संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ५५

त्रेतायुगसन्तानः - अध्यायः ५५

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच--
शृणु त्वं राधिके! राजा परमेशं तदाऽऽर्थयत् ।
मृतानां तु यथा मुक्तिस्तथा कुरु दयां कुरु ॥१॥
विमानेन समागत्य यत्र यत्राऽभवद् रणः ।
तत्र तत्र विहृत्यैव कुरु तीर्थानि केशव ॥२॥
भविष्याणां च लोकानां भूर्भवेन्मुक्तिभाजना ।
एवं कृपां परां नाथ पापिनां कुरु तारिणीम् ॥३॥
श्रीकृषगनारायण उवाच-
धन्या ते विमला राजन्मतिस्त्वद्य प्रवर्तते ।
अब्रिक्तं सर्वथा देशं करिष्ये तीर्थरूपिणम् ॥४॥
नद्यस्ता ब्रह्मणः पुत्र्यो दैत्ययोगेन दैत्यताम् ।
तूपगताः पावनास्ताः पावयिष्येऽद्य वै पुनः ॥५॥
इत्युक्तमात्रे नद्यश्च सरांसि पर्वतास्तथा ।
मूर्तिमन्तः समायाताः प्रार्थयितुं प्रभुं तदा ॥६॥
ऊचुर्नाथ कृपासिन्धो पावयाऽस्मान् समन्ततः ।
हरिः प्राह तथाऽस्त्वेवं पावयिष्ये द्रुतं हि वः ॥७॥
अथ सम्पूज्य ता नद्यो द्रष्टुं च ब्रह्मकन्यकाः ।
स्वभगिनीर्द्रष्टुमेव विमाने चोर्ध्वभूस्तरे ॥८॥
ययुस्तत्र मिलित्वा ता आमन्त्र्याऽऽभाष्य वै मुहुः ।
ययुश्चाऽदृश्यतां द्राक् च ततः कृष्णनरायणः ॥९॥
विमानेन ययौ कर्तुं तीर्थानि पावनानि च ।
उद्धर्तुं च मृतात्मनः प्रदक्षिणक्रमेण वै ॥१०॥
प्रथमं श्रीहरिस्तत्र विमानेन तदोत्तरम् ।
ययौ पावयितुं युद्धक्षेत्राच्चण्डनदीं शुभाम् ॥११॥
चण्डनद्यां तथा स्नात्वा चण्डसरसि वै हरिः ।
वैमानिकास्तथा सर्वे नरा नार्यो महत्तमम् ॥१२॥
तीर्थं विधाय च ततस्त्रिराशिपर्वतं ययुः ।
पर्वतं च प्रदक्षिणं कृत्वा स्नात्वा जलादिषु ॥१३॥
तीर्थं तत्पर्वतं कृत्वा नारायण्या द्वितीयके ।
धोधे स्नात्वा तृतीये च धोधे स्नात्वा चतुर्थके ॥१४॥
धोधे स्नात्वा पञ्चमे च स्नात्वा धोधे ततः परम् ।
अन्तवैरासंगमे च स्नात्वा च षष्ठधोधके ॥१२॥
श्वेतनीलस्वरूपिण्योर्नारायण्योश्च संगमे ।
स्नात्वा तूयानसरसि तीर्थानि व्यदधात् प्रभुः ॥१६॥
आबालाख्यतडागेषु स्नात्वा चक्रे तु मोक्षदान् ।
तडागान्निर्मलजलान् चतुरश्च ततः परम् ॥१७॥
उक्तेषु तीर्थवर्येषु ये ये मृता महाहवे ।
ताँस्तान् प्रेतान् समाहूय तेषां मोक्षं व्यधात्प्रभुः ॥१८॥
दिव्ययानैस्तु ते सर्वे स्वर्गं ययुर्हि शाश्वतम् ।
अपारकरुणासिन्धुर्मोक्षदो यत्र वै हरिः ॥१९॥
तत्र का कर्मसापेक्षा गतिः का कृपयोद्भवा ।
जुब्वां नदीं ततः स्पृष्ट्वा रुद्रबाष्पसरोवरम् ॥२०॥
स्नात्वा मार्किशनधोधे आलावर्तसरोवरे ।
अन्तावर्ततडागे च स्नात्वा किमुसरोवरे ॥२१॥
विज्ञतूरीयसरसि न्याजासरोवरे तथा ।
तुंगानीके तडागे च स्नात्वा रुक्वसरोवरे ॥२२॥
रफिज्यायां ततः स्नात्वा रोवुमायां समाप्लवत् ।
न्याजासरोवरे स्नात्वा शिवासरोवरे ततः ॥२३॥
जाम्बूजायां ततः स्नात्वा बंगव्यालीसरोवरे ।
मावूरसरसि स्नात्वा कङ्गूस्नानं ततोऽकरोत् ॥२४॥
तत्र तत्र च निधनं गतान् प्रेतान् कृपालयः ।
अमोक्षयत् तथा तानि तीर्थान्यप्याकरोत् प्रभुः ॥२५॥
ततो ययौ दिनोलूकतडागं भगवान् हरिः ।
विज्ञतुरीयधोधे च ज्ञात्वा कुबंगिकातटे ॥२६॥
तज्जे सरोवरे स्नात्वा लिम्पापगायां चाप्लवत् ।
बालनद्यां ततः स्नात्वा दक्षिणावर्गपर्वतम् ॥२७॥
विमानेनोर्ध्वमुल्लंघ्य कारुवार्धिं जगाम ह ।
विमानादवतीर्याऽथ सर्वे सस्नुश्च सागरे ॥२८॥
ततस्ते यानमारुह्य ओरञ्जासरितं ययुः ।
स्नात्वा रणे मृतान् उक्तस्थानेष्वपि मृतासुरान् ॥२९॥
अमोक्षयच्छ्रीभगवान् कालहरिरणात्ततः ।
ययौ कुनयनां स्नात्वा कुरेनृक्यां समाप्लवत् ॥३०॥
गत्वा कुवंशजां स्नात्वा स्थानल्याख्ये जलाशये ।
कर्माङ्ग्यां च महानद्यां स्नात्वा महासमागमे ॥३१॥
लिम्पासरोवरे स्नात्वा तुम्बासरोवरे तथा ।
स्थानल्याधोधभागेषु स्नात्वा आरुवमीजले ॥३२॥
कर्माङ्ग्यां च तथोवेण्यां स्नात्वा तयोः समागमे ।
सामुद्रसंगमे स्नात्वा कोटिप्रेतप्रमोक्षणम् ॥३३॥
चकार श्रीहरिस्तत्र मृतानां शाश्वतार्थकृत् ।
तानि विधाय तीर्थानि आगीव्यां प्रययौ ततः ॥३४॥
कर्मघ्नं पर्वतं तीर्थं कृत्वा वेनजयातटे ।
स्नानं च संगमे तस्या नष्टजरासमागमे ॥३५॥
केडंडायां तथा नद्यां तथा चण्डसरोवरे ।
फेगविपीनसरसि स्नात्वा सरित्समागमे ॥३६॥
गम्बिकायां स्फुटायां च सेनागोलसरित्सु च ।
फल्गुबीजे तथा स्नात्वा रणमुल्लङ्घ्य वै हरिः ॥३७॥
रणे सरोवरे स्नात्वा अतलेष्टं च पर्वतम् ।
अलजालिसरःपञ्चस्वाप्लवनं चकार सः ॥३८॥
तन्मुखं पर्वतं गत्वा त्रिराशिपर्वतं ततः ।
लीलाबीजरणं गत्वा कृत्वा तीर्थानि वै जले ॥३९॥
भूमध्याब्धौ ततः स्नात्वा नारायणीयसागरे ।
समुद्रसंगमेष्वेव स्नात्वाऽऽद्ये धोधसारके ॥४०॥
नवबीजरणं दृष्ट्वा स्नात्वा रक्तसमुद्रकम् ।
कृत्वा सर्वाणि च तानि पवित्राणि जलानि तु ॥४१॥
नदीर्नदाँस्तडागाँश्च सरो वापीः प्रवाहकान् ।
देशान् रणान् पर्वताँश्च महापगाश्च नालिकाः ॥४२॥
तत्तत्प्रदेशजान् ग्रामान् नगराणि गृहाणि च ।
राजधानीर्जलधानीर्वनधानीश्च भूमिकाः ॥४३॥
पवित्रीकृत्य च तीर्थीकृत्य श्रीमन्नरायणः ।
कोटिगणैः पार्षदैश्च देवीभिः साधुभिः सह ॥४४॥
धर्मराजस्कन्दशंभुविनायकादिभिः सह ।
स्थले च विहृत्य प्रेतोद्धारं विधाय च ॥४५॥
अब्रिक्तं सुमहाखण्डं तीर्थीभूतं विधाय च ।
दशसाहस्रक्रोशात्मभूमिं कृत्वा सुपावनीम् ॥४६॥
जुमासेम्लानृपं प्राह भगवान् पुरुषोत्तमः ।
राजन् मनोरथस्तेऽत्र जातो वै सफलः खलु ॥४७॥
अधुना च वयं यामो रैवतेऽश्वसरोवरम् ।
श्रुत्वा राजाऽऽह भगवन् मुक्तिमिच्छामि शाश्वतीम् ॥४८॥
मोक्षदाता मिलेद् यावद् यदि मोक्षं न विन्दति ।
संसारस्तस्य शिरसि ध्रुव एव स्थितो भवेत् ॥४९॥
मया भुक्तं बहु राज्यं दशलक्षसमान्तरम् ।
मम पूर्वं गता दैत्याः कोटिवर्षोपजीविनः ॥५०॥
नैताः कैश्चित् समं याताः पृथ्वी सम्पत् प्रजास्तथा ।
न यास्यन्ति मया साकं ततो मे भगवन् प्रभो ॥५१॥
कुरूद्धारं कृपां कृत्वा लप्स्ये यच्छाश्वतं पदम् ।
पावितं तु कुटुम्बं मे पाविता पृथिवी मम ॥५२॥
पाविताश्च प्रजाः सर्वा प्रेता उद्धारितास्तथा ।
नद्यादीनि च तीर्थानि पावनानि कृतान्यपि ॥५३॥
अहं पत्न्या समं यामि तव धाम सनातनम् ।
तथा मे कुरु जीवेन्द्र कृपां प्रसन्नतोद्भवाम् ॥५४॥
इमाश्च कन्यका मे वै सहस्रं षोडशाब्दिकाः ।
सन्ति सर्वा वरारोहा वरो भव सुहृद्गमः ॥५५॥
अन्ये सन्ति कुमारा मे तेषां यथेष्टकं कुरु ।
कुटुम्बिनां च भृत्यानां कृष्ण यथेष्टकं कुरु ॥५६॥
अनादिश्रीकृष्णनारायणः श्रुत्वाऽतिभावुकम् ।
राजानं प्राह राजेन्द्र पापपुण्ये गते तव ॥५७॥
मोक्षयोग्योऽसि ते मोक्षं करोमि क्षणमात्रतः ।
इत्युक्तश्च तदा धीमान् तत्क्षणं कन्यका निजाः ॥५८॥
हस्ते जलं गृहीत्वैव दत्वा श्रीपतिहस्तके ।
सहस्रकन्यकाः कृष्ण! ते ददामि, तव स्त्रियः ॥५९॥
भवन्तु सर्वसौभाग्ययुक्ता मत्सन्ततिः सुखा ।
इत्युक्त्वा प्रददौ दिव्यं यौतकं कोटि चार्बुदम् ॥६०॥
सौवर्णं रूप्यकं मौक्तिजालं हीरकरत्नकम् ।
भूषाम्बराणि दिव्यानि यानवाहनकानि च ॥६१॥
दासान् दासीर्ददौ तावत् सहस्रसंख्यका अपि ।
हस्तिवाज्युष्ट्रगवयान् गोमहिष्यादिकं ददौ ॥६२॥
अनादिश्रीकृष्णनारायणो नीत्वा विमानके ।
कन्याश्च यौतकं याने धृत्वा प्राह नृपं तदा ॥६३॥
राजन् श्रीनारदादत्र गृहाण चरणामृतम् ।
तव राज्ञ्यस्त्रिशतानि गृह्णन्तु चरणामृतम् ॥६४॥
तव पुत्राश्च गृह्णन्तु कुटुम्बं चरणामृतम् ।
इत्युक्तास्ते नारदाद्वै जगृहुश्चरणामृतम् ॥६५॥
श्रीहरेः पादधौतं तज्जलं पपुश्च ते मुदा ।
द्राक् समाधौ गताः सर्वे ब्रह्मणि लीननाडिकाः ॥६६॥
द्विरूपाः सर्व एवैते तदा कृष्णेच्छयाऽभवन् ।
छायारूपा देवलोकेऽभवन् मरुत्सुरास्तु ते ॥६७॥
अन्ये दिव्यविमानेषु भूत्वा दिव्यवपुर्धराः ।
अनादिश्रीकृष्णनारायणधाम ययुस्तदा ॥६८॥
अथैताः कन्यकास्तस्य शवखातान् प्रचक्रिरे ।
भूसमाधिं कारयित्वा तथोत्तरक्रियादिकम् ॥६९॥
सर्वं च विधिवत् कृष्णः कारयित्वा यथोचितम् ।
नीलश्वेतनरायण्योर्नद्योर्धोधे तु षष्ठके ॥७०॥
सर्वं समाप्य विधिवद् द्विराज्यं व्यभजत्प्रभुः ।
अदनाखातगे तीरे जीमूतीनगरात्ततः ॥७१॥
पश्चिमे तूनायवारिधानीमेम्बागपत्तनम् ।
उष्णांग्याख्यनदीमूलं कर्मांगाद्रेश्च पश्चिमे ॥७२॥
बुयापर्यन्तमेवास्य खण्डस्य मध्यभागतः ।
सीमां प्रदर्श्य चोल्लिख्य दक्षिणं चोत्तरं तथा ॥७३॥
दक्षिणं प्रददौ रुद्रशिरसे भक्तयोगिने ।
अनादिश्रीकृष्णनारायणभक्ताय केशवः ॥७४॥
उत्तरं च तथा राज्यं दिनमेराह्वयाय च ।
ददौ नारायणः साक्षान्निजभक्ताय केशवः ॥७५॥
रुद्रशिरादिनमेराभिधौ सेनापतिप्रभौ ।
युद्धे चास्तां निर्मनस्कौ भक्तौ नारायणस्य तौ॥७६॥
ताभ्यां राज्ये प्रदत्ते च ह्यभिषिक्तौ स्वयं तदा ।
हरिणा देवसदृशो कृता मुकुटमर्पितम् ॥७७॥
दक्षिणे च महाराज्ये राजधानी कृता तदा ।
रुद्रशिरेतिविख्याता विज्ञतुरीयपार्श्वगा ॥७८॥
पूर्वस्यां च दशयोजनायता त्वतिशोभिता ।
उत्तरे च तथा खण्डे दिनमेरेण निर्मिता ॥७९॥
राजधानी चण्डसरोऽन्तिके पश्चिमभूतले ।
नाम्ना सा दिनमेरेति दशयोजनविस्तृता ॥८०॥
तस्यां देवालयं कृत्वा सहस्रधनुरुच्छ्रयम् ।
अनादिश्रीकृष्णनारायणस्य मूर्तिरुत्तमा ॥८१॥
कानकी स्थापिता तेन हरेण सहिता शुभा ।
सनता नारदेनापि धर्मदेवेन शोभिता ॥८२॥
एवं रुद्रशिरसाऽपि सहस्रधनुरुच्छ्रयम् ।
कारयित्वाऽऽलयं रम्यं पर्वतशृंगसदृशम् ॥८३॥
अनादिश्रीकृष्णनारायणस्य मूर्तिरुत्तमा ।
सनता शंभुना धर्मदेवेन नारदेन च ॥८४॥
सेविता स्थापिता तत्र कानकी बहुशोभना ।
एवं कृष्णः स्वयं दत्वा भक्ताभ्यां राजधानिके ॥८५॥
भक्तदत्तां दिव्यपूजां गृहीत्वा पुरुषोत्तमः ।
सर्वशुभाशिषो दत्वा विमानमधिरुह्य च ॥८६॥
कन्यावर्गेण च दासीदासव्रातैः प्रपूजितः ।
भूपाभ्यां दासदास्यादीर्दत्वा कृत्वा च वैष्णवाः ॥८७॥
ब्रह्मकन्या द्वासप्ततिसहस्राणि सहस्रकम् ।
राज्यकन्यास्तथा नैजान्पार्षदान्देवसेवकान् ॥८८॥
सर्वमेव समादाय व्योम्ना जगाम पूर्वतः ।
पूर्वस्यां रक्तवार्धिं च समुत्तीर्य हरिस्ततः ॥८९॥
आरबीजं महादेशं ददर्श व्योममार्गतः ।
तत्राह धर्मराजं श्रीकृष्णनारायणः स्वयम् ॥९०॥
पश्य राजन् महादैत्यं देशेष्वत्र प्रसह्य सः ।
नृपो भूत्वा महाराज्यं करोति दानवानुगः ॥९१॥
रक्तबीजश्चारबीजो बलवान् लोकनाशनः ।
सुमहावालुकाव्याप्तरणोत्तरप्रदेशके ॥९२॥
बधीरायननगरं कृत्वा वसति निर्भयः ।
श्रीनायिपर्वतं रम्यं बहुशोभितकन्दरम् ॥९३॥
लताविमानसंछन्नं मत्तसत्त्वसमाकुलम् ।
विविधैः कुसुमैश्चापि सुगन्धितानिलाश्रयम् ॥९४॥
दृष्ट्वा रम्यं रक्तबीजो तथाऽन्ये दानवादयः ।
दशसहस्रसंख्यास्ते आरबीजा वसन्ति हि ॥९५॥
ऊर्ध्वरेतसीसरितं त्वभिव्याप्य हि वर्तते ।
तेषां राज्यं विशालं वै म्लेच्छाचारजुषां यम! ॥९६॥
देवानां स विरोध्येव दैत्योऽस्य दानवादयः ।
बकदानऋषेस्तत्राऽऽश्रमं विनाश्य तेऽसुराः ॥९७॥
वर्तन्ते स ऋषिस्तत्र तायिग्रासनदीं प्रति ।
गत्वा जलतले स्थित्वा तपः करोति दारुणम् ॥९८॥
तमेनं प्रथमं नत्वा ततोऽसुरान् विनाशय ।
दूतान् याम्याँस्तथा रौद्रान् सह नीत्वा प्रयाहि च ॥९९॥
तान् सर्वान् नाशयित्वा वा विद्राव्य वा रसातलम् ।
ऋष्याश्रमं पुनर्भीतिवर्ज्यं विधाय धर्मराट्! ॥१००॥
तव दूतो मौनधर्मा अरवो नाम नामतः ।
वर्तते योगनिपुणस्तस्मै राज्यं समर्पय ॥१०१॥
इत्युक्त्वा श्रीकृष्णनारायणो हारं ददौ गले ।
यमराजस्य च सैन्यं ददौ कल्पलतां तथा ॥१०२॥
यमस्त्वाज्ञां गृहीत्वैव ससैन्यो व्योममार्गतः ।
ययौ तं दानवं तूर्णं रणमुल्लङ्घ्य यत्नतः ॥१०३॥
अनादिश्रीकृष्णनारायणः श्रीभगवान् स्वयम् ।
आययौ कुंकुमवापीक्षेत्रं श्रीलोमशाश्रमम् ॥१०४॥
जयतूर्णण्यवाद्यन्त जयघोषास्तदाऽभवन् ।
अश्वपट्टसरोराष्ट्रं ब्रह्मानन्दभरं ह्यभूत् ॥१०५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने अब्रिक्तदेशेषु श्रीहरिर्विहृत्य तीर्थानि विदधे, मृतानामुद्धारं च विदधे, राज्यं द्वेधा विभज्य
भक्ताभ्यां ददौ, राजकुटुम्बस्य मोक्षं चक्रे चेत्यादिनिरूपणनामा पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP