संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २६८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २६८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २६८ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु ततश्च वै तीर्थं गत्वा साधुसमाश्रितम् ।पप्रच्छ लोमशं राधे चाश्वपाटलभूपतिः ॥१॥अश्वपाटल उवाच-किमिदं साधुभिर्व्याप्तं तीर्थं परमपावनम् ।स्थावरं जंगमं चापि गुरो तीर्थद्वयं वद ॥२॥श्रीलोमश उवाच-अमोहाक्षोऽभवद् राजा हिमाचलस्य सन्निधौ ।प्रबोधाख्यं गुरुं प्राप्य तोषयामास सेवया ॥३॥गुरुस्तस्मै ददौ नैजे रूपे श्रीहरिदर्शनम् ।चतुर्भुजं शंखचक्रगदापद्मादिराजितम् ॥४॥पुनर्गुरुस्वरूपश्चाऽभवत् तत्र क्षणान्तरे ।अमोहाख्यो विस्मितश्च संशिश्ये श्रीपतिं प्रति ॥५॥गुरुश्चायं मानवोऽस्ति दृश्यते च चतुर्भुजः ।मन्ये नारायणं त्वेनं मिलितं मम भाग्यतः ॥६॥तस्मादेनं भजाम्येव सेवे त्वेनं समस्ततः ।ध्यात्वा सम्पूज्य वै भक्त्या परं श्रेयो व्रजामि च ॥७॥इत्येवं हृदये कृत्वा निश्चयं च प्रबोधकम् ।सेवते परया भक्त्या राजा गुरुं जनार्दनम् ॥८॥राज्ञी पुत्राः प्रजाः पुत्र्यः सेवन्ते स्म गुरुं हरिम् ।अन्नजलप्रदानेन पादसंवाहनादिभिः ॥९॥वचसां पालनेनापि वस्त्रक्षालनकादिभिः ।शयनासनदानैश्च पत्रफलदलार्पणैः ॥१०॥चन्दनाऽक्षततैलैश्च सुगन्धिहारभूषणैः ।राजभोगैः सदा राजकुटुम्बं वै समस्तकम् ॥११॥सेवते स्म प्रभुं मत्वा गुरुं हरिमतन्द्रितम् ।भजते स्म प्रबोधेति नाम्नां संकीर्तनेन च ॥१२॥गुरुर्विचारयामास बन्धनं समुपस्थितम् ।राजभोगा बन्धनानि जायन्ते निरयाय वै ॥१३॥तस्माद्भोगाः परिहार्या दूरतो मुक्तिरोधिनः ।प्रबोधं मायिकं पराभावयितुं न चार्हति ॥१४॥इत्येवं निश्चयं कृत्वा प्रबोधो वै शनैः शनैः ।उपदेशैर्नियमैश्च भोगत्यागं चकार ह ॥१५॥अमोहाक्षाय च प्राह धर्मवार्तां शुभावहाम् ।राजन् राज्ञां पृथग्धर्मो धर्मश्चान्यस्तपस्विनाम् ॥१६॥अहं साधुः प्रबोधोऽस्मि न भोगो मम युज्यते ।गृहस्थानां भूषणानि साधूनां दूषणानि वै ॥१७॥गृहस्थानां दूषणानि साधूनां भूषणानि वै ।साधुधर्मः क्षमा प्रोक्ता राजधर्मो हि शासनम् ॥१८॥साधुधर्मस्त्रिषवणं राजधर्मो ह्यवभृथम् ।साधुधर्मः शीलरक्षा गृहिधर्मः स्त्रीयोगिता ॥१९॥साधुधर्मश्चावमानं गृहिधर्मो हि माननम् ।साधुर्भिक्षाजीवनश्च गृही भुजार्जितादनः ॥२०॥साधुर्जीर्णाम्बरश्चापि गृही स्वर्णाम्बरादिमान् ।साधुर्विहारशीलश्च गृही चैकत्र सौधवान् ॥२१॥साधुः स्नेहविहीनश्च गृही कुटुम्बवासनः ।साधुश्चात्मपरो नित्यं गृही गृह्यपरस्तथा ॥२२॥साधुश्चाप्यनिकेतश्च गृही सम्बन्धिकेतनः ।मिताहारः सदा साधुर्गृही पुष्ट्यदनः सदा ॥२३॥द्वन्द्वहीनः सदा साधुर्गृही द्वन्द्वसमन्वितः ।निराशश्च सदा साधुर्गृही त्वाशाभिरावृतः ॥२४॥मोक्षदः साधुधर्मश्च गृहधर्मो हि नाकदः ।इत्येवं धर्ममार्गेषु पार्थक्यं विद्यते हि नौ ॥२५॥अथ ज्ञानेऽपि वै राजन् शृणु पार्थक्यमत्र नौ ।मम पुत्रो मम पत्नी मम द्रव्यं गजादिकम् ॥२६॥मम क्षेत्रं मम राज्यं गृहस्थस्य विभाति हि ।न मे पुत्रो न मे पत्नी न मे द्रव्यं गजादिकम् ॥२७॥न मे क्षेत्रं कुतो राज्यं साधुलोकस्य भाति ह ।मम सम्बन्धिनश्चेमे कुटुम्बिनस्तथा मम ॥२८॥मम भृत्या मे प्रजाश्च गृहस्थस्य विभाति ह ।न मे सम्बन्धिनश्चापि न मे कुटुम्बिनस्तथा ॥२९॥न मे भृत्याः कुतः प्रजाः साधुलोकस्य भाति ह ।मम देहो मम रूपं ममाऽऽज्ञा च बलं मम ॥३०॥मम सत्ता मम सर्वं गृहस्थस्य विभाति ह ।न मे देहो न मे रूपं न चाऽऽज्ञा मे बलं न मे ॥३१॥न मे सत्ता कुतः सर्वं साधुलोकस्य भाति ह ।मम पुष्टिर्मम रोगो मे मिष्टं मम शीतलम् ॥३२॥मम दुःखं मम गर्वो गृहस्थस्य विभाति ह ।न मे पुष्टिर्न मे रोगो मिष्टं शैत्यं न मे न मे ॥३३॥न मे दुःखं न मे गर्वः साधुलोकस्य भाति ह ।अहं वृक्णो ह्यहं स्थूलः कुष्ठ्यहं खञ्जकोऽस्म्यहम् ॥३४॥अहं बुद्धो जडश्चाऽहं गृहस्थस्य विभाति ह ।नाऽहं वृक्णो न च स्थूलो न कुष्ठी न च खञ्जकः ॥३५॥न वा बुद्धो जडो नैव साधुलोकस्य भाति ह ।मम जन्म मम मृत्युर्मम स्वर्गं भवेदिति ॥३६॥मम पूजा मम कीर्तिर्गृहस्थस्य विभाति वै ।न मे जन्म न मे मृत्युर्न मे स्वर्गं न बन्धनम् ॥३७॥न मे पूजा न मे कीर्तिः साधुलोकस्य भाति ह ।तव ग्रामस्तव वाटी तवोद्यानं तव क्षितिः ॥३८॥तवेदं च ममेदं च गृहस्थस्य विभाति ह ।न ते ग्रामो न ते वाटी ते नोद्यानं न ते क्षितिः ॥३९॥तवेदं न ममेदं न साधुलोकस्य भाति हि ।एवं ज्ञानेऽपि पार्थक्यं वैराग्ये शृणु पार्थिव ॥४०॥कमनीया मम भार्या कमनीयं गृहं मम ।कमनीयश्च मे देहो गृहस्थस्य हि रक्तता ॥४१॥न मे भार्या गृहं देहः कुतश्च कमनीयता ।प्रत्युत क्लेदमिश्रास्ते कल्मषाश्च जुगुप्सिताः ॥४२॥इत्येवं साधुलोकस्य स्वभावाद् रागहीनता ।अहो द्रव्यमहो भोगा अहो तत्साधनानि च ॥४३॥अहोऽहं च मदर्थं यद् गृहस्थस्य तु विस्मयः ।किंस्विद् द्रव्यं च के भोगाः कानिस्वित् साधनानि च ॥४४॥कोऽहंकारो ममकारः साधोर्नैवाऽस्ति विस्मयः ।उत्सवोऽद्य विवाहोऽद्य नृत्यमद्य च गायनम् ॥४५॥रङ्गोऽद्य नाटकं चाऽद्य गृहस्थस्य तु विभ्रमः ।आत्मोत्सवो मोक्षवाहो नृत्यगीती हरौ सदा ॥४६॥रङ्गनाट्ये परेशार्थं साधोः कृष्णे समर्पणम् ।इदं द्यूतमिदं लब्धं जितं ग्रस्तं निजीकृतम् ॥४७॥दत्तं चापि गृहीतं च गृहस्थस्य सरागता ।आत्मद्युतं ब्रह्मलब्धं जितं मनः स्थिरीकृतम् ॥४८॥अदत्तमगृहीतं च साधोः रागविहीनता ।सुखानुशयिता नित्यं तृष्णातन्त्वनुपातिता ॥४९॥गृध्नभावानुयायित्वं गृहस्थस्य सरागता ।आत्मानुशयिता नित्यं ब्रह्मसूत्रानुपातिता ॥५०॥साधुभावानुयायित्वं साधोर्विरागता सदा ।एवं वैराग्यपार्थक्यं भक्तौ चापि निशामय ॥५१॥गृहस्थस्य गृहे भक्तिः साधोर्भक्तिस्तु माधवे ।गृहस्थस्य रतौ भक्तिः साधोस्तु विरतौ हि सा ॥५२॥स्वार्थे च गृहिणो भक्तिः साधोर्भक्तिः परार्थके ।गृहस्थस्यैहिके भक्तिः साधोः सा परमार्थिका ॥५३॥गृहस्थस्य स्थितौ भक्तिः साधोर्भक्तिः परस्थितौ ।गृहस्थस्य रसे भक्तिः साधोः सर्वरसात्मनि ॥५४॥गृहस्थस्य भ्रमे भक्तिः साधोर्भक्तिर्भ्रमातिगे ।गृहस्थस्य ऋतौ भक्तिः साधोर्भक्तिः ऋते हरौ ॥५५॥भक्तिः साधोरनावर्त्ते ह्यावर्ते गृहिणस्तु सा ।भक्तिर्गर्भे गृहस्थस्य साधोर्भक्तिर्हिरण्मये ॥५६॥गृहभक्ता गृहस्थाश्च साधवो ग्रहसेविनः ।भक्तभक्ता गृहस्था वै साधवो नक्तभक्तकाः ॥५७॥बहुभक्ता गृहस्थाश्च साधवश्चैकभक्तकाः ।सभक्ता वै गृहस्थाश्च निर्भक्ताः साधवः सदा ॥५८॥सर्वभक्ता गृहस्थाश्च ह्यभक्ताः साधवः खलु ।एवं राजन् भक्तिमार्गे पार्थक्यं गृहिणां सताम् ॥५९॥गतौ चापि साहचर्यं भवत्येव नहि क्वचित् ।गृहस्थस्य गतिर्निम्ना साधोर्गतिः सदोर्ध्विका ॥६०॥गृही त्वारामगतिकः साधुः रामगतिः सदा ।गृहस्थो रक्तगतिमान् साधुः शुक्लगतिः सदा ॥६१॥गृहस्थो द्वन्द्वगतिकः साधुर्द्वन्द्वाऽगतिस्तथा ।गृहगतिर्गृहस्थश्च साधुर्ग्रहगतिः सदा ॥६२॥कर्मगतिर्गृहस्थस्य साधोर्ब्रह्मगतिस्तथा ।आत्मगतिर्गृहस्थस्य साधोश्चात्माऽऽत्मसद्गतिः ॥६३॥साधोर्गतिर्भगवति गृहस्थस्य भगे गतिः ।एवं राजन् गतेश्चापि पार्थक्यं गृहिणां सताम् ॥६४॥वद् त्वया समं मेऽत्र कथं स्यात् सहयोजनम् ।रागाऽरागौ सहनस्तस्तेजस्तमसी नैव च ॥६५॥बन्धमोक्षौ सहयोगौ न स्तो न स्तः कदाचन ।तस्माद् वासं वने साधुसम्मतं समरोचये ॥६६॥पश्य राजन् शरीरं वै कललं कललोद्भवम् ।अपानस्य प्रदेशेन धातुद्वारा प्रजायते ॥६७॥अपानस्य स्थले गर्भे पच्यते कललैः सदा ।पुष्टिमेति बहिर्याति पयसा रन्धितान्नकैः ॥६८॥सर्वं कललसंव्याप्तं निधानं कललस्य वै ।कललं च मलं वापि सलिलं तत्र वर्तते ॥६९॥भौतिकं चापि दुर्गन्धं त्वापादनखमस्ति यत् ।मलात्मकं निधानं च मलस्यैव विलोक्यते ॥७०॥सुगन्धाढ्यं प्रभुक्तं च पीतं गलादधोगतम् ।दुर्गन्धं जायते शीघ्रं मलं कृत्वा प्ररक्षति ॥७१॥सुगन्धो गन्धसारश्च घ्राणेन यः प्रपूरितः ।कोष्ठले स तु दुर्गन्धो भूत्वा बहिः प्रयाति च ॥७२॥नवद्वारेषु सर्वत्र दुर्गन्धानि मलानि वै ।क्षरन्त्येव हि सर्वेषां नारकं कुण्डमेव यत् ॥७३॥पश्य स्वांगजुगुप्सां च मा संसर्गं परैः कुरु ।जलान्नग्रहणे योग्यं कललक्लेदविकृतौ ॥७४॥मलमूत्रसर्जने च का तत्र शुभवासना ।अशुभं शुभमाविद्य रमते निगडे यथा ॥७५॥भुक्तविकाररूपाद् वै लालात्मसलिलात् खलु ।भूतेजोवायुसम्मिश्राज्जायते कललोद्भवः ॥७६॥तस्माद् देहस्ततस्तत्रेन्द्रियाणि गोलकादयः ।तन्मात्राद्यास्तथा तेषां सञ्चालिका प्रशक्तयः ॥७७॥ग्राह्यग्राहकभावाश्च तस्मादेव भवन्ति वै ।तत्र को नाम संविद्वान् प्रमोदं लभतेऽवशः ॥७८॥क्षणे क्षणेऽन्यरूपाणि दृश्यन्तेऽतर्कितानि वै ।कुत्रक्षणेऽयं संघातो विघातं संप्रयास्यति ॥७९॥अब्भ्रवद् धूम्रवद्वा च धूलीपटलवत्तथा ।ज्ञात्वैवं देहपटलं ज्ञो न विश्वासमाप्नुयात् ॥८०॥शून्यं क्षणान्तरे त्वेतत्प्राणस्य विगमे भवेत् ।दुःखं चालोक्यते साक्षाद् यतः स्वलक्षणं हि तत् ॥८१॥शरीरं चेदृशं तस्य सम्बन्धिषु तु का कथा ।तस्माद् राजन्निवत्स्येऽहं त्वात्मन्यरण्यसंज्ञके ॥८२॥अनरण्ये परमेशे वासं लप्स्ये ततः परम् ।मदुक्तं यदि मिष्टं ते तं सुमार्गं प्रसाधय ॥८३॥एष यामि वियोगस्य मा शोकं वर विज्ञक ।गुरौ देहो यथोक्तश्च सदा चेत्तादृशोऽस्ति वै ॥८४॥अरण्येऽपि तथैवास्ते तत्संगस्तु भयावहः ।तत्संगे चेदरण्येऽपि वासस्ते संभविष्यति ॥८५॥समद्रष्टुश्च तेऽरण्यं गृहं मेऽपि समं यतः ।वासं त्वत्रैव सततं विधेहि याहि मा प्रभो ॥८६॥प्रबुद्ध उवाच-सत्यं राजन् त्वदुक्तं वै मयोक्तं चापि तत्तथा ।अविघ्ने भवने गत्वा मोक्षं यास्यामि दुर्लभम् ॥८७॥बहुविघ्नमयं राजन् भवनं ते विलोक्यते ।स्वल्पविघ्नमरण्यं वै यतिष्ये च यथाबलम् ॥८८॥आत्मवित्तिं प्राप्य प्रवेक्ष्यामि वै ब्रह्मवित्तिके ।ब्रह्मवित्त्या परब्रह्म साधयिष्यामि शाश्वतम् ॥८९॥अमोहाक्ष उवाच-पूर्णब्रह्मस्वरूपस्य दर्शनं मे कथं भवेत् ।गुरो त्वं मे प्रदेह्यत्र पूर्णब्रह्मप्रदर्शनम् ॥९०॥प्रबुद्ध उवाच--कर्मकषायदाहेन पूर्णं ब्रह्म प्रकाशते ।राजन्नाऽहं तथा युक्तः कर्मजालसमावृतः ॥९१॥अमोहाक्ष उवाच-देहस्याऽस्य न विश्वासः क्षणान्तेऽयं विनश्यति ।गुरोः सकाशाल्लाभो न परब्रह्मप्रगोचरः ॥९२॥तदा शिष्येण तु कदा क्व स लाभो ह्यवाप्स्यते ।त्वं प्रदेहि गुरो ज्ञानं चाऽपरोक्षं परात्मनः ॥९३॥प्रबुद्ध उवाच-नाहं तादृक् समर्थोऽस्मि सामर्थ्यं भजनाश्रयम् ।मादृशा अवतारास्तु बुद्धा जाताः सहस्रशः ॥९४॥भक्त्योपासनया यस्य परब्रह्मण एव ह ।तदुपास्त्या भवान् राजन् तरिष्यति न संशयः ॥९५॥यास्याम्यहं वने राजन् त्वं चेदिच्छसि सत्वरम् ।ब्रह्मदर्शनमत्रैव विना साधनसम्पदम् ॥९६॥कृपयाऽहं कथयामि देशे सुराष्ट्रसंज्ञके ।अश्वपट्टसरःक्षेत्रेऽक्षरक्षेत्रे शुभावहे ॥९७॥कुंकुमवापिकातीर्थे प्रत्यक्षो भगवान् स्वयम् ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥९८॥विराजते परब्रह्म धृतमानुषविग्रहः ।याहि शीघ्रं च तं देशं परब्रह्म मिलिष्यति ॥९९॥प्रासादे मां गुरुं तत्र स्थापयित्वा ततः परम् ।यास्यसि ब्रह्मलोकं च याहि शीघ्रं हि मा चिरम् ॥१००॥एष यास्यामि राजँस्ते स्वस्ति भवतु सर्वदा ।इत्युक्त्वा नृपते बुद्धो निर्ययौ वनविस्तरम् ॥१०१॥अमोहाक्षो द्रुतं सज्जो भूत्वा समाजगाम ह ।क्षेत्रमेतत्समागत्याऽनादिकृष्णनरायणम् ॥१०२॥प्रत्यक्षं सन्ददर्शापि तीर्थेऽत्र न्यवसत्तथा ।प्रबुद्धं स्थापयित्वाऽत्र ययौ मोक्षं परात्परम् ॥१०३॥दिव्यविमानमारुह्याऽक्षरं धाम सनातनम् ।तदिदं बुद्धतीर्थं वै तथा तीर्थममोहकम् ॥१०४॥मोहनाशकरं पूर्णब्रह्मप्राप्तिकरं सदा ।स्नाहि राजन् गुरुं ध्यात्वा दानान्यपि प्रदेहि च ॥१०५॥इत्युक्तो राधिके राजा चाश्वपाटलकस्तदा ।लोमशोक्तदिशा स्नानं दानं चकार शोभनम् ॥१०६॥ययौ ततोऽयं सहसा तीर्थं चाऽपरमेव सः ।पठनाच्छ्रवणाच्चास्य परब्रह्मगतिर्भवेत् ॥१०७॥विवेको जायते चापि तथा ब्रह्मस्थितिर्भवेत् ।भुक्तिर्मुक्तिर्भवेच्चापि स्वर्गं च शाश्वतं भवेत् ॥१०८॥अत्र दानेन तपसा भजनेनाऽऽप्लवेन च ।जलपानेन यज्ञस्याऽश्वमेधस्य फलं भवेत् ॥१०९॥अपि पापिजनश्चात्राऽऽगत्य प्राणान् जहाति चेत् ।प्रबुद्धश्चात्र संभूत्वा मोक्षपदं प्रयास्यति ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने अमोहाक्षनृपतेः प्रबुद्धगुरोरुपदेशेन कुंकुमवापीक्षेत्राऽऽगमे साक्षात्परब्रह्मप्राप्तिः, बुद्धतीर्थं, मोक्षश्चेत्यादिनिरूपण-नामाऽष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥२६८॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP