संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १८७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १८७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८७ Translation - भाषांतर श्रीकृष्ण उवाच-गोलोकराशेश्वरि बालकृष्णोविमानमध्याद् बहिराजगाम ।ददर्श लक्षाधिकमानुषाणांसम्मर्दमाश्चर्यकरं तदानीम् ॥१॥चकोरजातीयसमस्तकानांयथेन्दुतेजोवलयेऽक्षिवृत्तिः ।तथाऽखिलस्वागतकारकाणांपरेश्वरेऽभूद् वरदेऽक्षिवृत्तिः ॥२॥यथा मयूरा घनदर्शनेनभवन्ति केकानिनदेऽतिमग्नाः ।तथा प्रजाः श्रीहरिदर्शनेनतदाऽभवन् वै जयनादमग्नाः ॥३॥यथा घने स्वातिजलेऽतिहृष्टानन्दन्ति वै चातकपक्षिसार्थाः ।तथा घनश्यामफलेऽतिहृष्टाआनन्दिताः स्वागतपक्षिसार्थाः ॥४॥यथा तु बाला मधुरां सुशर्करा-मासाद्य मोदातिभृता भवन्त्यपि ।तथा प्रजाः स्वेष्टसुधाननं प्रभुंसम्प्राप्य मोदातिभृतास्तदाऽभवन् ॥५॥यथा सती कान्तमतीव सुन्दरंचिरं वियुक्तं ह्यधिगम्य मोदते ।तथा प्रजास्तं परकान्तमच्युतंसदावियुक्तं प्रतिलभ्य हर्षिताः ॥६॥यथा पतंगा ह्यतितेजसानलंविलोक्य कृष्टा अभियन्ति मोहिताः ।तथा प्रजांगानि समुज्ज्वलं प्रभुंविलोक्य कृष्टानि पतन्ति मोहिनि ॥७॥यथा निशेशं प्रसमीक्ष्य पूर्णिनंजगत्सु वारांनिधयो द्रवन्त्यभि ।तथाऽक्षरेशं प्रसमीक्ष्य पूर्णकंप्रजाब्जकोट्योऽभिमुखं द्रवन्त्यपि ॥८॥यथाऽऽप्य लौहानि तु लौहकान्तंनिसर्गतस्तत्परितोऽभियन्ति ।तथाऽऽप्यलोका बहुलोककान्तंनिसर्गतो बालहरिं प्रयान्ति ॥९॥यथा तु नद्यो जलधिं प्रयान्तियथेष्टलभ्ये हृदयानि यान्ति ।तथा प्रजानां हृदयानि कृष्णेसमस्तदिग्भ्यो ह्यभवन् गतानि ॥१०॥श्रीबालकृष्णोऽमिततेजसाऽन्वितोबभूव मध्याह्नगभास्करोपमः ।सुश्वेतरूपातिमनोहरप्रजाबभूवुरुन्निद्रसरोजसन्निभाः ॥११॥तदा विमानं हरिणा त्वधिष्ठितंपुष्पाब्जलक्षैः कुसुमायनं ह्यभूत्॥विचित्रजातीयसुमाधिवाटिका-भ्रमोद्वहं मन्दरशृंगमीक्षितम् ॥१२॥हरिस्तदाऽभूत् खलु पुष्पवृक्षःसर्वौषधिमिश्रणगुच्छशोभः ।निजाक्षरस्याननगह्वराद्वाविनिष्क्रमन्नक्षरमुक्तशोभः ॥१३॥धृतोऽच्युतेनाऽच्युतहीरकान्वितःसुवर्णमाणिक्यसुरत्नमुक्तवान् ।किरीटवर्यो निजमूर्ध्नि कल्गियुग्यथास्थितः संशुशुभे दिवस्पतिः ॥१४॥निसर्गजाऽसंख्यकरश्मिजालवान्मुखाभितेजः परिधिः समन्ततः ।सहस्रभावृत्तनिशांपतिः स्थितोह्यभिन्नतायाः स्मृतिमातनोत्यपि ॥१५॥विशालभालं सितकैसरद्वयो-र्ध्वरेखयुक्सत्तिलकेन भायुजा ।जनेभ्य आवेदयति द्विमार्गकौसुरेश्वरस्याऽक्षरधामकस्य च ॥१६॥नेत्रे विशाले च मनोहरे प्रियेसुचञ्चले प्रेमभरेऽतिमञ्जुले ।अनन्तवात्सल्यविवर्षिणी हरे-स्तदा विभिन्नाङ्गितबोधिनी मते ॥१७॥प्रवालरक्तायनकाधरौ हरेःसानन्दमन्दस्मितसंभृतौ तदा ।आकर्षणं चाऽऽदधतश्च योषितांसमस्तभावैर्मनसां तथाऽऽत्मनाम् ॥१८॥सुवर्तुलौ कुंकुमरंगसंस्पृशौसमुन्नतौ कान्तिविलासिनौ हरेः ।आनन्दपूर्णौ मणितुल्यभास्वरौमृदू समास्तां हृदयंगमौ शुभौ ॥१९॥अदक्षहस्तो धृतपुष्पगुच्छकोवरप्रदोऽभूच्च तदा समुन्नतः ।धनुर्ध्वजस्वस्तिकशूलमत्स्यका-ऽऽबाणाढ्यदक्षोऽभयदः करोऽभवत् ॥२०॥विशालवक्षःस्थलशोभिचञ्च-न्नवीनवैचित्र्यसुपुष्पमालाः ।सम्मिश्रणं प्राप्य च कौस्तुभेनश्रियो मुखं वक्षसि दर्शयन्ति ॥२१॥स्कन्धौ दृढौ पुष्पसुमालिकाभि-र्व्याप्तौ तथा कर्णसुकुण्डलाक्तौ ।रत्नत्विषा पारवतीप्रभे चराधारमेऽदर्शयतां भुजस्थले ॥२२॥तदोदरं दिव्यसुपुष्पहारै-श्छन्नं हरेर्व्यंजयति प्रजाभ्यः ।हारात्मनिःश्रेणिकया विशन्तुवक्षःस्थले भक्तियुजो मदूर्ध्वम् ॥२३॥असंख्यदासीपरिसेवितांऽघ्रि-द्वयं व्यराजत् स्थलपद्मकाभम् ।जनप्रवाहैः सततं नतं चाऽऽ-नन्यप्रदं स्वल्पसमर्पितस्य ॥२४॥हरिस्तदा भूपतिभिस्तु सम्राड्राजा प्रजाभिश्च गुरुः प्रशिष्यैः ।सद्भिश्च साधुः प्रमदाभिरिष्टोदीनैश्च दाता कविभिः पुराणः ॥२५॥प्राप्यश्च भक्तैरणुरेव योगिभिःरूपप्रियाभिर्नटवर्यवेशकः ।कान्तः सतीभिः ऋषिभिश्च वैदिकोमनोहरः सर्वजनैरपेक्षितः ॥२६॥सोपानमार्गेण हरिर्हसन् शनै-रवाततारेश्वरपुष्पवार्ष्टितः ।पुरांगनाद्यक्षतवर्धितो जनै-र्जयध्वनिश्रावित आप्तकामनः ॥२७॥प्रदर्शयन् नैजजनूँषि वै मुहुःसोपानकेभ्यः समवाततार ह ।राजा सृतौ कौशिककोमलाम्बरंसमास्तरत्पादनिधानकक्रमात् ॥२८॥यत्राऽभवच्छोभनकानको रथःशतैकसौवर्णघटाधिशृंगवान् ।अष्टैकचक्रातिसुवेगवानपिचतूरदैर्वारणसप्तकैर्युतः ॥२९॥मध्ये परीभिः परितः परीभिःसुराङ्गनाद्यर्पितमालिकाभिः ।भ्रसन्मुखाभिः प्रियसुन्दरीभिःशृंगारितः पुष्पविमानतुल्यः ॥३०॥राजा परीशानक एव तं हरिंनिनाय तूर्णं सकुटुम्बकं प्रभुम् ।रथे समारोहयदीश्वरेश्वरंन्यषादयत् कानकवारणासने ॥३१॥पुपूज हारैर्विविधैर्विचित्रैःसुगन्धिसारैः सुमचन्दनैश्च ।लाजाऽक्षतैः शीतसुगन्धिवार्भिःसौवर्णभूषाभिरमूल्यवस्त्रैः ॥३२॥ददौ च राजा सुरवालमुत्तमंकौशेयमप्युत्तमरुक्मबुट्टुकम् ।तथा ददौ कञ्चुकमुज्ज्वलं तथा-विधं महाभूपतिधार्यमुत्तमम् ॥३३॥ददौ च हीराञ्चितरत्नराजिभिः. समन्वितं सन्मुकुटं सकल्गिकम् ।ददौ विभूषाश्च सुवर्णवैकृतादधार सर्वान् भगवान् परेश्वरः ॥३४॥पपौ जलं श्रीहरिपादधौतंदधार मूर्ध्नि स्वकुटुम्बयुक् च ।हरिर्ददौ कण्ठगतां सुमालांगुच्छं च राज्ञे स्वकृपाभिशंसम् ॥३५॥जनास्तु लक्षाधिकगौरमूर्तयःसुरालयात् किं सुगतास्तदाऽभवन् ।चन्द्राभशोभाः खलु शुक्लवर्णकाःसुपिंगनेत्रास्तनुदीर्घयष्टयः ॥३६॥गौर्यश्च कन्या प्रमदा युवत्योवृद्धा अपि स्वल्पनिगूढदेह्य ।समानरङ्ग्यो धृतचित्रछत्र्योविवृत्तकेश्यश्च पिशंगनेत्र्यः ॥३७॥संलग्नवेषा मृदुशोणकान्तिकाःसुसूक्ष्मपार्ष्णिभ्रमिपादरक्षिकाः ।सुकुण्ठितान्ताम्बरदृश्यवर्णिकागौर्यः प्रगौर्योऽप्यभवन् सुहर्षिताः ॥३८॥नेदुर्महादुन्दुभयस्तदानींव्यंगूलवाद्यानि मयूरकाणि ।विपञ्चिका वंशनिनादकानिवीणास्तथा बन्दिकतूर्यकाणि ॥३९॥जयप्रणादा ह्यभवँस्तदाऽभितोयशोगुणानां बहुकीर्तनान्यपि ।सहस्रकण्ठस्वरमिश्रितान्यपितदाऽभवन् गीतिककीर्तनान्यपि ॥४०॥सहस्रशो यान्त्रिकबन्धुकीकृता-स्तूपीकृता गोलकभेदनैः कृताः ।शब्दाः सुकर्ण्याश्च तदाऽभवन् शुभाःओंनादमाप्ताः परमेशबोधकाः ॥४१॥महामहासैन्यकृता निनादाःप्रहर्षशब्दा व्यगमन् ककुत्सु ।गजाभिनादास्तुरगाभिनादाव्यानेशिरे ब्रह्मगमा विदिक्षु ॥४२॥दन्तिप्रगन्त्रीमनु गन्त्र्य आशुविमानतुल्याः शतशः सहस्रम् ।श्रीबालकृष्णानुगरोहिताश्चा-ऽगच्छन् शनैस्तुल्यसुशोभिताश्च ॥४३॥ध्वजापताकोत्तमवावटाद्यैःसौवर्णशृंगैः कलशैरनेकैः ।दिव्यातिदिव्यैरभितोरणैश्चरथा अशोभन्त महर्षियुक्ताः ॥४४॥परीप्रभाभाससमूर्ध्ववर्णाब्रह्मप्रियाः काञ्चनचारुभास्यः ।सौवर्णयानेषु विराजयन्त्योगोलोकवैकुण्ठमतिं नयन्ति ॥४५॥तदा जना दर्शनकारिणस्तेनराश्च नार्यो मुमुहुर्हरौ वै ।रूपानुरूपावयवेतिरम्येगोपालबाले ह्यति काम्भरेये ॥४६॥तदाऽश्ववारी खलु योजनायता-ऽभवज्जनानामतिमर्दसंकुला ।अनेकहस्त्यश्वकरेणुकर्षभै-र्हंसैः प्रगेण्डैर्गरुडैर्गवेयकैः ॥४७॥यानैर्विमानैरनसोभिरुत्तमै-र्वाष्पोपयानैश्चरणाभियायिभिः ।सद्भिर्नृपै राजकुमारकैः प्रजा-जनैः समस्तैर्नगरीनिवासिभिः ॥४८॥आर्षैर्जनैः सद्गुरुसांख्ययोगिभिःपतिव्रताभिः परमाश्रमादिभिः ।गांगेयकैः रौद्रगणादिभिस्तथा-ऽश्ववारिका सैन्ययुता हि शोभते ॥४९॥निशम्य विज्ञाय पुरान्तरस्थानरा विलासिन्य अपीश्वरेशम् ।ससंभ्रमं त्यक्तसमस्तकार्याद्रष्टुं हरिं यान्ति बहिर्गृहेभ्यः ॥५०॥तद्दर्शनात्युत्सुकमानसास्तेघण्टापथान्ते कृतपंक्तिदुर्गाः ।अन्योन्यसम्मर्दितदेहभागाविलोकयामासुरुदग्रनेत्राः ॥५१॥स्थितास्तु मार्गे ह्यपि विप्रकष्टेनिशम्य वादित्रनिनादमुच्चैः ।हर्यागमाशैकनिबद्धनेत्राःसमुच्छ्रिताः प्राञ्जलयः प्रणेमुः ॥५२॥सौवर्णछत्रेण सुचामराद्यैःसाम्राज्यचिह्नैः सुविराजमानः ।पुरीं ददर्शाऽद्भुतभूरिशोभांसुसंस्कृतां सर्वरसैः प्रपूर्णाम् ॥५३॥सुगन्धिवार्भिश्च मदैर्गजानांसंसिक्तघण्टापथचत्वरां च ।सुस्वस्तिकैः स्वर्णघटैश्च रंभा-स्तम्भै रसालादिदलैः सुशोभाम् ॥५४॥पुष्पाक्षतैः कृत्रिमगोपुरैश्चमहोच्चदुर्गाढ्यसुगोपुरैश्च ।तथोच्चसौधैर्बहुभूमिकैश्चसोद्यानभागैरतिशोभमानाम् ॥५५॥गृहे गृहे पुष्पितवल्लिकाभिःसुगन्धितैः पल्लवितैर्द्रुमैश्च ।कुण्डस्थमूलैः स्तबकैः सुमाढ्यै-र्युतां च सस्याढ्यसुवाटिकाभिः ॥५६॥सरोवरैर्मध्यसुपट्टभूमि-श्चारामभूमिश्च विहारभूमिः ।व्याख्यानभूमिर्नटिकादिभूमिःप्रदर्शनै रंजनकैर्युतां च ॥५७॥कलाप्रशालाभिरनन्तिकाभि-र्भिषक्प्रशालाभिरभीष्टिकाभिः ।रसप्रशालाभिरवन्तिकाभिःसद्धर्मशालाभिरतीव युक्ताम् ॥५८॥विद्याध्रशालाभिरनुग्रिकाभिःसङ्गीतशालाभिरमीतशोभाम् ।सत्संगशालाभिरभीष्टमोदांयन्त्रादिशालाभिरजस्रघोषाम् ॥९९॥नक्षत्रवेधैर्घनवेधकैश्चसामुद्रवेधैर्ग्रहवेधकैश्च ।विदेशवेधैः समयप्रवेधै-र्वायुप्रवेधैः समतत्त्ववेधैः ॥६०॥उष्णप्रवेधैः सहितां प्रशीत-वेधैर्घटीवेधकयन्त्रयुक्ताम् ।विद्युत्प्रवेधै रसवेधकैश्चस्वरादिवेधैश्च प्रदर्श्यवेधैः ॥६१॥गन्त्रीप्रवेधैः शकटीप्रवेधैर्देहप्रवेधैः पृथिवीप्रवेधैः ।जलान्तवेधैः सहितां सुशोभांविज्ञानधां तां नगरीं ददर्श ॥६२॥विमानसंघैः सततं रवाढ्यांपरीसमाभिः प्रमदाभिराप्ताम् ।व्योमान्तचुम्ब्यूर्ध्वसुभौमशालांद्यां चापरां तां नगरीं ददर्श ॥६३॥शृंगारितां चागुरुधूपदीपै-र्ध्वजैः पताकाभिरभीष्टभाव्याम् ।जलस्रवाभिर्नलनालिकाभि-स्तारैः स्वनाकर्षणकारिभिश्च ॥६४॥दूरश्रवैस्तारकदीपकैश्चस्थले स्थले मानससंहरां च ।परीशनाम्नीं भगवान् ददर्शसुरांगनामंदिरशोभितां च ॥६५॥तां सम्प्रविष्टं सुमनोहरांगं पूर्णेन्दुतुल्यं नवयौवनाढ्यम् ।स्वर्णातपत्रेण च चामराभ्यांसम्मानितं तं ददृशुः प्रजाश्च ॥६६॥आरुह्य हर्म्याणि परीस्त्रियस्तदाससंभ्रमास्त्यक्तसमस्तवृत्तिकाः ।व्यत्यस्तवस्त्राभरणा गवाक्षकैःस्थिरेक्षणास्तं ददृशुः परं प्रियम् ॥६७॥स्थले स्थले सौधकवल्लभीगत-स्त्रीमण्डलैरक्षतपुष्पचन्दनैः ।संवर्धितः श्रीपतिरीश्वरेश्वरोजग्राह तासां हृदयार्पितार्पितम् ॥६८॥तथैव हट्टाग्रकृतेक्षणास्तदावणिक्जना माननमस्य वै व्यधुः ।नारीफलैः शुष्कफलैश्च बीजकै-र्मुद्राभिरिष्टाभिरथाम्बरादिभिः ॥६९॥विप्रास्तदा साक्षतचन्दनाद्यैःपुष्पीयहारैरभिवादनाद्यैः ।वेदस्थमन्त्रैः सुभगां प्रचक्रु-रुच्चैश्च सामानि जगुः सहर्षाः ॥७०॥धनाढ्यवर्गा धनदानकैश्चदीना जना मानसदानकैश्च ।भक्ता जना भक्तिसमर्पणैश्चहरेस्तदा स्वागतकं व्यधुश्च ॥७१॥राजा नगर्यां परितः ससैन्यकःप्रभुं समभ्रामयदन्तसीम्निकाम् ।पुरीं विलोक्यैव हरिः प्रशासनंव्यधात् परीशानपुरीप्रशंसनम् ॥७२॥नृपस्य सौधे च महर्षिकुट्यांश्रेष्ठिप्रधानादिकमन्दिरेषु ।विधाय पद्भ्यां बहुपावनीं क्ष्मांपुरीं सुतीर्थं प्रचकार कृष्णः ॥७३॥एवं परिभ्रम्य निवर्तनं व्यधाद्राजाधिराजो नृपमन्दिरं प्रति ।आगत्य यानाद् बहिरेत्य मन्दिरंप्रति प्रपन्नोऽभवदिष्टशान्तये ॥७४॥जलं पपौ शान्तिमवाप वै क्षणंततः सभायां समुपाजगाम च ।उच्चासने राजकृते विधापितेविराजमानोऽभवदच्युतस्तदा ॥७५॥उपादिदेशाऽथ जनान् नृपादिकान्परावरेशो जगदुद्धृतिस्थितिः ।तूष्णीं न्यषीदन् सकलाः प्रजाजनाराधे चकोरा इव चन्द्रमानसाः ॥७६॥दधुर्मनांसीन्द्रियवृत्तिका हरौसमस्तकान्ते निजभक्तकान्तिदे ।सदा सुधावर्षिणि साधुवृत्तिकेनिजात्मकान्ते प्रियकृष्णवल्लभे ॥७७॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रजानां सम्मर्दो हरेः शोभा गजयानारोहणं प्रजानामाकर्षणं परीशानानगर्या भ्रमणं राजसौधागमनं चेत्यादिनिरूपणनामा सप्ताशीत्यधिकशततमोऽध्यायः ॥१८७॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP