयं शुभम् ।धर्मार्थकाममोक्षा मे व्रतेनाऽद्य करे स्थिताः ॥९४॥जितं जगन्मया त्वद्य चातिथेः कृपया खलु ।एवं धन्यं मन्यमानः प्रसन्नमानसोऽभवत् ॥९५॥तावद् राज्ञीं प्रभुक्त्वैव वनी वृक्षादयः स्थितः ।वनित्वं प्रविहायैव श्रीलक्ष्मीराधिकायुतः ॥९६॥द्विभुजोऽथ महालक्ष्म्या युतोऽदृश्यत वै तदा ।महाविष्णुधृतच्छत्रो विष्णुधृतान्नपात्रकः ॥९७॥भोजनं संग्रसन् तत्राऽदृश्यत परेश्वरः ।कोटिकन्दर्पशोभाढ्यः कोटिसूर्यसमोज्ज्वलः ॥९८॥अनन्तमुक्तसंस्तुत्यो देवपितृप्रवन्दितः ।ईश्वरैरवतारैश्च पूजितो भूषणैर्भृतः ॥९९॥कोटिब्रह्मप्रियासेव्यः परमाक्षरवन्दितः ।दिव्यव्योमपरे धाम्नि राजमानो विलोकितः ॥१००॥दिव्यविमानमध्यस्थगजासनविराजितः ।दिव्यः षोडशवर्षाढ्यो हसन् प्रेम प्रदर्शयन् ॥१०१॥वीक्षते परितो भक्तान् राजानं तत्प्रियां सतीम् ।कन्यास्तिस्रोऽतिभावेन मोहयन् मानसं मुहुः ॥१०२॥श्रीहरेः सन्निधौ तत्र राजपुत्रः स्थितोऽभवत् ।दिव्यो दिव्यविभूषाढ्यो यथापूर्वाकृतिः शुभः ॥१०३॥पुण्ड्रकः प्रहसन् पार्श्वाद्धरेः स्वपितरं प्रति ।समाजगाम सहसा सुप्तोत्थित इवाऽमलः ॥१०४॥देवा मुक्ता ईश्वराश्च चक्रुः कुसुमवर्षणम् ।राजा तुष्टाव भक्त्या श्रीकृष्णनारायणं प्रभुम् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बलेश्वरराज्ञः कपिलभगवद्योगेन परमभागवतत्वं, तारकायनमहर्षियोगेन कार्तिकव्रते परीक्षार्थं श्रीकृष्णनारायणस्यवनेचररूपेणाऽऽगमनं, राज्ञः पुत्रपुत्रीस्त्रीकुटुम्बार्पणेन प्रभोर्दर्शनं चेत्यादिनिरूपणनामाऽशीतितमोऽध्यायः ॥८०॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP