संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २६६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २६६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २६६ Translation - भाषांतर श्रीकृष्ण उवाच-रासेश्वरि प्रिये पश्चाद् राजा तीर्थाग्र्यमाययौ ।पप्रच्छ लोमशं तत्र माहात्म्यं नाम चेत्यपि ॥१॥अश्वपाटल उवाच-इदं तीर्थं कदा चात्र ख्यातिं प्राप कियद्बलम् ।केन कृतं च तत्सर्वं ब्रूहि संक्षेपतो गुरो ॥२॥श्रीलोमश उवाच-राजन् पुरा समारंभे सृष्टेर्व्यासो हरिः स्वयम् ।श्वेतव्यासस्वरूपोऽत्राऽऽजगाम तीर्थवाञ्च्छया ॥३॥अत्र तीर्थं परं कृत्वा स्नात्वा प्रपूज्य माधवम् ।अनादिश्रीकृष्णनारायणं नत्वा ततःपरम् ॥४॥वस्त्रापथं सोमनाथं मूलद्वारावतीं ययौ ।गोपनाथं स्तंभतीर्थं कृत्वा च पुष्करं तथा ॥५॥कुरुक्षेत्रं ययौ यत्र निजावासो हि वर्तते ।तदा पृथ्व्यां बहवोऽस्य शिष्या वेदादिवेदिनः ॥६॥अभवन् लोकमोक्षार्थं ज्ञानदानादिकारिणः ।अत्र पूर्वे योजनाद्वै दूरे चाऽर्कपुरेऽभवत् ॥७॥श्वेतव्यासस्य शिष्यो वै विप्रो धर्मसुमन्तुकः ।व्यासतुल्यो महर्षिः सः सरोवरतटे सदा ॥८॥वटवृक्षे निजावासं कृत्वा प्रजाजनान् बहून् ।श्रेयोमार्गं ज्ञानरूपं भक्तिरूपं वृषान्वितम् ॥९॥समादिशत्यजस्रं च ब्राह्मणैः सेवितोऽभवत् ।पार्श्वग्रामजनास्तत्र कथां श्रोतुं समुत्सुकाः ॥१०॥समायान्ति सदा सायं प्रयान्ति पुनरेव च ।हरिं विना न कल्याणं भक्तिं विना न मोक्षणम् ॥११॥ज्ञानं विना न तमसो विलयो मायिके गृहे ।साधुं विना न साक्षाद्वै भगवत्प्राप्तिरेव ह ॥१२॥अनादिश्रीकृष्णनारायणश्चान्तरगो हि नः ।हरिं भजत कृष्णं तं श्वेतव्यासस्वरूपिणम् ॥१३॥एवं ददात्युपदेशं संहितां वाचयत्यपि ।अश्वपट्टसरो नित्यं प्रातः स्नानाय याति च ॥१४॥कृत्वा तीर्थविधिं चापि नत्वा श्रीपुरुषोत्तमम् ।ऋषीन् नत्वा सुरान् सम्पूज्य प्रयाति स्वमन्दिरम् ॥१५॥एवं वै वर्तमानस्य विप्रस्य वेदवेदिनः ।सर्पदंशोऽभवन्मार्गे निर्जने तीर्थकारिणः ॥१६॥तूर्णं योगपरो भूत्वा निषद्य च समाधिना ।प्राणानायम्य मार्गस्य तीरे यान्तं फणाधरम् ॥१७॥आह्वयामास विप्रः स प्रसह्य वशगं व्यधात् ।फणाधरोऽपि बलवान् त्रासं प्राप्य ततः स्थलात् ॥१८॥विद्रवितुं यततेऽपि न शशाक प्रधावितुम् ।विप्राधीनस्तदा भूत्वा सृत्वा सृत्वा द्विजान्तिकम् ॥१९॥आगत्य निपपातैव रक्ष रक्षेति संवदन् ।दंशाख्यश्चापराद्धो वै मया तेऽत्र कृतो द्विज ॥२०॥मा मां मारय विप्रेन्द्र प्राणाः प्रियाश्च ते च मे ।क्षमां याचे तामसोऽहं स्वभावो मम तादृशः ॥२१॥सात्त्विकस्त्वं स्वभावस्ते दयाधर्म इति द्विज ।तिर्यग्योनौ व्रजतो मे कदा मोक्षो भवेदिति ॥२२॥तव योगेन मे मोक्षो भवत्यत्राऽपराधिनः ।मम मोक्षो यथा स्याद्वै तथा विप्र विधेहि च ॥२३॥यद्वा ज्ञानं प्रदायैव पावनं मां विधेहि च ।शत्रुबुद्ध्या तु मां माऽत्र मारयेति प्रप्रार्थये ॥२४॥श्रुत्वा सर्पस्य वचनं धर्मसुमन्तुकस्तदा ।भूत्वा दयापरस्तस्मै पप्रच्छ जन्मकारणम् ॥२५॥कस्त्वं कस्मात् सर्पयोनिं प्राप्तोऽसि केन कर्मणा ।वक्तुं जानासि सर्वं चेदात्मश्रेयः करोषि न ॥२६॥किमत्र कारणं सर्प ज्ञाता सन् भ्राम्यसि कुतः ।ज्ञाता मां संदशितवान् को लाभस्तेऽत्र संमतः ॥२७॥सर्प उवाच-शृणु विप्र कथयामि सर्वं पश्चाद् यथातथम् ।लाभवार्तां कथयामि प्रश्नोऽयं नोपयुज्यते ॥२८॥स्रष्ट्रा सृष्टिः कृता त्रेधा सत्त्वरजस्तमोमयी ।सात्त्विकाः शममिच्छन्ति राजसा रागमित्यपि ॥२९॥तामसाः क्लेशमिच्छन्ति स्वभावोऽयं दुरत्ययः ।वह्निः प्रज्वालयत्येव को लाभो दहनेऽस्य वै ॥३०॥जलं तृषां च जन्तूनां निवारयति सर्वदा ।वृष्टिर्वर्षति को लाभो जलस्याऽत्र वदस्व मे ॥३१॥वायुर्वाति क्वचिद् रूक्षः क्रूरो मृदुश्च वेगवान् ।को लाभोऽस्य भवेत् तत्र स्वभावस्तादृशो यतः ॥३२॥सात्त्विकः शान्तिमभ्येति जलं शैत्यं वहत्यपि ।चन्द्रः शीतः शिला शीता को लाभस्तत्र तत्कृते ॥३३॥सागरो लवणात्मा च दुग्धं मिष्टं जलं तथा ।तिक्तो निम्बः कटुः शूण्ठी को लाभस्तत्र तस्य वै ॥३४॥रक्तं जपायाः कुसुमं रक्तं रक्तं च कुंकुमम् ।राजसा देववर्गाश्च को लाभो राजसस्य वै ॥३५॥विद्युत्पातस्तथा वज्रपातः कालश्च संक्षयः ।मृत्युस्तथाऽन्धकारश्च तामसा वै स्वभावतः ॥३६॥भंगा गंजा धत्तुरश्च तामसास्ते स्वभावजाः ।वदात्र विद्वन् तेषां वै को लाभस्तामसोद्भवः ॥३७॥स्वभावे स्वस्य लाभो न दृश्यते वै तमोव्रते ।यथागुणं प्रवर्तन्ते भूतानि निम्नवारिवत् ॥३८॥यथास्वभावा प्रवृत्तिर्दन्तानां चर्वणादिवत् ।नैसर्गं तु भवेत् कर्म शस्त्रपातेन घातवत् ॥३९॥तथा मया कृतं चेदं मा तत्र क्रोद्धुमर्हसि ।लाभवार्ता न तेऽप्यस्ति स्नानं विप्रवृषो यथा ॥४०॥रात्रौ निद्रा भवत्येव दिवसे जागरं तथा ।स्वभावरचितं त्वेतत् को लाभस्तत्र संभृतः ॥४१॥बाल्ये क्रीडामतिर्मध्ये कामेऽन्ते विमतिस्तथा ।के लाभास्तत्र निहताः स्वभावेन प्रवर्तते ॥४२॥भवन्ति साधवः केचित् केचिच्चौर्यादिकर्मिणः ।केचिदीश्वरभावाश्च के लाभास्तत्र मे वद ॥४३॥सर्पो वै तामसश्चाऽहं दंष्ट्रा मे तामसी मता ।सा च क्षतं करोत्येव दंष्ट्रालाभोऽत्र को मतः ॥४४॥विषं वह्निस्वभावं वै लालारूपं प्रवाहणम् ।विद्युत्समं प्रवेशेऽपि व्यापने स्तनयित्नुवत् ॥४५॥रुधिरे नाडिकाग्रामे वहत्येव जलादिवत् ।स्वभावोऽयं विषस्यैव को लाभोऽत्र विषस्य वै ॥४६॥पृथ्व्याद्या ये तु संयुक्ता वियोगाख्यस्वभाविनः ।नाड्यो ग्रासस्वभावाश्च को लाभो विषसंग्रहे ॥४७॥वद विप्र प्राणनाशे देहनाशे स्वभावजे ।मयि नाशे त्वयि नाशे को लाभोऽत्र निजात्मनोः ॥४८॥देहनाशे नात्मलाभो नश्वरं गत्वरं वपुः ।गच्छत्येव स्वभावेन मा खेदं कुरु भूसुर ॥४९॥गत्वरेण तु देहेन लाभो मोक्षो हि देहिनः ।समर्थस्त्वं कृतकृत्यो मुक्तिं विधेहि मेऽनघ ॥५०॥मुक्तिलाभः परो लाभस्ते मेऽपि देहिनां तथा ।मा क्रोधं वह विप्रेन्द्र रोषो वै निरयप्रदः ॥५१॥मया रोषेण वै प्राप्ता योनिरियं विषोल्बणा ।निरयाख्या ततो विप्र मा क्रोधं कुरु मां प्रति ॥५२॥धर्मसुमन्तुरुवाच-अहो विद्वन् ख्यायसे त्वं सर्पोऽपि मुनिराडिव ।कोऽसि सर्पत्वरूपस्त्वं मम प्राणहरो वद ॥५ ३॥मृत्युर्वा च महाकालो यमदूतो यमः स्वयम् ।मत्प्रारब्ध च वा कर्म वनदेवोऽसि वा वद ॥५४॥संकर्षणो वा शेषो वा ज्ञानी कस्त्वं नरोऽसि वा ।प्रेतो वा सत्यसर्पो वा जातिस्मरोऽसि को न्विह ॥५५॥सर्पभावेऽपि नैसर्गं भाषसे शास्त्रसम्मतम् ।स्वभावेन प्रयातानां लाभो नास्ति जडात्मनाम् ॥५६॥लाभः प्राप्तिर्हि संयोगो जडानां किं च तेन वै ।लाभः प्राप्तिः सुखादेश्च भोगश्चात्मनि वै मतः ॥५७॥सुखदुःखप्रवेदोऽयं जीवे भवति भोगकः ।शत्रुनाशे भवेच्छान्तिर्मन्यते मूर्खमायिकः ॥५८॥अजातशत्रुश्चात्माऽस्ति सुखदुःखपरं गतः ।नास्य लाभश्च वा हानिर्देहयोगवियोगतः ॥५९॥फणिन् किन्तु मोक्षहेतुर्मानवं वर्ष्म सम्मतम् ।असम्पाद्य च मोक्षं वा साधनं श्रेयसा प्रदम् ॥६०॥मध्ये मृत्युर्भवेच्चेत् सा मोक्षहानिर्भवेदिति ।अलाभः स भवेदत्र तत्र निमित्तमाप्तवान् ॥६१॥सर्प त्वं ब्रह्महत्याया भागवानत्र दोषवान् ।अमोक्षगो भवस्यत्र पापवान् नहि लाभवान् ॥६२॥अहं चेत् त्वां मारयामि मेऽपि लाभो न विद्यते ।देहनाशे न वै लाभो मोक्षहाना च नापि सः ॥६३॥अलाभौ त्वावयोस्तुल्यौ वद कस्त्वं प्रवित्तिमान् ।लाभो वाऽत्र त्वया दृष्टः कीदृशो वद मे फणिन् ॥६४॥सर्प उवाच-अहो विप्र स्वभावेन कोमलोऽसि दयापरः ।ज्ञानेन च बृहस्पतिसमोऽसि व्यासदेववत् ॥६५॥रागद्वेषरहितोऽसि लाभाऽलाभविवेचने ।वदामि सूत्ररूपेण लाभाऽलाभौ शृणु त्विह ॥६६॥लाभः समयसत्कारो हानिः सा समयच्युतिः ।प्राप्ते वै समये योग्ये सत्कारेण युनक्ति न ॥६७॥गतः स समयः पश्चान्नैवाऽऽयातिगतो गतः ।ममाऽऽसीत् समयश्चात्र मानुषे क्षत्रवर्ष्मणि ॥६८॥अर्कग्रामे तव ग्रामे स्मृद्धे स्मृद्धिसमन्विते ।मम पुत्रा बान्धवाश्च भृत्या दासादयस्तथा ।अश्वा गृहाणि क्षेत्राणि विद्यन्ते तव पत्तने ॥६९॥मया विसृष्टास्ते सर्वे मां न जानन्ति मायिकाः ।अहं जातिस्मरः सर्वान् जानामि त्वां तथा परान् ।ग्रामान् सर्वलोकाँश्च त्वं न जानासि मामिह ॥७०॥शृणु विप्र कथयामि तव ग्रामनृपो हि यः ।नाम्ना शार्दूलचन्द्रश्च सोऽहमासं जनाधिपः ॥७१॥नास्तिको निन्दकश्चापि विप्राऽवमानकारकः ।धर्मकर्मविहीनश्च हेतुवादे रतः सदा ॥७२॥त्वं च विप्र मम ग्रामे कथां कुर्वन् जनान् दिशन् ।मुहुर्मां च समागत्य धर्मार्थं समुपादिशः ॥७३॥दानार्थं हवनार्थं परोपकारार्थमित्यपि ।मया वाक्यं तवोक्तं वै नाङ्गीकृतं क्वचित्तदा ॥७४॥तिरस्कृतो भवाँस्तत्र निन्दितश्च मया बहु ।अथैकदा त्वं यज्ञार्थं याञ्चां वै कृतवान् शुभाम् ॥७५॥सुवर्णस्य धनादेश्च मया ज्ञात्वा तु वञ्चकः ।रुषा निष्कासितो ग्रामाद् बहिस्त्वं वटमाश्रितः ॥७६॥शार्दूलोऽयं मां शशाप मृत्युमाप्नोतु निन्दकः ।तेनाऽहं मरणं प्राप्तः सक्रोधस्त्वां प्रतीति च ॥७७॥सर्पभावं चेह तिर्यग्योनिं प्राप्तोऽस्मि स नृपः ।दुःखं पश्यामि च जातिं स्मरामि सर्वबान्धवान् ॥७८॥दर्शयाम्यपि स्वं त्वेते नैव जानन्ति मामिमम् ।ब्राह्मणा नावमन्तव्या ब्रह्मभक्ताः कदाचन ॥७९॥विद्वांसो नावमन्तव्या ज्ञानाग्निमूर्तयः क्वचित् ।अवमन्तुर्भवेन्नाशो नाशयितुर्विनाशनम् ॥८०॥बलिष्ठेऽग्नौ पतद्वारि स्वयमेव प्रदह्यति ।अहं प्रदग्धः शापेन सर्पयोनिं गतोऽस्म्यपि ॥८१॥वैरबुद्धिं स्मराम्येव हन्तुं त्वां मार्गयामि च ।अद्य त्वं निर्जने प्राप्तो मया दंष्टो विरोधतः ॥८२॥वैरनिर्यापनार्थं वै मृत्युस्तेऽस्ति ध्रुवो द्विज ।स्वस्वकर्मफलं भुंक्ते देहि क्वापि च वर्ष्मणि ॥८३॥क्रोधेन शापदानेन राजहत्याकृतेन च ।प्रायश्चित्तविहीनस्य तवाऽऽयुष्यमिति गतम् ॥८४॥मम राज्ञ्याश्च दुःखेन तवाऽऽयुष्यं क्षयं गतम् ।सतीनां तु विनिःश्वासैर्ज्वलन्ति ब्राह्मणा अपि ॥८५॥तत्तथैव हि विप्रेन्द्र तवाऽऽयुष्यं क्षयं गतम् ।येषामायुष्यविगमस्ते न जीवन्ति वै क्षणम् ॥८६॥कालदूताः समायान्ति प्रेरितास्तूर्णमेव ह ।नाशयन्ति गतायुष्यं दूता निमित्तमात्रकाः ॥८७॥सर्पाश्च वृश्चिकाश्चापि विषश्वानो विषौषधम् ।भूतप्रेतपिशाचाद्या यमदूता ग्रहादयः ॥८८॥वह्निर्जलं ज्वराद्याश्च शत्रवोऽपि निमित्तकम् ।हन्यते स निमित्तेन हन्ताऽस्याऽस्ति परोऽपरः ॥८९॥अविज्ञाय न्विदं तत्त्वं द्विषन्ति वृश्चिकादिकान् ।तस्माद् विप्र मृतिस्तेऽत्र ध्रुवा मेऽपि मृतिर्ध्रुवा ॥९०॥मुक्तये त्वं समर्थोऽसि ममाऽपि च तवाऽपि च ।नरदेहः कर्मभूमिस्तेन सर्वमवाप्यते ॥९१॥प्राणान्तेऽपि कृतं श्रेष्ठं रक्षत्येव प्रकारिणम् ।मरणं ध्रुवमस्त्येव कुरु यन्मोक्षणं हि नौ ॥९२॥जीवाऽभयप्रदानं वै सर्वमेधाधिकं फलम् ।ददात्येव ततो विप्र मम मोक्षं विधेहि वै ॥९३॥विप्रश्चोक्तस्ततस्तूर्णं सर्पाय कलशाज्जलम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥९४॥इतिमन्त्रेण सम्मन्त्र्य ददौ पानार्थमेव च ।तद्देहे प्रोक्षितवाँश्च सर्पो देहं विहाय च ॥९५॥तूर्णं देवस्वरूपो वै भूत्वा स्वर्गं ययौ तदा ।ब्राह्मणश्च प्रसस्मार विषदग्धो हरिं प्रभुम् ॥९६॥देहं तत्याज तत्रैव मार्गाटव्यां हि निर्जने ।आत्माऽस्य च समप्राप्तश्चाश्वपट्टसरोवरम् ॥९७॥श्रीकृष्णचरणे तत्र तस्थावन्ते यथामति ।अथ कर्षुकलोकेन विप्रो मृतो विलोकितः ॥९८॥कर्षुकस्तु गतो ग्रामं विप्रेभ्यो वृत्तमाह तत् ।द्विजा नीत्वा शवं दग्धुं त्वश्वपट्टसरोवरम् ॥९९॥आययू रुरुदुः सर्वे बान्धवाः सरसस्तटे ।शवं निधाय वै सर्वे गुणान् जगुर्द्विजस्य ह ॥१००॥श्वेतव्याससमश्चायं धर्मकर्मपरायणः ।मोक्षदश्चापि लोकानां दुर्लभो विप्र ईदृशः ॥१०१॥श्वेतव्यासस्य शिष्योऽयं समाधिस्थितिपारगः ।सर्पदंशनिमित्तेन मृतश्चाश्चर्यमेव तत् ॥१०२॥आयुष्यं छिन्नतां प्राप्तं सन्धीयते न केनचित् ।विना वै परमात्मानं विना गुरुं च योगिनम् ॥१०३॥इत्येवं ते वदन्तश्च श्वेतव्यासं प्रसस्मरुः ।सस्मरुः श्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥१०४॥अथ राजंस्तस्य भार्या विप्राणी दुःखदुःखिता ।सतीभावेच्छया तत्र चिताभ्याशे समाययौ ॥१०५॥श्वेतव्यासं प्रसस्मार तथा कृष्णनरायणम् ।शवं प्रपूज्य विधिना चितायां सा समार्पयत् ॥१०६॥वह्निं प्रज्वाल्य पादाग्राद् यावद् दग्धुं समीहते ।तावत्तत्र भक्तिवशो भगवान् कृष्णवल्लभः ॥१०७॥अनादिश्रीकृष्णनारायणः श्वेतस्वरूपवान् ।श्वेतव्यासात्मकस्तत्राऽऽययौ धर्मसुमन्तुना ॥१०८॥सहैव स चितापार्श्वे गत्वा सतीं जगाद ह ।एष ते पतिरास्ते वै गृहाण मा ह्यनु ज्वल ॥१०९॥तावत् समुत्थितो विप्रो जीवन् श्वसन् हसन् क्षणात् ।सती मग्नाऽभवच्चापि प्रसेदुर्ब्राह्मणा अपि ॥११०॥तीर्थं कृत्वा ततः सर्वे ययुश्चार्कपुरं प्रति ।श्वेतव्यासाख्यतीर्थं तत् सतीतीर्थं तथा नृप ॥१११॥जीवतीर्थमिदं चास्ते स्नाहि तीर्थविधिं चर ।इत्यादिष्टो नृपश्चाश्वपाटलस्तत्र राधिके ॥११२॥श्वेतव्यासस्य वै पूजां चकार स्नानमाचरत् ।ददौ दानानि बहूनि ततो ययौ स्थलान्तरम् ॥११३॥लोमशेन समं तीरे तीर्थान्तरे स्थिरोऽभवत् ।सस्मार श्रीहरिं चापि नेमे तीर्थं च मन्दिरम् ॥११४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽर्कपुरीनृपस्य धर्मसुमन्तुऋषिशापेन सर्पता, विप्रस्य सर्पदंशः, सर्पमोक्षः, अश्वपट्टसरोवरे श्रीकृष्णनारायणेन विप्रपत्न्याः सत्याः प्रार्थनया विप्रो जीवितः, श्वेतव्यासतीर्थं सतीतीर्थं चेत्यादिनिरूपणनामा षट्षष्ट्यधिकद्विशततमोऽध्यायः ॥२६६॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP