संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १८२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १८२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८२ Translation - भाषांतर N/Aश्रीकृष्ण उवाच-शृणु त्वं राधिकेऽनादिकृष्णनारायणो हरिः ।इष्टलवर्ष्युपादिष्टस्थले निजविमानकम् ॥१॥अवातारयदुद्याने विशाले भूतले शुभे ।त्रिवरायाश्चापगायास्तटस्थे सुद्रुमाकुले ॥१॥रामपुर्या नगर्यास्तु निकटे वाद्यनादिते ।जिनवर्द्धिनृपोऽमात्यैः कुमारैर्बान्धवैः सह ॥३॥प्रजाभिश्च हरेस्तत्र सुस्वागतं चकार ह ।पुष्पहारान् हीरकाढ्यस्वर्णहारान् गले ददौ ॥४॥बहिश्चावतरन्तं श्रीहरिं विमानकात् प्रजाः ।सर्वाश्चन्दनलाजाभिश्चाक्षतैः कुसुमादिभिः ॥५॥जयशब्दैर्हर्षनादैर्नमनैरर्हृणां व्यधुः ।पितरौ बान्धवान् सर्वान् भगिनीं च गुरूनृषीन् ॥६॥ब्रह्मप्रियाश्च सर्वे ते पुपूजुर्हारचन्दनैः ।अथ सैन्यसहाये च गजयाने सुवर्णजे ॥७॥हरिमारोहयामास राजा तु जिनवर्धकः ।महीमानान् समस्ताँश्चारोहयामास भूरिषु ॥८॥वाहनेषु विमानेषु गन्त्रीषु शकटीष्वपि ।वाद्यकीर्तनसंह्रादोत्सवैः कृष्णनरायणम् ॥९॥रामपुर्यां नगर्यां सम्भ्रामयामास सर्वशः ।राजमार्गेषु सर्वत्र प्रजाभिः पूजितो हरिः ॥१०॥फलपुष्पाक्षतरौप्यस्वर्णमुद्राम्बरादिभिः ।एवं वै दर्शनं दत्वा राजसौधं समाययौ ॥११॥वर्धितो जनताभिश्च शुशुभे परमेश्वरः ।आनन्दपूर्णहृदयः सायं सभामकारयत् ॥१२॥लक्षावधिमनुष्याणां प्रियकार्यार्थहेतवे ।जलपानं हरिः कृत्वोपादिदेश प्रजास्तदा ॥१३॥दिव्ये सिंहासने तत्रासीनः प्रसन्नभावनः ।भगवत्कार्यकर्तारो भगवच्चरणाश्रयाः ॥१४॥भगवद्ध्यानसम्पन्नाः प्रयान्ति परमां गतिम् ।सतां सेवाप्रकर्तारः सतां वा चरणाश्रयाः ॥१५॥सतां मार्गे प्रगन्तारः प्रयान्ति परमां गतिम् ।स्मृद्धयो भूमिकाजन्याश्चान्ते भूमौ विशन्ति हि ॥१६॥ता यदि स्युः सतामर्थे हर्यर्थे मोक्षदाश्च ताः ।पृथ्वी ददाति चान्नानि मेघा अपो ददत्यपि ॥१७॥वह्निः पाकं करोत्येव वायुः करोति रूक्षताम् ।संविधायैव ते सर्वे शय्याभोग्यधनानि च ॥१८॥मानवार्थे ददत्येव मानवैरर्प्यमीश्वरे ।विनाऽर्पणं परेशे तु सम्पदो विपदो ननु ॥१९॥नारकिण्यो भवन्त्येवान्तेऽपि निरयसम्प्रदाः ।तस्माद् भूतैस्तु या दत्ता विभूतयोऽतिगौरवात् ॥२०॥अर्पणीया हरौ सर्वास्तास्तदा मोक्षदाः खलु ।समुद्रोऽपि कृतस्तेन पृथिवी तेन निर्मिता ॥२१॥सस्यानि तेन देवेन कृतानि कणदानि तु ।देहस्तेन कृतश्चापि बीजं तेन विनिर्मितम् ॥२२॥सजातीयं कृतं तेन भोग्यं दत्तं समानकम् ।येन दत्तमिदं सर्वं तस्मै देयं परात्मने ॥२३॥स एव भगवानत्र भूतले लोकहेतवे ।देहिनां श्रेयसे चास्ते दृग्गोचरः सुखप्रदः ॥२४॥सेवनीयस्तोषणीयः प्रयत्नेनाऽवगत्य च ।एवं ज्ञात्वा मम सेवां करिष्यन्ति तु ये जनाः ॥२५॥तानहं तूद्धरिष्ये वै जन्मसंसारवारिधेः ।अहं दण्डप्रदाताऽस्मि दण्डो मया विनिर्मितः ॥२६॥यदाश्रयं विना दण्डपात्राणि देहिनः खलु ।दण्डदातारमेवात्र मामाश्रयन्तु सर्वथा ॥२७॥राजसु यो मया क्षिप्तो दण्डो वश्यः स मे सदा ।यमे चापि मया न्यस्तो दण्डो विकर्मिशासकः ॥२८॥दण्डः शास्ति प्रजाः सर्वा धर्मदण्डः प्ररक्षति ।दण्डो जागर्ति सुप्तेषु धर्मार्थकाममोक्षकृत् ॥२९॥धान्यं धनं स्त्रियः पुत्रा भृत्याः पुत्र्यश्च वाटिकाः ।धर्मो न्यायश्च मर्यादा रक्ष्यन्ते दण्डभीतितः ॥३०॥मातृदण्डभयाद्बाला कलहं न प्रकुर्वते ।राजदण्डभयादेके पापाः पापं न कुर्वते ॥३१॥देवदण्डभयाद् दुष्टा अन्यायं नाश्रयन्ति हि ।यमदण्डभयाश्चापि परलोकभयादपि ॥३२॥परस्परभयाश्चापि नियम्यन्ते प्रजा इह ।एवं सांसिद्धिको लोको भयाद्धर्मे व्यवस्थितः ॥३३॥दण्डस्यैव भयात्सर्वे न खादन्ति परस्परम् ।राजदण्डो धर्मदण्डो यमदण्डस्तथाऽपरः ॥३४॥देवदण्डः प्रधानास्ते रक्षन्ति विविधाः प्रजाः ।अदण्डिकाः प्रजाश्चेत्स्युर्निमज्जेयुर्महान्धसि ॥३५॥अदान्तानप्यशिष्टाँश्च दमयत्येव दण्डकः ।आज्ञादण्डो ममाऽस्त्येव ममाज्ञा वैदिकी हि सा ॥३६॥तामनुत्सृज्य गन्तारो यान्ति दण्डस्य पारताम् ।नेताऽहं सर्वसृष्टीनां शासको रक्षकस्तथा ॥३७॥राजस्वाविश्य तिष्ठामि वर्तयामि च शासने ।प्रजाः सर्वास्तथा सर्वान् नृपान् नियमरूपवान् ॥३८॥यत्र दण्डो मम याति चरते सूद्यतः सदा ।प्रजास्तत्र न मुह्यन्ति नेयुः सन्मार्गभ्रंशताम् ॥३९॥मनुष्याः पशवः पक्षवन्तोऽपि कीटमक्षिकाः ।दण्डस्यैव भयादेते यथार्थे वर्त्मनि स्थिताः ॥४०॥नाऽभीतो यजते कश्चिन्नाऽभीतो दातुमिच्छति ।नाऽभीतश्च जनः कश्चित् समये स्थातुमिच्छति ॥४१॥रुद्रः स्कन्दो महेन्द्रश्च वह्निश्च वरुणो यमः ।कालो वायुः कुबेरश्च रविर्मृत्युः शनिस्तथा ॥४२॥वसवो मरुतः साध्या विश्वेदेवाश्च राक्षसाः ।एतेऽपि भयमापन्ना दण्डस्य नियमे स्थिताः ॥४३॥एतान् प्रजास्तथा भीताः प्रणमन्ति मुहुर्मुहुः ।भयं न चेद् भवेल्लोके विनश्येयुः परस्परम् ॥४४॥दण्डस्यैव भयाद्भीतो धर्मे सर्वः प्रवर्तते ।चातुर्वर्ण्यप्रमोदाय सुनीतिरक्षणाय च ॥४५॥दण्डभीतिस्तु विहिता धर्मार्थौ रक्षितुं सदा ।ताभ्यां मोक्षो भवेत् पश्चाद् योऽस्ति मन्मूर्तिमाश्रितः ॥४६॥यदि धर्मान्न बिभियुः श्वापदाद्या विजातयः ।अद्युर्ज्ञातिं निजां सिंहादयः क्रूरा वनश्रिताः ॥४७॥मनुष्याश्चापि संभूय चाद्युः प्रसह्य वै मिथः ।विश्वक् लोपः प्रवर्तेत भिद्येरन्नीतिसेतवः ॥४८॥चरेयुर्नाश्रमं कर्म कन्या नोद्वहनं लषेत् ।युवती नाश्रयेत् कान्तं प्रेष्या त्वाज्ञां न चोद्वहेत् ॥४९॥नरस्तिष्ठेन्न नियमे शीले धर्मभयं विना ।धर्मे स्वर्गो मनुष्याणां लोकश्चायं प्रतिष्ठितः ॥५०॥धर्मो भक्त्याश्च सहितो निर्गुणत्वाय कल्पते ।नात्यन्तं गुणवत् किञ्चिन्न चाऽप्यत्यन्तनिर्गुणम् ॥५१॥उभयं सर्वलोकेषु दृश्यते साध्वसाधु वा ।साधु विचार्य कर्तव्यं त्यक्तव्यं यन्न साधु तत् ॥५२॥सतां समागमः साधुः श्रीहरेर्मे सदाश्रयः ।सर्वार्पणविधानेन कर्तव्यो मे समागमः ॥५३॥अवध्ये शासके कृष्णे मयि न्यस्ता हि ये जनाः ।न ते वै कालमायादेर्भयेन स्युः प्रपीडिताः ॥५४॥तस्माद् भागवतं धर्मं पालयन्तु प्रजाजनाः ।ममाऽऽज्ञा दण्डरूपाऽस्ति सुखदा भयवर्जिता ॥५५॥निर्भयाः सन्तु सर्वेऽत्र मानवा इष्टलीस्थिताः ।स्वस्ति वोऽस्तु जिनवर्द्धे इष्टलवाश्रयस्थिते ॥५६॥इत्युक्त्वा विररामाऽसौ भगवान् पुरुषोत्तमः ।ततो नीराजनं चक्रुः पूजनं श्रीहरेस्तदा ॥५७॥पित्रोश्च बान्धवानां च राजाद्याः सुसमुत्सुकाः ।राज्ञ्याद्याः पूजनं चक्रुर्ब्रह्मप्रियादियोषिताम् ॥५८॥उपदाश्च न्यधुः सर्वाः स्वर्णरूप्यकहीरकान् ।आभूषणानि वस्त्राणि मणीन् पात्राणि मौक्तिकान् ॥५९॥रत्नानि चोपकरणान्यधुर्विविधकानि च ।मन्त्राँश्च जगृहुः सर्वे नरा नार्योऽवशेषिताः ॥६०॥ततश्चक्रुः परिहारं सभायाः श्रीहरिस्ततः ।बुभुजे दुग्धपुरिकादिकं चान्येपि सर्वशः ॥६१॥महीमाना बुभुजुश्च प्रसादं जगृहुः प्रजाः ।राजाद्याश्च ततो नैजं स्थानं ययुस्ततो हरिः ॥६२॥निद्रां जग्राह रात्रौ च प्रातरुत्थाय वै हृदि ।ध्यात्वा रूपं परं नैजं शुश्राव मंगलस्वनान् ॥६३॥नित्यविधिं विधायैव यावत्स्वस्थोऽभवत्तदा ।राजा पक्वान्नपात्राणि दुग्धादीन्यानिनाय ह ॥६४॥आर्पयद्धरये प्रघूणिकेभ्यस्तेऽदनं व्यधुः ।अथ मध्याह्नकाले च भुक्त्वा विश्रान्तिमाययुः ॥६५॥हरिं तु भुक्तवन्तं वै राज्ञी कन्याश्च सप्त वै ।सेवितुं त्वागताः पुष्पहाराद्यर्पणमाचरन् ॥६६॥भूषणानि विचित्राणि धारयामासुरीश्वरम् ।आभूषयित्वा श्रीकृष्णं नारायणं सुरूपिणम् ॥६७॥करे च जगृहुः कन्याः सप्त विवाहकर्मणा ।कृतकृत्या बभूवुश्च प्राप्य श्रीकृष्णवल्लभम् ॥६८॥ब्रह्मप्रियासु मिलिता वैष्णव्यः सुखपूरिताः ।अथ राधे तदा सर्वे पुपूजुर्युगलानि वै ॥६९॥ततश्चैकं महाश्चर्यमभूच्छृणु वदामि ते ।कश्चिद् दीनजनोऽनाथ इवाऽऽयातो हरेः पुरः ॥७०॥आक्रोशन्नाह भगवन् मम बालं कुमारकम् ।पुत्रीं चैकां जहारात्र राक्षसः कश्चिदेव ह ॥७१॥प्रजापुत्रान् प्रजापुत्रीर्हरन्ति राक्षसाः परे ।मारयन्ति जनाँश्चापि पृष्ठे गच्छन्ति तानपि ॥७२॥धृत्वा हरन्ति चाद्रौ तान् वृद्धान् यूनोऽपि राक्षसाः ।तस्माद् रक्ष महाराज नारायण परेश्वर ॥७३॥पर्वतीयप्रजाः सर्वाः कृपानाथ कृपां कुरु ।इत्युक्तः श्रीहरिस्तूर्णं राधे सज्जो बभूव ह ॥७४॥धृत्वा सुदर्शनं सूक्ष्मं चांगुल्यां चोर्मिकासमम् ।गूढतेजोऽन्वित शीघ्रं गन्तुं चेयेष तत्स्थलम् ॥७५॥तावद् राजा जिनवर्द्धिश्चापि शस्त्रसमन्वितः ।सज्जोऽभवच्च हरिणा सार्धं दीनाऽवनोद्यतः ॥७६॥तावत्तत्र समायातो राजा नाम्नाऽल्पकेतुकः ।आल्पपर्वतराज्येशः प्राह नत्वा हरिं तदा ॥७७॥मम राज्यं पावनं त्वं कुरु श्रीपरमेश्वर ।आप्यायनो महर्षिश्च तथैवाऽऽर्थयदीश्वरम् ॥७८॥तथाऽस्त्विति हरिः प्राह जगादोदन्तकं तथा ।राक्षसस्य क्रूरकर्माऽनाथस्य परिरक्षणम् ॥७९॥अल्पकेतुश्च तच्छ्रुत्वा शस्त्रसज्जो विमानके ।निषसाद विमानेऽपि हन्तुं राक्षसपुंगवम् ॥८०॥विमानैश्च तदा सर्वसैन्यान्यपि च सत्वरम् ।शस्त्रास्त्रयन्त्रयुक्तानि युद्धार्थं चाम्बरेऽभवन् ॥८१॥राज्ञा राज्ञ्यादिभिश्चापि प्रजाभिः पूजितः प्रभुः ।अल्पकेतोर्गृहं यास्यन् हनिष्यतीति राक्षसम् ॥८२॥विज्ञाय च श्रीहरये दत्तान्युपायनान्यपि ।गृहीत्वा सुविदायं सर्वेभ्यो दत्वा शुभाशिषः ॥८३॥विदायतूर्यनिनदान् युद्धभेरीप्रगर्जनाः ।श्रुत्वा धृत्वा पुष्पहारान् यानमध्यारुरोह च ॥८४॥अन्ये प्राघूणिकवर्गाः सार्थाः सर्वे हरेस्तदा ।विमानानि समारुह्य जयशब्दान् प्रचक्रिरे ॥८५॥अनाथोऽपि जनः कृष्णविमाने दर्शकोऽभवत् ।तन्निदर्शितमार्गेण यानानि गतिमाचरन् ॥८६॥क्षणमात्रेण शैलं तम् अपिनायं प्रपेदिरे ।पूर्ववार्धिखाडिकायाः पश्चिमे चायताद्रिकम् ॥८७॥दुर्गमं कण्टकारण्यैः पाषाणैर्गण्डशैलकैः ।हिंस्रप्राणिनिवासैश्च राक्षसैश्च विशेषतः ॥८८॥ज्वालमालावृतशैलरसविघ्नैर्विशेषतः ।आकाशात्पर्वतेऽधित्यकायां तु गह्वरं महत् ॥८९॥यन्मुखे राक्षसा आसन् वृक्षोऽधःकृतकेतनाः ।भयंकरा विवस्त्राश्च पशुमांसाशना अपि ॥९०॥नरमांसादनाश्चापि दिगम्बरा भयंकराः ।अस्थिशस्त्रान्विता मन्त्रजालशस्त्रविदस्तथा ॥९१॥विमानस्थोऽनाथभक्तो दर्शयामास तां दिशाम् ।हरिर्विलोक्य बुबुधे राक्षसानां तदालयम् ॥९२॥नरनाट्यधरः कृष्णो वेत्ति सर्वं तथापि वै ।तदा प्राह महायुद्धं दारुणं संभविष्यति ॥९३॥इमे तु राक्षसा घोरा विना रुद्रं तु शंकरम् ।अशक्या हन्तुमेवात्रेत्युक्त्वेशानमुवाच ह ॥९४॥रुद्र रुद्र महाबाहो मम बाहो सुरेश्वर ।योधनार्थं प्ररक्षार्थं मया त्वमत्र वै सदा ॥९५॥मम पार्श्वे रक्षितोऽसि कार्यं ते समुपस्थितम् ।धारयोग्रं महद्रूपं संहरैतान् महासुरान् ॥९६॥मारयैतानीशसंज्ञेशानदेवोऽर्थवान् भव ।इत्येवं स्वविमानस्थं क्षेत्रपालेश्वरं हरम् ॥९७॥महारुद्रं महाराजः प्रोक्त्वा युद्धार्थमैरयत् ।तावद् रुद्रो महेशानस्त्यक्त्वा शान्तं तु भावनम् ॥९८॥विकरालं स्वरूपं सन्दधार शैलसदृशम् ।आकाशे तु विमानानि हरिणा चक्रसदृशम् ॥९९॥व्यूहं प्रकारयित्वैव स्थिरीकृतानि सर्वथा ।जिनवर्द्धिमहाराजस्तथाऽल्पकेतुभूपतिः ॥१००॥आज्ञां चक्रतुर्वाद्यानां युद्धावेदननर्दने ।युद्धवाद्यान्यवाद्यन्त शूरा रक्तदृशोऽभवन ॥१०१॥शंखा भेर्यो बिगुलानि तदाऽवाद्यन्त सर्वशः ।जयशब्दाश्च वीराणां युद्धार्थमभवँस्तदा ॥१०२॥राक्षसा दशसाहस्रा मारीशायां तदाऽभवन् ।ते च शर्वे विदित्वैवाकस्माद् युद्धनिनादकान् ॥१०३॥सज्जा भूत्वा निर्ययुश्च मारीशानगरीमुखात् ।आकाशमार्गगा सर्वे गह्वरं प्राप्य विस्मिताः ॥१०४॥नष्टभाना इव चासन् महायुद्धजयार्थिनः ।राधिके तु तदा रुद्रगोमुखं व्यनदद् बहु ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने जिनवर्धिनृपराज्ये रामपुरीं पावनीकृत्योपदिश्य भुक्त्वा विश्रम्य पूजां प्राप्य जनहारिराक्षसविनाशार्थं सविदायम्अपिनायाऽद्रिं हरिर्जगामेत्यादिनिरूपणनामा द्व्यशीत्यधिकशततमोऽध्यायः ॥१८२॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP