संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २२७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २२७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२७ Translation - भाषांतर श्रीकृष्ण उवाच--राधिके श्रीहरिकृष्णो ब्रह्मव्रतमुपादिशत् ।शृणु सर्वव्रतेभ्यस्तच्छ्रेष्ठं ब्रह्मपदं शुभम् ॥१॥ब्रह्मचर्यमिति ख्यातं सर्वमूर्धन्यमेव यत् ।भक्तश्चाऽप्यध्यवस्येद्वै ब्रह्मचर्यमकल्मषम् ॥२॥ब्रह्मव्रतिर्ब्रह्मचारी ब्रह्मसेवी च शीलवान् ।कालं मायां च कर्माणि जित्वा मद्धाम चाप्नुयात् ॥३॥सुकरं योगिना तद्धि सिद्धानां च सतां तथा ।सतीनां सुकरं चापि दुष्करं विषयैषिणाम् ॥४॥सम्प्रदीप्तं बलिष्ठं चेन्द्रियग्रामं विशेषतः ।निगृह्णीयात् सावधानः स वै जयति मृत्युदम् ॥५॥कामस्य न स्वरूपं वै चिन्तयेद् विषयान्न च ।कामचिह्नानि पश्येन्न रजोभागान् विवर्जयेत् ॥६॥रजःपुष्टिकरान् भागान् वर्जयेद् देहवानिह ।धातुपुष्टिकरान् भोगाँस्तथैव परिवर्जयेत् ॥७॥ज्ञानयुक्तेन मनसा विरागसहितेन च ।रागभावं विनाश्यैव वर्तयेदात्मभाववान् ॥८॥कुणपाऽमेध्यसंयुक्तं शरीरं कामनाश्रयम् ।भविष्यन्निरयक्षेपकारकं विश्वसेन्न वै ॥९॥वातपित्तकफागारं रक्तत्वङ्मांसकुण्डकम् ।मज्जास्नाय्वस्थिनाड्याढ्यं मलमूत्रादिसंभृतम् ॥१०॥कामाश्रयं च निकृष्टं ज्ञात्वा रागं विवर्जयेत् ।धमन्यो मलवाहिन्यः प्रतायन्ते समन्ततः ॥११॥आपगा इव चाब्धिं वै देहं पुष्णन्ति बाह्यकैः ।तासु चैका तु धमनी मनोवाहाभिधा हृदि ॥१२॥कामधात्वाश्रया चास्ते शुक्रं मुञ्चति कल्पजम् ।शुक्रं बहुविधं प्रोक्तं तैजसं नेत्रयोर्गतम् ॥१३॥कर्णयोर्द्रवरूपं च शब्दग्राहकमेव तत्॥एवमन्येन्द्रियाणां मन्दिरे प्राप्तं प्रशक्तिदम् ॥१४॥जले चास्ते तथा दुग्धे स्नेहो घृतं च वर्ष्मणि ।तदेव शुक्ररूपं निर्मथ्यतेऽति तु मन्थनैः ॥१५॥स्वप्नेऽप्येवं मनोजन्यं संकल्पजं रजोंऽशकम् ।शुक्रं तूत्पद्य वेगेन बलहीनं विशत्यपि ॥१६॥त्रीणि बीजानि शुक्रस्य ह्यन्नं रसो मनोवहा ।एतत्त्रयं विदित्वैव शिथीलयेत् त्रिकं मुहुः ॥१७॥ततश्च शुक्रानुत्पादाद् ब्रह्मव्रतं प्रपुष्यति ।मनो भक्ष्यस्याऽणुतमो भागः पुष्टतमं ततः ॥१८॥निर्वासनं विधायैव विरागेण जयेद्धि तत् ।ज्योतिष्मद्विरजः स्वात्मरूपतामेति मानसम् ॥१९॥रजोमयं परावृत्त्य सत्त्वमयं प्रजायते ।सत्त्वभावभावितं च सच्चिदानन्दतामियात् ॥२०॥तरुणाधिगतं तद्वै राजसं भाति यावता ।तावता तल्लयार्थं वै ध्यानयोगं समाचरेत् ॥२१॥एकाग्राऽभ्यसनं कार्यं तारुण्यं तेन लीयते ।पक्वभावं गतं तच्च बलहीनं प्रजायते ॥२२॥तदात्मानं समाश्रित्य जीवदात्मबलान्वितम् ।ततश्चात्मानमुत्सृज्य न याति विषयं क्वचित् ॥२३॥न चेन्द्रियाण्यभियाति नेश्वरादिचमत्कृतिम् ।न सिद्धीर्न च वेगाद्यं न मायां न च तद्गुणान् ॥२४॥एवंविधं वेगहीनं यदा स्याद्वै स्वमानसम् ।तदा सुदुर्गं पन्थानं गुणराज्यानुयायिनम् ॥२५॥अतीत्य परमं मार्गं चात्मराष्ट्रीयमृच्छति ।आसीममार्गं चोल्लंध्याऽक्षरेऽमृतं समश्नुते ॥२६॥इत्येवं वर्तमानस्य ब्रह्मलोकः करस्थितः ।ब्रह्मचर्यरतस्याऽत्र ब्रह्मलोको हि वर्तते ॥२७॥दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति देहिनः ।असक्ता ये ब्रह्मशीलास्ते यान्ति धाम मे परम् ॥२८॥दृष्ट्वा सृष्टिं सन्ततां च जन्ममृत्युजरादिभिः ।आधिव्याधिक्लेशदुःखैर्व्याप्ता यतेत मुक्तये ॥२९॥शरीरेन्द्रियसंघातानन्तःकरणकान्यपि ।संयुज्य श्रीपतौ भक्तो निरपेक्षश्चरेत् सुखम् ॥३०॥मनःसंगं कृपयाऽपि नैव कुर्यान्मुमुक्षुकः ।संगे ह्युपेक्षां कुर्वीत ज्ञात्वा संगफलं जगत् ॥३१॥संगफलं विहायैव वर्तयन् कर्मठोऽपि सन् ।नैव बध्नाति मुक्तात्मा पद्मपत्रमिवांभसा ॥३२॥क्षमाऽऽर्जवं तथा द्रोहो यस्य स्यात् स सुखी भवेत् ।दुःखान्निःसरणं ज्ञात्वा निःसरेत् स सुखी भवेत् ॥३३॥नाऽपध्यायेन्न स्पृहयेन्नाऽयोग्यं चिन्तयेदसत् ।चिन्तयेद्वै परंब्रह्म शृणुयान्मे कथामृतम् ॥३४॥कल्कापेतां वदेद् वाचं धर्मं कार्ष्णमनुव्रजेत् ।व्याहरेच्छ्रीहरेर्नाम चिन्तयेदर्थमुत्तमम् ॥३५॥अनर्थं निरयाणां सम्प्रसञ्जकं विवर्जयेत् ।प्रतिलोमां दिशं बुध्वा सांसारिकीं विवर्जयेत् ॥३६॥अनीहश्च तथा मुक्तः सर्वैः परिग्रहैर्मुहुः ।विविक्तचारी नियमी ज्ञानप्रदग्धकिल्बिषः ॥३७॥आत्मावान् धृतिमान् भूत्वा हृत्प्रकाशं प्रमार्गयेत् ।यत्र देवाः प्रकाशन्ते ततो ब्रह्म प्रकाशते ॥३८॥एवं स्थितिं समापन्नो ब्रह्मभूयाय जायते ।यद्वा योगमहावृत्तिं समाचरेच्छनैः शनैः ॥३९॥आहारनियमं कृत्वा चिन्तानियममित्यपि ।ध्यानवृद्धिं समासाद्य स्वात्मप्रकाशमर्जयेत् ॥४०॥ज्ञानप्रकाशसंयुक्तश्चात्मप्रकाश एधितः ।भक्तिप्रकाशसन्मिश्रः सूर्यवत्सम्प्रकाशते ॥४१॥देवप्रकाशवान् पूर्वं पश्चादात्मप्रकाशकः ।ततः स्वयंप्रकाशः स्यात् स स्याद्वै कृष्णवल्लभः ॥४२॥एवं प्रकाशमार्गेण परान् स्वर्गान् विक्रम्य च ।चित्प्रकाशो भवेत् शश्वद् ब्रह्मप्रकाशवान् हि सः ॥४३॥सगुणो मञ्जुलो हंसः पारवान् स्वप्रभो यदा ।वीतरागोऽपवर्गज्ञो भवेन्मामेति वै प्रभुम् ॥४४॥गुणातीतो जरामृत्यू जित्वा मायामयं पुरम् ।अक्षरामृतमाप्नोति यत्तद्बह्म सनातनम् ॥४५॥एतत्सर्वं ब्रह्मचर्यलभ्यं भवति शाश्वतम् ।निद्रा व्रतहा संत्याज्या ब्रह्मचर्यं समिच्छता ॥४६॥मनो निद्रायुऽतं व्यग्रं रजसा त्वभिभूयते ।रजोभावस्य नैर्बल्ये व्यग्रता क्षीणतां व्रजेत्। ॥४७॥शान्तिर्भवेत् सत्त्ववृत्तिप्राधान्यं गुरुतालयः ।तेन निद्रालयः स्याच्च ज्ञानवृत्त्या स्वपित्यपि ॥४८॥संसारवृत्तिविलये स्वप्नं दूरतरं भवेत् ।तेन ब्रह्मपरो भूत्वा ब्रह्मश्रेष्ठमवाप्नुयात् ॥४९॥प्रसन्नमनसा यद्यत् संकल्पयति मानसम् ।तत्तत्संस्कारमापन्नं स्मर्यते च मुहुर्मुहुः ॥५०॥.सात्त्विकेष्वपि देवेशं परेशं मां विचिन्तयेत् ।सर्वभूतात्मभूतस्थं तेन मां चोत्तरे लभेत् ॥५१॥लिप्सेत्तु मनसा भक्तो मम योगं सुखावहम् ।आत्मप्रसादं सौम्यं च देवानां दर्शनं हृदि ॥५२॥नित्यमेवं समभ्यासात् तत्संस्कारः सुरांस्ततः ।हृदयं संस्थितान् पश्येत्ततो ब्रह्म प्रकाशते ॥५३॥ब्रह्मचर्यं तदेवाहुर्यत्तद् ब्रह्मणि वर्तनम् ।ब्रह्मसंसृष्टदेवेषु सत्सु यद्वर्तनं च तत् ॥५४॥ब्रह्म तत्परमं ज्ञानं चामृताऽक्षरवेदनम् ।एवं विदित्वा स्वात्मानं प्रयान्ति परमां गतिम् ॥५५॥मायां त्यक्तुं प्रविद्याच्चाऽक्षरं विद्याद्विमुक्तये ।प्रवृत्तिं सम्परित्यज्याऽक्षरो भूत्वाऽक्षरं व्रजेत् ॥५६॥प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः ।निवृत्तिलक्षणो धर्मो ब्रह्मदः शाश्वतप्रमुत् ॥५७॥श्रियं दिव्यामभिप्रेप्सुः श्रीपतिं मां हृदि स्मरेत् ।सर्वभावेन मत्प्राप्त्यै कुर्यान् मद्योगकृत्तपः ॥५८॥ब्रह्मचर्यमहिंसा च शारीरं तप तन्मतम् ।मत्स्मृतिर्मनसो रोधो मानसं तप एव तत् ॥५९॥मत्प्रसादादनं श्रेष्ठं तपो वै पापनाशनम् ।वासनाया विमर्दोऽपि बुद्धेस्तपः परं मतम् ॥६०॥आत्मनिष्ठा चेतनस्य तपः परममुच्यते ।मद्योगार्थं प्रयत्नश्च सततं तप उत्तमम् ॥६१॥अव्याहता मतिर्यस्य मदन्यैर्जडचेतनैः ।संस्थितिं ब्रह्मसाम्यां वै गतो यास्यति मामनु ॥६२॥मायासर्गे याऽऽयतिः सा परसर्गे न विद्यते ।आत्मज्ञानगुणाद्यैश्च दिव्यभावैः प्रमोदते ॥६३॥आयुषोऽन्तेऽत्र मनुजाः सतः केचिदुपासते ।केचिदक्षरभावं चाऽऽत्मानं केचिदुपासते ॥६४॥परे देवं परं मां वै प्रस्थाने समुपासते ।सर्व एते परभावाः प्रयान्ति परमां गतिम् ॥६५॥ब्राह्मीं तनुं लभन्ते ते विमुक्तामपरिग्रहाम् ।मम विज्ञानसम्पन्ना मदाराधनतत्पराः ॥६६॥ममाश्रयं परं लब्ध्वा प्रयान्ति परमां गतिम् ।विद्यां लब्ध्वा परां ब्रह्मभूता यान्ति परां गतिम् ॥६७॥यथाभावमुपासन्तः सर्वे यान्ति परां गतिम् ।कषायवर्जिताः शान्ता मदाश्रयपरायणाः ॥६८॥विमुच्यन्ते गुणक्लेशैः प्रयान्ति परमां गतिम् ।भगवन्तमजं विष्णुं दिव्यं नारायणं प्रभुम् ॥६९॥ज्ञात्वाऽऽत्मस्थं हरिं मां च शुद्धस्नेहसमन्विताः ।भावतृप्ता हि मां यान्ति निवर्तन्ते न तेऽक्षराः ॥७०॥मां वा मे साधुपुरुषान् मदंशान् संश्रयन्ति ये ।प्राप्य ते परमं धाम मोदन्तेऽक्षरमव्ययम् ॥७१॥तृष्णाबद्धं जगत् सर्वं चक्रवत् परिवर्तते ।तृष्णातन्तुर्येन दग्धस्तस्य मद्धाममार्गणम् ॥७२॥सूच्या सूत्रं यथावस्त्रे संसारयति वायकः ।तद्वत् संसारसूत्रं हि तृष्णासूच्या प्रसार्यते ॥७३॥तस्माद् विमुक्तः पुरुषो मे भक्त्या याति मामपि ।तं स्नेहेन विमानेन नयामि धाम मामकम् ॥७४॥इत्युपादिश्य भगवान् विरराम क्षणं ततः ।राधिके प्रददौ मन्त्रं नूत्नेभ्यः श्रीहरिः स्वयम् ॥७५॥सभासमाप्तिमकरोत् सन्ध्यावन्दनमाचरत् ।रात्रौ च भोजनं चक्रुः सर्वेऽध्वरे समागताः ॥७६॥महीमानेषु सर्वत्र रञ्जनान्यभवन्निशि ।श्रीहरिः शयनं प्राप ब्रह्मप्रियादिसेवितः ॥७७॥मखार्थिमहीमानानां शिविरेषु नटादयः ।चक्रू रात्रौ नाट्यमग्र्यं पूर्वावतारबोधकम् ॥७८॥मल्लाश्चक्रुर्मल्लयुद्धं बहुयुक्तिसमन्वितम् ।गायकानां गायनानि गान्धर्वमण्डपेऽभवन् ॥७९॥कुत्रचित्तु विदुषां वै कथाऽऽख्यानानि चाऽऽभवन् ।सूतमागधबन्दीनां चारणानां च शास्त्रिणाम् ॥८०॥काव्यानि चैतिहासानि मण्डपे त्वभवन्निशि ।कुत्रचिद् वारनारीणां नृत्यानि गीतिमन्ति च ॥८१॥राजन्यवर्गसंसत्सु भवन्ति स्म तदा निशि ।कुत्रचिद् देवतानां च देवीनां देवयोषिताम् ॥८२॥ब्रह्मसरसामप्सरसां गीतिनृत्यानि चाभवन् ।कुत्रचिदीशसृष्टीनां महोत्सवा भवन्ति हि ॥८३॥क्वचिद् दानवदैत्यानां मनोरञ्जनकानि च ।भवन्ति विविधास्तत्र क्रीडा उत्सवबोधिकाः ॥८४॥प्रदर्शनानि लोकानां पशूनां पक्षिणां तथा ।योषितां च नराणां च देहिनामभवँस्तथा ॥८५॥कुत्रचिद् वनवल्लीनां द्रुमाणां तृणपत्रिणाम् ।फलानां शिबिकानां च प्रदर्शनानि चाभवन् ॥८६॥कुत्रचिच्छिल्पकार्याणां काष्ठोपलमृदां तथा ।कार्पासहीरकौशेयत्वगूर्णानां तदाऽभवन् ॥८७॥एवं गजानामश्वानां गवां केसरिणां तथा ।शरभाणां गरुडानामुष्ट्राणां दर्शनानि च ॥८८॥रेण्डीयानां च हंसानां शुकानां दर्शनानि च ।सैन्यानां च महिषीणां मृगाणां दर्शनानि च ॥८९॥एवंविधानि नूत्नानि बहुदेशोद्भवानि च ।बहुलोकसमुत्थानि वस्तूनि यानि यानि च ॥९०॥कलात्मकानि सर्वाणि हेतुमुख्यानि यानि च ।यन्त्रात्मकानि चान्यानि तत्राऽभवँस्तदा शुभे ॥९१॥गोयाजनभूमौ वै प्रदर्शितानि पालकैः ।एवं षष्ठीनिशा सर्वा महोत्साहसमन्विता ॥९२॥व्यतीताऽर्धा ततो लोका निद्रायां संगताः सुखाः ।सप्तम्यां प्रातरेवाऽथाऽवाद्यन्त तूर्यजातयः ॥९३॥मंगलानि कीर्तनानि गीतयश्चाऽभवँस्तथा ।स्तावकानां स्तवनानि निनादा यन्त्रसंभवाः ॥९४॥वेदघोषाश्च विप्राणां सतां सद्भजनानि च ।योषितां श्रीबालकृष्णयशोयुक्ताश्च गीतयः ॥९५॥देवीनां देवतादिव्यकथाख्यानप्रगीतयः ।ईश्वरीणां शेषवार्तागीतिकाश्च तदाऽभवन् ॥९६॥निद्राशून्या अपि रात्रौ भूरीतिं परिगृह्य च ।मौनं शान्तिं च निवृत्तिं प्राप्ताश्चासन्निशाह्वये ॥९७॥प्रातश्चैवं तु विविधैर्मांगलिकश्रवादिभिः ।स्वस्था भूत्वा कृतस्नाना कृताह्निकास्तदाऽभवन् ॥९८॥राधिके श्रीहरिः स्नातः कृताह्निकः कृतार्चनः ।पितरौ च निजौ कृष्णो ववन्दे पादयोः पतन् ॥९९॥राजाद्याश्च कृतकार्या हरिं पूजयितुं तदा ।समाययुर्महासौधे श्रीनिवासालये शुभे ॥१००॥पुपूजुः श्रीहरिं प्रीत्या पादोदकानि वै पपुः ।आरार्त्रिकं प्रचक्रुश्च राजन्याः संगता गृहे ॥१०१॥पुष्पांजलिं प्रदत्वैव नत्वा चाशीर्वचोऽन्विताः ।कृतभाग्यास्तथा राज्ञ्यः पूजयित्वा तथैव तम् ॥१०२॥आययुर्वै मण्डपं च यज्ञस्य भगवानपि ।ऋषयश्चाययुस्तत्र कर्मठा देवतास्तथा ॥१०३॥राधिके सर्वहव्यानि समिधा मन्त्रदेवताः ।वह्नयः सर्व एवापि मण्डपे तत्र चाययुः ॥१०४॥अथ प्रावर्तत कार्यं यज्ञीयं चादितः खलु ।यथापूर्वं क्रमलाभं सावधानतया मखे ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने यज्ञभूमौ षष्ठ्यां सायं चोपदेशादि भोजनं शयनं सप्तम्यां प्रातर्यज्ञमण्डपागमनं चेत्यादिनिरूपणनामा सप्तविंश-त्यधिकद्विशततमोऽध्यायः ॥२२७॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP