संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २३३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २३३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३३ Translation - भाषांतर श्रीराधिकोवाच-गोपीपते हरेकृष्ण श्रावितं परमाद्भुतम् ।अनादिश्रीकृष्णनारायणस्य चरितं शुभम् ॥१॥पावनं दिव्यमाद्यं च सृष्ट्यारंभे नवं नवम् ।श्रुत्वा श्रुत्वाऽति मे श्रद्धा पुनः श्रोतुं प्रजायते ॥२॥न हि तृप्यामि कान्ताऽऽस्योद्गतवाण्या विशेषतः ।भूयो मे श्रावय स्वामिन् बालकृष्णो महाप्रभुः ॥३॥कुंकुमवापिकाक्षेत्रे किं ततः प्रचकार ह ।यत्किंचिच्चरितं दिव्यं लौकिकं वापि मुक्तिदम् ॥४॥कौटुम्बिकं तैर्थिकं वा चमत्कारयुतं च वा ।स्वल्पं वापि महद्वापि श्रावयाऽऽलस्यमन्तरा ॥५॥श्रीकृष्ण उवाच-शृणु कान्ते प्रिये राधे पुरुषोत्तमसत्कथाः ।भुक्तिमुक्तिप्रदा दिव्या भक्तानन्दप्रवर्षिणीः ॥६॥मेऽपि कथयमानस्य तृप्तिर्नैवोपजायते ।पुरुषोत्तमसंज्ञस्य मम मूलस्य सत्कथाः ॥७॥अपि त्वं राधिके चासि ममार्धं पुरुषोत्तमी ।सोऽहं त्वां मत् पृथक्कृत्वा गोलोकेऽस्मि पृथक् स्थितः ॥८॥मूलरूपात् परब्रह्मस्वरूपात् कृष्णरूपवान् ।त्वदर्थे चास्मि निष्पन्नस्तव कामप्रपूर्तये ॥९॥त्वं चाहं च तथा लक्ष्मीर्नारायणश्च राधिके ।पृथग्भूता दृश्यमाना अपि पृथङ्न् मूलतः ॥१०॥त्वादृश्यो मादृशा मूले परे ब्रह्मणि कोटिशः ।अवतारा विराजन्ते ममैकस्य तु का कथा ॥११॥तस्य श्रीबालकृष्णस्य कंभराश्रीसुतस्य वै ।गोपांलकृष्णनन्दस्य ब्रह्मप्रियापतेर्हरेः ॥१२॥सर्वपतेः परेशस्याऽऽनन्दप्रदानि यानि तु ।चरित्राणि परं चेतः कथयामि निबोध मे ॥१३॥श्रोतॄणां चापि वक्तॠणां मोक्षदानीह सर्वथा ।स्मर्तॄणां वासनानाशकारीणि शोभनानि च ॥१४॥सात्त्विकार्थं सात्त्विकानि राग्यर्थं राजसानि च ।तामसार्थं तामसानि मुक्तार्थं निर्गुणानि च ॥१५॥निर्गुणोऽपि हरिर्मायां युक्त्वा तद्वानिवाऽनिशम् ।वर्तते गुणिनां मध्ये तेषां सुखाभिसन्धये ॥१६॥स्त्र्यपत्यवन्तो लोकास्तु स्वतुल्यं कल्पयन्ति तम् ।स्त्रीपुत्राभिजनबद्धं न दिव्यं यद् गुणदृशः ॥१७॥अहं राधे निर्गुणोऽस्मि का कथा मे परात्मनः ।त्वं राधे निर्गुणा चास्से का कथा ब्रह्मयोषिताम् ॥१८॥गोपा गोप्योऽपि दिव्या मे गोलोकस्थाश्च धेनवः ।वैकुण्ठवासिनो दिव्याः का कथा परमात्मनः ॥१९॥चमत्कारास्तस्य दिव्याः क्रिया दिव्या अबन्धनाः ।योगो दिव्यो हरेस्तस्य रमणं रासनादिकम् ॥२०॥दाम्पत्यं सर्वथा दिव्यं दिव्यश्चाभिजनोऽस्य च ।दिव्यास्तस्य गुणाः सर्वे माया यत्र च तद्विधा ॥२१॥सर्वं दिव्यं मोक्षदं च शाश्वतानन्ददायकम् ।लौकिकाश्च क्रियाः कृष्णे दिव्या मुक्तिसुखप्रदाः ॥२२॥महीमानं कथयतो हृदयं मे द्रवत्यपि ।मद्गणानां वर्णनं न कर्तुं शक्तो भवामि वै ॥२३॥तर्ह्यनन्तस्य देवस्य प्रभोः सर्वावतारिणाः ।वर्णनं कर्तुमेवेशः को भवेद् राधिके प्रिये ॥२४॥त्वदर्थं न च सन्तोषं लभे गुणानुवर्णने ।सत्पात्रं यत्र लभ्येत तत्र तृप्तिर्न जायते ॥२५॥अतृप्तोऽहं कथयामि मिष्टान् मिष्टान् हरेर्गुणान् ।आश्विने भगवान् पूर्णिमायां चन्द्रोदयोत्तरम् ॥२६॥निशीथे स्वप्रियाभिर्वै रासोत्सवं चकार ह ।सरस्तटेऽतिधवले चाऽऽम्रवणेऽतिमञ्जुले ॥२७॥विद्युन्मणिप्रिया प्राह बालकृष्णं सुसुन्दरम् ।कृष्ण चन्द्रोदयो जातो धावल्यं सुवितन्यते ॥२८॥दुग्धरात्रिः समुत्पन्ना मनो मे रन्तुमिच्छति ।अन्यासामपि सर्वासां स्वसॄणां मानसान्यपि ॥२९॥शारदे शीतले शान्ते रन्तुं त्वरां दधत्यपि ।तन्नाथ रासरमणं विधेहि शं च देहि नः॥३०॥इत्युक्तो भगवान् श्रीमद्बालकृष्णोऽतिभावुकः ।सर्वासां स्वांगनानां सम्पूरयितुं मनोरथान् ॥३१॥दिव्यरूपं दधाराऽसौ यन्निजाक्षरधामगम् ।मुरलीं चापि जग्राह वेषं रासार्हमादधे ॥३२॥मस्तके च मयूराणां पिच्छानां मुकुटं दधे ।कुंकुमस्य च तिलकं नेत्रयोः कज्जलं दधे ॥३३॥कुण्डले कर्णयोश्चापि गण्डयोश्चन्द्रकं दधे ।कपोलयो रंगबिन्दून् भाले च पत्रिकां दधे ॥३४॥नारीकेशनिभान् केशान् स्कन्धयोर्विस्तृतान् दधे ।कटके भुजबन्धौ च मणीन् प्रकोष्ठयोर्दधे ॥३५॥कौस्तुभं मौक्तिकीर्मालाः पुष्पहारान् गले दधे ।कञ्चुकं हेमताराढ्यं रक्तवर्णं शुभं दधे ॥३६॥सुखालं शोणवर्णं कटिबद्धं दृढं दधे ।रशनां स्वर्णसम्भूतां किंकिणीजालनादिताम् ॥३७॥नुपूरे सन्दधे रम्ये किंकिणीस्तबकान्विते ।ऊर्मिका हीरकाढ्याश्च गन्धं मुमोच सौरभम् ॥३८॥स्नेहवृष्टिं पुपोषाऽपि ससर्जाऽनङ्गभावनाम् ।युवभावं प्रकाशयामास युवतीभावनाम् ॥३९॥मुग्धाभावं तथा मध्याभावं प्रौढादिभावनाम् ।सम्प्राविर्भावयामास सर्वासु स्वप्रियासु सः ॥४०॥राधिकेऽथ ततः कृष्णं प्रेरयितुं स्वयं प्रियाः ।अन्याः सर्वाः समाक्लृप्य वेषं शृंगारशोभितम् ॥४१॥कान्तं प्रति समागत्य प्रार्थयामासुरेव ताः ।कृष्णकृष्ण महाकृष्ण बालकृष्ण क्षपेश्वर ॥४२॥क्षपां सार्थां मनःपूर्त्या विधेहि रमणोऽसि नः ।एवं श्रुत्वाऽतिवेगाढ्यां वाणीं कान्तागणस्य सः ॥४३॥राधिके श्रीबालकृष्णः शीघ्रमुत्थाय चाऽलयात् ।बहिः सरः समागत्य दक्षिणे वै तटे शुभे ॥४४॥मिष्टां निनादयामास मुरलीं हृदयंगमाम् ।तन्मिष्टस्वरमाधुर्यैर्हृदयानि तु योषिताम् ॥४१॥शैत्यं सुखं च कम्पं च प्राप्याऽपि द्रवितानि वै ।कम्कमाख्यां रतिं प्राप्य कृष्णं प्रति समाययुः ॥४६॥सर्वास्तदा निजपत्न्यः कुमार्यो लोमशाश्रमात् ।ऋषिं नत्वा समापृच्छ्य निजं कान्तमुपाययुः ॥४७॥सर्वानन्दभराः कन्याः सर्वशृंगारशोभिताः ।कान्तं स्मृत्वाऽग्रतो यान्तं दृष्ट्वा शीघ्रं प्रदुद्रुवुः ॥४८॥कृष्णो दृष्ट्वा निजाः कोट्यर्बुदसंख्याककामिनीः ।विशालं रासरमणं तलं दिव्यमकल्पयत् ॥४९॥न तत्र दृश्यते दिव्ये तेजोमये स्तरेऽक्षरे ।सरश्चाम्रवणं चाप्याश्रमो वा नगरी च भूः ॥५०॥दिव्योद्यानो महाञ्जातः सर्वाऽक्षरद्रुमान्वितः ।शतयोजनविस्तीर्णः शतस्तरोच्छ्रयस्तथा ॥५१॥प्रतिस्तरं पञ्चलक्षप्रमदानां स्वयोषिताम् ।दिव्यानां कन्यकानां वै रासाः क्लृप्ताः कृपालुनाः ॥५२॥भूत्वा तावत्स्वरूपः स यावत्प्रियाः प्रसंख्यया ।दिव्योद्यानः समस्तो वै दिव्ययुगलशोभितः ॥५३॥रासभ्रामणशोभाढ्यः प्राजायत नवक्रियः ।मुख्यास्तु माणिकी राधा लक्ष्मीः पद्मावती रमा ॥५४॥सद्गुणा मञ्जुला हासा मुक्ता च ललिता जया ।हेम्नी दया च चम्पाऽपि शान्तिर्मनुश्च मंगला ॥५५॥श्रीश्चाययुस्तथा सौराष्ट्र्यश्च चत्वारिंशत् शतम् ।मेघनाद्यश्चतुर्दशसहस्राणि तदाऽऽययुः ।आजनाभ्यस्तदा मिश्राः देविकास्ताः समाययुः ॥५६॥षष्ठ्याख्या मानसा दीपावल्यश्च कोटिराययुः ।तलाजा कामधेनवीयकन्याः कोटिराययुः ॥५७॥आर्जन्त्यश्च शतं क्रोधनिकैका कोटिगह्वराः ।सूची लक्षवनदेव्यो लक्षराक्षस्य आययुः ॥५८॥कंकताल्यः षट् तथा च दशसाहस्रमाययुः ।पितृकन्याश्चैकलक्षमाययू रासमुत्सुकाः ॥५९॥रासातल्यः पञ्चसहस्रं वासन्त्यश्च षोडश ।सालमाल्यः पंचशतं नागकन्याश्च विंशतिः ॥६०॥नागिन्यो दशसाहस्रं शावदीन्यः सहस्रकम् ।ऐन्द्रजाल्यः सहस्रं च विद्याश्च पञ्चसप्ततिः ॥६१॥लाक्ष्मण्यो द्वे सहस्रे च रासार्थं तत्र चाययुः ।वैधस्यो द्वासप्ततिसहस्राणि त्वाययुस्तदा ॥६२॥वैश्वावस्व्यस्त्रिशतं च जुम्मासेम्ल्यः सहस्रकम् ।सान्तपन्यः पञ्चशतं सौरत्यश्च शतं तथा ॥६३॥बालेश्वर्यश्च तिलश्चैलवीला त्वेकलाऽऽययौ ।दाक्षजावंगरीशतं प्रजाकन्यासहस्रकम् ॥६४॥पैत्र्यश्च विंशतिर्दशसहस्रसेविकास्तथा ।प्राचीन्याद्याः प्रजाकन्याः कोटिस्तत्र समाययुः ॥६५॥सान्तारण्यौ च द्वे कन्ये शैब्यः शतं समाययुः ।थार्कूटस्थ्यः पंचाशच्च वीरजार्यः शतं तथा ॥६६॥षष्टिः शाक्त्यक्षिकाः शतं पिचाशिन्यः समाययुः ।शतद्वयं कालियाश्मस्त्रिंशदुरलकेतुजाः ॥६७॥क्राथक्यः पञ्च च पार्थराज्यो विंशतिराययुः ।दशौष्ट्राल्यः पञ्च हांकार्यश्च काष्ठलीपञ्चकम् ॥६८॥षट् तीराण्यश्चाल्वीनर्यः पञ्च सप्त तु वर्धिकाः ।अनाथैका द्वे सहस्रे प्रकीर्णिकादिकन्यकाः ॥६९॥सप्ताऽल्पकेत्व्यश्चैका च जयकृष्णवकन्यका ।पारीशान्यश्चैकविंशतिर्द्वे चैन्दुरायोसुते ॥७०॥पञ्चदश तु मौद्राण्ड्यो नव गण्डनृपात्मजाः ।चतस्रश्चैव लीनोर्ण्यश्चैकादशबृहच्छराः ॥७१॥चत्वारिंशद्वाललीन्यः पञ्चैव वारसैंहिकाः ।रायगामलिकाः पञ्च तिस्रश्चान्याः समाययुः ॥७२॥एकला स्तोकहोमी च काष्ठयानी तथैकला ।एकला कोलकी द्वे च दिनमान्यौ समाययुः ॥७३॥रायकिन्नरिकाश्चैकपञ्चाशत्तत्र चाययुः ।रायरोकीश्वरीकन्याश्चैकविंशतिराययुः ॥७४॥राणजित्यो विंशतिश्च तिस्रो वाकक्षिकास्तथा ।मारीश्यश्च तथा तिस्रो बालेश्वर्यश्च तिसृकाः ॥७५॥षट् लाम्बार्यः सप्त नवार्क्यश्च नव तु हुण्डशाः ।एका कूपेशिका चतस्रः कालीमण्डलीनिकाः ॥७६॥जेलेश्यः पञ्च तिस्रस्तु पारावार्यः समाययुः ।कोटीश्वर्यौ द्वे च कन्ये तिस्रः सातीशिकास्तथा ॥७७॥सप्त कर्कशिकाश्चापि चतस्रश्चाऽण्डजारिकाः ।बाल्यराजसी चैका च तिस्रः सौमनिकास्तथा ॥७८॥द्वे गवाक्ष्यौ पाराङ्वृत्त्यौ द्वे च रासे समाययुः ।ऐशान्यश्चैकचत्वारिंशच्च रासे समाययुः ॥७९॥रायपात्यश्चतुस्त्रिंशच्चत्वारिंशच्च मंगलाः ।आजनाभ्यो विंशतिसाहस्रकन्याः समाययुः ॥८०॥एताः सर्वाश्चतुष्कोट्यश्चतुर्लक्षं हि कन्यकाः ।पञ्चपञ्चाशत्साहस्रास्तथा वै षट्शतानि च ॥८१॥विंशतिः कन्यकास्ताश्च कृष्णपत्न्यो(१)ऽर्पणाऽऽगताः ।तासां सख्यश्च कौबेर्यो माहेन्द्र्यो यमकन्यकाः ॥८२॥वायव्यो वैश्वकर्म्यश्च वार्क्ष्यो रौद्रश्च वह्निजाः ।श्रावण्यश्चापि खानिज्यः साम्वत्सर्यश्च गोपिकाः ॥८३॥प्राचीन्यश्च पिशंगिन्यो राशियान्यः समाययुः ।रौमायण्यश्च पारश्यो धैवर्यः किन्नरीगणाः ॥८४॥अमर्यश्च तथा गौर्यः पर्यो हारितिकास्तथा ।आब्रिक्त्योऽपि च पाताल्यः स्वर्ग्यश्चाप्सरसस्तथा ॥८५॥ब्रह्मसरसो गान्धर्व्यो युवत्योऽर्बुदमागताः ।सशृंगाराः सच्चित्सुखप्रभामण्डलद्योतिताः ॥८६॥रेमिरे भिन्नचक्रेषु मुष्ट्युच्चपतिना हि ताः ।श्रीकृष्णवल्लभार्येण स्वामिनाऽसंख्यरूपिणा ॥८७॥भूत्वा वर्षद्वयज्येष्ठो रेमे रामो रमाव्रजैः ।तालीवादनतालैश्च पादस्थगितभंगिभिः ॥८८॥पार्श्वदानप्रदानैश्चाऽञ्जलिदानैश्च गीतिभिः ।गण्डस्पर्शैः स्कन्धहस्तैर्वक्षःश्लेषैर्मुहुर्मुहुः ॥८९॥भ्रामणैर्विविधैश्चाद्यैः पश्चापादैस्तथाऽग्रगैः ।क्रमणैः क्षेपणैश्चापि नेत्रस्तनैर्मनोऽर्पणैः ॥९०॥हावभावैर्गण्डदानै रेमे चाश्लेषणैस्तथा ।कोटिशो माण्डलान्येवं तेजःस्तरेषु सर्वतः ॥९१॥विद्यन्ते रासिनीनां वै रासे कान्तैः समन्ततः ।सर्वाकर्षणकर्ताऽयं नारायणपरेश्वरः ॥९२॥अन्तरात्मा निजैश्वर्यान्महानन्दोत्तमं ददौ ।सर्वेन्द्रियाणामानन्दं दिव्यं सवेगिशाश्वतम् ॥९३॥तथाप्यविप्लुतानन्दं ददौ चापातरेव ह ।दर्शने स्पर्शने चापि श्रवणे घ्राणनेऽपि च ॥९४॥रासने ग्रहणे चापि पादन्यासे च कीर्तने ।आश्लेषणे पृष्ठभावे चाग्रे पार्श्वे च सन्निधौ ॥९५॥युवतीनां स्वपत्नीनां सर्वेन्द्रियेषु सर्वथा ।सर्वेन्द्रियाणामानन्दं बहुवेगं न्यधात्प्रभुः ॥९६॥यदानन्देन चाकृष्टाः सर्वास्तल्लीनतां गताः ।रत्यानन्दं पृथङ् नैव समैच्छँस्तृप्तिमागताः ॥९७॥कान्ताऽऽनन्दप्रवाहाश्च ह्यात्मानन्दप्रवाहकैः ।मिलिताः कामकाराश्च प्रवाहा लीनतो ययुः ॥९८॥ब्रह्मानन्दप्रवाहे वै कामानन्दः किंमानकः ।कोटिकोटिप्रकोटीनां पतीनां सुखदेऽक्षये ॥९९॥बालकृष्णांगयोगोत्थे कोऽयं कामो हि कच्चरः ।कामे कामत्वनिक्षेप्ता स्वयं पतिर्हि रासने ॥१००॥रमते स्वप्रियाभिर्हि सर्वकामसुखप्रदः ।तन्मूर्तेः संगमे राधे मूर्धां ययुर्हि योषितः ॥१०१॥रासभ्रमणमुत्सृज्य शयनं तेन चक्रिरे ।कृत्वा स्वोरःसु कान्तं स्वं महानन्दं प्रपेदिरे ॥१०२॥युगदीर्घं सुखं प्राप्य विनिर्वृत्तिं ययुः स्त्रियः ।विमूर्छाश्च निजं कान्तं समुत्थाप्य च रासने ॥१०३॥पुनर्वै भ्रामणं चक्रुस्तावच्चन्द्रोऽब्धिमाप ह ।बालकृष्णो मुरलीं स्वां व्यनादयन्मुहुर्मुहुः ॥१०४॥कृकवाकुप्रबोधां तां श्रुत्वा प्रातः प्रबोधिनीम् ।सर्वाः पत्न्यः समं वेषं शृंगारं संविधाय च ॥१०५॥शीघ्रं कान्तं समाश्लिष्य तथाऽऽज्ञां प्राप्य सत्वरम् ।प्रातःकृत्यविधानार्थं प्रययुस्तावदेव ताः ॥१०६॥सर्वं तन्मण्डलं दिव्यं तैजसं संव्यलीयत ।अश्वपट्टसरस्तत्राऽदृश्यताऽऽम्रवणं पुनः ॥१०७॥आक्षरी पृथिवी भूमिश्चाश्रमो लोमशस्य सः ।रासोऽयं रासखेलानां चिह्नानि रमणान्यपि ॥१०८॥व्यलीयन्तेच्छया तस्य परेशस्य हि राधिके ।सर्वाः स्नात्वा सरस्येव कृत्वा नित्यविधिं ततः ॥१०९॥ययुर्निजान् समावासान् बालकृष्णो गृहं ययौ ।राधिकेऽहं तदा राधां द्रष्टुं तत्र ह्युपागतः ॥११०॥कीदृशी रमते राधा चाऽदृश्यश्चाऽभवं तदा ।त्वया प्रसादितः कान्तो बालकृष्णो मनोहरः ॥१११॥पश्याऽऽलस्यं कियत् प्राप्तं रमणेन समुत्थितम् ।पश्य स्वहृदये कान्तं रमन्तं तद्यथास्थितम् ॥११२॥स्फुरन्तं पश्य गोपि त्वं चाऽविस्मृतं परेश्वरम् ।तस्यानन्दोत्तमलाभात् पूर्णकामाऽसि राधिके ॥११३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आश्विनशरत्पूर्णिमारात्रौ सर्वनिजपत्नीभिर्बालकृष्णस्य रासानन्दरमणक्रीडावर्णननामा त्रयस्त्रिंशदधिकद्वि-शततमोऽध्यायः ॥२३३॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP