संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २२० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २२० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२० Translation - भाषांतर श्रीकृष्ण उवाच-ततो वै राधिके कृष्णनारायणो महाप्रभुः ।सज्जो भूत्वाऽर्हणां लब्धाऽम्बरे विमानगोऽभवत् ॥१॥कुटुम्बं च विमाने चाऽभवन्महर्षिसंयुतम् ।ब्रह्मप्रियाद्याः सर्वाश्च निषेदुस्तद्विमानके ॥२॥कर्णफालऋषिश्चापि विमाने हरिणा सह ।न्यषीदच्च नृपस्त्रेताकर्कशस्तु विमानके ॥३॥निजे चारुह्य शीघ्रं वै प्राग् ययौ स्वागतार्थकः ।हरेर्विदाये वाद्यानि त्ववाद्यन्त प्रजारवाः ॥४॥जयकीर्तनरागाश्चाऽभवन् दिगन्तघोषिणः ।प्रससार विमानं तु क्षणान्तरे ह्यवाप ह ॥५॥बालावित्तकराष्ट्रं वै त्वम्बरे द्योततेऽर्कवत् ।त्रेताकर्कशनृपतिः स्वागतं त्वाचरत्तदा ॥६॥वाद्यैर्निनादैर्गीत्याद्यैः प्रजानां हर्षनादनैः ।जयशब्दैः सैन्यवाद्यैर्नमनैः पुष्पकाऽक्षतैः ॥७॥ऋषिदर्शितमार्गेणाऽवातारयद् विमानकम् ।हरिस्तूर्णं विमानाद्वै बहिश्चाग्रे समाययौ ॥८॥स्वर्णबृस्यां निषसाद राजा तं समपूजयत् ।स्वर्णहारैरम्बराद्यैश्चन्दनाक्षतसत्फलैः ॥९॥राज्ञी पादौ जलैश्चाभिषिञ्च्य पपौ जलामृतम् ।प्रजाः पुपूजुरीशेशं हरिर्दुग्धं पपौ तदा ॥१०॥महीमानान् समस्तांश्च पाययामास सत्पयः ।भूपतिश्च तदा राज्ञी पाययामास योषितः ॥११॥अथ सैन्यं महाशोभं तदा शृंगारितं ह्यभूत्॥नगर्यां ब्रह्मणार्थं वै राजोद्यानमुखात्पुरः ॥१२॥महास्वर्णरथे कृष्णं शतैकवृषयोजिते ।न्यषादयन्महाराजस्त्रेताकर्कशभूपतिः ॥१३॥शतैकस्वर्णकलशैश्चैकविंशतिचक्रके ।बहुविस्तारके राजपथमात्रप्रवाहणे ॥१४॥हरिणा सह मुनयः ऋषयः पार्षदास्तथा ।भ्रातरश्च तथा राजा नृपस्यापि कुमारकाः ॥१५॥निषेदुस्त्वन्यरथगा ब्रह्मप्रियास्तदाऽभवन् ।वाद्यघोषैश्च नगरे वाहिनी सा विवेश ह ॥१६॥जयशब्दाः प्रजानां वै तदाऽभवन् समन्ततः ।पुष्पवृष्टिः फलवृष्टिश्चन्दनानां कणार्पणम् ॥१७॥स्वर्णमुद्रार्पणं हारार्पणं पुष्पातिसारणम् ।नमनं दर्शनं दानं पूजनं च व्यधुः प्रजाः ॥१८॥अमरीणां गोतयश्चाऽभवन् व्योमाभिबोधनाः ।दिव्यभावयुता नार्यो वर्धयामासुरच्युतम् ॥१९॥प्रधानाः श्रेष्ठिनश्चापि प्रजाश्च परमेश्वरम् ।पुपूजुः सर्वरत्नाद्यैर्भावनाभिः स्थले स्थले ॥२०॥फांकलाशीनगर्यां संभ्रमित्वैवं नृपालयम् ।समाययौ नृपस्तत्र पुपूज परमेश्वरम् ॥२१॥स्वर्णसिंहासने रम्ये न्यषादयत् प्रभुं मुदा ।कर्णफालऋषिर्न्यराजयत् कृष्णं परात्परम् ॥२२॥राज्ञी कृष्णस्य तिलकं कुंकुमेनाऽक्षतैस्तथा ।केसरेण व्यधात् हारं सुवर्णस्य ददौ गले ॥२३॥युवत्यः कन्यकाः सप्त राज्ञ्या कृष्णं मनोहरम् ।वीक्ष्य निश्चित्य हृदये कान्तं व्यधुः पतिं तदा ॥२४॥मात्राज्ञया वरमालाः कृष्णकण्ठे न्यधुर्मुदा ।आरार्त्रिकं प्रचक्रुश्चार्पिता इति जगुर्मुहुः ॥२५॥राज्ञी राजा प्रसन्नौ च कृतकृत्याश्च कन्यकाः ।अभवन् राधिके मोक्षे प्राप्यः प्राप्तोऽत्र माधवः ॥२६॥उत्सवं नृत्यगीताद्यैर्नृपश्चक्रे दिने तथा ।अनादिश्रीकृष्णनारायणश्चोपादिदेश ह ॥२७॥मानवस्य तु देहस्य प्राप्तेः फलं सुखं हरेः ।भक्त्युत्तरं महामुक्तिः सेवा सतां फलं महत् ॥२८॥अरागद्वेषभावश्च सदा कृष्णकथारुचिः ।तितिक्षा च विवेकश्च यस्य सः स्यात्सुखी जनः ॥२९॥अरागता सुखं श्रेष्ठं द्वेषाभावः प्रशान्तिदः ।सुखं स्वपिति निर्विण्णो निर्द्वेषः क्षमया युतः ॥३०॥यः कामानाप्नुयात् सर्वान् यश्च कामान् परित्यजेत् ।तयोस्त्यागी महासौख्यं विन्दति न तु सर्ववान् ॥३१॥नान्तं गतोऽस्ति कामानां पूर्वः कश्चिन्न चाऽपरः ।गमिष्यतीति तृष्णायाः क्षयात् प्रसाधयेत् सुखम् ॥३२॥भुक्तमुक्तस्य कामस्य नान्तं गच्छति कश्चन ।सञ्चितस्य धनस्यापि नान्तं गच्छति कश्चन ॥३३॥त्यक्त्वा सर्वसमारंभान् सुखमाप्नोति मानवः ।अधनस्य भवेद् रागो लब्ध्वा तु वर्धते पुनः ॥३४॥लब्धनाशे तु मृत्युः स्याद् यद्वा शोचति नित्यशः ।पुनर्लब्धं न भवति ततो दुःखतरं नु किम् ॥३५॥न हि तुष्टिस्तु लब्धेन भूय एव च मृग्यति ।अनुतर्षुल एवात्र दुःखी स्याद्वै मुहुर्मुहुः ॥३६॥धननाशेऽधिकं दुःखं सर्वेभ्यश्चाऽवमाननम् ।धने सुखकला या सा सहस्रदुःखमातृका ॥३७॥धनवन्तं विनिघ्नन्ति दस्यवोऽन्ये हरन्ति च ।तस्मादाशां परित्यज्य माधवं समुपाश्रयेत् ॥३८॥निर्वेदं च निवृत्तिं च तृप्तिं शान्तिं क्षमा दमम् ।आश्रयेच्चापि सन्तोषं सा स्यात् सुखी सदाऽत्र वै ॥३९॥कामं लोभं च तृष्णां च स्पृहां कार्पण्यमित्यपि ।त्यक्त्वा भवेज्जनो लोके सुखी मुक्तो जनो यथा ॥४०॥स्वीयप्रकाशं पप्रच्छ भगवान् नारदः पुरा ।कथं त्वं वर्तसे ब्रह्मन् सुखे यत्र न शोचनम् ॥४१॥यदा यदा तु पश्यामि तदा तदा सुखेऽसि वै ।न शोके वै मया दृष्टः किमत्र कारणं वद ॥४२॥स्वीयप्रकाशस्तं प्राह शृणु विद्वन् मतिं मम ।सदा पश्यामि सुखिनं कथं किं सुखमस्य नु ॥४३॥साधनं चास्य वै कीदृक् कथं चास्ते सुखी तथा ।वृषभः शकटीं कर्षन् मया पृष्टः कथं सुखी ॥४४॥स चाह मे न वै चिन्ता भोज्यवस्त्रगृहादिभिः ।कर्षुकेण धृता सा तु मद्बलाधीनवर्तिना ॥४५॥तथाऽहं त्रिविधार्थं सञ्चिन्तयामि न सर्वथा ।तस्मात् सुखी सदा चास्मि भोज्यवस्त्रगृहादिभिः ॥४६॥सत्रभोजी मया पृष्टः कथं त्वं वर्तसे सुखी ।स चाह मेऽन्नपूर्त्यर्थं धनं चार्जयते धनी ॥४७॥अपरोऽयं पाचयित्वा मह्यं ददाति नित्यशः ।ततो धनान्नपाकानां चिन्ता मे नास्ति सर्वथा ॥४८॥तद्विचार्य मया सापि क्रियते न वृथा यतः ।शुकः पृष्टो मयाऽरण्ये किं त्वं प्रमोदसे वने ॥४९॥स चाह मे न बन्धोऽस्ति यत्र क्वापि चरामि वै ।नीडे वा गृहनाले वा स्वपिम्यपि यथामनः ॥५०॥उड्डीयाऽऽरण्यकं गत्वा भक्षयामि फलादिकम् ।नास्ति चिन्ता सञ्चयस्य नास्ति मे रक्षणस्य च ॥५१॥नास्ति गृहादिचिन्ता वा कुटुम्बं नास्ति मे यतः ।तस्मात्सुखी प्रमोदेऽहं सदा चिन्ताविवर्जितः ॥५२॥तद्विचार्य मया सापि त्यक्ता निर्बन्धनोऽस्मि च ।अथ पृष्टो महा सिंहः कथं सुखी विभाससे ॥५३॥स चाह भोजनं दैवगत्या प्राप्य त्र्यहान्तरे ।न मे हन्ता वने कश्चिदिति मत्वा स्वपिम्यहम् ॥५४॥तद्विचार्य मया भीतिः कालादेः परिवर्जिता ।तस्मात् सुखी निर्भयश्च विचरामि स्वपिम्यपि ॥५५॥सुखं जीवन्ति मुनयः परब्रह्मसमाश्रिताः ।ह्रासं वृद्धिं विनाशं चोद्भवं भूतगतानिमान् ॥५६॥न मां लुम्पन्ति मत्वैवं विचरामि सदा सुखी ।संयोगान् विरहान्ताँश्च संचयान् शीर्णतान्नकान् ॥५७॥उत्पन्नान् चान्तयुक्ताँश्च ज्ञात्वा शोचामि नैव च ।शयनं निद्रया व्याप्तं रोदनं हानिलेपितम् ॥५८॥हर्षणं प्राप्तिसञ्जन्यं त्रयं त्यक्त्वा सुखी सदा ।सती शंभोः मया पृष्टा पराधीना कथं सुखा ॥५९॥साऽऽह मां वै मया दार्ढ्यं कृतं स्वामिनिदेशनम् ।मम धर्मो न चान्योऽस्ति ममानुकूल एव सः ॥६०॥अतो मया महत्सौख्यं स्वामिन्येवाऽनुभूयते ।तद्विचार्यं मया चेशे परमेशेऽनुकूलता ॥६१॥सर्वविधा कृता चास्ते पातिव्रत्यविधोत्तमा ।आत्मनिवेद्यहं कृष्णनारायणे परेश्वरे ॥६२॥तस्येच्छा मम भाग्यं वै भाग्यचिन्ताऽर्पिता हरौ ।विशेषतश्च तेनाऽहं सुखी सुखाश्रयेण वै ॥६३॥श्रुत्वैवं नारदश्चापि जग्राह तादृशीं स्थितिम् ।सुख्यभूच्च सदा लोके निरालम्बश्चरन् मुनिः ॥६४॥स्वीयप्रकाशो भगवान् सनत्कुमारकस्तथा ।लोमशर्षिस्तथा शंभुः सुखिनस्ते हि शाश्वताः ॥६५॥इन्द्रियाणि तदर्थाश्च वशे येषां भवन्ति वै ।ऐश्वर्याणि च भूतानि वशे येषां भवन्ति वै ॥६६॥चमत्काराः सिद्धयश्च वशे येषां भवन्ति वै ।कालः कर्म स्वभावश्च माया येषां वशे सदा ॥६७॥आत्मा वशे च येषां वै ये वशे परमात्मनः ।ते सदा सुखिनः सन्ति सृष्टौ वाऽक्षरधामनि ॥६८॥सती रमा ब्रह्मप्रियास्तथा मुक्तास्तथाविधाः ।सुखिनः शाश्वताश्चैते हर्यर्थात्मनिवेदिनः ॥६९॥तस्मात्सर्वैर्हरेर्वश्यैर्भाव्यं नान्यवशानुगैः ।हरिः शाश्वतसुखवान् सुखीकरोति सेवकान् ॥७०॥इत्युपादिश्य भगवान् ददौ मन्त्रान् ततः परम् ।उपारराम नृपतिस्त्वानर्च राधिके हृरिम् ॥७१॥तावत्तत्र विमानेन प्रार्थनार्थं समाययौ ।अधश्चिलीराष्ट्रशास्ता आण्डजराख्यभूपतिः ॥७२॥मन्त्राग्निकर्षिसहितो नमाम बहुभावतः ।लब्धस्वागतसम्मानोऽर्थयास हरिं नृपः ॥७३॥भगवन्मे पुरीमन्तःप्रागस्थां पावय प्रभो ।तथास्त्विति हरिः प्राह सज्जस्तूर्णो बभूव ह ॥७४॥त्रेताकर्कशराजा च विदायं यौतकं ददौ ।सैन्येन च व्यधात् कृष्णनारायणस्य माननम्॥७५॥हरिः कुटुम्बसहितो विमाने चाऽम्बरेऽभवत् ।मन्त्राग्निकर्षिसहितस्तथा सार्थसमन्वितः ॥७६॥राजा चाण्डजराभूपः पूर्वं स्वागतकार्थकः ।ययौ राष्ट्रं तदा तूर्णं सैन्यं प्राक् समसज्जयत् ॥७७॥तावद्धरिः समायातो विमानवरवाहनः ।दृष्ट्वा प्रजाजनाः कृष्णनारायणो जयत्विति ॥७८॥हर्षनादान् जयनादान् तूर्यनादान् प्रचक्रिरे ।राजदर्शितमार्गेण ऋषिणा सह माधवः ॥७९॥उद्यानेऽन्तःप्रागस्थाया नगर्याः सन्निधौ निजम् ।शृण्वन् स्वागतघोषाँश्चाऽवतारयद् विमानकम् ॥८०॥आययौ श्रीहरिस्तूर्णं विमानाग्रे बहिस्तदा ।चिल्ल्यो नार्यो हर्षनादैः श्रीपतिं कृष्णवल्लभम् ॥८१॥चिरंजीवेति वचनै रक्षरक्षेतिभावनैः ।सुखं देहीति हृदयैर्वर्धयामासुरच्युतम् ॥८२॥राजा पूजां चकारादौ चन्दनाऽक्षतपुष्पकैः ।राज्ञी पूजां चकाराऽपि प्रजा नेमुश्च भावतः ॥८३॥ततो राजा बालकृष्णं न्यषादयन्महागजे ।स्वर्णाम्बालिकया युक्ते तथाऽन्याश्च रथादिषु ॥८४॥हारगुच्छार्चितान् सर्वान् ससैन्यो भूपतिस्तदा ।निन्ये स्वां नगरीमन्तःप्रागस्थां च विभूषिताम् ॥८५॥भ्रामयितुं राजमार्गे वाद्यकीर्तनगीतिभिः ।गोपुरेऽपूजयत् कृष्णं प्रधानाः श्रेष्ठिनस्ततः ॥८६॥चत्वरादौ धनाढ्याश्चापणेषु पणिनस्तथा ।रथ्यामुखेषु चिल्ल्यश्च नार्यो भावभरास्तदा ॥८७॥पुपूजुः परमात्मानं हारचन्दनकुंकुमैः ।अक्षताद्यैः फलैर्नारिकेलाद्यैः शर्करादिभिः ॥८८॥कृतकृत्याश्चाभवँश्च वीक्ष्य प्रपूज्य माधवम् ।ततो राजाऽऽनयत् कृष्णं निजं विशालमन्दिरम् ॥८९॥आरार्त्रिकं चकाराऽथ मुकुटं मस्तके ददौ ।कण्ठे सौवर्णरत्नानां हारान् ददौ नृपस्तदा ॥९०॥चरणामृतपानं च प्रचकाराभिपूज्य च ।कृतार्थोऽस्मीत्युवाचाऽथ राज्ञी पूजां व्यधापयत् ॥९१॥सुवर्णमुद्रास्थालं श्रीहरेश्चरणयोर्न्यधात् ।चन्दनाऽक्षतपुष्पाद्यैरानर्च परमेश्वरम् ॥९२॥अस्यास्तु कन्यकाश्चिल्ल्यो युवत्यो भक्तिसंयुताः ।चतस्रोऽपि हृदि कृत्वा मात्राज्ञया तु मालिकाः ॥९३॥हरेः कण्ठे न्यधुर्हृष्टाश्चार्पणविधिना पतिम् ।प्राप्य कृतार्थकार्यास्ता बभूवुर्भाग्यनोदिताः ॥९४॥राजा चातिप्रसन्नोऽभून्महोत्सवमकारयत् ।हरिश्चोपादिदेशाऽथ राधे प्रजाजनान् निशि ॥९५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आश्विनकृष्णद्वितीयायां प्रातः फान्कलाशीनगर्यां गमनं भ्रमणं पूजनं भोजनमुपदेशनं विदायं मध्याह्नोत्तरम्आण्डजरानृपरैष्ट्रगमनम् आन्तःप्रागस्थानगर्यां भ्रमणं पूजनं चेत्यादिनिरूपणनामा विंशत्यधिकद्विशततमोऽध्यायः ॥२२०॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP