संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १८८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १८८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८८ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके श्रीबालकृष्ण उपादिदेश संसदम् ।परीशाननगर्यां यत् तत्ते संश्रावयाम्यहम् ॥१॥हरिः प्राह हि संसारे मरणं ध्रुवमेव हि ।शरीरं गत्वरं प्राणा गत्वरा गत्वराः श्रियः ॥२॥संयोगा गत्वराः सर्वं ब्रह्माण्डं चापि गत्वरम् ।गत्वराणि हि भूतानि चात्माऽन्यत्र गमिष्यति ॥३॥पुनर्नैतादृशं प्राप्यं गत्वरं कृतबुद्धिना ।आत्मना स्थास्नुना लभ्यः स्थास्नुर्मोक्षो हि शाश्वतः ॥४॥अग्रिमाणां क्षितिभुजां मान्यो देवमहर्षिभिः ।वर्धितः स्वस्तिवचनैराशीर्भिर्योजितो नृपः ॥५॥आविक्षितो मरुत्तश्च महाभागवतो ह्यभूत् ।यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः ॥६॥देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ।यस्मिन् शासति पृथिवी चाऽकृष्टपाकदाऽभवत् ॥७॥यस्य यज्ञे तदाऽऽसँश्च विश्वेदेवाः सभासदः ।मरुतः परिवेष्टारः साध्याश्च साधवस्तथा ॥८॥अहमासं क्रतौ भोक्ता मूर्तिमाननले तदा ।स राज्यं मत्परं कृत्वा कृत्वा स्वं मत्परायणम् ॥९॥ययौ धामाऽक्षरं मे च तथा कार्यं नृपैरिह ।सुहोत्रो नाम नृपतिस्तथा भागवतोऽभवत् ॥१०॥यस्मिन् हिरण्यं ववृषे मघवा परिवत्सरम् ।सत्यनामा वसुमती स्वर्णं नद्योऽवहँस्तदा ॥११॥इन्द्रो ववर्ष मकरान् कूर्मान् यादांसि यानि च ।हिरण्यमयानि सम्राट् स ब्राह्मणेभ्यः समार्पयत् ॥११॥अहं श्रीबालकृष्णोऽस्मि सर्वपात्रेषु मां स तु ।सुयष्ट्वा सोऽतिथिर्भूत्वा ययौ मे परमं पदम् ॥१३॥अंगो बृहद्रथो राजा महाभागवतो ह्यभूत्॥यः सहस्रं सहस्राणां श्वेतानश्वान् प्रदत्तवान् ॥१४॥सहस्रं च सहस्राणां कन्या हेमपरिष्कृताः ।सहस्रं च सहस्राणां गजानामतिपद्मिनाम् ॥१५॥शतं शतसहस्राणि वृषाणां हेममालिनाम् ।सहस्राणि सुवर्णानां निष्काणां प्रतिमानवम् ॥१६॥ईजानो वितते यज्ञे सोमसंस्थासु सप्तसु ।भिक्षुकेभ्योऽपि विप्रेभ्यो दक्षिणा अत्यकालयत् ॥१७॥कृत्वा मां सुप्रसन्नं च भजित्वा मां क्रतौ नृपः ।महाभागवतो भूत्वा ययावन्ते तु मत्पदम् ॥१८॥शिबिश्चौशीनरो राजा महाभागवतोऽभवत् ।य इमां पृथिवीं सर्वां सुवर्णैरभ्यवेष्टयत् ॥१९॥यावदस्यां गवाश्वं च हस्तिगवयकं तथा ।अभूत् सर्वं प्रददौ स दानेऽसंख्यगुणं ततः ॥२०॥प्राप्य प्रसन्नतां मेऽत्र भूत्वा भागवतो महान् ।मां भजित्वा ययौ धामाऽक्षरं मे शाश्वतं शिबिः ॥२१॥भगीरथोऽनयद् गंगां पित्रुद्धारणहेतवे ।महाभगवतो भूत्वा ययौ धामाऽक्षरं मम ॥२२॥दिलीपः कृतवान् यज्ञं वैष्णवं मम तुष्टये ।सहस्रं वारणान् हैमान् दक्षिणामत्यकालयत् ॥२३॥चषाले यस्य सौवर्णे तस्मिन् यूपे हिरण्मये ।ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा ॥२४॥स प्रसाद्य परंब्रह्म मां भक्त्या सेवया सताम् ।ययौ धामाऽक्षरं मे तु शाश्वतं चाऽपुनर्भवम् ॥२५॥मान्धाता यौवनाश्वोऽभूद् राजा भागवतो महान् ।इन्द्रो पोष्टाऽभवद् यस्य सर्वक्ष्माशासकोऽभवत् ॥२६॥अश्वमेधशतं चक्रे राजसूयशतं तथा ।हैरण्यान् रोहितान् मत्स्यान् ब्राह्मणेभ्योऽददत् स च ॥२७॥यज्ञेषु मां प्रतर्प्यैव कृत्वा भक्तिं ममाऽधिकाम् ।प्राप धामाऽक्षरं मे स कृतकृत्योऽभवत् सदा ॥२८॥ययातिश्चाऽभवद् राजा नाहुषो भक्तिमान् मम ।तीरक्षेपेण कुण्डं स कारयित्वाऽयजद्धि माम् ॥२९॥चक्रे यज्ञसहस्रं स वाजपेयशतं तथा ।ददौ दाने त्रीन् सुयोग्यान् स्वर्णशैलान् मदर्थकान् ॥३०॥वने गत्वा स मां कृष्णं प्रसाद्याऽक्षरमाप्तवान् ।अम्बरीषश्च नाभागो महाभागवतोऽभवत् ॥३१॥यः सहस्रं सहस्राणां राज्ञामयुतयाजिनाम् ।ईजानो वितते यज्ञे मयि सर्वार्पणं न्यधात् ॥३२॥सुदर्शनं मया चक्रं तद्रक्षार्थं समर्पितम् ।सोऽन्ते धामाऽक्षरं प्राप प्रसाद्य मां परेश्वरम् ॥३३॥शशबिन्दुरभवच्च भूपो भागवतो महान् ।यज्ञे राज्यं च सर्वस्वं दत्त्वा वनं जगाम ह ॥३४॥मामाराध्य ययौ धामाऽक्षरं मे शाश्वतं स्थिरम् ।गयो राजाऽभवच्छ्रेष्ठो महाभागवतः शुचिः ॥३५॥स च वर्षशतं राजा हुतशिष्टाशनोऽभवत् ।अग्निस्तुष्टो वरदानं भक्तिरूपं ददौ हरौ ॥३६॥अयजद् वाजिमेधेन सहस्रं परिवत्सरम् ।सौवर्णां पृथिवीं कृत्वा ददौ दानं द्विजातये ॥३७॥यावत्यो गांगसिकतास्तावतीः प्रददौ स गाः ।माम् आराध्य चायुषोऽन्ते ममाऽक्षरपदं ययौ ॥३८॥रन्तिदेवोऽभवद् राजा महाभागवतश्च सः ।अतिथौ मां विलोक्यैव पुष्कसाय जलं ददौ ॥३९॥शतकोटिसहस्राणि भुञ्जते तद्गृहे द्विजाः ।स मां प्रसाद्य सम्प्राप धामाऽक्षरपदं मम ॥४०॥सगरो नाम राजा च वाजिमेधसहस्रकम् ।कृत्वा दत्वा च सर्वस्वं मामाराध्य गतोऽक्षरम् ॥४१॥पृथुः साक्षादहमासं सोऽपि चाराधनां मम ।कृत्वा विवेश मद्रूपे तथा कुर्वन्तु भूमिपाः ॥४२॥रुक्मांगदश्च राजर्षिर्धर्मांगदश्च तत्सुतः ।आराध्य मां ययतुश्च मम धामाऽक्षरं परम् ॥४३॥रुक्मांगदगृहे कन्या वेधसो मोहिनी प्रिया ।पत्नीरूपाऽभवद् या तु वेधा तिथिः समुच्यते ॥४४॥सुद्युम्नश्चाऽभवद् राजा ध्यात्वा नारायणं तु माम् ।प्रापद् धामाऽक्षरं भक्त्या शाश्वतं मम वै प्रजाः ॥४५॥इन्द्रद्युम्नोऽभवद् राजा पुरुषोत्तमभक्तराट् ।मामारध्य ययौ धामाऽक्षरं वै शाश्वतं मम ॥४६॥पुण्डरीकोऽभवद् राजा महाभागवतो मम ।भक्त्या धामाऽक्षरं प्राप शाश्वतं परमं पदम् ॥४७॥प्रह्लादश्च बलिर्बाणो भूपाः पातालवासिनः ।राजस्था अपि भक्त्या मां तोषयन्ति दिवानिशम् ॥४८॥उदयनो महाराजस्तथा रणंगमोऽपि च ।चित्रकेतुस्तथा नन्दस्त्वेते भागवता मम ॥४९॥कन्थाधरश्च भद्राश्वो लक्ष्मणो मुचुकुन्दकः ।विशालश्च प्रजापालो दुर्जयोऽश्वशिरास्तथा ॥५०॥चमत्कारः सत्यसन्धोऽमित्रजित् कलशो नृपः ।पुण्यनिधिः सुयशश्च पंचालनृपतिस्तथा ॥५१॥अलर्कस्तोण्डमाँश्चापि नाभिः ऋतध्वजस्तथा ।रन्तिर्वेदश्रवाश्चापि नन्दसावर्णिरित्यपि ॥५२॥निमिध्रुवस्तथा धर्मध्वजः कुशध्वजस्तथा ।दृढधन्वा दिवोदासश्चानर्त्तो रैवतादयः ॥५३॥एते त्वन्ये च बहवो राजानो वैष्णवा मम ।मत्प्राप्तिं दुर्लभां प्राप्य संसिद्धाश्चाऽभवन् खलु ॥५४॥सप्रजा बहवस्तत्र वैकुण्ठं प्रययुः परम् ।प्रजानां पालनं धर्मो राज्ञां भक्तियुतो हरौ ॥५५॥राजाज्ञापालनं धर्मः प्रजानां भक्तियुक् हरौ ।एवं परस्परं कृत्वा साहाय्यं धर्मकांक्षिणः ॥५६॥मम स्मृत्याऽन्वयेनैव ते बोध्या मोक्षभागिनः ।मया नियुक्तः पुरुषः साध्वसाधु करोति हि ॥५७॥स्वयं साधुप्रवाहः स्यान्न त्वसाधुप्रवाहणः ।ज्ञानदृष्ट्या विचार्यैव साधु कुर्यान्न चेतरत् ॥५८॥सर्वकर्मसु साधुत्वं मय्यर्पणं मया मतम् ।मय्यर्पितं भवेत् साधु तद्भिन्नं नैव साधु तत्। ॥५९॥नान्यद्रोहकरं कुर्यान्नोद्वेजनपरं क्वचित् ।नात्महानिकरं कुर्यान्न कुर्याल्लोकगर्हितम् ॥६०॥एवं वर्तेत मेधावी सर्वं प्रक्षिप्य वै मयि ।तदा शान्तिं परां लब्धा तिष्ठेदन्तेऽक्षरे परे ॥६१॥नरा नार्यः कर्मनद्धा नाऽकर्माणो भवन्ति वै ।नैसर्गिकी क्रिया या च साऽपि क्षिपेन्मयीश्वरे ॥६२॥वह्नौ क्षिप्तं यथा काष्ठं शुष्कमार्द्रं च वेतरत् ।द्रुतं चिरेण वा भस्मीभवेन्नैवात्र संशयः ॥६३॥तथा कर्म शुभं वाऽन्यत् क्षिपेन्मयि परेश्वरे ।भस्मीकुर्या समर्थोऽस्मि मोक्षयाम्यपि कर्मदम् ॥६४॥अथवा तदुपादानात् प्राप्नुयात् कर्मणः फलम् ।प्राप्नुयादिति हेतोश्च मयीश्वरे निवेदयेत् ॥६१॥तथापि पुरुषः कर्ता कर्मणोः शुभपापयोः ।साभिमानोऽज्ञानवृत्त्या भोक्ता स्यात् तत्फलेऽपि च ॥६६॥कर्मसूत्रात्मकं सर्वं सन्नद्धं क्रमशः खलु ।सुखदुःखगुणोदर्कं मयि न्यस्तं विशीर्यते ॥६७॥यो हि कर्मसमारम्भे भवेत् तद्भावभावितः ।तदा तेनाभिभूयेत मयीते नाभिभूयते ॥६८॥मय्येव कलुषं सर्वं समाप्तं जायते ततः ।प्रायश्चित्तं न तस्यास्ति भोगो वा विद्यतेऽस्य न ॥६९॥अकुर्वन् विहितं कर्म प्रतिषिद्धं तथाऽऽचरन् ।प्रायश्चित्तीयते देही मय्यर्पणविवर्जितः ॥७०॥अकार्याणि न मनुजो जातु कुर्यात् तथाहि वै ।स्वधर्मस्य परित्यागं परधर्मानुवर्तनम् ॥७१॥शरणागतसन्त्यागं भृत्यस्याऽऽभरणादिकम् ।परस्वापाभिहरणं पित्रा वादं न वै चरेत् ॥७२॥स्त्रीत्यागं च युवा कान्तो न वै कुर्यात् कदाचन ।पत्नी च युवती कान्तं न त्यजेद्वै कदाचन ॥७३॥आश्रितानां सुभरणं कर्तव्यं सर्वदा मतम् ।वृद्धानां सेवनं कार्यं दीनानां तु सहायता ॥७४॥असत्यं न वदेत् क्वापि पारुष्यं छलसंभृतम् ।जीवानां हिंसनं नैव कुर्याद् दयापरो भवेत् ॥७५॥आश्रितानां पशूनां च कुर्यात् क्षुत्तृट्निवारणम् ।परोपकारं कुर्याच्च सतश्च भोजयेत् सदा ॥७६॥सतां सेवां प्रकुर्याच्च मम सेवां च सर्वदा ।आत्मानं सुखिनं कुर्यान्नोद्वेगे स्वं नयेत् क्वचित् ॥७७॥नाऽन्यानुद्वेजयेत् क्वापि वृथामृषाऽनृतादिभिः ।हरेः संकीर्तनं कुर्यात् सततं वचसा हृदा ॥७८॥ध्यानं हरेः सदा कुर्यान्मुक्तिदं पापनाशकम् ।कुर्याच्छुभानि कर्माणि निवर्तेत शुभेतरात् ॥७९॥दद्याद् वित्तादि नित्यं च तेन मुच्येत किल्बिषात् ।शिष्टाचारः परो धर्मो देशकालादियोजितः ॥८०।सेवितव्यः स एवात्र प्रेत्येह च सुखेप्सुना ।दैवदेशे जपं कुर्यात् होमं चोपोषणादिकम् ॥८१॥दैवसन्दर्शनं ज्ञानं कुर्यादात्मप्रशोधनम् ।न गर्वेण भवेत् प्राज्ञः कदाचिन्मृत्युधर्मवान् ॥८२॥देवानृषीन्मनुष्याँश्च पितॄन् गृह्याश्च देवताः ।पूजयित्वा हरिं चापि गृहस्थो भोक्तुमर्हति ॥८३॥एवं कृत्वा न लिप्येत राजा प्रजाऽथ साधवः ।स्त्रियो दीना वृन्दलाश्च तथा कुर्वन्तु सर्वथा ॥८४॥मम नाम गृणन्नित्यं स्मरन्मां सर्वतः क्षणम् ।कुर्वन् सर्वाणि कर्माणि मयि न्यस्य न लिप्यते ॥८५॥तथा कुर्वन्तु सततं मां स्मृत्वा मयि चार्पणम् ।अहं मोक्ष्यामि सर्वान् मे वैष्णवान् मत्परायणान् ॥८६॥अस्तु स्वस्ति तु भवतां राज्ञां राजकुटुम्बिनाम् ।प्रजानां च प्रजेशानां दीनानां तु विशेषतः ॥८७॥अस्तु स्वस्त्यबलानां च मदर्थकृतकर्मणाम् ।सर्वदा स्वस्ति चास्त्वेव हरिः शं विदधातु वः ॥८८॥इत्युक्त्वा राधिके बालकृष्णः श्रीकृष्णवल्लभः ।परीशानसभायां तु क्षणं तूष्णीमभूत्तदा ॥८९॥राजा पूजां च विदधेऽसंख्यमौक्तिकहीरकैः ।हाराद्यैरम्बराद्यैश्च चन्दनाद्यैः सुगन्धिभिः ॥९०॥आरार्त्रिकं महच्चक्रे राज्ञी राजकुमारिकाः ।कुमाराश्च प्रधानाश्च प्रजाश्चापि प्रचक्रिरे ॥९१॥वन्दनं स्तवनं कृत्वा चखदुश्च प्रसादकम् ।हरिणा करदत्तं च ततश्च राजकन्यकाः ॥९२॥एकविंशतिसंख्याका युवत्यो मुग्धमानसाः ।हरेः करं जगृहुश्च विवाहविधिना तदा ॥९३॥करगृहोत्तरं शीघ्रं राजा महोत्सवं निशि ।भोजयित्वा महीमानान् हरिं प्राघूणिकादिकान् ॥९४॥कारयामास ललितं नृत्यगीतिकलादिभिः ।रात्रौ प्राघूणिकाः सर्वे विश्रान्तिं चापुरुत्तमाम् ॥९५॥कन्यकास्तु नवं कान्तं सिषेविरेऽतिभावतः ।प्रातरुत्थाय भगवान् नैजं ध्यानं चकार ह ॥९६॥राजाऽपि त्वाययौ कृष्णपूजार्थं च पुपूज तम् ।एवं महोत्सवो राधे वृत्तो वै पारमेश्वरः ॥९७॥परीशानानगर्यां चोपदाः प्रजास्ततो ददुः ।विदायं जगृहे कृष्णनारायणस्तदा नृपः ॥९८॥दुग्धपानादिकं सर्वान् कारयामास भावतः ।लोमशस्तु प्रजाभ्यो वै मनुं ददौ च तारकम् ॥९९॥हरिः सज्जो त्रभूवाऽथ गन्तु परीजपर्वतम् ।इन्दुरायो नृपस्तस्याऽऽग्रहं चाति चकार ह ॥१००॥तदा वाद्यान्यवाद्यन्त हरिर्विमानमास्थितः ।अन्ये विमानगास्तत्राऽभवँस्ततो नृपाज्ञया ॥१०१॥व्योममार्गेण च ययुश्चेन्दुरायस्य राष्ट्रकम् ।हरिर्विलोकयामास भूतलं पर्वतान्वितम् ॥१०२॥स्वागतार्थं चेन्दुरायस्त्वग्रे ययौ कुटुम्बवान् ।सन्मानतूर्यनिनदास्तदाऽभवन् समन्ततः ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने परीशानाप्रजादिभ्य उपदेशदानं पूजनं विमानैः सप्तम्यां प्रातः परीजराष्ट्रागमनं चेत्यादिनिरूपणनामाऽष्टाशीत्यधिकशततमोऽध्यायः ॥१८८॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP