संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २९९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २९९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २९९ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! गन्तुं समये सर्वकन्यकाः ।मातृभिः पितृभिः परिरब्धाः स्नेहभृतान्तराः ॥१॥वियोगाऽश्रूणि संस्राव्य मौनं वै जडवत् स्थिताः ।दिव्याश्च दिव्यदेहाश्च पूर्वतोऽब्जगुणोदिताः ॥२॥वीक्ष्य सम्बन्धिनां चासु स्नेहं चाऽभ्यधिवर्धितम् ।सोढुं तेषां वियोगं चाऽशक्ता मनाक् तदाऽभवन् ॥३॥तदा तन्मातरः पुत्रीर्वीक्ष्य वियोगदुःखिताः ।मुग्धास्ता अर्थयामासुर्मातरो बालकृष्णकम् ॥४॥सह नेतुं निजाः पुत्रीः स्वल्पसमयमेव ह ।विलोकयितुं राष्ट्रं स्वं कुटुम्बिनः सुहृज्जनान् ॥५॥वीक्षार्था स्वसृसहजा उदारं श्रीहरिं मुहुः ।प्रभो प्रेषय नः पुत्रीर्नः सुखार्थहेतवे ॥६॥पुनः शीघ्रं च मासान्ते प्रेषयिष्याम तारिह ।सेवायां तव भो कृष्ण कृपालोऽर्थितमावह ॥७॥हरिः प्राह तथास्त्वेव तासां वाप्सल्यहेतवे ।सर्वा आज्ञापयामास गन्तुं मात्रादिभिः सह ॥८॥प्रसन्नास्तास्तदा सर्वाः श्रुत्वा प्रभोरुदारताम् ।सहसा ताः हरिं गत्वा नेमुः सस्वजिरे प्रभुम् ॥९॥द्रुतं समागमिष्यामश्चेत्युक्त्वाऽप्यन्तसेवनम् ।क्षणं चक्रुस्तृप्तिदं वै पुनरागमनाय ताः ॥१०॥स्वकान्तं ता मुहुः संसेव्य च सज्जा विभूषिताः ।शृंगारिता ह्यभवँश्च पुपूजुः परमेश्वरम् ॥११॥पितरं मातरं विष्णोः स्वसारं पूज्ययोषितः ।सर्वा वृद्धान् कुटुम्बस्थान् नत्वाऽऽभाष्य सुखागतम् ॥१२॥सुखायतिं प्रभाष्याऽपि योग्योचिताम्बरान्विताः ।योग्यभूषा विमानान्यारुरुहुः स्वामिनिर्देशिताः ॥१३॥आगन्तव्यं चेत्युवाच सर्वा वै भगवाँस्तदा ।मुमोचाऽश्रूणि विश्वात्मा मायया चाऽप्यमायिकः ॥१४॥तदा वाद्यान्यवाद्यन्त पूष्पाक्षतैश्च पूजनम् ।विमानानामभवच्च कृतं सौभाग्यिकादिभिः ॥१५॥ऋतवो धर्मदेवश्च नरो देवी च पीठिका ।मही च मण्डपो मुक्तो माणिक्यस्तंभ इत्यपि ॥१६॥सुदर्शनं तथा चक्रं हरो गणाधिनायकः ।नव ते दर्शनार्थं वै मातॄणां समुपाययुः ॥१७॥कृतवन्तो दण्डवच्च क्षन्तव्याः क्षेत्रपालकाः ।इत्युक्त्वा स्थितवन्तश्च तदा तेभ्यो हरिस्तथा ॥१८॥हरिप्रियाः समस्ताश्च वासुदेवादयोऽपि च ।आशीर्वादान् प्रददुश्च ददुश्च पारितोषिकम् ॥१९॥रत्नान्यनेकरूपाणि हीरकादिस्रजस्तथा ।मुकुटानि सुरम्याणि पात्रभूषाम्बराणि च ॥२०॥नामपट्टानि सौवर्णाक्षरयुक्तानि वै तथा ।धनानि चोपकरणान्युत्तमानि शुभानि च ॥२१॥ते संगृह्य सुखापन्नाः सञ्जाताः क्षेत्रदारकाः ।व्यंगुलानां तदा शब्दा यन्त्रशब्दास्तथाऽभवन् ॥२२॥भेरीशब्दा जयशब्दाश्चाभवन्नम्बरेऽभितः ।कन्यका हर्षिताः पितृविमानेषु स्थितास्तदा ॥२३॥अश्वपट्टसरःक्षेत्रे कान्तं विलोकयन्त्यपि ।लोमशं पुष्पवृष्ट्या च प्रणामैश्चाप्यपूजयन् ॥२४॥अथाऽम्बरे विमानानि गतिमन्त्यभवँस्ततः ।कोट्यर्बुदाब्जकन्यास्ताः सर्वाः पित्रादिभिः सह ॥२५॥काशीश्वरीं विना जग्मुनैंजान् देशान् समातृकाः ।आक्षराण्यश्च मुक्तान्यो ब्राह्म्यस्तत्र प्रभुं विना ॥२६॥न गन्तव्यमिति कृत्वाऽवसन् स्वकान्तमन्दिरे ।राधिके! बालकृष्णोऽपि चान्तरात्मा सह स्थितः ॥२७॥आत्मनिवेदिनीस्त्रीभिः सहाऽदृश्यो ययौ सहः ।सृष्टित्रयस्य कान्तास्ताः स्वस्वलोकं गतास्तदा ॥२८॥क्षेत्रे कुंकुमवाप्याख्ये शून्यमिवाऽभवत् क्षणात् ।हर्याज्ञया ततो मुक्तो मण्डपोऽपि तिरोऽभवत् ॥२९॥सुस्वल्पो मण्डपश्चापि शीघ्रं तत्र तिरोऽभवत् ।एवं जातः परिहारो बालकृष्णेच्छया द्रुतम् ॥३०॥यारतु सख्योऽवसन् स्वामिसेवायां काशिकासुताः ।ता असेवन्त श्रीकृष्णं नारायणं मुदाऽनिशम् ॥३१॥दिव्या दिव्यस्वरूपा वै पातिव्रत्यपरायणाः ।कर्मणा मनसा वाचा देहेन सेवनं व्यधुः ॥३२॥लक्ष्मीर्विशेषभावेन सेवते परमेश्वरम् ।सत्सु दासीसहस्रासु समानासु सतीष्वपि ॥३३॥स्नपनं वस्त्रदानं चाऽभ्यंगं प्रकेशसाधनम् ।वेषं वस्त्रक्षालनं च दन्तधावनमित्यपि ॥३४॥कज्जलं मस्तके तैलं चांगमर्दनमित्यपि ।पादसंवाहनं वारिपानदानं च भोजनम् ॥३५॥ताम्बूलकं व्यजनेन वायुदानं च नक्तकम् ।फलदानं तथा शय्यास्तरणं कलशार्पणम् ॥३६॥यत्किंचिन्निजतन्वा स्यात् तत्सर्वं स्वयमाचरत् ।निजेशस्य समस्तं सेवनं परिपरायणा ॥३७॥लक्ष्मीरेवाऽस्ति लक्ष्मीर्वै नेतरा तत्समा क्वचित् ।एवं वै वर्तमानायां लक्ष्म्यां कृष्णस्य वै क्वचित् ॥३८॥क्षतिर्न दृश्यते सेवाकृते तद्वै विशिष्यते ।तथापि समदृक् कृष्णः सर्वासु समतायुतः ॥३९॥वर्तते सुखदश्चातिस्नेहवान्नतु पक्षवान् ।औदार्यं परमे कान्ते तदेव वर्तते सदा ॥४०॥सर्वासां कामपूरत्वं तृप्तिदत्वं यथेष्टकम् ।पद्मावत्या रमायाश्च लक्ष्म्यधिकं हि सेवनम् ।आभ्यां विस्मारिता लक्ष्मीः स्वाम्यर्थाभ्यां सदा त्वनु ॥४१॥अथ राधे वसन्ते चोत्सवं कृष्णश्चकार ह ।पुष्पदोलोत्सवं चापि प्रचकार सुखावहम् ।चातुर्मास्योत्सवं चापि प्रचकार व्रतात्मकम् ॥४२॥ऊर्जमासः समायातश्चाऽष्टमी जन्मबोधिका ।कार्ष्णी समीपगा चास्ते चेति विचार्य योषितः ॥४३॥सर्वाः पितृगृहात्तूर्णमारूढाः सुविमानकम् ।आययुः श्रीबालकृष्णगृहं पित्रादिसंहिताः ॥४४॥स्वामिगृहं समासाद्य सुखिन्यो वै तदाऽभवन् ।सर्वेषां वै महीमानोत्तमानां सुखमाननम् ॥४५॥श्रीमद्गोपालकृष्णो वै यथार्थमकरोत्तदा ।राजानोऽपि तथा चक्रुः श्रीकृष्णस्य प्रभोस्तभा ॥४६॥पञ्चदशे पूर्णवर्षे षोडशे जन्मसूत्सवे ।सुतानां पितरः सर्वे सर्वसृष्टिनिवासिनः ॥४७॥समायाताश्चाक्षराख्ये क्षेत्रे वर्धयितुं हरिम् ।प्रातरेव कृतस्नानश्चाष्टम्यां कृतमंगलः ॥४८॥कृतशृंगारवेषश्च हरिः संसदमाययौ ।लोमशाद्यैः पूजितश्च वर्धितोऽपि शुभाशिषा ॥४९॥पूजादानैः पावितश्चाऽऽनन्दितो यशसां स्तवैः ।राजाधिराजशोभाढ्यः शुशुभे परमेश्वरः ॥५०॥प्रातश्चैवं वर्तमाने जन्माहसुमहोत्सवे ।दीयन्ते तत्र दानानि गजवाजिगवादयः ॥५१॥गोमहिषीवृषभोष्ट्रयानवाहनकानि च ।गृहक्षेत्रारामवाटीधनस्वर्णात्मकानि च ॥५२॥वाद्यन्ते तत्र वाद्यानि गीयन्ते तद्यशांसि च ।परिहारे ततो जाते मध्याह्ने भोजनादिकम् ॥५३॥अभवत् सर्वलोकानां कान्तानां श्रेष्ठमेव ह ।अतिथीनां प्रसत्कारा अन्नवस्त्रादिभिः कृताः ॥५४॥रात्रौ नाट्यं चाऽभवत्तु तदा दृश्यं मनोहरम् ।मल्लानां खेलनं चापि संगीतानां रवास्तथा ॥५५॥काव्यानि कविवर्याणां नृत्यानि वारयोषिताम् ।उपदेशाश्च साधूनामभवन् जन्मसूत्सवे ॥५६॥एतस्मिन्नुत्सवे राधे! रमापद्मावतीपिता ।नारायणःसुतश्चार्कोदेवश्चाऽक्षरक्षेत्रके ॥५७॥स्वयं दिव्यावतारो यः सूर्यांशः सम्प्रकीर्तितः ।काशीतश्चागतस्तत्र संस्मृत्वा वचनं हरेः ॥५८॥मोक्षणार्थं स्वयं जातिस्मरः शिवो यतो हि सः ।मानवं भावमुत्सृज्य शिवभावं समीहते ॥५९॥धेनुपालोऽपि स्वराज्यं दत्वा पुत्राय योगिने ।धर्मपालाय च ततस्तेन सहागतोऽभवत् ॥६०॥सर्वे ते कृतसंकल्पा मुक्त्यर्थं त्वरितास्तदा ।अभवँस्ते तु वै कृत्वा शुभं जन्मोत्सवं ततः ।प्रार्थयन् परमात्मानं देहमोचनहेतवे ॥६१॥हरिः प्राहोत्तरायणस्थितं सूर्यं विलोक्य वै ।गन्तव्यं मम धामाऽत्र स्थेयं तावद् गृहेऽत्र च ।इत्याशां शिरसि धृत्वा सर्वं कुटुम्बकं श्रियाः ॥६२॥तस्थौ लक्ष्म्या गृहे नित्यं विशाले मन्दिरान्तरे ।शिवः स्वयं हरिं पुत्रीपतिं पप्रच्छ साधनम् ॥६३॥मोक्षस्यैव तदा कृष्णः स्वप्रियं प्रजगाद तम् ।शृणु शंभो कथयामि मोक्षसाधनमुत्तमम् ॥६४॥ये वै मोक्षे स्थिताः सन्तो मायाभावविवर्जिताः ।तेषां समागमात् प्रसेवनान्मोक्षोऽभिलभ्यते ॥६५॥योऽहं मोक्षे निवसामि निवसामि सदाऽऽत्मसु ।तं मामुपास्य सततं मोक्षं विन्दति मानवः ॥६६॥मया कालः कर्म धर्मो ज्ञानं मे शक्तयस्त्विमाः ।मत्वैवं शक्तिमन्तं मां यस्त्वाश्रयति मुच्यते ॥६७॥देहेन कर्मणा वाचा मनसा स्वीयवस्तुभिः ।सर्वात्मनाऽर्पितो यः स्यान्मयि द्राक् स प्रमुच्यते ॥६८॥मां पश्येन्मां रसयेच्च मां सदा संप्रकीर्तयेत् ।मां जिघ्रेन्मां स्पृशेन्यां संशृणुयाच्चिन्तयेच्च माम् ॥६९॥मां गृह्णीयात् प्रसेवेत संवाहयेच्च मां सदा ।मामभिगच्छेद् रहसि चानन्दयेच्च मां हृदि ॥७०॥स्थापयेन्मां प्रमन्वीत निर्णयेन्मां हृदन्तरे ।अहमयेच्च मां नित्यं मद्योगे सर्वदा वसेत् ॥७१॥मां ध्यायेन्मां स्नेहपूर्णः समाश्लिष्येन्मिलेच्च माम् ।मामेकीकृत्य चाऽऽदद्याद् भोग्यजातं मयि क्षिपेत् ॥७२॥मां प्रत्यक्षं निजीकृत्य चेष्टां कुर्यान्मदर्थिकाम् ।शिवराजैवमासाद्य मद्योगं मोक्षमाव्रजेत् ॥७३॥रमणं भ्रमणं विहरणं च नर्तनं रणम् ।जागरणं स्वपनं च प्रवर्तनं निवर्तनम् ॥७४॥आचरणं विचरणं सदाचरणमीरणम् ।सर्वं कुर्यान्मदर्थं वै ध्रुवमोक्षमवाप्नुयात् ॥७५॥इत्युक्तः शिवराजोऽयं राधिके शीतजा तथा ।जयश्चन्द्रो धेनुपालोऽशोका च हरौ स्थिराः ॥७६॥स्थिरध्याना अभवँश्च स्थिरसेवापरायणाः ।दिव्यभावं समापन्नाः सर्वस्वार्पणसेविनः ॥७७॥उत्तरायणगे सूर्ये समुत्सुकाश्च ते ततः ।स्वपुत्रीं प्रसमाश्लिष्य लक्ष्मीं मोक्षाभिकांक्षिणः ॥७८॥अश्वपट्टसरस्येव स्नात्वा कृत्वाऽर्हणं हरेः ।धेनुपालोऽपि च सुतात्रयमाभाष्य वै तदा ॥७९॥वृत्ती सर्वाः पराहृत्य ध्यानमग्नास्तदाऽभवन् ।ज्ञानदः श्रीकृष्णदेवः सर्वस्वामी हृदिस्थितः ॥८०॥तथा प्रत्यक्षवर्ती तान् ज्ञात्वा निर्वाणमानसान् ।स्वासक्तान् प्रति तूर्णं स दिव्यविमानमास्थितः ॥८१॥निजदिव्यस्वरूपेण मुक्तिं दातुं समाययौ ।लक्ष्मीपतिहरिस्तेभ्यस्तैरेव वर्ष्मभिस्तदा ॥८२॥आरोहयामास दिव्ये विमाने पश्यतां सताम् ।तदा दुन्दुभयो नेदुर्देवानां सर्वतोदिशि ॥८३॥सदाशिवः परं मोक्षं याति नित्यकिलासकम् ।देवाद्यैर्वर्धिताः सर्वे ययुः कैलासमुत्तमम् ॥८४॥पार्षदाश्च ययुर्नित्यं वैकुण्ठं कृष्णिका तथा ।लक्ष्मीस्तथा कृष्णनारायणार्यः परमेश्वरः ॥८५॥सर्वं कर्तुं समर्थो तौ तेनैव वर्ष्मणा हि तान् ।राधे! मोक्षं नीतवन्तौ महाश्चर्यमिदं ह्यभूत् ॥८६॥तदुत्तरविधिं तत्र स्वेशेन सह पुत्रिका ।चक्रे लौकिकदानानि श्राद्धोत्सवादिकानि च ॥८७॥अथ श्रीबालकृष्णोऽपि धेनूनामुत्तरायणे ।प्रपूजनं व्यधात्तत्र पुण्यकार्यप्रवृत्तये ॥८८॥धेनुभ्यः प्रददौ त्वार्द्रघासान् सस्यानि वै तदा ।गूडं च धान्यखाद्यानि दापयामास सर्वतः ॥८९॥धेनवश्च तदा सर्वलोकेभ्यो दिव्यविग्रहाः ।भौमस्थाश्चाययुस्तूर्णं तदा प्रसादलालसाः ॥९०॥भुक्त्वा नत्वा हरिं प्राप्य पूजां स्वस्वाश्रमान् ययुः ।अथ द्विजेभ्यो भगवान् ददौ दानानि भूरिशः ॥९१॥सद्भ्यो ददावम्बराणि भोजनान्युत्तमानि च ।दीनाऽनाथेभ्यश्च ददौ भिक्षुकेभ्योऽपि सर्वथा ॥९२॥मिष्टान्नाम्बररूप्यादि स्वर्णं पात्राणि वै तदा ।एवं कृत्वा दानविधिं सप्तधान्यान्वितां नवाम् ॥९३॥तरलां रन्धितां चापि घृतान्वितां सपर्पटाम् ।सुदध्ना चारनालेन समं संबुभुजे हरिः ॥९४॥भोजयामास सर्वाश्च कान्ताः कृशरसंज्ञिताम् ।क्वथिकासहितां श्रेष्ठां स्वादवतीं सुगन्धिनीम् ॥९५॥इत्येवं राधिके! कष्णकान्तार्यो हि महोत्सवम् ।उत्तरायनयोगस्य चक्रे गोपालकृष्णजः ॥९६॥षोडशे वत्सरे त्वेवं ब्रह्मप्रियासमन्वितः ।बुभुजे बहुभोगाँश्च सर्वकल्याणकारकः ॥९७॥राधिके! तं स्मरेत् कृष्णनारायणं नरायणीः ।लीलाः षोडशवर्षोत्थाः मुक्तिदाः शान्तिदा हरेः ॥९८॥सर्वमोक्षफलं त्वासां श्रवणे जायतेऽक्षयम् ।ब्रह्मपूजाफलं त्वासां श्रवणे जायतेऽक्षयम् ॥९९॥पुरुषोत्तमयोगोऽयं सर्वयोगोत्तमोत्तमः ।सर्वावतारयोगोऽयं सर्वज्ञानोत्तमोत्तमः ॥१००॥सर्वलक्ष्मीप्रदश्चायं सर्वमुक्तिप्रदस्तथा ।सर्वसौभाग्यदश्चाऽयं त्वेवं श्रुत्वा रमापिता ॥१०१॥शाश्वतं चापि मोक्षं स्वं समीप्सत् तममोक्षयत् ।ययौ धामाऽक्षरं सोऽस्य क्रियां श्रीभगवाँस्तथा ॥१०२॥सम्बन्धिनस्ततश्चक्रुर्हरिसंलग्नमानसाः ।राधिके! श्रीहरेर्योगः सर्वमुक्तिप्रदस्त्वयम् ॥१०३॥सर्वसौभाग्यदश्चापि त्रेतासन्ताननामकः ।सर्वव्रतानां यज्ञानां दानानां पुण्यकर्मणाम् ॥१०४॥सर्वेषां तपसां दीक्षायोगानां त्यागधर्मणाम् ।सन्यासधर्मणां चापि भक्तीनां च फलप्रदः ॥१०५॥सर्वाश्रमाणां धर्माणां श्रवणात्फलदो मतः ।लक्ष्मीनारायणसंहिताया वै हृदयं ह्ययम् ॥१०६॥प्राणानां जीवन चायं कृष्णनारायणात्मकः ।सर्वप्रतिष्ठाफलदः सर्वतीर्थफलप्रदः ॥१०७॥सर्वसेवाफलदश्च सर्वविद्याफलप्रदः ।सतीधर्मफलदश्च पातिव्रत्यफलप्रदः ॥१०८॥सर्वभोगप्रदः सर्वस्मृद्धिदः श्रवणाद् ध्रुवम् ।दिव्यताऽऽपादकः सर्ववासनाक्षयकारकः ॥१०९॥सर्वेषां चात्र पापानां प्रज्वालकः सुपुण्यदः ।निष्कामकर्म चैतद्वै यदस्य श्रवणं सदा ॥११०॥पूजनं चास्य वै तद्वद् दानं चास्य महत्फलम् ।रक्षणं गृहमध्येऽस्य कालमायादिनाशनम् ॥१११॥अस्य खण्डस्य भावेन श्रवणाच्छ्रीहरिः स्वयम् ।लक्ष्म्यादिब्रह्मशक्त्याढ्यो दद्यात् दिव्यं स्वदर्शनम् ॥११२॥अस्य कथा कारणीया पुरश्चरणमित्यपि ।अगतीनां भवेन्मोक्षो भूतादीनां प्रमोक्षणम् ॥११३॥दुःखदारिद्र्यनाशश्च लक्ष्मीकुलकुटुम्बकम् ।यत्रायं वर्तते तत्र सर्वदा वासमाप्नुयात् ॥११४॥वंशवृद्धिर्भवेत् पुत्रधनदारपतिश्रियः ।भवन्ति यत्र खण्डोऽयं पूज्यते पठ्यतेऽपि च ॥११५॥राधिकेऽस्य कथा यत्र तत्र कृष्णनरायणः ।ब्रह्मप्रियाः समस्ताश्च मुक्तमण्डलमित्यपि ॥११६॥अहं कृष्णस्तथा नारायणः सर्वस्वमण्डलः ।वसावस्तां कथां श्रोतुं सर्वदेवेश्वरान्वितौ ॥११७॥वाचकस्य प्रपूजा च कारणीया विधानतः ।नरनारीविभूषाश्चाम्बराणि धनमित्यपि ॥११८॥गृहक्षेत्रग्रामवाटीगजाश्वहीरकादिकम् ।यथाशक्ति प्रदातव्यं वाचकाय श्रवार्थिभिः ॥११९॥मोक्षदाय हि सर्वस्वं दातव्यं परमार्थिने ।उद्यापनं कारणीयं महोत्सवः शुभस्तथा ॥१२०॥सकृच्छ्रवणे माया वै नश्यत्येव न संशयः ।कल्पलता कल्पवृक्षः कल्पधेनुस्त्वयं मतः ॥१२१॥कल्पमणिः कल्पपात्रं त्रेताखण्डो हि राधिके! ।श्रीकृष्णोऽहं वदाम्यत्र त्रेतासन्तानसेवनात् ॥१२२॥नार्यै राधापदं दास्ये विष्णुपदं नराय वै ।'ओं नमः श्रीकृष्णनारायणाय परमात्मने ॥१२३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने चिरेण लोमशाश्रमस्थितानां कान्तानां पित्रादिभिः सह स्वदेशगमनं, मण्डपादिपरिहारः, लक्ष्म्यादिकाशिकांऽगना-कृतसेवाप्रकारः, षोडशजन्मोत्सवे ऊर्जकृष्णाष्टम्यां सर्वजनानामागमनम्, महोत्सवः, शिवेश्वरादीनां मोक्षोपदेशान्मोक्षः, षोडशे वत्सरे उत्तरायणदानादि, संहितायास्त्रेतासन्तानस्य माहात्म्यमितिचेतिनिरूपणनामा नवनवत्यधिकद्विशततमोऽध्यायः ॥२९९॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP