संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ७९

त्रेतायुगसन्तानः - अध्यायः ७९

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके विप्राः स्वस्थालयं गता अपि ।
चमत्कारं दिवारात्रौ चिन्तयन्ति स्म तं प्रभुम् ॥१॥
दर्शनं दुर्लभं यच्च तज्जातं सुलभं यदा ।
सुरतायनयोगेन तावदारभ्य चैव ते ॥२॥
पश्यन्ति परमात्मानं बालकृष्णं दृगन्तिके ।
स्वप्ने पश्यन्ति सततं सुषुप्तौ न निवर्तते ॥३॥
एकवारं हि दृष्टस्य दिव्या मूर्तिः रमापतेः ।
सततं हृदयेऽगाधे निहिता न निवर्तते ॥४॥
बहुकालाभ्यासलब्धा दृढा यथा प्रकाशते ।
इयमेव कृपा तस्य विनाऽभ्यासं प्रदर्शनम् ॥५॥
अथाऽऽयाते पुण्यकाले चातुर्मास्ये तु भूसुराः ।
तापीनीरे तु तत्तीर्थे स्नातुं चाययुरुत्सुकाः ॥६॥
ते सर्वे मिलिताः श्रीमत्कृष्णनारायणं प्रभुम् ।
सस्मरुः स्वरक्षकं तं महाकल्मषनाशनम् ॥७॥
सम्मिलित्वा देवशयन्येकादश्यां च भूसुराः ।
प्रचक्रुर्वै नामसंकीर्तनं नारायणस्य ह ॥८॥
श्रीकृष्णनारायण चान्तरात्मन् हरे परब्रह्म श्रियः पते प्रभो ।
सर्वावतारेश्वर बालकृष्ण गोपालकृष्णात्मज कम्भराजने ॥९॥
राधेश लक्ष्मीश रमेश पद्मापते प्रभाकान्त च तूलसीपते ।
वृन्दापते पारवतीपते श्रीपते जगत्कान्त च माणिकीपते ॥१०॥
हंसापते मञ्जुलिकापते श्रीदयापते श्रीललितापते पते ।
ऊर्जापते श्रीसगुणापते कस्तुरीपते शान्तिपते जयापते ॥११॥
जय चाक्षरपर पुरुषोत्तम जय मुक्तेश्वर सर्वोत्तम ।
जय परमेश्वर आत्मोत्तम जय साक्षिन्नवतारोत्तम ॥१२॥
जय भगवन् जय आत्माराम जय निर्गुण जय वै निष्काम ।
पाहि सदा तव भक्तजनान् कल्मषनाशक श्रीभगवान् ॥१३॥
एवं ते कीर्तनं चक्रुस्तपत्या दक्षिणे तटे ।
तल्लीनाः सम्बभूवुश्च तालवादित्रनिःस्वनैः ॥१४॥
तावत्तत्र प्रकाशोऽभूत् मध्ये विमानमुत्तमम् ।
तत्र संराजते श्रीमान् बालकृष्णः प्रसेवितः ॥१५॥
षोडशपार्षदैः सर्वे ददृशुस्तं परेश्वरम् ।
सद्रत्ननद्धहारालीराजद्वक्षःस्थलोत्तमम् ॥१६॥
सौवर्णमणिरत्नादिनद्धमुकुटमण्डितम् ।
मकराकारसौवर्णकुण्डलाभ्यां विराजितम् ॥१७॥
प्रान्ते चञ्चत्सूक्ष्मपिङ्गकेशैः कृष्णैः सुशोभितम् ।
विशालभाले वह्न्याभकौंकुमतिलकान्वितम् ॥१८॥
कोटिकामकृताऽऽवासभ्रकुटिद्वयराजितम् ।
मीनचञ्चलरक्तान्तायतनेत्रविराजितम् ॥१९॥
मन्दहासोज्ज्वलकान्तिपरिध्यक्षरशोभितम् ।
प्रफुल्लतिलसुमनोनासिकाऽभ्यतिशोभितम् ॥२०॥
कृष्णबिद्धीकृतस्थानदक्षगालातिसुन्दरम् ।
तेजःसरत्प्रभाभासिगोलगण्डविराजितम् ॥२१॥
सुवर्णसूक्ष्मसत्तन्तुनिभश्मश्रुसुरेखकम् ।
धनुःकम्मानिकाकाराकृत्यूर्ध्वौष्ठातिकर्षकम् ॥२२॥
मिष्टामृतातिसंभृतरक्ताऽधरमनोहरम् ।
सुसूक्ष्मकृष्णबिन्द्व्याढ्यचिबुकहनूसौभगम् ॥२३॥
विशालभालसंराजद्दीर्घरेखैकसौभगम् ।
शष्कुलीचक्रवद्रम्यकर्णद्वयातिभासुरम् ॥२४॥
सूर्यचन्द्रातिसंशोभिप्रेमशेवधिनेत्रकम् ।
सर्वसौन्दर्यशमश्रीसमाश्रितमुखोत्तमम् ॥२५॥
कोट्यैश्वर्यकृतस्थानभ्रमरद्वयराजितम् ।
कुन्दकलिपयःफेननिभदन्तातिमोहकम् ॥२६॥
विशालप्रान्तहास्याढ्याननकोणहृदंगमम् ।
सूक्ष्मगर्तिकया गण्डे मातृवात्सल्यदर्शकम् ॥२७॥
श्वेतचक्षुर्जन्यतेजोऽभिभूतान्यावलोकनम् ।
शंभुर्यस्य स्थितः कण्ठे शंखः कृकाटिकास्थितः ॥२८॥
कौस्तुभो हृदये यस्य वनमालासहायकृत् ।
कृष्णबिन्दुश्च वै यस्य कण्ठमध्ये प्रभासते ॥२९॥
कण्ठकूपे वायुचक्रं सम्वत्सराश्रितं स्थितम् ।
कण्ठस्य वलये यस्य त्वक्षरं ब्रह्म भासते ॥३०॥
हृदये गुणशून्यो वै हारश्चर्मणि चाम्पकः ।
भ्रमरः श्रीनिवासाख्यो दक्षावर्तोऽस्य राजते ॥३१॥
शार्दूलस्कन्धसदृशदृढस्कन्धौ हरेः शुभौ ।
भोगिभोगसमो पीनौ मृदुलौ सुभुजौ हरेः ॥३२॥
कौमुदीपटसंछन्नावुज्ज्वलौ नेत्र हारकौ ।
कुक्षौ कृष्णपिशंगाभौ स्तबकौ रोमसंकुलौ ॥३३॥
दृष्टौ दर्शकभक्तस्य जन्येते स्नेहभावनाम् ।
स्वर्णवर्णौ भुजौ रम्यौ चम्पकाभे भुजान्तरे ॥३४॥
शंखचक्रगदापद्मचिह्नानि बाहुजानि च ।
प्रकोष्ठयोस्त्रिरेखाश्च करे दक्षे शुभानि च ॥३५॥
मत्स्यत्रिशूलनाराचकेतुस्वस्तिधनूंषि च ।
रेखाचिह्नानि रम्याणि अष्टचक्राणि सन्ति तु ॥३६॥
वज्रं चापि शत्रुनाशकरं विद्यत इत्यपि ।
पंकजाभे करतले विराजेते समुज्ज्वले ॥३७॥
नखा भान्ति यथा चन्द्राः पूर्णिमायां व्यवस्थिताः ।
उदरं त्रिवलिशोभं नाभिर्विज्ञानशेवधिः ॥३८॥
जघनं श्रीप्रतिमाढ्यं लिंगं कामसमाश्रयम् ।
कटिर्नक्षत्रमालेव राजते परितः शुभा ॥३९॥
नितम्बौ प्रोज्ज्वलौ रम्यौ सखीमानसरञ्जनौ ।
सक्थिमूले शुभ्रवर्णे तेजोव्याप्तेऽतिसुन्दरे ॥४०॥
रशना कटिभागे च वर्तते स्वर्णनिर्मिता ।
ऊर्मिका अंगुलिस्थानाः शृंखला भुजबन्धने ॥४१॥
कटके कानके चापि प्रकोष्ठे बाहुभागयोः ।
सक्थ्नोर्मध्येऽक्षरब्रह्मोज्ज्वलं तेजः प्रवर्तते ॥४२॥
वामे सक्थिनि मूलाच्च ह्यधश्चिह्नं तु कैलकम् ।
सक्थ्नश्चोपरि लक्ष्म्याश्च चिह्नं पाण्डुरवर्णकम् ॥४३॥
हस्ततलायतं रम्यं यत्र मुह्यन्ति योगिनः ।
जानू रम्यौ वर्तुलौ च रमणीयौ हरेः शुभौ ॥४४॥
जङ्घे पद्मप्रभे रम्ये रोमावलिसमन्विते ।
कदलीकन्दसंशोभे सक्थिनी शीतले शुभे ॥४५॥
पादौ कम्मानिकासंस्थौ कमलोदरसन्निभौ ।
षोडशादिचिह्नयुक्तौ तथोर्ध्वरेखराजितौ ॥४६॥
शिखरं कल्पवल्ली च चक्रं च यानमित्यपि ।
सौधं वृषभं हस्तीश्च तुरगश्चन्द्रकस्तथा ॥४७॥
गरुडो हंसइत्यादिचिह्नितौ पादपंकजौ ।
स्वर्णरोमावलिराजत्पादोर्ध्वभागशोभितौ ॥४८॥
आजानुबाहुयुगलं पादाङ्गुली प्रलम्बिनी ।
सौम्यमूर्तिस्तथा तेजोव्याप्ता दिव्या ह्यभूच्छुभा ॥४९॥
एतादृशो मन्दहास्यं विमुञ्चन् भगवान् हरिः ।
अवाततार विप्राणां मध्ये विमानतो हरिः ॥५०॥
विप्रा नेमुः पादयोश्च तुष्टुवुः परमेश्वरम् ।
प्रसन्नमानसाः सर्वे बभूवुर्दर्शनादति ॥५१॥
सुरतायनसंज्ञोऽपि महर्षिः श्रीहरिं तदा।
आगत्य चन्दनवृक्षात् पूजयामास भावतः ॥५२॥
अहो भाग्यं पुनर्नस्तु यद्धरेर्दर्शनं गृहे ।
इत्युक्त्वाऽऽलुण्ठनं चक्रे पादयोः श्रीहरेस्तदा ॥५३॥
पुपूजुर्भावपूर्णाश्च विप्राः सर्वेऽपि वै मुहुः ।
ते सर्वे कृतकार्याश्च तीर्थविधानवेदिनः ॥५४॥
प्रार्थयामासुरत्यर्थं श्रीहरिं सन्निधौ स्थिताः ।
दर्शनं कुंकुमवापीक्षेत्रस्य कारय प्रभो ॥५५॥
इति स्तुतो हरिः प्राहाऽश्विनीकुमारतीर्थके ।
पुनः स्नात्वा मया साकं विमानमधिरुह्य च ॥५६॥
समागच्छन्तु मे क्षेत्रं भवन्तो मम सेवकाः ।
ततस्ते हरिणा सार्धं स्नात्वाऽश्विनीकुमारके ॥५७॥
सुरतायनमुख्याश्च निषेदुस्तद्विमानके ।
हरिः सर्वान् सह नीत्वा पथा वैहायसेन तु ॥५८॥
पञ्चसाहस्रविप्राद्यैराययौ दिनमात्रतः ।
अखातं तु समुल्लंघ्य शत्रुञ्जितानदीमुखम् ॥५९॥
तत्र तान् स्नापयित्वा च प्रययौ गोपनाथकम् ।
तत्तीर्थे कारयित्वा च मूलस्वर्णपुरीं ययौ ॥६०॥
तत्तीर्थं तु विनिर्वर्त्य सोमनाथं ययौ ततः ।
भद्राब्धिसंगमे स्नात्वा चमत्कारपुरं ययुः ॥६१॥
देविकायां कृततीर्था वनस्थलीनिवासिनः ।
प्रार्थयाञ्चक्रुरत्यर्थं पावयितुं वनस्थलीम् ॥६२॥
अनादिश्रीकृष्णनारायणः स्वीकृत्य चार्थनाम् ।
चान्द्रे तु श्रावणे कृष्णे पञ्चम्यां रविवासरे ॥६३॥
वनस्थलीं ययौ कृष्णनारायणः प्रभुः स्वयम् ।
भक्तान् सर्वान् पावयित्वा भोजयित्वा प्रसादकम् ॥६४॥
ददौ तेभ्यश्चोपदेशं भवपारकरं परम् ।
शृण्वन्तु मम भक्ता ये सर्वार्पणं विना मयि ॥६५॥
पापपुण्यादिभोगानामन्तो नायाति वै क्वचित् ।
अहं नारायणस्तेषां सर्वार्पणविधायिनाम् ॥६६॥
स्वयं करोमि नैर्मल्यं नयामि मम धाम तान् ।
नरो नारी बालकश्च बाला वा षण्ढ इत्यपि ॥६७॥
ममाऽनुग्रहलेशेन भवन्ति मोक्षिणो द्रुतम् ।
तस्माद् भजन्तु मां प्रीत्या कुर्वन्त्वत्र सुमन्दिरम् ॥६८॥
मत्प्रतिमां स्थापयन्तु भजन्तां सततं च माम् ।
अहं चोद्धारकृच्चास्मि भवतां शरणार्थिनाम् ॥६९॥
इत्युक्त्वाऽऽदिश्य भूमिं च प्रदत्वा चरणामृतम् ।
नाशयित्वा भवरोगान् रोगांश्च रोगिणां तथा ॥७०॥
वनस्थलीं पावयित्वा नरान् नारीः शुभाशिषा ।
योजयित्वा स्वभक्तौ च दत्वा चरणवारि च ॥७१॥
दर्शनं स्पर्शनं दत्वा पादसेवां प्रगृह्य च ।
कृतां पूजां परिगृह्य समारुह्य विमानके ॥७२॥
क्षणमात्रेण च ययौ शुभं सौराष्ट्रपत्तनम् ।
यत्राऽयं वर्तते श्रीमल्लक्ष्मीनारायणः प्रभुः ॥७३॥
स्वयं स्वराट् महाशोभे प्रासादे सुविशालके ।
राजते दुग्धशुक्लाभो युवा हास्यभरो हरिः ॥७४॥
सौराष्ट्रीयप्रजानां च प्रतिमारूपवान् प्रभुः ।
भजनीयः पूजनीयो योगिनां नरयोषिताम् ॥७५॥
दिव्यसुवर्णकलशैः शोभमाने महालये ।
वर्तमानां निजां मूर्तिं संस्पृश्याऽऽभाष्य च प्रियाम् ॥७६॥
लक्ष्मीं जगतां जननीं धर्मं भक्तिं विलोक्य च ।
सूर्यं शेषप्रशायं च दत्तात्रेयं शिवं विधिम् ॥७७॥
हनुदासं गणदासं समाश्लिष्य ततो हरिः ।
ययौ वैहायसा शुभ्रविमानेन क्षणोत्तरम् ॥७८॥
कुंकुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् ।
उद्याने चान्दने तत्र विमानं स्थाप्य माधवः ॥७९॥
लोमशस्याश्रमं रम्यं विमानस्थानदर्शयत् ।
अश्वतटाकसलिले स्नापयित्वा च तैर्थिकान् ॥८०॥
लोमशस्य गुरोः रम्यं कारयित्वा च दर्शनम् ।
कोट्यर्बुदाब्जकन्यानां कार्ष्णानां चापि दर्शनम् ॥८१॥
कारयित्वा ययौ कृष्णो नैजं प्रासादमुत्तमम् ।
दर्शयामास जननीं कम्भराश्रीं महासतीम् ॥८२॥
तथा स्वपितरं देवं श्रीमद्गोपालकृष्णकम् ।
साप्तभौमे निज्यं हस्त्यासनं प्रादर्शयत् प्रभुः ॥८३॥
आतिथ्यं कृतवाँस्तेषां भोजनं वासनं तथा ।
अथाऽऽतिथ्योत्तरं सर्वे विशश्रमुश्च ते तदा ॥८४॥
विशाले तद्विमाने तु निशां निन्युः समुत्सुकाः ।
प्रातः स्नानविधिं कृत्वा ववन्दुः परमेश्वरम् ॥८५॥
कन्याशतं ददुस्ते तु श्रीकृष्णपरमात्मने ।
लोमशस्याश्रमे ताश्च रक्षयामास केशवः ॥८६॥
ततो याता मानिताश्च तैर्थिकास्ते निजं गृहम् ।
विमानेन समं श्रीमन्नारायणेन वै सह ॥८७॥
प्रापय्य तान् हरिर्देशान् षष्ठ्यां पुनः समाययौ ।
कुंकुमवापिकाक्षेत्रं दिव्यं चाक्षरभूपदम् ॥८८॥
इत्येवं दर्शनं दत्वा कारयित्वा च तीर्थकम् ।
विमानेन निजान् देशान् प्रापयित्वा कृपामयः ॥८९॥
भगवानकरोद् राधे भक्तमानसपूर्णताम् ।
कृपासाध्यः स्वयं तस्मादनादिपुरुषोत्तमः ॥९०॥
न व्रतैर्न च वा दानैर्न वा हवनकर्मभिः ।
किन्तु साध्यप्रेमभक्त्या नामभक्त्या समर्पणैः ॥९१॥
भजतां सेवकानां तु सेवायां वर्तते स्वयम् ।
राधिके च यथा वर्ते सेवायां तव सर्वदा ॥९२॥
गोलोके सेविका नान्या त्वादृशी मेऽस्ति भामिनी ।
सेविकायास्तु सेवायां कान्तो भवति दासवत् ॥९३॥
तथा श्रीभगवाँश्चापि सेवकानां कृते सदा ।
भूत्वाऽकस्मात् सेवकश्च रक्षपरः प्रजायते ॥९४॥
सर्वपूजाऽधिका पूजा सेवा तन्वा विधीयते ।
ततः सेवा मानसी च द्रव्यजा तु ततः परा ॥९५॥
सर्वात्मनाऽर्पणं सेवा ह्यतुल्या राधिके यतः ।
प्रसन्नताकरी बोध्या चानुकूल्येन वर्तनम् ॥९६॥
अनादिश्रीकृष्णनारायणस्तुष्यति दास्यतः ।
परंधाम ददात्येव चान्ते शाश्वतसौख्यदम् ॥९७॥
धनं धान्यं सुतं कान्तां पतिं कुटुम्बवर्धनम् ।
आरोग्यं सम्पदो लक्ष्मीं सुतां गां महिषीं गजान् ॥९८॥
अश्वान् दासीः प्रजा दासान् पौत्रान् स्वर्गान् ददाति च ।
इत्येतत् कथितो राधे चमत्कारो हरेस्तव ॥९९॥
पठनाच्छ्रवणाच्चास्य श्रावणात्स्मरणादपि ।
भुक्तिर्मुक्तिर्भवेदन्ते भगवच्चरणं लभेत् ॥१००॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सुरतायनादिपञ्चसाहस्रविप्राणां कुंकुमवापीतीर्थागमनं शुभोपदेशश्चेतिनिरूपणनामा नवाधिकसप्ततितमोऽध्यायः ॥७९॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP