संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १९८

त्रेतायुगसन्तानः - अध्यायः १९८

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
अथ राधे बालकृष्णं काष्ठयानो नृपस्तदा ।
आदिदेशाऽवतरितुं विमानेन युतं हरिम् ॥१॥
हरिर्विमानमाकाशादुद्याने समतारयत् ।
अन्यान्यपि विमानानि चावतेरुस्तदाऽम्बरात् ॥२॥
सैन्यवाद्यान्यवाद्यन्त जयनादास्ततोऽभवन् ।
प्रजाभिर्वर्धितः कृष्णनारायणो जहर्ष च ॥३॥
चन्दनाक्षतकुसुमैर्हारकाद्यैश्च पूजितः ।
राज्ञा च प्रजया चापि मुनिनाऽर्चित ईश्वरः ॥४॥
आययौ स विमानाद्वै बहिः प्रसन्नतान्वितः ।
अभयं प्रददन् प्रेम्णा करेण कृष्णवल्लभः ॥५॥
काष्ठयानो महाराजो हरेर्हारं गले ददौ ।
कोटिहीरकमूल्याढ्यं पादौ पुपूज चन्दनैः ॥६॥
पपौ जलं प्रसादोत्थं कुटुम्बं चाप्यपूजयत् ।
श्यामाश्वस्यन्दने कृष्णं न्यषादयन्मुदान्वितः ॥७॥
रात्रा छत्रं दधाराऽथ कुमारौ चामरे शुभे ।
तदा जयस्य निनदाः प्रभाभिरभिघोषिताः ॥८॥
गौरीभिः पुष्पमालाभिश्चाक्षतैर्वर्धितः प्रभुः ।
अथाऽन्यान् वै महीमानान् वाहनेषु शुभेषु च ॥९॥
राजा न्यषादयत् सम्यगुच्चावचेषु वै तदा ।
तुन्नवायानगर्यां श्रीहरिं त्वभ्रामयन्नृपः ॥१०॥
राज्ञा गोपुरमध्ये च समर्चितः परेश्वरः ।
प्रधानैः पञ्चवर्तिभिर्नीराजितश्च पूजितः ॥११॥
श्रेष्ठिभिः पूजितो मध्ये नगर्या हृदयांगणे ।
आपणेषु प्रजाभिश्च पूजितः फलनाणकैः ॥१२॥
गृहे गृहे च गौरीभिरर्चितः प्राणधारकः ।
एवं वै नगरीं सर्वां भ्रमित्वा भगवान् स्वयम् ॥१३॥
आजगाम निवासं स्वं राजोद्याने च मन्दिरम् ।
तत्राऽभवत्सभा रम्या लोकानां भगवान् स्वयम् ॥१४॥
पूजां प्राप्य प्रजाभ्यश्चोपादिदेश हितावहम् ।
संसारसागरश्चास्ति शीतोष्णादिप्रदः सदा ॥१५॥
निमज्जमानं स्पृशति दोषनक्रनखादिकम् ।
तरितुं नौस्वरूपा वै भवन्ति खलु साधवः ॥१६॥
तारयन्ति करे धृत्वा भवसागरमज्जितान् ।
भगवान् हृदये येषां नित्यं वसामि मोक्षदः ॥१७॥
ते पूज्याः साधवो धीरा हृदयं मे यतो मताः ।
साधुपक्षे विजयः स्यादैहिकः पारमार्थिकः ॥१८॥
असाधुयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च ।
सादयत्येव जयिनं संसारे घोरकर्दमे ॥१९॥
यस्तु धर्मविलोपेन मर्यादालोपनेन च ।
साधुवाक्योपलंघनेन कुर्यात्तत्र सुखावहम् ॥२०॥
यस्य लोकाः प्रसन्नाश्चातिथयः पूजयाऽर्हिताः ।
सन्तुष्टं च कुटुम्बं च नारायणो गृहेऽस्य वै ॥२१॥
साधवो गुरवश्चाचार्याश्चान्ये पूज्यमानवाः ।
सत्यश्च पूजिता यस्य तस्य गृहे वसाम्यहम् ॥२२॥
निग्रहेण तु पापानां साधूनां संग्रहेण च ।
भक्त्या यज्ञेन दानेन सेवयाऽहं वशी सदा ॥२३॥
साध्वर्थे चापि मोक्षार्थे हर्यर्थे यश्च युध्यति ।
आत्मानं यूपमुत्सृज्य स यशोऽनन्तदक्षिणः ॥२४॥
मदर्थं त्यक्तमानादिर्मदर्थं दीक्षितश्च यः ।
सोऽश्नुते सर्वकामान् वै सर्वार्थप्रदुहोऽक्षयान् ॥२५॥
दुष्टाँस्त्यक्त्वा ततः साधोः संगतिं सर्वदाऽऽचरेत् ।
दुष्टान् भावैर्विजानीयाल्लिंगैः परोक्षगोचरैः ॥२६॥
परोक्षमगुणानाह सद्गुणानभ्यसूयते ।
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः ॥२७॥
निःश्वासं चौष्ठसंदंशं शिरसश्च प्रकम्पनम् ।
करोत्यभीक्ष्णं विमना भाषते विपरीतकम् ॥२८॥
परोक्षे तु विकुरुते प्रत्यक्षे नाभिभाषते ।
पृथगुक्त्वा च मृद्गाति नेदृगिदं पुनः पुनः ॥२९॥
आसने शयने याने विरुद्धं परिवर्तते ।
यस्मिँस्तत्र प्रविज्ञेयं दुष्टत्वं सहवासतः ॥३०॥
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम् ।
विपरीतं तु बोद्धव्यं सदा दुष्टारिलक्षणम् ॥३१॥
साधवः सुहृदो मित्रवर्या आत्महितैषिणः ।
पापहा मोक्षदाः सन्ति सेवनीया विशेषतः ॥३२॥
स्वयं चापि विवेकेन वर्तितव्यं तदग्रतः ।
हृदयेऽपि विवेकं वै कुर्यादनित्यवस्तुनः ॥३३॥
अनित्यं सर्वमेवैतन्ममाऽहंकारसंभृतम् ।
नामरूपं यदस्त्येव सर्वं तन्नास्ति चोत्तरे ॥३४॥
एवं विवेकवान् नष्टे व्यथते न कदाचन ।
प्राप्ते न हर्षवानास्ते गत्वरे का नु देवना ॥३५॥
आपदं प्रगतश्चापि व्यथते न विवेकवान् ।
भूतं गतं भविष्यं तु नागतं वर्तते तु यत् ॥३६॥
हसमानं प्रयात्येव सर्वं तन्न भविष्यति ।
एवं विदितवेद्यस्तु नहि शोकाय कल्पते ॥३७॥
आगतं तद्विनश्येत ज्ञात्वैवं को नु संज्वरेत् ।
शोकमूलं ततः सर्वं ज्ञात्वा शोकं परित्यजेत् ॥३८॥
क्व नु वृद्धा गता ये तु पिता पितामहादयः ।
सर्वे ध्रुवा न विद्यन्ते ज्ञात्वैवं को नु संज्वरेत्। ॥३९॥
बाला मध्यवयसश्च ततो वृद्धाश्चिरायुषः ।
लक्षाधिलक्षकोट्यब्दा मरिष्यन्ति न संशयः ॥४०॥
तथापि महतीं तृष्णां विमुञ्चन्ति न देहिनः ।
विचार्यैवं च तां त्यक्त्वा कुर्वीत प्रियमात्मनः ॥४१॥
अनागतं न मे चास्ति क्रान्तं मे नहि वर्तते ।
अस्ति मे न ललाटेऽस्ति तस्मात् साधुर्भवेत् सदा ॥४२॥
अनाढ्याश्चापि जीवन्ति राजानोऽपि तथैव च ।
राजसु व्याधिबाहुल्यं नाऽनाढ्येऽतोऽधनः सुखी ॥४३॥
एवं मत्वा न शोचेत कालः सर्वत्र वै समः ।
भोक्तारोऽन्येऽर्जयितारोऽपरे चिन्तापराः परे ॥४४॥
सर्वभोग्येषु लोकेऽत्र दृष्ट्वैवं न शुचश्चरेत् ।
पूर्वदत्तं परस्मिँश्च प्राप्येतेति स्थितिध्रुर्वा ॥४५॥
अदत्तं चापि वाञ्च्छन्ति विना यत्नं लषन्ति च ।
हीनभोग्यो जनः सोऽजं गर्हते न निजं क्वचित् ॥४६॥
ईर्ष्याभिमानसम्पन्नस्तूद्वेगं लभते ततः ।
एतस्मात् कारणाद् व्यक्तौ दुःखं भूयोऽनुवर्तते ॥४७॥
सहनीया परा लक्ष्मीर्या नास्ति स्वललाटके ।
यतितव्यं तदर्थं वा यत्नफला रमा यतः ॥४८॥
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते सदा ।
अभिनिस्पन्दते श्रीर्हि यत्नवन्तं प्रभाविनम् ॥४९॥
श्रियं च पुत्रपौत्रांश्च कन्यां च पृथिवीमपि ।
उत्पाद्य परभोग्यानि स्वयमेव त्यजन्ति हि ॥५०॥
अकाम्यान् कामयानोऽर्थान् पराधीनानुपद्रवान् ।
त्यक्त्वा भवेत्तु संकल्पान् सुखी साधुर्यथाऽग्रही ॥५१॥
अनर्थास्त्वर्थरूपा वै अर्थाश्चानर्थरूपिणः ।
भवन्त्येव यथाभाग्यं तत्र प्राज्ञो न विश्वसेत् ॥५२॥
अर्थायैव तु केषाञ्चित् सर्वनाशो भवत्यपि ।
अनर्थायैव केषाञ्चिद् बहुलाभो भवत्यपि ॥५३॥
अज्ञश्चानन्तलुब्धश्च सुखं मत्वा प्रसज्जते ।
रममाणः श्रिया पश्चान्नान्यच्छ्रेयोऽभिमन्यते ॥५४॥
अकस्मात्तु श्रियो नाशे समारंभो विनश्यति ।
तदा निर्विद्यते सोऽर्थात् परिभग्नमनोरथः ॥५५॥
धर्ममेके चरन्त्येव कल्याणाभिजना भुवि ।
परत्र सुखमिच्छन्तो निर्विद्यन्ते तु लौकिकात् ॥५६॥
धनमेकेऽर्जयन्त्येव महालोभाभिमर्दिताः ।
जीवितार्थं हि मन्यन्ते पुरुषार्थं धनं च ते ॥५७॥
ज्ञात्वा तेषां कृपणतां ज्ञात्वा तेषामबुद्धिताम् ।
अध्रुवे जीविते मोहादर्थदृष्टिमुपाश्रितान् ॥५८॥
निष्फलान् तप्यमानाँश्च ज्ञानवर्जितमानवान् ।
विलोक्याऽन्धतमःक्षिप्तान् को नु दद्यान्मृषा मनः ॥५९॥
नियच्छतेन्द्रियाण्येभ्यो यच्छतापि मनो निजम् ।
संयच्छत गिरोऽप्येभ्यो विषयेभ्यो विचारतः ॥६०॥
भवत प्रतिषेद्धारस्तदा जयो भविष्यति ।
भावेषु क्षणमात्रेषु प्रज्ञातृप्तो न शोचति ॥६१॥
अल्पे तृप्तो मृदुर्दान्तो ब्रह्मशीलो न शोचति ।
नृशंसवृत्तिं पापिष्ठां प्राप्तः शोकान्न मुच्यते ॥६२॥
अपि मूलफलाऽऽजीवो रमते निर्जने वने ।
वाग्यतो मत्परो भक्तः सर्वार्पणः सुखी जनः ॥६३॥
मनीषया विनिगृह्येषणाः सुखी गृही भवेत् ।
यथैको रमतेऽरण्येष्वारण्येनैव तुष्यति ॥६४॥
महापुरुषतृप्तश्च स्वात्मनैव प्रसीदति ।
साधुवद्वर्तमानस्य सर्वं दुःखं परात्मनि ॥६५॥
हित्वा दंभं च कामं च क्रोधं हर्षं भयं तथा ।
साधून् प्रसेव्य देहाद्यैः शाश्वतं सुखमर्जयेत् ॥६६॥
साधुसेवा परं पुण्यं सर्वपुण्याधिकं मतम् ।
असंशयं पुण्यशीलः प्राप्नोति परमां गतिम् ॥६७॥
मातापित्रोर्गुरूणां च पूजा बहुमता मम ।
इह युक्तो नरो लोकान् यशस्तु महदश्नुते ॥६८॥
यच्च तेऽभ्यनुजानीयुः कर्तव्यं पूजिताः खलु ।
धर्म्यं धर्मविरुद्धं वा तत्कर्तव्यं सुतादिभिः ॥६९॥
न च तैरभ्यनुज्ञातो धर्ममन्यं समाचरेत् ।
यं च तेऽभ्यनुजानीयुः स धर्म इति निश्चयः ॥७०॥
एते एव त्रयो लोकास्त्रयोऽग्नयश्च ते मताः ।
त्रयो वेदास्त्र्याश्रमाश्च तन्मतस्था जयन्ति वै ॥७१॥
पिता वै गार्हपत्योऽग्निर्माता वै दक्षिणोऽनलः ।
गुरुश्चाहवनीयाग्निः साग्नित्रेता गरीयसी ॥७२॥
त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् विजयेत वै ।
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या दिवं तथा ॥७३॥
ब्रह्मलोकं गुरुवृत्त्या जयेत नात्र संशयः ।
नित्यं परिचरेत्वेतान् तद्वै सुकृतमुत्तमम् ॥७४॥
सर्वे तस्याऽऽदृता लोका यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याऽफलाः क्रियाः ॥७५॥
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः ।
न चायं न परोलोकस्तस्य क्षेमाय जायते ॥७६॥
न चात्र वा परे लोके यशस्तस्य प्रवर्तते ।
न चान्यदपि कल्याणं चोभयत्राऽस्य जायते ॥७७॥
दशश्रोत्रियतः श्रेष्ठः सदाचार्यो हि विद्यते ।
दशाचार्येभ्य एवात्रोपाध्यायः श्रेष्ठ उच्यते ॥७८॥
दशोपाध्यायतः श्रेष्ठः पिता सर्वत्र वर्तते ।
दशपित्रुत्तमा माता सर्वपृथ्वीसमा हि सा ॥७९॥
गुरुर्माता यथा प्रोक्ता नास्ति मातृसमो गुरुः ।
गुरुर्गरीयान् पितृतो मातृतश्चापि सर्वदा ॥८०॥
उभौ हि मातापितरौ जन्मदौ शरीरसृजौ ।
गुरुर्ज्ञानप्रदो दिव्यो दिव्यज्ञातिकरस्तथा ॥८१॥
गुरुयुक्ता तु या जातिः सा दिव्या साऽजराऽमरा ।
अवध्या हि सदा माता पिता गुरुः सुतादिभिः ॥८२॥
ऋषयश्चापि देवाश्च प्रीयन्ते पितृभिः सह ।
पूज्यमानेषु गुरुषु तस्मात् पूज्यतमो गुरुः ॥८३॥
केनचिन्न च वृत्तेन ह्यवज्ञेयो गुरुर्भवेत् ।
न तेऽवमानमर्हन्ति माता पिता गुरुस्तथा ॥८४॥
न तेषां दूषयेत् कार्यं सत्कारं त्वाचरेत् सदा ।
अवमानप्रकर्तुश्च भ्रूणहत्याघमस्ति यत् ॥८५॥
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य गुरुघातिनः ।
चतुर्णां निष्कृतिर्नास्ति महामहातिपापिनाम् ॥८६॥
साधवः श्रीहरेर्भक्तास्त्यागिनो गुरवः शुभाः ।
पूजनीया वन्दनीया भोजनीयाः समन्ततः ॥८७॥
तेषु वै धर्मसर्वस्वं सेवितेषु भवेदिह ।
सन्तुष्टेषु सर्वयज्ञा भवन्तीह न संशयः ॥८८॥
एवं गुरून् पूजयित्वाऽऽराधयित्वा च मां सदा ।
भुक्तिं मुक्तिं लभध्वं वै मत्प्रसादाज्जना इह ॥८९॥
इत्युक्त्वा भगवान् राधे विरराम ततो नृपः ।
पुपूज श्रीहरिं नीराजनाद्यैस्तु कृतादरः ॥९०॥
पुपूजुश्च प्रजा सर्वा बहुभिर्वस्तुभिस्तदा ।
राज्ञी पूजां चकारापि राजकन्या कुमुद्वती ॥९१॥
हरेर्हस्तग्रहं चक्रे विवाहविधिना तदा ।
महोत्सवं नृपश्चक्रे परिहारं चकार ह ॥९२॥
भोजयामास नृपतिर्हरिं प्राघूणिकाँस्ततः ।
विश्रम्य च निशां यापयित्वा प्रातः कृताह्निकः ॥९३॥
हरिः सज्जोऽभवद् गन्तुं कोलकक्ष्मेशराष्ट्रकम् ।
कृतदुग्धादिपानश्च कृतार्चनो विमानकम् ॥९४॥
समारुरोह सर्वेऽपि चारुरुहुस्ततोऽम्बरे ।
जयनादैः सह कृष्णो लेपनादर्षिसंयुतः ॥९५॥
लेपदेशान् ययुः शीघ्रं मानितो मानवैस्तदा ।
राजा स्वागतसिद्ध्यर्थं ययौ पुरोतिभावताः ॥९६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने काष्ठयाननृपस्य तुन्नवायापुर्यां श्रीहरेर्भ्रमणं पूजनमुदेशनं भोजनं निशोत्तरं प्रातः कोलकनृपराष्ट्राभिगमनमित्यादिनिरूपणनामाऽष्टनवत्यधिकशततमोऽध्यायः ॥१९८॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP