संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २३३

त्रेतायुगसन्तानः - अध्यायः २३३

लक्ष्मीनारायणसंहिता


श्रीराधिकोवाच-
गोपीपते हरेकृष्ण श्रावितं परमाद्भुतम् ।
अनादिश्रीकृष्णनारायणस्य चरितं शुभम् ॥१॥
पावनं दिव्यमाद्यं च सृष्ट्यारंभे नवं नवम् ।
श्रुत्वा श्रुत्वाऽति मे श्रद्धा पुनः श्रोतुं प्रजायते ॥२॥
न हि तृप्यामि कान्ताऽऽस्योद्गतवाण्या विशेषतः ।
भूयो मे श्रावय स्वामिन् बालकृष्णो महाप्रभुः ॥३॥
कुंकुमवापिकाक्षेत्रे किं ततः प्रचकार ह ।
यत्किंचिच्चरितं दिव्यं लौकिकं वापि मुक्तिदम् ॥४॥
कौटुम्बिकं तैर्थिकं वा चमत्कारयुतं च वा ।
स्वल्पं वापि महद्वापि श्रावयाऽऽलस्यमन्तरा ॥५॥
श्रीकृष्ण उवाच-
शृणु कान्ते प्रिये राधे पुरुषोत्तमसत्कथाः ।
भुक्तिमुक्तिप्रदा दिव्या भक्तानन्दप्रवर्षिणीः ॥६॥
मेऽपि कथयमानस्य तृप्तिर्नैवोपजायते ।
पुरुषोत्तमसंज्ञस्य मम मूलस्य सत्कथाः ॥७॥
अपि त्वं राधिके चासि ममार्धं पुरुषोत्तमी ।
सोऽहं त्वां मत् पृथक्कृत्वा गोलोकेऽस्मि पृथक् स्थितः ॥८॥
मूलरूपात् परब्रह्मस्वरूपात् कृष्णरूपवान् ।
त्वदर्थे चास्मि निष्पन्नस्तव कामप्रपूर्तये ॥९॥
त्वं चाहं च तथा लक्ष्मीर्नारायणश्च राधिके ।
पृथग्भूता दृश्यमाना अपि पृथङ्न् मूलतः ॥१०॥
त्वादृश्यो मादृशा मूले परे ब्रह्मणि कोटिशः ।
अवतारा विराजन्ते ममैकस्य तु का कथा ॥११॥
तस्य श्रीबालकृष्णस्य कंभराश्रीसुतस्य वै ।
गोपांलकृष्णनन्दस्य ब्रह्मप्रियापतेर्हरेः ॥१२॥
सर्वपतेः परेशस्याऽऽनन्दप्रदानि यानि तु ।
चरित्राणि परं चेतः कथयामि निबोध मे ॥१३॥
श्रोतॄणां चापि वक्तॠणां मोक्षदानीह सर्वथा ।
स्मर्तॄणां वासनानाशकारीणि शोभनानि च ॥१४॥
सात्त्विकार्थं सात्त्विकानि राग्यर्थं राजसानि च ।
तामसार्थं तामसानि मुक्तार्थं निर्गुणानि च ॥१५॥
निर्गुणोऽपि हरिर्मायां युक्त्वा तद्वानिवाऽनिशम् ।
वर्तते गुणिनां मध्ये तेषां सुखाभिसन्धये ॥१६॥
स्त्र्यपत्यवन्तो लोकास्तु स्वतुल्यं कल्पयन्ति तम् ।
स्त्रीपुत्राभिजनबद्धं न दिव्यं यद् गुणदृशः ॥१७॥
अहं राधे निर्गुणोऽस्मि का कथा मे परात्मनः ।
त्वं राधे निर्गुणा चास्से का कथा ब्रह्मयोषिताम् ॥१८॥
गोपा गोप्योऽपि दिव्या मे गोलोकस्थाश्च धेनवः ।
वैकुण्ठवासिनो दिव्याः का कथा परमात्मनः ॥१९॥
चमत्कारास्तस्य दिव्याः क्रिया दिव्या अबन्धनाः ।
योगो दिव्यो हरेस्तस्य रमणं रासनादिकम् ॥२०॥
दाम्पत्यं सर्वथा दिव्यं दिव्यश्चाभिजनोऽस्य च ।
दिव्यास्तस्य गुणाः सर्वे माया यत्र च तद्विधा ॥२१॥
सर्वं दिव्यं मोक्षदं च शाश्वतानन्ददायकम् ।
लौकिकाश्च क्रियाः कृष्णे दिव्या मुक्तिसुखप्रदाः ॥२२॥
महीमानं कथयतो हृदयं मे द्रवत्यपि ।
मद्गणानां वर्णनं न कर्तुं शक्तो भवामि वै ॥२३॥
तर्ह्यनन्तस्य देवस्य प्रभोः सर्वावतारिणाः ।
वर्णनं कर्तुमेवेशः को भवेद् राधिके प्रिये ॥२४॥
त्वदर्थं न च सन्तोषं लभे गुणानुवर्णने ।
सत्पात्रं यत्र लभ्येत तत्र तृप्तिर्न जायते ॥२५॥
अतृप्तोऽहं कथयामि मिष्टान् मिष्टान् हरेर्गुणान् ।
आश्विने भगवान् पूर्णिमायां चन्द्रोदयोत्तरम् ॥२६॥
निशीथे स्वप्रियाभिर्वै रासोत्सवं चकार ह ।
सरस्तटेऽतिधवले चाऽऽम्रवणेऽतिमञ्जुले ॥२७॥
विद्युन्मणिप्रिया प्राह बालकृष्णं सुसुन्दरम् ।
कृष्ण चन्द्रोदयो जातो धावल्यं सुवितन्यते ॥२८॥
दुग्धरात्रिः समुत्पन्ना मनो मे रन्तुमिच्छति ।
अन्यासामपि सर्वासां स्वसॄणां मानसान्यपि ॥२९॥
शारदे शीतले शान्ते रन्तुं त्वरां दधत्यपि ।
तन्नाथ रासरमणं विधेहि शं च देहि नः॥३०॥
इत्युक्तो भगवान् श्रीमद्बालकृष्णोऽतिभावुकः ।
सर्वासां स्वांगनानां सम्पूरयितुं मनोरथान् ॥३१॥
दिव्यरूपं दधाराऽसौ यन्निजाक्षरधामगम् ।
मुरलीं चापि जग्राह वेषं रासार्हमादधे ॥३२॥
मस्तके च मयूराणां पिच्छानां मुकुटं दधे ।
कुंकुमस्य च तिलकं नेत्रयोः कज्जलं दधे ॥३३॥
कुण्डले कर्णयोश्चापि गण्डयोश्चन्द्रकं दधे ।
कपोलयो रंगबिन्दून् भाले च पत्रिकां दधे ॥३४॥
नारीकेशनिभान् केशान् स्कन्धयोर्विस्तृतान् दधे ।
कटके भुजबन्धौ च मणीन् प्रकोष्ठयोर्दधे ॥३५॥
कौस्तुभं मौक्तिकीर्मालाः पुष्पहारान् गले दधे ।
कञ्चुकं हेमताराढ्यं रक्तवर्णं शुभं दधे ॥३६॥
सुखालं शोणवर्णं कटिबद्धं दृढं दधे ।
रशनां स्वर्णसम्भूतां किंकिणीजालनादिताम् ॥३७॥
नुपूरे सन्दधे रम्ये किंकिणीस्तबकान्विते ।
ऊर्मिका हीरकाढ्याश्च गन्धं मुमोच सौरभम् ॥३८॥
स्नेहवृष्टिं पुपोषाऽपि ससर्जाऽनङ्गभावनाम् ।
युवभावं प्रकाशयामास युवतीभावनाम् ॥३९॥
मुग्धाभावं तथा मध्याभावं प्रौढादिभावनाम् ।
सम्प्राविर्भावयामास सर्वासु स्वप्रियासु सः ॥४०॥
राधिकेऽथ ततः कृष्णं प्रेरयितुं स्वयं प्रियाः ।
अन्याः सर्वाः समाक्लृप्य वेषं शृंगारशोभितम् ॥४१॥
कान्तं प्रति समागत्य प्रार्थयामासुरेव ताः ।
कृष्णकृष्ण महाकृष्ण बालकृष्ण क्षपेश्वर ॥४२॥
क्षपां सार्थां मनःपूर्त्या विधेहि रमणोऽसि नः ।
एवं श्रुत्वाऽतिवेगाढ्यां वाणीं कान्तागणस्य सः ॥४३॥
राधिके श्रीबालकृष्णः शीघ्रमुत्थाय चाऽलयात् ।
बहिः सरः समागत्य दक्षिणे वै तटे शुभे ॥४४॥
मिष्टां निनादयामास मुरलीं हृदयंगमाम् ।
तन्मिष्टस्वरमाधुर्यैर्हृदयानि तु योषिताम् ॥४१॥
शैत्यं सुखं च कम्पं च प्राप्याऽपि द्रवितानि वै ।
कम्कमाख्यां रतिं प्राप्य कृष्णं प्रति समाययुः ॥४६॥
सर्वास्तदा निजपत्न्यः कुमार्यो लोमशाश्रमात् ।
ऋषिं नत्वा समापृच्छ्य निजं कान्तमुपाययुः ॥४७॥
सर्वानन्दभराः कन्याः सर्वशृंगारशोभिताः ।
कान्तं स्मृत्वाऽग्रतो यान्तं दृष्ट्वा शीघ्रं प्रदुद्रुवुः ॥४८॥
कृष्णो दृष्ट्वा निजाः कोट्यर्बुदसंख्याककामिनीः ।
विशालं रासरमणं तलं दिव्यमकल्पयत् ॥४९॥
न तत्र दृश्यते दिव्ये तेजोमये स्तरेऽक्षरे ।
सरश्चाम्रवणं चाप्याश्रमो वा नगरी च भूः ॥५०॥
दिव्योद्यानो महाञ्जातः सर्वाऽक्षरद्रुमान्वितः ।
शतयोजनविस्तीर्णः शतस्तरोच्छ्रयस्तथा ॥५१॥
प्रतिस्तरं पञ्चलक्षप्रमदानां स्वयोषिताम् ।
दिव्यानां कन्यकानां वै रासाः क्लृप्ताः कृपालुनाः ॥५२॥
भूत्वा तावत्स्वरूपः स यावत्प्रियाः प्रसंख्यया ।
दिव्योद्यानः समस्तो वै दिव्ययुगलशोभितः ॥५३॥
रासभ्रामणशोभाढ्यः प्राजायत नवक्रियः ।
मुख्यास्तु माणिकी राधा लक्ष्मीः पद्मावती रमा ॥५४॥
सद्गुणा मञ्जुला हासा मुक्ता च ललिता जया ।
हेम्नी दया च चम्पाऽपि शान्तिर्मनुश्च मंगला ॥५५॥
श्रीश्चाययुस्तथा सौराष्ट्र्यश्च चत्वारिंशत् शतम् ।
मेघनाद्यश्चतुर्दशसहस्राणि तदाऽऽययुः ।
आजनाभ्यस्तदा मिश्राः देविकास्ताः समाययुः ॥५६॥
षष्ठ्याख्या मानसा दीपावल्यश्च कोटिराययुः ।
तलाजा कामधेनवीयकन्याः कोटिराययुः ॥५७॥
आर्जन्त्यश्च शतं क्रोधनिकैका कोटिगह्वराः ।
सूची लक्षवनदेव्यो लक्षराक्षस्य आययुः ॥५८॥
कंकताल्यः षट् तथा च दशसाहस्रमाययुः ।
पितृकन्याश्चैकलक्षमाययू रासमुत्सुकाः ॥५९॥
रासातल्यः पञ्चसहस्रं वासन्त्यश्च षोडश ।
सालमाल्यः पंचशतं नागकन्याश्च विंशतिः ॥६०॥
नागिन्यो दशसाहस्रं शावदीन्यः सहस्रकम् ।
ऐन्द्रजाल्यः सहस्रं च विद्याश्च पञ्चसप्ततिः ॥६१॥
लाक्ष्मण्यो द्वे सहस्रे च रासार्थं तत्र चाययुः ।
वैधस्यो द्वासप्ततिसहस्राणि त्वाययुस्तदा ॥६२॥
वैश्वावस्व्यस्त्रिशतं च जुम्मासेम्ल्यः सहस्रकम् ।
सान्तपन्यः पञ्चशतं सौरत्यश्च शतं तथा ॥६३॥
बालेश्वर्यश्च तिलश्चैलवीला त्वेकलाऽऽययौ ।
दाक्षजावंगरीशतं प्रजाकन्यासहस्रकम् ॥६४॥
पैत्र्यश्च विंशतिर्दशसहस्रसेविकास्तथा ।
प्राचीन्याद्याः प्रजाकन्याः कोटिस्तत्र समाययुः ॥६५॥
सान्तारण्यौ च द्वे कन्ये शैब्यः शतं समाययुः ।
थार्कूटस्थ्यः पंचाशच्च वीरजार्यः शतं तथा ॥६६॥
षष्टिः शाक्त्यक्षिकाः शतं पिचाशिन्यः समाययुः ।
शतद्वयं कालियाश्मस्त्रिंशदुरलकेतुजाः ॥६७॥
क्राथक्यः पञ्च च पार्थराज्यो विंशतिराययुः ।
दशौष्ट्राल्यः पञ्च हांकार्यश्च काष्ठलीपञ्चकम् ॥६८॥
षट् तीराण्यश्चाल्वीनर्यः पञ्च सप्त तु वर्धिकाः ।
अनाथैका द्वे सहस्रे प्रकीर्णिकादिकन्यकाः ॥६९॥
सप्ताऽल्पकेत्व्यश्चैका च जयकृष्णवकन्यका ।
पारीशान्यश्चैकविंशतिर्द्वे चैन्दुरायोसुते ॥७०॥
पञ्चदश तु मौद्राण्ड्यो नव गण्डनृपात्मजाः ।
चतस्रश्चैव लीनोर्ण्यश्चैकादशबृहच्छराः ॥७१॥
चत्वारिंशद्वाललीन्यः पञ्चैव वारसैंहिकाः ।
रायगामलिकाः पञ्च तिस्रश्चान्याः समाययुः ॥७२॥
एकला स्तोकहोमी च काष्ठयानी तथैकला ।
एकला कोलकी द्वे च दिनमान्यौ समाययुः ॥७३॥
रायकिन्नरिकाश्चैकपञ्चाशत्तत्र चाययुः ।
रायरोकीश्वरीकन्याश्चैकविंशतिराययुः ॥७४॥
राणजित्यो विंशतिश्च तिस्रो वाकक्षिकास्तथा ।
मारीश्यश्च तथा तिस्रो बालेश्वर्यश्च तिसृकाः ॥७५॥
षट् लाम्बार्यः सप्त नवार्क्यश्च नव तु हुण्डशाः ।
एका कूपेशिका चतस्रः कालीमण्डलीनिकाः ॥७६॥
जेलेश्यः पञ्च तिस्रस्तु पारावार्यः समाययुः ।
कोटीश्वर्यौ द्वे च कन्ये तिस्रः सातीशिकास्तथा ॥७७॥
सप्त कर्कशिकाश्चापि चतस्रश्चाऽण्डजारिकाः ।
बाल्यराजसी चैका च तिस्रः सौमनिकास्तथा ॥७८॥
द्वे गवाक्ष्यौ पाराङ्वृत्त्यौ द्वे च रासे समाययुः ।
ऐशान्यश्चैकचत्वारिंशच्च रासे समाययुः ॥७९॥
रायपात्यश्चतुस्त्रिंशच्चत्वारिंशच्च मंगलाः ।
आजनाभ्यो विंशतिसाहस्रकन्याः समाययुः ॥८०॥
एताः सर्वाश्चतुष्कोट्यश्चतुर्लक्षं हि कन्यकाः ।
पञ्चपञ्चाशत्साहस्रास्तथा वै षट्शतानि च ॥८१॥
विंशतिः कन्यकास्ताश्च कृष्णपत्न्यो(१)ऽर्पणाऽऽगताः ।
तासां सख्यश्च कौबेर्यो माहेन्द्र्यो यमकन्यकाः ॥८२॥
वायव्यो वैश्वकर्म्यश्च वार्क्ष्यो रौद्रश्च वह्निजाः ।
श्रावण्यश्चापि खानिज्यः साम्वत्सर्यश्च गोपिकाः ॥८३॥
प्राचीन्यश्च पिशंगिन्यो राशियान्यः समाययुः ।
रौमायण्यश्च पारश्यो धैवर्यः किन्नरीगणाः ॥८४॥
अमर्यश्च तथा गौर्यः पर्यो हारितिकास्तथा ।
आब्रिक्त्योऽपि च पाताल्यः स्वर्ग्यश्चाप्सरसस्तथा ॥८५॥
ब्रह्मसरसो गान्धर्व्यो युवत्योऽर्बुदमागताः ।
सशृंगाराः सच्चित्सुखप्रभामण्डलद्योतिताः ॥८६॥
रेमिरे भिन्नचक्रेषु मुष्ट्युच्चपतिना हि ताः ।
श्रीकृष्णवल्लभार्येण स्वामिनाऽसंख्यरूपिणा ॥८७॥
भूत्वा वर्षद्वयज्येष्ठो रेमे रामो रमाव्रजैः ।
तालीवादनतालैश्च पादस्थगितभंगिभिः ॥८८॥
पार्श्वदानप्रदानैश्चाऽञ्जलिदानैश्च गीतिभिः ।
गण्डस्पर्शैः स्कन्धहस्तैर्वक्षःश्लेषैर्मुहुर्मुहुः ॥८९॥
भ्रामणैर्विविधैश्चाद्यैः पश्चापादैस्तथाऽग्रगैः ।
क्रमणैः क्षेपणैश्चापि नेत्रस्तनैर्मनोऽर्पणैः ॥९०॥
हावभावैर्गण्डदानै रेमे चाश्लेषणैस्तथा ।
कोटिशो माण्डलान्येवं तेजःस्तरेषु सर्वतः ॥९१॥
विद्यन्ते रासिनीनां वै रासे कान्तैः समन्ततः ।
सर्वाकर्षणकर्ताऽयं नारायणपरेश्वरः ॥९२॥
अन्तरात्मा निजैश्वर्यान्महानन्दोत्तमं ददौ ।
सर्वेन्द्रियाणामानन्दं दिव्यं सवेगिशाश्वतम् ॥९३॥
तथाप्यविप्लुतानन्दं ददौ चापातरेव ह ।
दर्शने स्पर्शने चापि श्रवणे घ्राणनेऽपि च ॥९४॥
रासने ग्रहणे चापि पादन्यासे च कीर्तने ।
आश्लेषणे पृष्ठभावे चाग्रे पार्श्वे च सन्निधौ ॥९५॥
युवतीनां स्वपत्नीनां सर्वेन्द्रियेषु सर्वथा ।
सर्वेन्द्रियाणामानन्दं बहुवेगं न्यधात्प्रभुः ॥९६॥
यदानन्देन चाकृष्टाः सर्वास्तल्लीनतां गताः ।
रत्यानन्दं पृथङ् नैव समैच्छँस्तृप्तिमागताः ॥९७॥
कान्ताऽऽनन्दप्रवाहाश्च ह्यात्मानन्दप्रवाहकैः ।
मिलिताः कामकाराश्च प्रवाहा लीनतो ययुः ॥९८॥
ब्रह्मानन्दप्रवाहे वै कामानन्दः किंमानकः ।
कोटिकोटिप्रकोटीनां पतीनां सुखदेऽक्षये ॥९९॥
बालकृष्णांगयोगोत्थे कोऽयं कामो हि कच्चरः ।
कामे कामत्वनिक्षेप्ता स्वयं पतिर्हि रासने ॥१००॥
रमते स्वप्रियाभिर्हि सर्वकामसुखप्रदः ।
तन्मूर्तेः संगमे राधे मूर्धां ययुर्हि योषितः ॥१०१॥
रासभ्रमणमुत्सृज्य शयनं तेन चक्रिरे ।
कृत्वा स्वोरःसु कान्तं स्वं महानन्दं प्रपेदिरे ॥१०२॥
युगदीर्घं सुखं प्राप्य विनिर्वृत्तिं ययुः स्त्रियः ।
विमूर्छाश्च निजं कान्तं समुत्थाप्य च रासने ॥१०३॥
पुनर्वै भ्रामणं चक्रुस्तावच्चन्द्रोऽब्धिमाप ह ।
बालकृष्णो मुरलीं स्वां व्यनादयन्मुहुर्मुहुः ॥१०४॥
कृकवाकुप्रबोधां तां श्रुत्वा प्रातः प्रबोधिनीम् ।
सर्वाः पत्न्यः समं वेषं शृंगारं संविधाय च ॥१०५॥
शीघ्रं कान्तं समाश्लिष्य तथाऽऽज्ञां प्राप्य सत्वरम् ।
प्रातःकृत्यविधानार्थं प्रययुस्तावदेव ताः ॥१०६॥
सर्वं तन्मण्डलं दिव्यं तैजसं संव्यलीयत ।
अश्वपट्टसरस्तत्राऽदृश्यताऽऽम्रवणं पुनः ॥१०७॥
आक्षरी पृथिवी भूमिश्चाश्रमो लोमशस्य सः ।
रासोऽयं रासखेलानां चिह्नानि रमणान्यपि ॥१०८॥
व्यलीयन्तेच्छया तस्य परेशस्य हि राधिके ।
सर्वाः स्नात्वा सरस्येव कृत्वा नित्यविधिं ततः ॥१०९॥
ययुर्निजान् समावासान् बालकृष्णो गृहं ययौ ।
राधिकेऽहं तदा राधां द्रष्टुं तत्र ह्युपागतः ॥११०॥
कीदृशी रमते राधा चाऽदृश्यश्चाऽभवं तदा ।
त्वया प्रसादितः कान्तो बालकृष्णो मनोहरः ॥१११॥
पश्याऽऽलस्यं कियत् प्राप्तं रमणेन समुत्थितम् ।
पश्य स्वहृदये कान्तं रमन्तं तद्यथास्थितम् ॥११२॥
स्फुरन्तं पश्य गोपि त्वं चाऽविस्मृतं परेश्वरम् ।
तस्यानन्दोत्तमलाभात् पूर्णकामाऽसि राधिके ॥११३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आश्विनशरत्पूर्णिमारात्रौ सर्वनिजपत्नीभिर्बालकृष्णस्य रासानन्दरमणक्रीडावर्णननामा त्रयस्त्रिंशदधिकद्वि-
शततमोऽध्यायः ॥२३३॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP