संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ११२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ११२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११२ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! ताभिर्नदीभिर्यत्तदाऽर्थितम् ।त्वया कृष्ण! वयं सर्वास्तीर्थीकृताः कृपावशात् ॥१॥सर्वदेवनिवासाँश्च प्रदेह्यस्मत्तटेष्विह ।इत्यस्माकं सुसंकल्पं प्रपूरय प्रभापते ॥२॥श्रुत्वा प्राह महाराजः कृष्णनारायणः प्रभुः ।ब्रह्माणं शंकरं विष्णुं सर्वदेवाऽऽह्वनाय वै ॥३॥त्रिदेवाः सस्मरुर्देवान् त्रयस्त्रिंशत्प्रकोटिकान् ।सर्वे तूर्णं समाजग्मुर्यत्र कृष्णनरायणः ॥४॥वने वै सुन्दराख्ये ते समागत्य नरायणम् ।नमश्चक्रुः समीहाना आज्ञां नारायणस्य ते ॥५॥हरिः प्राह वसूनष्टौ रुद्रानेकादशैव च ।द्वादशादित्यवर्याश्चाऽश्विनौ द्वौ लोकहेतवे ॥६॥भवन्तो भिन्नरूपैश्च तिष्ठन्तु तीर्थकाम्यया ।ब्रह्मपुत्र्यादिसलिले लोकपावनहेतवे ॥७॥तत आरभ्य तन्मूले वसवो वासमाचरन् ।संगमेष्वादित्यवर्या रुद्राः समुद्रसंगमे ॥८॥अश्विनौ वक्रगत्यादौ वासान् समाचरँस्ततः ।इन्द्राद्याश्च दिशां पाला अष्टौ तेषां ह्रदेषु च ॥९॥सप्तर्षयस्तीरवनेष्ववसन् यत्र पर्वताः ।नवग्रहा निवासं चाऽकुर्वन् नगरसन्निधौ ॥१०॥मरुद्देवाश्च तीरेषु स्वल्पसरित्समागमे ।चतुःषष्टिमहायोगिन्यश्चाऽवसन् समुच्छ्रये ॥११॥अवतारेषु सर्वत्राऽष्टषष्टितीर्थमण्डलम् ।वालखिल्याः पितरश्चर्षयो विश्वेसुरास्तथा ॥१२॥सिद्धाश्चासां प्रमार्गेषु न्यवसँस्तीर्थरूपिणः ।इत्येवं श्रीहरिस्ताभ्यस्तीर्थानि प्रददौ स्वयम् ॥१३॥एतेषां तु निवासेषु यज्ञदानतपःक्रियाः ।क्रियमाणा यजमाने शाश्वतपुण्यकारिकाः ॥१४॥माघकृष्णैकादशिकोत्तरं पुनर्मृधोऽभवत् ।सप्ताहस्तत्र वै सर्वान् दैत्यान् विनाश्य माधवः ॥१५॥चक्रे द्वितीययज्ञं स माघे सिते तु पञ्चमे ।दिने सप्ताहयज्ञः स पूर्णोऽभवद् व्रते दिने ॥१६॥एकादश्यां कृतं तस्याऽवभृथं च ततः परम् ।चतुर्दिनानि सर्वासां जलेषु स्नानमाचरत् ॥१७॥अनादिश्रीकृष्णनारायणः श्रीपूर्णिमातिथौ ।आययौ च विमानेन वनं सुन्दरसंज्ञकम् ॥१८॥तस्मात्तीर्थानि सर्वाणि लाशहाख्ये सरोवरे ।शालावत्या ब्रह्मपुत्र्या जले सप्ताहकेऽत्र वै ॥१९॥वसन्ति च समायान्ति माघशुक्ले विशेषतः ।सरित्स्वन्यासु च चतुर्दिनेषु संवसन्ति च ॥२०॥तत्र दानं गवां देयं गजानां वाजिनां तथा ।अजानां च तथोष्ट्राणां वृषाणां देयमित्यपि ॥२१॥कम्बलानां च वस्त्राणां यानानां दानमुत्तमम् ।विमानानां गृहाणां च क्षेत्राणां देयमित्यपि ॥२२॥अन्नानां विविधानां च द्विदलानां प्रदानकम् ।शाकानां चापि पात्राणां कन्दानां देयमित्यपि ॥२३॥कणानां सुरसानां च शर्कराणां पतत्त्रिणाम् ।पत्राणामिक्षुदण्डानां फलानां देयमित्यपि ॥२४॥पेटिकानां मञ्जुषाणां पात्राणां दानमुत्तमम् ।मञ्चोपकरणानां च स्वर्णस्य रजतस्य च ॥२५॥मुद्रादेश्च धनस्यापि कर्तव्यं दानमित्यपि ।विद्यादानं प्रदातव्यं दासदानं तथोत्तमम् ॥२६॥दासीदानं प्रदातव्यं मोक्षदानं महोत्तमम् ।ज्ञानदानं कथादानं पुत्रदानं स्वदानकम् ॥२७॥कन्यादानं प्रदातव्यं योग्याय तु वराय च ।सौधदानं तथा शय्यादानं पर्यंकदानकम् ॥२८॥कर्तव्यं दैवपुरुषे दैवीसत्यां फलप्रदम् ।देवमूर्तिप्रदानं च स्वर्गदं मोक्षदं तथा ॥२९॥देहदानं प्रकर्तव्यं कटिदानं परात्मने ।सर्वदानं प्रदातव्यं श्रीशाय परमात्मने ॥३०॥आत्मदानं सदा देयं गुरवे मोक्षदाय वै ।पुस्तकानां पाठदानं कर्तव्यं पाठिने सदा ॥३१॥माघे सर्वाणि दानानि सर्वमासेष्वपि ध्रुवम् ।कर्तव्यानि सकामैस्तु लभ्यते फलमक्षरम् ॥३२॥रक्तदानं वाष्पदानं गर्भदानं तथा स्त्रियाः ।रतिदानं प्रदातव्यं औषधादिप्रदानकम् ॥३३॥नारायणबलिः श्राद्धं कर्तव्यं मृतमुक्तिदम् ।आश्रया आलया धर्मशाला मखाश्च तत्तटे ॥३४॥अन्नसत्राणि कार्याणि वृद्धानामाश्रयास्तथा ।विद्यानामाश्रयाः कार्याः कन्याऽनाथाश्रयास्तथा ॥३५॥विधवानां विधुराणामाश्रयाः कर्मयोजकाः ।कर्तव्या धनिभिस्तासां नदीनां तीरभूमिषु ॥३६॥लोकसेवाप्रवाहाश्च कारणीयाः समन्ततः ।परोपकाराः कर्तव्या मानवैर्नरयोषिताम् ॥३७॥तीर्थेकृतानि तान्येव कोटिगुणफलानि वै ।कालमानप्रदानं च विद्युन्मानप्रदानकम् ॥३८॥अंगदानप्रदानं च कर्तव्यं तीर्थभूमिषु ।यन्त्रदानं प्रकर्तव्यं प्रतिबिम्बप्रदानकम् ॥३९॥दूरश्रवणदृष्ट्यादियन्त्रदानं तथोत्तमम् ।देयं कृषिहलाद्यं च साधनं महदुत्तमम् ॥४०॥अथ देयं सुगन्ध्यादि पुष्पसारं सदुत्तरम् ।गन्धसारं रससारं सारसारं परात्परम् ॥४१॥ब्रह्मपुत्री स्थापनीया चतुर्हस्ताऽतिसुन्दरी ।लवहीता स्थापनीया द्विहस्ता रमणी सती ॥४२॥चन्द्रावती स्थापनीया षोडशकरशालिनी ।इरावती स्थापनीया अष्टहस्ता सुकन्यका ॥४३॥शालावती स्थापनीया चतुर्हस्ता मनोहरा ।मेनकांगा मनिकङ्गू स्थापनीये चतुर्भुजे ॥४४॥लाटिशा कानिशा स्थाप्ये द्विभुजे कन्यके शुभे ।मापींगा चापि सीक्यांगा स्थाप्येऽष्टकरशालिनी ॥४५॥अष्टादशभुजे स्थाप्ये अंगस्वांगा हरांगिका ।मौक्तिका तारिमा स्थाप्ये द्विभुजे चित्तकर्षिके ॥४६॥पन्नाम्नी त्वंगहा स्थाप्ये द्विभुजे च सुरूपिणी ।मन्नाम्नी मणिवर्णा च स्थाप्ये दशभुजे शुभे ॥४७॥रंगवर्णा तथा स्थाप्या चतुर्भुजा नदी सती ।इत्येवं कृष्णपत्नीनां रूपाणि सरितां प्रिये ॥४८॥कृत्वोद्भिन्नयुवतीत्वभावापन्नानि सर्वथा ।सुहास्यसौम्यवात्सल्ययुक्ताननानि राधिके ॥४९॥श्वेतचम्पकवर्णानि स्वर्णकान्तियुतानि च ।कारयित्वा प्रतिमाश्च मन्दिराणि शुभानि च ॥५०॥स्थापनीयान्यनादिश्रीकृष्णनारायणेन वै ।सहितानि किशोरेण रम्याणि मानवैर्भुवि ॥५१॥तत्तन्नदीप्रदेशानां प्रजानां ता हि मातरः ।पूजिता वन्दिता नित्यं करिष्यन्ति प्रजाऽवनम् ॥५२॥ताभ्यो भूषाः प्रदातव्या नारीभिः पतिकाम्यया ।सौभाग्यदाश्च ताः सन्ति नारीणां पूजिताः सदा ॥५३॥अवैधव्यप्रदाश्चापि तथाऽऽयुष्यविवर्धिकाः ।पुत्रपौत्रप्रदाश्चाप्यारोग्यदा धनधान्यदाः ॥५४॥ताभ्यः शाट्यः प्रदातव्याः कंचुक्यश्चोलिकास्तथा ।केशतैलं प्रदातव्यं केशशृंगारकादिकम् ॥५५॥पुष्पहाराः कज्जलं च तैलं सुगन्धसारकम् ।घर्घर्यः कवचं वस्त्रं तथा मत्सरवारिणी ॥५६॥शय्या गेन्दुकमुत्कृष्टं मृदुलं गुप्तदोरकम् ।उतरीयं केशकाञ्ची प्रदेया सरिते जनैः ॥५७॥सिंहासनं कारणीयं छत्रं च हाटकादिजम् ।मुकुटं तन्तिका काञ्ची रशना कटकादिकम् ॥५८॥ऊर्मिकाऽङ्गुलीयकानि शृंखलाश्च नुपूरकम् ।हाराः सुवर्णजन्याश्च स्वस्तिकश्चन्द्रकस्तथा ॥५९॥बिन्दुश्चन्द्रकपट्टी च नखरञ्जनकानि च ।भोज्यपानानि देयानि मन्दिरे सरितां जनैः ॥६०॥कंकतिर्दोरकश्चापि चिपीटकश्च राजतः ।सुकिंकिणीजालयुक्तचड्डिका पादयोस्तथा ॥६१॥धूपो दीपश्च नैवेद्यं तथा नीराजनादिकम् ।कलशश्चान्यवस्तूनि देयानि सरितां गृहे ॥६२॥कन्यकाभिः कुंकुमं चाक्षता देयाश्च शर्कराः ।सुवासनीभिः शृंगाराम्बरभूषादि सौभगम् ॥६३॥दातव्यं वै नदीभ्यश्च हरिप्रियाभ्य उत्तमम् ।प्रेङ्खा देया घोटकादि दोला पालनमित्यपि ॥६४॥वातयानं वाष्पयानं वह्नियानं तथा शुभम् ।उष्णयानं प्रभायानं चाणुयानं समुत्तमम् ॥६५॥प्रदातव्यं विहारार्थं व्योम्नि जले तथाऽम्बरे ।जलयानं चाश्वयानं दातव्यं भूविहारि च ॥६६॥जलरूपां मूर्तिरूपां पितृकन्यां सुतोषयेत् ।तासु भगवत्पत्नीषु तुष्टासु तुष्यति प्रभुः ॥६७॥तासां महोत्सवाः कार्या माघे कृष्णे सिते तथा ।तासामग्रे प्रकर्तव्यं नृत्यं वादित्रवादनम् ॥६८॥कीर्तनं भगवद्गानं स्तवनं सामवैदिकम् ।कोटिहीरकरत्नाद्यैः शोभनीयाश्च तास्तदा ॥६९॥पुष्पसुगन्धशोभाद्यैरर्चनीया हरिप्रियाः ।ऊर्जकृष्णाष्टमीप्रातःकाले ब्रह्मप्रियायुतः ॥७०॥पितृकन्यायुतोऽनादिकृष्णनारायणः प्रभुः ।पूजनीयोऽतिभावेन शोभनीयोऽतिवस्तुभिः ॥७१॥शृंगारणीयो भगवान् तदा राजाधिराजवत् ।स्वर्णहारादिभिः स्वर्णतन्त्वम्बरादिभिस्तथा ॥७२॥अष्टोत्तरशतैश्चापि भक्ष्यभोज्यादिभिस्तथा ।परिचर्यादिभिः कृष्णस्तोषणीयोऽतिगीतिभिः ॥७३॥राशैर्मनोहरैश्चापि नरनारीसुमिश्रितैः ।नगरे नगरे ग्रामे वने चावसथेष्वपि ॥७४॥घोषे च पत्तने पूरे राजधान्यां विशेषतः ।ताभिस्ताभिः सुपत्नीभिः सह नारायणो हरिः ॥७५॥गजयानैरश्वयानैः स्वर्णशकटीभिस्तथा ।राजतीभिः शकटीभिः कलशध्वजापार्षदैः ॥७६॥सहिताभिः शुभाभिश्च भ्रामयितव्य एव सः ।रथश्च सेवकैः स्थिरीकर्तव्यः प्रतिचत्वरम् ॥७७॥प्रतिहट्टं प्रतिरथ्यं प्रत्यापणं च गोपुरे ।पूजनीयः श्रीफलाद्यैः प्रतिराजगृहं तथा ॥७८॥पुष्पवृष्टिः प्रकर्तव्याऽक्षतलाजादिमिश्रिता ।चन्दनं गन्धसलिलं प्रोक्षणे देयमेव तु ॥७९॥मिष्टान्नं मिष्टपानीयं पातव्यं चार्थिने रथात् ।प्रसादश्च प्रदातव्यो भक्तेभ्यः पथि सर्वथा ॥८०॥तूर्याणि राजतूर्याणि वादनीयानि चाग्रतः ।धूपदीपसहितोऽयं भ्रामणोत्सव उत्तमः ॥८१॥कर्तव्यः कार्तिके कृष्णे कृष्णजन्ममहोत्सवः ।एवं वै भ्रामयित्वैव भगवन्तं प्रियायुतम् ॥८२॥विशाले मण्डपे रात्रौ स्थापनीयो गजासने ।नीराजनं प्रकर्तव्यं शताष्टवर्त्तिभिस्ततः ॥८३॥रासस्तत्र प्रकर्तव्यस्तालिकादण्डिकादिभिः ।वादित्रैर्विविधैश्चापि कथा कार्या तदा हरेः ॥८४॥पूजनं संविधायैव परिहारं समाचरेत् ।रात्रौ तन्मन्दिरे नेयो भगवान् सह पत्नीभिः ॥८५॥ततो भक्तैः प्रकर्तव्यं जागरणं तथाऽथवा ।सुप्तव्यं स्वगृहे गत्वा ब्रह्मचर्यपरायणैः ॥८६॥प्रातः स्नात्वा हरिं नत्वा कृत्वा दर्शनपूजनम् ।ततो दानादि कर्तव्यं नवम्यां प्रातरित्यपि ॥८७॥तस्य पुण्यस्य नान्तोऽस्ति परमोक्षप्रदं हि तत् ।एवं महोत्सवे कृष्णनारायणः प्रसीदति ॥८८॥सरितश्च प्रसीदन्ति ददत्यतीव सम्पदः ।धनधान्यादिसमृद्धीर्ददत्यपि नवा नवाः ॥८९॥आरोग्यं पुत्रपौत्रादि गोमहिषी धनान्यपि ।अश्वहस्त्युष्ट्रयानानि विमानं राजसम्पदः ॥९०॥कीर्तिं स्वर्णं पूज्यतां च लोके ख्यातिं परां स्थितिम् ।ददत्येव सरिच्छ्रेष्ठास्तुष्टाः श्रीपतिना सह ॥९१॥इत्येवं श्रीकृष्णनारायणः प्राह स्वयं प्रभुः ।गृहे गृहे प्ररक्ष्या मे प्रतिमा सरिता सह ॥९२॥पूजनीया सदा प्रातर्मध्याह्ने सायमित्यपि ।करिष्ये तन्मन_ पूर्णं स्वेष्टं दास्ये पुनः पुनः ॥९२॥इत्याह भगवाँस्ताभ्यः सतीभ्यस्तत्र सुन्दरे ।वने पश्चाद् ब्रह्मपुत्रीसागरे सस्नुरेव च ॥९४॥गंगासागरयोगे च सस्नुः सर्वविमानगाः ।साकं भगवता स्वामिकृष्णनारायणेन वै ॥९५॥क्षणं ध्यात्वा पुपूजुश्च कृष्णनारायणं प्रभुम् ।दध्युर्नारायणमूर्तिं हृदयेषु स्थिरीकृताम् ॥९६॥इत्येतद् राधिके! तुभ्यं मयोक्तं हरिचेष्टितम् ।श्रवणात्पठनाच्चापि भुक्तिमुक्तिप्रदं शुभम् ॥९७॥स्वर्गमोक्षप्रदं चापि पापतापप्रणाशनम् ।सर्वदा कीर्तनीयं वै भक्तैरपि मुमुक्षुभिः ॥९८॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने द्वितीययज्ञभूमिरूपलाशहासरोवरसरितां मूर्त्यादिपूजनप्रतिष्ठामाहात्म्यवर्णननामा द्वादशाधिकशततमोऽध्यायः ॥११२॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP