संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २३५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २३५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३५ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके तत्र समायाता जनादयः ।सर्वे हरे प्रसादं वै लब्धवन्तो मुदं ययुः ॥१॥मध्याह्ने वालकृष्णस्य विप्रा आशीर्विधिं जगुः ।नार्यां जगुश्च गीतनि ततो नीराजनं ह्यभूत् ॥२॥बालकृष्णो निजं रूपं दर्शयामास वै तदा ।अक्षरात्परधामस्थं दिव्यं दिव्योत्तमोत्तमम् ॥३॥मण्डपे स्वासने चापि ये येऽन्तर्निहिताः सुराः ।लोकाश्च लोकपालाश्चेश्वरावतारशक्तयः ॥४॥ते ताः सामस्त्यभावेन बालकृष्णे समास्थिते ।अदृश्यन्ताक्षरमुक्ताः सर्वसृष्टिनिवासिनः ॥५॥ब्रह्माण्डं दृश्यते तत्र चतुर्दशस्तरात्मकम् ।भूतलं दृश्यते चापि सौराष्ट्रं दृश्यते तथा ॥६॥दृश्यते कुंकुमवापि सभा च दृश्यते तथा ।दृश्यते मण्डपश्चेति दृश्यते कृष्णवल्लभः ॥७॥इत्येवं श्रीहरौ सर्वं पारिषदाक्षिगोचरम् ।समभूत् ते ततो हृत्सु बालकृष्णं व्यलोकयन् ॥८॥दिव्यं दिव्यगुणागारं काम्भरेयं महाप्रभुम् ।गोपालबालकं ब्रह्मप्रियादीनां पतिं प्रभुम् ॥९॥अथ दिव्यं दर्शयित्वा निजं रूपं हरिस्ततः ।बालरूपो बभूवाऽय सभाविसर्जनं ह्यभूत् ॥१०॥सर्वेभ्यो भोजनं प्रादाच्छ्रीमद्गोपालकृष्णकः ।मिष्टान्नानि विविधानि पेयानि विविधानि च ॥११॥ततो विदायं प्रददौ दानमानपुरःसरम् ।ययुर्वै परलोकस्था देशान्तरेषु सर्वथा ॥१२॥समाजस्तत्र सौराष्ट्रदेशीयानां स्थिरोऽभवत् ।रात्रौ श्रीबालकृष्णाग्रे मल्लयुद्धमभूत्तथा ॥१३॥नाटकानि विचित्राणि श्रीकृष्णाऽग्रेभवँस्तदा ।गायनानि विचित्राणि संगीतकानि चाऽभवन् ॥१४॥भोजनानि च पेयानि मुहुस्तत्राऽभवन्निशि ।एवं रात्रौ नर्तनानि ह्यभवन् वारयोषिताम् ॥१५॥पारितोषिकदानानि ह्यभवन् कर्मचारिणाम् ।समाप्य सर्वं रात्र्यर्धे निद्रां श्रान्तिं ययुर्जनाः ॥१६॥प्रातरुत्थाय वाद्याद्यैः कृतकौतुकमंगलाः ।हरिं नत्वा विदायं च गृहीत्वा प्रययुर्गृहम् ॥१७॥विश्वकर्मा निदेशं च प्राप्य मण्डपमुत्तमम् ।तिरोऽभावयदेवापि प्रातरेव क्षणान्तरे ॥१८॥तस्मै श्रीबालकृष्णश्च पारितोषिकमुत्तमम् ।प्रददौ स्वर्णमुकुटं कण्ठहारमनुत्तमम् ॥१९॥बुद्धिं च प्रददौ दिव्यां गतिं सर्वत्र सन्ददौ ।सृष्टित्रयाऽक्षिमत्त्वं च प्रददौ कृपया प्रभुः ॥२०॥अश्वपट्टसरो द्रागदृश्यत मण्डपे हृते ।सस्नुः प्रातर्जनाः सर्वे सन्ध्यावन्दनधर्मिणः ॥२१॥इत्येवं राधिके जन्मजयन्ती पाञ्चदाशिकी ।व्यतीता श्रीहरेर्वर्षं पञ्चदशं समायुजत् ॥२२॥श्रीहरेर्दर्शनार्थं वै प्रायान्ति बहवो जनाः ।मनुष्याणां सुसम्मर्दो जायतेऽहर्निशं ततः ॥२३॥दीनाश्चाण्डालपर्यन्ताः समायान्ति प्रयान्ति च ।राजाधिराजकरुणां लब्ध्वा प्रसादरूपिणीम् ॥२४॥प्राप्यानन्दं भोजनादि भवन्ति सुखिनश्च ते ।राधे! तत्र जयन्त्यां वै चाण्डालः कश्चिदागतः ॥२५॥आसीन्नाम्ना तामसाक्षिः पत्नीपुत्रसमन्वितः ।हरेर्भक्तो यतो नैव चौर्यं करोति सर्वथा ॥२६॥न व्याहरत्यसत्यं च कपटं न करोति च ।चलालये वसन्नित्यं ग्राममार्जनकर्मभिः ॥२७॥लब्धान्नैर्देहमात्रां च निर्वर्तयति वै सदा ।किन्तु चान्नं न वै पूर्णं जायते मार्जनार्जितम् ॥२८॥ग्रामेऽस्त्यन्यो न चाण्डालः कार्यं कर्तुं तु सम्मतः ।नाऽयं हिंसां करोत्येव न त्वन्यायं करोत्यपि ॥२९॥भिक्षुकवत्तथाऽन्नस्याऽर्जनार्थं न भ्रमत्यपि ।मत्वा लोकास्तु चाण्डालं कुपात्रं न ददत्यपि ॥३०॥ततः क्लेशं वरं प्राप्य क्षुधापीडातिकर्षितः ।कुटुम्बेन सहितोऽयं पञ्चपुत्रसमन्वितः ॥३१॥बालैरप्यनुद्यमैश्च द्विकन्यासहितस्तथा ।पत्नीयुतश्च नवमो जयन्त्यां स्वयमागतः ॥३२॥अश्वपट्टसरस्तीरे वटच्छायामुपाश्रितः ।दर्शनं बालकृष्णस्य करोति स्म नवं नवम् ॥३३॥मालावर्तनमेवापि करोति सकुटुम्बकः ।भिक्षान्नं तूत्सवे तेन लब्धं पूर्णं दिने निशि ॥३४॥नवम्यां तेन सल्लब्धं दशम्यां लब्धमेव च ।एकादश्यां तदान्नं न लब्धं वै व्रतकारणात् ॥३५॥क्षुधितः सकुटुम्बो वै दिवानिशं व्रतेऽभवत् ।रात्रौ तामसभावेन पत्न्यपत्यसमन्वितः ॥३६॥क्षुधाद्यैर्भग्नहृदयो मर्तुकामोऽतिवेगवान् ।निपपात सरस्येव पत्नी धर्तुं पपात तम् ॥३७॥पुत्रीपुत्राश्च पतिता रुदन्तः पितराविति ।जलागाधत्वयोगेन तलं प्राप्ताश्च ते तदा ॥३८॥मध्यरात्र्युत्तरे काले नैतत् जानाति कश्चन ।जलं ते सलिलं पीत्वा मृतप्रायास्तदाऽभवन् ॥३९॥बालकृष्णं हृद्ये स्वे स्मरन्त्येते मृता इव ।भगवान् बालकृष्णोऽपि प्रबुबोध द्रुतं तदा ॥४०॥त्यक्त्वा शय्यां राधिके स्वां तमोरात्रौ सरो ययौ ।वासुदेवस्वरूपः श्रीबालकृष्णो जलान्तरे ॥४१॥चतुर्भुजो विवेशाथ धृत्वा भक्तं श्वपाकिनम् ।तत्पत्नीं च बहिस्तीरे त्वानयामास सत्प्रभुः ॥४२॥पुनर्जले हरिर्गत्वा पुत्रीद्वयं सुतं तथा ।जलान्निष्कासयामास तटे न्यस्य पुनर्जले ॥४३॥सप्रविश्य हरिस्तूर्णं पुत्राँश्चतुर इत्यपि ।आनयामास च बहिस्तटे ररक्ष वै क्षणम् ॥४४॥बालान् सुते च पत्नीं च पतिं च भगवाँस्ततः ।वासुदेवश्चानिरुद्धः प्रद्युम्नः समकर्षणः ॥४५॥चतूरुपधरो भूत्वा धृत्वा तान् पादयोः पृथक् ।उत्तोल्याऽधोमुखान् कृत्वा घटिकामात्रमेव तान् ॥४६॥तथैव धारयामास पीतजलस्य निर्गमम् ।मुखतः सर्वथा कारयित्वा तान् लब्धचेतनान् ॥४७॥वराधस्तात् सप्रस्वाप्य शैत्यनाशाय काण्डिकाः ।वटपत्रादिसहिताः शलाकाश्च समन्ततः ॥४८॥संप्रचित्वा द्रुतं तत्राऽनलं प्रादीपयत्प्रभुः ।तत्र काष्ठानि विन्यस्य तपनं प्रचकार ह ॥४९॥तापयामास तान् सर्वान् शनकैः श्रीहरिः स्वयम् ।आनयामास तत्प्राणान् मूर्ध्नो हृदयगह्वरम् ॥५०॥प्राप्तजाग्रत्प्रभावास्ते वीक्ष्य रूपचतुष्टयम् ।वासुदेवादिकं तूर्णं नेमिरे पादयोः प्रभोः ॥५१॥तुष्टुवुस्ते हरिं तत्रैकादशीरात्रितूर्यके ।दीनाऽनाथदरिद्राणां नाथ धारक रक्षक ॥५२॥नताः स्म ते पादयोर्वै चाण्डाला वयमादरात् ।त्वं धाता त्वं चान्नदाता त्वं भर्ता त्वं हि पोषकः ॥५३॥प्राणदाता त्वमेवाऽसि जीवयिता जलाद्धि नः ।सदाऽन्नदुःखदुःखिनो वयं जीवनदुःखिनः ॥५४॥दुःखैर्विरक्तभावेन प्राणान्तार्थं जलेऽर्पणम् ।कृतवन्तो हि देहानां ते स्मृतिं प्राप्य वारिषु ॥५५॥तत्र त्वं प्राणनाथो नः समागत्योद्धृतिं व्यधाः ।देहरक्षा कृता यद्वत्प्राणरक्षा तथा कृता ॥५६॥जीवनस्य प्रदानेन रक्षां वृत्त्या कुरु प्रभो ।यद्वा ते ब्रह्मलोकं नो नय भक्तानुदासनान् ॥५७॥त्वया रक्षा कृता गर्भे कृमियोगेऽपि जन्मनि ।जन्ममार्गे कृता रक्षा बाल्यभावेऽपि रक्षिताः ॥५८॥इदानीं यावदेवापि त्वयाऽन्नाद्यैर्हि रक्षिताः ।वृक्षा वल्ल्यः पशवश्च कीटाः पतत्रिणस्तथा ॥५९॥रक्ष्यन्तेऽपि त्वया नाथ रक्ष रक्षय नस्त्विह ।अधमोद्धारकर्ता त्वं दुःखहर्ता च दुःखिनाम् ॥६०॥अनाश्रितानां चाश्रयप्रदाता त्वं पिता मतः ।बालानां चावलम्बस्त्वं जीवनं त्वं प्रजीविनाम् ॥६१॥शरण्यश्चापद्गतानां तारकस्त्वं निमज्जताम् ।आतुराणां चार्तिहास्त्वं ममार्त्तिं हर मापते ॥६२॥अन्नवस्त्रैर्विहीनानामन्नवस्त्रप्रदो भव ।दुर्भाग्यानां सुभाग्यस्य विधाता भव मापते ॥६३॥अन्नदुःखेन भगवन्निमग्नोऽहं सरोवरे ।कुटुम्बसहितो रात्रौ त्वया दयालुनोद्धृतः ॥६४॥तस्मात् पूर्णां दयां कृत्वाऽन्नाम्बरकष्टमच्युत ।विनाशय ते भक्तस्य शरणे पतितस्य मे ॥६५॥इत्युक्त्वा च क्षितौ न्यस्य मस्तकं साञ्जलिं मुदा ।प्रणनाम मुहुः श्रीमद्बालकृष्णं विलोकयन् ॥६६॥भगवान् वासुदेवादिस्वरूपाणि व्यदर्शयत् ।बालकृष्णस्वरूपश्च भूत्वाऽऽह तामसाक्षिकम् ॥६७॥कुटुम्बसहितश्चात्र नगर्यां मे सदा वस ।मार्जनादि विधेह्यत्र रथ्यासु राजमार्गके ॥६८॥वृत्तिस्ते त्वन्नवस्त्रादिस्वरूपा निर्वहिष्यति ।प्रातर्दास्ये निवासार्थं गृहं रम्यं तवोचितम् ॥६९॥मा खिन्नो भव भक्त त्वं मैवं पुनः कृथाः क्वचित्॥आत्मघातसमं पापं मोक्षहानिकरं महत् ॥७०॥नेतरद् विद्यते तस्मान्मा कृथाश्चात्मघातनम् ।आत्मजीवनदानेन तुल्यं पुण्यं महत्तरम् ॥७१॥मोक्षसाधनदं नान्यत्तस्माद् रक्षेद्धि जीवनम् ।गृहाणेदं भोजनं च मिष्टान्नं पूर्तमित्यपि ॥७२॥इत्युक्त्वा वासुदेव्या चाहृतं मिष्टान्नकं ददौ ।वस्त्राण्यपि ददौ तस्मै कुटुम्बाय दयापरः ॥७३॥प्रातश्चायाहि मे गोपुराग्रे दास्ये गृहं तव ।अहं गच्छामि सौधं मे भज मां निद्रितो भव ॥७४॥इत्युक्त्वाऽन्तर्दधे श्रीमद्बालकृष्णो हि राधिके ।चाण्डालश्च प्रसन्नोऽभूत् चक्रे तु भजनं हरेः ॥७५॥तालिकावादनैः सर्वे प्रचक्रुः कृष्णकीर्तनम् ।प्रातः स्नात्वा हरेर्द्वारं ययुः सर्वेऽति भावुकाः ॥७६॥बालकृष्णो हि भक्तस्य रक्षार्थं स्वयमेव ह ।गजासनात् समुत्थाय गोपुरं प्रययौ ततः ॥७७॥गृहं संकल्पयामास चाम्रवणेऽतिसुन्दरम् ।सुन्दरं नूतनं वृक्षवल्लीतृणविराजितम् ॥७८॥विशालं मार्जनीचुल्लीकण्डन्यादिसमन्वितम् ।उदकुंभीपेषणीभ्यां सहितं शयनादियुक् ॥७९॥कुसूलधान्यपूर्णं च सर्वान्नसूपसंभृतम् ।शाकपत्रादिवाट्याढ्यं कूपजलविराजितम् ॥८०॥दोग्ध्रीगोसहितं रम्यं चतुःकक्षादिवर्तुलम् ।एवं सुभवनं कृष्णो निजचित्रसमन्वितम् ॥८१॥सर्वशोभायुतं तस्मै प्रददौ श्वप्रपाकिने ।भक्तोऽयं गृहमासाद्य प्रसन्नोऽभून्मुमोद च ॥८२॥मन्त्रं श्रीबालकृष्णाद्वै जग्राह वैष्णवं तदा ।'नमः श्रीबालकृष्णस्य दासोऽस्म्युद्धर मां प्रभो' ॥८३॥इति मन्त्रं ददौ तस्मै भगवान् कंभरासुतः ।ग्रामे कुमकुमवाप्यां च पत्तने मार्जनादिकम् ॥८४॥कर्तुं न्ययोजयत्तं वै स्वभक्तं तामसाक्षतम् ।सोऽपि लब्ध्वा शुभं लाभम भक्तिं चक्रे त्वहर्निशम् ॥८५॥कुटुम्बं श्रीहरिं नित्यं मूर्तै प्रसेवतेऽस्य च ।कन्यैका दुग्धिका देवी तस्थौ सा ब्रह्मचारिणी ॥८६॥कृष्णभक्त्या समाधिस्था दिव्यदेहा बभूव ह ।दुग्धिका देवता चाण्डालानां सा कुलदेविका ॥८७॥सर्वदा त्वभवल्लोके बालकृष्णनिषेविणी ।मन्त्रिका चाऽपरा कन्या बहुमन्त्रविधायिनी ॥८८॥हरेर्भजनयोगेन साऽऽत्मबलवती ह्यभूत्॥सत्यवक्त्री मनुं यं स क्लृप्त्वाऽन्यां शिक्षयत्यपि ॥८९॥स एव मन्त्रो बलवान् जायते फलवौस्तथा ।एवं सा मन्त्रिका जाता मन्त्रोद्भावनकारिणी ॥९०॥चाण्डालजातिमन्त्राणाम् आर्षी सा ह्यभवत्ततः ।पुत्राः पञ्चापि सद्भक्ताः साधवो भजनान्विताः ॥९१॥अजायन्ताऽऽश्रमे नैजे मण्डलीवाहिनोऽभवन् ।चाण्डालानां गुरवस्तेऽभवन् सन्तो हि भक्तितः ॥९२॥बहुकाले गते तेषां पितरौ भक्तिभाविनौ ।सेविनौ दिव्यहृदयौ भूत्वा देहौ विहाय च ॥९३॥ययतुः श्रीहरेर्धामाऽक्षरं मुक्तौ बभूवतुः ।राधे कालान्तरे पुत्राः पुत्र्यौ साध्व्यौ च भक्तितः ॥९४॥त्यक्त्वा देहान् ययुर्धाम बालकृष्णस्य शाश्वतम् ।एवं श्रीभगवान् राधे भक्तरक्षां चकार ह ॥९५॥पोषणं प्रचकारापि जीविकां प्रददौ तथा ।मोक्षं त्वन्ते ददौ चापि श्वपचेभ्यो महाप्रभुः ॥९६॥येऽनाथाश्च दरिद्रा वा दीना भाग्यविहीनकाः ।अपि गत्वा हरेर्भूमौ कुंकुमवापिकाऽक्षरे ॥९७॥भजनं ये करिष्यन्त्यर्पयिष्यन्ति निजं निजम् ।देहं प्राणान् हृदयानि धनानि च कुटुम्बकम् ॥९८॥तेषां रक्षां बालकृष्णः करिष्यत्येव सर्वथा ।भुक्तिं समर्प्य लोकेऽत्र मुक्तिं दास्यति वै ततः ॥९९॥पठनाच्छ्रवणाच्चाऽस्य - कीर्तनात्पाठनादपि ।भुक्तिर्मुक्तिर्भवेदेव राधिके नात्र संशयः ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मण्डपस्य परिहारो महीमानविदायं तामसाक्षिनामकचाण्डालभक्तस्य सकुटुम्बस्य जलमग्नस्य रक्षणं पोषणंमोक्षणं चेत्यादिनिरूपणनामा पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥२३५॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP