संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २४९ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २४९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४९ Translation - भाषांतर श्रीकृष्ण उवाच-राधिकेऽथ ततः सर्वे निद्रां जगृहुरेव ह ।त्रयोदश्यां कृतस्नानार्हणा विदायमाप्नुवन् ॥१॥लोमशर्षिः सभायां वै ह्युपादिदेश देहिनः ।श्रद्धायज्ञाः फलवन्तश्चाऽश्रद्धाः फलवर्जिताः ॥२॥आज्येन पयसा दध्ना सोमेन च फलेन च ।पूर्णाहुत्या श्रद्धया च फलवन्ति क्रतवस्त्विह ॥३॥अशक्ताश्च मखे ते तु पुच्छाभिषेचनेन वै ।अभिषेकेण वा पादरजसा सन्तरन्त्यपि ॥४॥श्रद्धां पत्नीं विधायैव सुसत्येन व्रतेन तु ।यजमानो यजेतेशं तरत्येव न संशयः ॥५॥इष्टं तु दैवतं कृत्वा यजेत श्रद्धया मुहुः ।भावेनाऽर्पणविधिना तरत्येव स यागकृत् ॥६॥पुरोडाशः सदा मेध्यो देवानां तृप्तिकारकः ।सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः ॥७॥सर्वा पृथ्वी हरेर्धाम ब्रह्मनिष्ठस्य देहिनः ।श्रद्धा तु पोषिता येन सा तु पुष्णाति तं जनम् ॥८॥श्रद्धां निहन्ति यो धर्मे सा हता हन्ति तं जनम् ।साधूनां श्रद्धधानानां कुर्वतां यज्ञविस्तरम् ॥९॥फलं सम्पद्यते सर्वं प्रसवित्री हि सा यतः ।ज्ञानवृद्धं मनोवृद्धं श्रद्धा देवे हि रक्षति ॥१०॥श्रद्धावृद्धं हरिर्नारायणः क्वापि न मुञ्चति ।अश्रद्दधानो देवानां नार्हति हविरर्पणे ॥११॥अहविरन्नदातुश्च भोक्तव्यं नैव सर्वथा ।अश्रद्धा परमं पाप तन्मयं ग्राह्यमेव न ॥१२॥पावयित्री ज्यायसी च निवृत्तिदा सुखप्रदा ।श्रद्धा शान्तिप्रदा परब्रहारूपा हि पावनी ॥१३॥श्रद्धा ब्रह्मप्रदा तद्वदहिंसा व्रह्मदायिनी ।अहिंसा सर्वधर्मेभ्यो भूतानां ज्यायसी मता ॥१४॥सर्वयज्ञेषु वै विष्णुर्भुंक्ते हव्यं हि पायसम् ।पायसैः सुमनोभिश्च फलैर्गुन्द्रै रसैर्हवः ॥१५॥पावनस्तृप्तिदो विप्णोर्जायते शुद्धभावनः ।औषध्यादि पवित्रं वै सर्वं देवार्हमेव तत् ॥१६॥यथा शरीरं न ग्लेयात्तथौषधैः प्रजीवयेत् ।कन्दमूलफलाद्यैश्च यज्ञं सन्तोषयेत् सदा ॥१७॥श्रद्धा वै जननी सर्वफलावाप्तिप्रकारिणी ।अहिंसा भगिनी तस्यास्ते ह्युभे देवदर्शिके ॥१८॥जननी नैव हन्तव्या सदा बालोपकारिणी ।अहिंसा परमो धर्मः स्वधर्मो मातृरक्षणम् ॥१९॥श्रद्धां हत्वा मातरं च को हि जातु सुखी भवेत् ।माता शरीरहेतुः सा मात्रा सनाथता सदा ॥२०॥श्रिया ह्रीनोऽपि सुजनश्चाम्वेति गेहमृच्छति ।पुत्रपौत्रयुतश्चापि जननीं प्रति बालकः ॥२१॥असमय विचित्तं वा सुतं माता प्ररक्षति ।तदा वार्धक्यमायाति दुःखदोषसमन्वितम् ॥२२॥तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते ।नास्ति मातृसमः कश्चिदाधारो भूतलेऽपि च ॥२३॥नास्ति मातृसमं त्राणे प्रियं प्राणस्य भाजनम् ।कुक्षिसंधारणाद् धात्री जननाज्जननी हि सा ॥२४॥अंगानां वर्धनादम्बा माता मानकरी शिशोः । (अम्बा)श्रद्धा धात्री स्वर्गकुक्षौ जननी देवयोनिषु ॥२५॥अम्बाऽक्षरप्रदत्वाश्च माता मुक्तिप्रदा यतः ।स्वर्गकामो यजेतेति श्रद्धया यजनं मतम् ॥२६॥ओषध्यः समिधो वृक्षा वीरुदाज्यं. पयो दधि ।हविर्भूमिर्दिशः श्रद्धा कालः ऋचो यजूंषि च ॥२७॥सामानि यजमानाग्निः सप्तदशांगकः क्रतुः ।आज्येन पयसा दध्ना शकृताऽऽमिक्षया फलैः ॥२८॥रसैश्च श्रद्धया विष्णुः प्रसीदत्येव चाध्वरे ।ब्राह्मणप्रभवो यज्ञो ब्रह्मार्पणपरायणः ॥२९॥अनुयज्ञं जगत् सर्वे यज्ञश्चानु जगत् सटा ।ओमिति ब्रह्मणो नाम नमः स्वाहा स्वधा वषट् ॥३०॥यस्यैतानि प्रयुज्यन्ते तस्य भयं न विद्यते ।तस्याऽभयप्रदः श्रीमत्कृष्णनारायणः प्रभुः ॥३१॥कांभरेयो हरिः साक्षादक्षरात्परतः परः ।कुंकुमवापिकाक्षेत्रे भवद्भिरीक्षितो मखे ॥३२॥स एव सर्वयज्ञानां फलं जानाति वै प्रभुः ।ददात्येव फलं सम्यग् जनन्या चानुमोदितः ॥३३॥तस्माद् यजेद् याजयेच्च यशं श्रीकृष्णवल्लभम् ।विधिना यजतः स्वर्गे शाश्वतं चाक्षरात्परम् ॥३४॥नाऽयं लोकोऽस्त्ययज्ञानां नापि परश्च निश्चितः ।नापि धर्मोऽस्ति गतिदश्चाऽयज्ञानामिह क्षितौ ॥३५॥अश्वपाटल उवाच-कथं लोकोऽयमुत्कृष्टः परलोकस्तथाऽऽप्यते ।कथं धर्मश्च गतिदः क्षितौ स्यात्तद्वदाऽत्र मे ॥३६॥श्रीलोमश उवाच-साध्वाचारस्य च जितात्मनः समस्य देहिषु ।सर्वसत्कारकार्यस्योत्कृष्टोऽयं लोक इष्यते ॥३७॥सर्वत्र ब्रह्मदृष्टेश्च ब्रह्मपूजारतस्य च ।ब्रह्मनिष्ठस्य भक्तस्य परलोकः प्रकाशते ॥३८॥सर्वप्रसन्नतार्हस्य सर्वोपकारशालिनः ।अहिंसासत्यधर्मस्य धर्मो वै गतिदो भवेत् ॥३९॥मायाभावविहीनस्याऽक्षरभावगतस्य च ।परब्रह्माश्रितस्यैव त्रयं करगतं हि तत् ॥४०॥सैषोपनिषद्विद्या वै सन्निधियोजिका हरेः ।ययाऽऽप्यते परब्रह्म धामाऽक्षरं च शाश्वतम् ॥४१॥ज्ञानेन चाप्यते ब्रह्म ज्ञानं चोपनिषन्मता ।भक्त्या संप्राप्यते ब्रह्मा भक्तिश्चोपनिषन्मता ॥४२॥भागवतेन धर्मेणाऽऽप्यते कृष्णः स एव सा ।वैराग्येण च दुःखेन यदि गत्वा हरिं प्रति ॥४३॥वासः सञ्जायते येन तत्तदुपनिषन्मता ।देवस्य मन्दिरे वासो जायते येन हेतुना ॥४४॥शुभाशयः स वै हेतुर्ब्रह्माप्त्युपनिषन्मता ।बालः प्रसादलोभेन यदि गच्छति मन्दिरम् ॥४५॥हरेर्वै सन्निधौ तस्योपनिषत् स प्रसादकः ।कर्मणा शत्रुणा वापि वाञ्च्छया चेहयाऽपि वा ॥४६॥हरे सान्निध्यमाप्येत येन सोपनिषन्मता ।यज्ञेन सेवया चापि सार्थेन स्वार्थकेन वा ॥४७॥दानेन तृष्णया वापि देवसन्निधिराप्यते ।येन केनापि वै सात्रोपनिषत् सम्मता भुवि ॥४८॥साधुसंगोऽतिवेलं यो ब्रह्मप्राप्तिकरोऽस्ति वै ।स चोपनिषत् संप्रोक्ता सत्संगिना हरिप्रदा ॥४९॥कथाश्रवणमेवाऽत्र नारीणां ब्रह्मयोगदम् ।सा चोपनिषद् बोध्यैव येन नारायणो मिलेत् ॥५०॥स्नेहस्तानं भावना च वृत्तिः रागोऽपि चेद् यदि ।ब्रह्मप्राप्तिकरस्ते वै सर्वे चोपनिषन्मता ॥५१॥गोपीनां कामतः प्राप्तिर्विप्राणां यज्ञतस्तथा ।गोपानां मैत्र्यतः प्राप्तिदैत्यानां द्वेषतोऽपि च ॥५२॥सुदाम्नो लोभतः प्राप्तिजीवनार्थॆ तु हस्तिनः ।तपसा च ध्रुवस्याऽपि प्रह्लादस्य तु निश्चयात् ॥५३॥पूतनाया वैरभावान्नारदस्य तु कीर्तनात् ।एवं येनैव केनैव हेतुना चाप्यते हरिः ॥५४॥हेतुः स चोपनिषत् सा ब्रह्मप्राप्तिकरी मता ।ज्ञानं भक्तिश्च वा कर्म भावना वा समर्पणम् ॥५५॥सर्वं चोपनिषत् प्रोक्ता यया ब्रह्म ह्यवाप्यते ।अश्वपट्टल! यज्ञेनाऽनादिकृष्णनरायणः ॥५६॥प्राप्तस्त्वयाऽत्र वै दिव्यमूर्तिः श्रीकृष्णवल्लभः ।सोमयज्ञस्तवाऽत्रैवोपनिषत्संमता ध्रुवा ॥५७॥अनुग्रहेण जीवानां क्वचिद् योगः प्रभोर्मतः ।क्वचिद् यत्नेन वा क्वचिज्जात्या योगो भवेदपि ॥५८॥सा तेषां योगिनां हेतुः शुभ्रोपनिषत् संमता ।यथा कर्माणि सर्वाणि फले परिसमाप्यते ॥५९॥फलं शान्तौ सा च भोगे ब्रह्मण्येव समाप्यते ।ब्रह्मभावः परे देवे परमेशे समाप्यते ॥६०॥यतयस्तं विजानन्ति पश्यन्ति यान्ति तं प्रति ।निर्द्वन्द्वा निर्बन्धनाश्च विमुक्ताः शुचयोऽमलाः ॥६१॥अपवर्गे कृतनिष्ठा ब्रह्मिष्ठा ब्रह्मवासिनः ।विमाया ब्रह्मभूताश्च गतिस्तेषां सनातनी ॥६२॥अनारंभाः सुधृतयः शुचयो ब्रह्मसंज्ञिताः ।देवं परेश्वरं यज्ञैस्तर्पयन्त्यनृतैषिणः ॥६३॥सर्वभूतात्मभूतस्य पश्यतः स्वेतराणि च ।मार्गं यान्ति तत्प्रदत्तनेत्रवान् तस्य भक्तिमान् ॥६४॥नवद्वारप्रगुप्तिं च कृत्वा हृदयोद्घाटनम् ।ब्रह्ममार्गेण यातस्य परब्रह्मगृहे स्थितिः ॥६५॥अग्निहोत्रं पूर्णमासो दर्शः प्रयाजकास्तथा ।स्विष्टकृच्चानुयाजाश्च पितृयज्ञोऽङ्गयागकः ॥६६॥चातुर्मास्यं वैश्वदेवः साकमेधश्च वारुणः ।सोमयागश्च सवनं चाग्रयणेष्टिरित्यपि ॥६७॥अवभृथेष्टिश्चोक्थं च षोडशी चातिरात्रकम् ।अत्यग्निष्टोम एवापि वाजपेयश्च विष्टुतिः ॥६८॥वायव्यः शतरुद्रीयो वासवो राजसूयकः ।सौत्रामणिश्चाश्वमेधः पुंमेधः सर्वमेधकः ॥६९॥गोमेधो ब्रह्ममेधश्च यज्ञा येऽन्ये क्रियापराः ।ज्ञानपरास्तपःपरा द्रव्यपराश्च ये मखाः ॥७०॥स्वागतार्थाश्चोपकारास्तथा ये दानदक्षिणाः ।सर्वे ते कल्पिता कृष्णे मोक्षदा ब्रह्ममार्गिणः ॥७१॥कृता वा न कृता वापि नास्य किञ्चित् प्रशिष्यते ।हरिः सन्तोषितः प्राप्तस्तेनाऽऽप्तं सर्वमेव ह ॥७२॥कृतेष्वपि च यज्ञेषु तोयितेषु सुरेषु च ।कृष्णभानविहीनेन कृतं चेन्मोक्षदं न तत् ॥७३॥तस्मात् तेषु चाध्वरेषु कृष्णो धर्मः सनातनः ।साधवो ब्रह्मयतयो बाह्यद्वारनिरोधिनः ॥७४॥सर्वयज्ञेषु तं कृष्णं तर्पयन्त्यमृतैषिणः ।अन्यद्वारं पिधायैव ब्रह्मद्वारं प्रसारयेत् ॥७५॥अश्वपाटल उवाच-कथं लोमश द्वाराणि पिधातव्यानि तद्वद ।पिधानोत्तरमेवापि कृत्यं स्याद् वा फलं वद ॥७६॥श्रीलोमश उवाच-अमृतं ब्रह्मकोशेऽस्ति चात्मना रक्षितं परम् ।अपिहितेन द्वारेण प्रयात्यन्यत्र दुर्लभम् ॥७७॥देवनं यत्कराभ्यां वै पद्भ्यामन्यत्र धावनम् ।कामना या च निकृष्टा चासनं त्वन्यचत्वरे ॥७८॥वर्णनं चान्यविषयं रूपणं लोकमिश्रितम् ।आस्वादनं प्रसादान्ये घ्राणनं क्लिन्नवर्ष्मणः ॥७९॥स्पर्शनं मृदुमायायाः श्रवणं चलनाफलम् ।मननं ममकारस्य बोधनं बहु मे भवेत्। ॥८०॥चिन्तनं चामरौ मे स्तोऽहंपदं नास्ति मादृशः ।इत्येवं चामृतं सर्वं जाग्रति स्वप्नकेऽपि च ॥८१॥सर्वं स्रवत्यजस्रं वै पात्रं रिक्तं भविष्यति ।तस्मात् पिधानं कर्तव्यं विवेकेन विजानता ॥८२॥नाऽक्षतुल्यैवैं दीव्येच्च न धावेत् कर्दमस्थलीम् ।न कामयेन्निकृष्टां क्ष्मां नासीत मोहचत्वरे ॥८३॥न वर्णयेदुशत्याऽन्यद् रूपयेन्नहि रूपकम् ।नाऽऽस्वादयेच्चार्पणाऽन्यत् जिघ्रेन्नैव हि दैहिकम् ॥८४॥न स्पृशेन्मार्दवीं शय्यां शृणुयान्न कथेतरत् ।मननं मापतेः कुर्याद् बोधनं ब्रह्म मे भवेत् ॥८५॥चिन्तनं चामृतं मेऽस्तु चाहं तस्मिन् वसामि च ।इत्येवं द्वारगुप्तिं वै कुर्याच्छ्रीहरिरूपिणीम् ॥८६॥वृष्टेर्जलाद् यथा भौमं जलं वृद्धिं समेति वै ।तथा गुप्त्याऽमृतं नैजं ब्रह्मगुप्त्या विवर्धते ॥८७॥ग्रीष्मतापाद् यथा भौमं जलं शुष्कं विलीयते ।तथा द्वाराऽपिधाने तु स्वामृतं लयमीयते ॥८८॥वृथा गच्छेन्न वै लोके वृथाऽऽददीत नैव ह ।वृथा कामं न भुञ्जीत वृथा नोपाविशेत् क्वचित् ॥८९॥वृथा भाषां सत्यहीनां कृष्णहीनां न वै वदेत् ।वृथा रूपं कृष्णहीनं न वै पश्येन्निरर्थकम् ॥९०॥वृथा स्वाद्ं न गृह्णीयाद् देहयात्रातिरेकिणम् ।वृथा गन्धं नाऽऽददीत श्वासपूर्तं समाचरेत् ॥९१॥वृथा स्पर्शं न कुर्वीत हरेः स्पर्शं विना सदा ।वृथा ददीत कर्णौ न परमेशश्रवं विना ॥९२॥मनने श्रीहरेः कुर्याच्छ्रीपतेः कमलापतेः ।बोधनं श्रीपतेः कुर्याच्चिन्तनं श्रीहरेः सदा ॥९३॥अहन्ता तस्य चैवाऽस्मि नाऽन्यस्याऽहं कदाचन ।एवं लक्ष्मीपतेरर्थं सर्वं चाहं तदात्मकः ॥९४॥सर्वेन्द्रियनिवासो मे परमेशे नरायणे ।भवत्वेवेति वै द्वारगुप्तिर्बोध्याऽमृतार्थिनी ॥९५॥यस्य द्वाराणि सर्वाणि विहारवर्जितानि वा ।हरेः प्राप्तिर्भवेत्तस्याऽमृतवार्धि पिबत्ययम् ॥९६॥गुप्तद्वारस्य भक्तस्याऽमृतं शाश्वततो भजेत् ।सर्वे यज्ञाः समाप्यन्तेऽमृतशाश्वततार्थिनः ॥९७॥किं तस्य तपसा कृच्छ्रैर्यज्ञैः क्लेशैस्तथेतरैः ।अर्जनीयं चार्जितं वै हृदि नारायणामृतम् ॥९८॥अश्वपाटल! संज्ञात्वा कोशस्थं त्वमृतं निजम् ।न स्रावयेदमार्गेण मोघतां न नयेत्तथा ॥९९॥यथापेक्षं त्वम्बरं च यथापेक्षं तृणासनम् ।यथापेक्षोपधानं च यात्रामात्रादनं तथा ॥१००॥द्वन्द्वारामान् विहायैवाऽऽन्तरारामं भजेत् सदा ।अन्यसार्थं विहायैवान्तरसार्थ समाश्रयेत् ॥१०१॥तेन दीर्घस्य मार्गस्य पारं यायात् सुगत्वरः ।इत्येव राधिके राज्ञे लोमशः प्राह चामृतम् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसहितायां द्वितीये त्रेतासन्ताने लोमशगीतायामश्वपाटलनृपतये श्रद्धोपनिषदमृतगुप्त्यादिरूपं लोमशदत्तज्ञानमितिनिरूपणनामा नवचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४९॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP