संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २२३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २२३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२३ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके श्रीहरिं भ्रामयितुं स्वपत्तने नृपः ।रायग्रामानगर्यां वै सैन्यं सज्जं समानयत् ॥१॥हरिं न्यषादयत्तत्र श्वेताऽश्वरथके शुभे ।कुटुम्बं च तथा कन्या ब्रह्मप्रिया रथेषु च ॥२॥वादित्रनिनदैर्गीतैः सह कृष्णं पुरे नृपः ।अभ्रामयत् सुखं तत्र गोपुरे तु प्रधानकाः ॥३॥पुपूजुः परमात्मानं चत्वरे श्रेष्ठिसत्तमाः ।रथ्यामुखेषु नार्यश्च मार्गे हट्टेषु वै प्रजाः ॥४॥सुवर्णरूप्यमुद्राभिश्चन्दनाऽक्षतकुंकुमैः ।अम्बरैः पुष्पहारैश्च नारिकेलफलादिभिः ॥५॥एवं भ्रमित्वा नगरीं हरी राज्यालयं ययौ ।उरुगवाक्षनृपतिः पुपूज परमेश्वरम् ॥६॥चक्रेऽभिषेकं पयसा पादयोः परमात्मनः ।ततो मिष्टजलैश्चापि शुद्धोदकेन वै ततः ॥७॥पपुः राजकुटुम्बाद्याः श्रीहरेश्चरणामृतम् ।राज्ञी पूजा चकाराथ नीराजनं व्यधादपि ॥८॥कन्यके द्वे तदा कृष्णकण्ठे मालां तु कौसुमीम् ।वरमालात्मिकां दीर्घां ददतुः शोभनव्रते ॥९॥कृतकृत्ये तु ते जाते प्राप्य कान्तं श्रियाः पतिम् ।राजा राज्ञी च मेनाते कृतकृत्ये तदा हृदि ॥१०॥तदुत्सवं तदा राजा कारयामास शोभनम् ।भोजयामास कृष्णं च महीमानान् समन्ततः ॥११॥हरिर्द्रव्यं ददौ मानत्रिवेदमुनयेऽखिलम् ।ततश्चोपादिदेशापि प्रजाभ्यस्तत्र माधवः ॥१२॥वृत्तीनां विलये कृष्णो भासते हृदये सदा ।ध्यानगम्यो भवत्येव नारायणपरेश्वरः ] ॥१३॥ध्यानयोगेन मुनयः परां सिद्धिं गताः पुरा ।गच्छन्ति च गमिष्यन्ति योगिनश्च परे तथा ॥१४॥ध्यानज्ञानमहातृप्ता निर्वाणहृदया जनाः ।नाऽऽवर्तन्ते हि संसारे मुक्ताः संसारकर्दमात् ॥१५॥रागद्वेषपरित्यक्ताश्चात्मभावे व्यवस्थिताः ।नित्यसत्त्वस्थिता मुक्ता नावर्तन्ते पुनः क्वचित् ॥१६॥शान्तिप्रदानि कर्माणि संगहीनानि यानि च ।वादमायारहितानि कुर्वन्मां याति भक्तिमान् ॥१७॥प्रातरुत्थाय च मनो नियम्य मम सन्निधौ ।मम मूर्तौ धारयेद्वै चिन्तयेत् प्रतिमां मम ॥१८॥शब्दं स्पर्शं च रूपं वा रसं गन्धं ह्युपस्थितम् ।गृह्णीयान्नैव मद्ध्याता चिन्तयेन्नान्यवस्तुकम् ॥१९॥इन्द्रियाणि मनः पिण्डीकृत्य मयि निरोधनम् ।कुर्याद् यस्तस्य मन्मूर्तिस्फुरणं हृद्ये भवेत् ॥२०॥चञ्चले वै मनो ध्याने मीनवद् यदि जायते ।समादध्यात्पुनर्मूर्तौ परावृत्त्य प्रसह्य तत् ॥२१॥सभूषाम्बरवेषाढ्ये मयि ध्यानं पुरा चरेत् ।ततो वेषं विलीयैव मूर्तिमात्रं विचिन्तयेत् ॥२२॥ततो दिव्यं हसन्तं च वदन्तं मां विचिन्तयेत् ।ततश्चानन्ददातारं त्वेकरूपं विचिन्तयेत् ॥२३॥एवं मूर्तौ चेन्द्रियाणि मनोऽहंकारबुद्धयः ।विलीयन्ते शनैः प्रेम्णा तदा मोक्षमवाप्नुयात् ॥२४॥योगिनां प्रगतिश्चैषा कर्मिणां न्यासलक्षणा ।बहिर्वृत्तानीन्द्रियाणि कृष्णार्थानि समानि च ॥२५॥अर्पितानि विधेयानि सर्वार्पणेन कर्मिभिः ।शुद्धः सिद्धो मम भक्तः सर्वार्पणेन जायते ॥२६॥शनैर्यत्रेन्द्रियग्रामो वेगलग्नो भवत्यपि ।विज्ञाय विषयं तं च मूर्तौ सम्परिकल्पयेत् ॥२७॥तत्र तत्र स्थिरं चित्तं कर्तव्यं तु शनैः शनैः ।इष्टविषयदानेन तृप्तं स्थैर्यं व्रजिष्यति ॥२८॥ततस्तं विषयं मूर्तौ विलीय प्रतिमां मम ।चिन्तयेत्तु शनैर्भक्तश्चैवं चिरेण शुद्ध्यति ॥२९॥प्रसन्ने मम योगेन चित्ते सत्त्वोद्भवोत्तमः ।तेन स्नेहो मम भक्तिस्तेन मुक्तिर्भवेदनु ॥३०॥ध्यानं तपो दमं क्षान्तिं व्यापारं चिन्तनादिकम् ।वाणीं चेष्टां गतिं सर्वां प्रवृत्तिं मयि चार्पयेत् ॥३१॥एवं प्रवर्तकं यज्ञं मयि त्यक्त्वा सुखी भवेत् ।यद्वा सर्वविधेयानि पृष्ठे कृत्वा च निष्क्रियः ॥३२॥भूत्वा प्रचिन्तयेन्मां वै मनसा मां जपेत् सदा ।विषयेभ्यो नमस्कुर्याद् व्यवहारं न भावयेत् ॥३३॥हृद्युद्भाव्य च मन्मूर्तिं तत्र लग्नो भवेत्ततः ।एवं मद्योगमापन्नश्चान्ते याति परं पदम् ॥३४॥सर्वत्यागकृतश्चैवं निरिच्छस्य तु योगिनः ।ब्राह्म्यास्तन्वाः समवाप्तिर्मत्तुल्यो जायतेऽक्षरे ॥३५॥मम मूर्तिं स्मरेन्नित्यं जपेन्नाम ममोत्तमम् ।मदर्थं त्वाचरेत् सर्वं मम लोकमवाप्नुयात् ॥३६॥ब्रह्मस्थित्या च निर्लिप्तो भूत्वा मायाऽऽमयोर्ध्वगः ।अमृतं चामृतपदं परात्मानं प्रपद्यते ॥३७॥प्राप्तीनामुत्तमप्राप्तिः परेश्वररुचिः सदा ।सतां प्राप्तिर्हरेः प्राप्तिर्धामप्राप्तिर्न चेतरा ॥३८॥अहंकारकृता लोकाः सर्वे निरयगामिनः ।ब्रह्मकारकृता लोकाः सर्वे त्वक्षरगामिनः ॥३९॥आत्मघाती जनो याति निरयान् यमरक्षितान् ।ब्रह्मसम्बन्धमाप्तो वै नात्मघाती च धामगः ॥४०॥अभिध्यानं भवेद् यत्र प्रेतभावे च तत्र च ।जीवो याति पुनर्भावं ब्रह्माभिध्यानमाचरेत् ॥४१॥ऐश्वर्यध्यानपरमो याति मायां तु सात्त्विकीम् ।पुनर्भावप्रदां तस्माद् ब्रह्मध्यानपरो भवेत् ॥४२॥ऐश्वर्यैः समधिव्याप्तो मदगर्वाद्यधिष्ठितः ।वर्तते मायया यश्च स एव निरयोऽस्य वै ॥४३॥यस्य तृष्णा यक्षिणी च राक्षसी चेषणा स्थिता ।चिन्ता पिशाची यस्यास्ति तास्तिस्रो निरयात्मिकाः ॥४४॥रागश्च राक्षसो यस्य मोहो यक्षोऽस्ति यस्य च ।द्वेषः पिशाचो यस्यास्ति ते त्रयो रौरवात्मकाः ॥४५॥त्रयो यत्र भवन्त्यस्य तत्र तत्रोपपद्यते ।दुर्बुद्धिर्जायते तैश्च ताभिश्च मोहवर्तनम् ॥४६॥अकृतप्रज्ञकस्तेन मृत्युं याति हि रौरवम् ।दुष्प्रज्ञानेन निरया बहवोऽत्र भवन्ति वै ॥४७॥यज्ज्वाला देहिनश्चात्र दाहयन्ति क्षणे क्षणे ।नह्यतृप्तस्य सौख्यं वै निर्दुःखं समजायते ॥४८॥दुःखमिश्रं सुखं यत्तन्निरयाख्यं मतं त्विह ।माया निरय एवास्ति निर्दुःखा न कदापि सा ॥४९॥मायादेहवतः सौख्यं नैकान्ताऽत्यन्तकं न हि ।तस्मात् सौख्यं निरयात्म विनाऽक्षरपदं ध्रुवम् ॥५०॥वर्णयामि निरयान् वै ह्युच्चावचान् हि मायिकान् ।प्राकृतान् लयजुष्टाँश्च ब्रह्मभावे तु निष्फलान् ॥५१॥मानवानां तु संभोगा निरया एव गोचराः ।देवानां च ऋषीणां च संस्थानानि गृहाणि च ॥५२॥तादृशा एव निरया देहिनां देहसंस्थिताः ।लोकपानां दिशापानां ग्रहाणां मरुतां तथा ॥५३॥साध्यानां विश्वदेवानां गान्धर्वाणां गृहाणि च ।रुद्रादित्यवसूनां च सिद्धानां परमेष्ठिनः ॥५४॥दिव्यानि कामचाराणि विमानानि सभालयाः ।उद्यानानि च पद्मिन्यः काञ्चनेयगृहाणि च ॥५५॥अमृतानि च भोगाश्च तेजोऽम्बराणि यानि च ।समृद्धयः सुरादीनां देहाश्चामृतभोजिनः ॥५६॥दिव्यांगना दिव्यशय्या दिव्यगन्धरसादयः ।मायापाका निरयास्ते ब्रह्मधामाग्रतो मताः ॥५७॥ईश्वराणां विराजानां प्रधानपुरुषस्य च ।मायाधाम्नां च ये भोगाः सत्त्वमयाश्च मायिकाः ॥५८॥ते सर्वेऽपि महत्तत्त्वात्मजा निरयसंज्ञकाः ।अनादिश्रीकृष्णनारायणधामाऽग्रतो मताः ॥५९॥गोलोकस्य तथा धाम्नो वैकुण्ठस्य समीपतः ।मायामयाश्च ये लोका भोगास्ते निरया मताः ॥६०॥ब्रह्मलोकसमं नान्यद्धामाऽस्ति दिव्यशाश्वतम् ।गोलोकं चापि वैकुण्ठं ब्रह्मधामात्मकं हि तत् ॥६१॥मायानिरयशून्यं वै चामायिकं हि मोक्षदम् ।अहं श्रीकृष्णरूपोऽस्मि राधादिभिः प्रसेवितः ॥६२॥गोलोके गोपगोपीभिर्मद्रूपाभिः प्रसेवितः ।दिव्यशाश्वतरूपोऽस्मि यत्र माया न विद्यते ॥६३॥अहं नारायणरूपो वैकुण्ठे परमे स्थितः ।लक्ष्मीरमादिभिर्दिव्याभिः शक्तिभिः सुसेवितः ॥६४॥पार्षदैर्दिव्यरूपैश्च सेवितो दिव्यशाश्वतः ।दिव्यशाश्वतरूपोऽस्मि यत्र माया न विद्यते ॥६५॥वासुदेवस्वरूपोऽस्मि त्वव्याकृते परे स्थले ।यत्र माया न चाऽस्त्येव सोऽहं दिव्यस्वरूपवान् ॥६६॥एवं यत्र मया स्थानं कृतं दिव्यं हि तन्मम ।मद्योगाद् दिव्यतां प्राप्तं निरयस्तन्न विद्यते ॥६७॥मद्वियुक्तानि सौधानि स्थानानि स्मृद्धयस्तथा ।स्वामिनः स्थानिनः सर्वे निरया मायया हताः ॥६८॥इत्येवं संविलोक्यैव प्रज्ञया मत्प्रदत्तया ।मद्योगं सर्वथा कुर्यान्निरयत्वं विलीयते ॥६९॥दिव्यत्वं प्राप्यते चापि मदर्थयोगतां गतम् ।यत्र मे नास्ति सम्बन्धश्चार्पणात्मक इत्यपि ॥७०॥तत्र सम्पद्यते कालो मत्सम्बद्धे स न प्रभुः ।अहं कालस्य शास्ताऽस्मि मयि प्रवर्तते न सः ॥७१॥यत्राहं तत्र भक्तो मे गत्वा नैव हि शोचति ।ईदृशं परमं स्थानं ब्रह्मसम्बन्धिनां सताम् ॥७२॥तद्भिन्नानि तु निरयाः सर्वे एव यथायथम् ।तद्विचार्य तु मतिमान् मत्सम्बन्धं समाचरेत् ॥७३॥जडं वा चेतनं वापि मत्सम्बद्धं विधापयेत् ।तदेवाऽनिरयं प्रोक्तं दिव्यं दिव्यसुयोगतः ॥७४॥एवं ज्ञात्वाऽर्पयित्वैव भक्ता मे दिव्यतां गताः ।सृष्टौ ते नैव जायन्ते कालग्रासे न यान्ति च ॥७५॥अदुःखं सुखमाप्यैव वर्तन्ते शाश्वते सुखे ।ममानन्दे परे धाम्न्यश्नुवते सर्वकामनाः ॥७६॥मम जापप्रकर्तारो मम मूर्तिपरायणाः ।अमृताश्चामृतं प्राप्य ब्रह्मभूता भवन्ति ते ॥७७॥ब्रह्मस्थानमनावर्त्तमेकमक्षरसंज्ञकम् ।अदुःखमजरं शान्तं प्रयान्ति मम योगिनः ॥७८॥सरागश्चेक्षते लोकान् सर्वान्निरयसंज्ञिकान् ।मद्युक्तः सर्वतो मुक्तोऽक्षरे तु रमते सुखम् ॥७९॥नैकधा मम मूर्तौ स रमते च मया सदा ।ममानन्दभृतो मुक्तो मत्तो न्यूनो न वर्तते ॥८०॥इत्येवं चोपदिश्यैव ततो मन्त्रान् ददौ हरिः ।प्रजाभ्यश्च नृपस्यापि कुटुम्बाय नृपाय च ॥८१॥अथ कृष्णो मनश्चक्रे गन्तुं राजा तदा पुनः ।द्रव्यं च यौतकं चापि विदायं बहुधा ददौ ॥८२॥वाद्यघोषैः प्रजाद्वारा सम्मानं बहुधा व्यधात् ।तावत् तत्र समायातो राजा पराङ्व्रताऽभिधः ॥८३॥अलंत्रातर्षिसहितश्चाऽऽशनापुरीश्वरः ।पारावातराष्ट्रपतिः प्रार्थयत्परमेश्वरम् ॥८४॥मम देशान् समागत्य पावयाऽस्मान् कृपालय ।हरिः श्रुत्वा तथाऽस्त्वाह सज्जोऽभूत् सकुटुम्बकः ॥८५॥शीघ्रं पूजां परिगृह्य तदा विमानगोऽभवत् ।ब्रह्मप्रियाद्याः कन्याश्च ऋषयोऽप्यखिलास्तदा ॥८६॥विमानस्था अभवँश्च विमानं प्रससार ह ।वेगेन चागतं पारावातराष्ट्रं तदा नृपः ॥८७॥पराङ्व्रतो हि सहसाऽम्बरात् पूर्वमवाऽतरत् ।स्वागतं निजसैन्येन श्रीहरेस्तु समाचरत् ॥८८॥तदा वाद्यान्यवाद्यन्त जयनादास्तथाऽभवन् ।प्रजाः स्वाञ्जलिभिः सुस्थाः स्वागतं वै समाचरन् ॥८९॥राजदर्शितमार्गेणावातरद् वै विमानकम् ।उद्याने सुभगे चाऽऽशासनापुर्याः समीपगे ॥९०॥हरिं दृष्ट्वा प्रजा राजा राज्ञी प्राधानिकास्तथा ।अन्येऽपि चागताः सर्वे स्वागतं नमनं व्यधुः ॥९१॥राजा पुपूज पुष्पाद्यैः स्वर्णहारैः सुमौक्तिकैः ।राज्ञी नीराजनं चक्रे हरिं न्यषादयत्ततः ॥९२॥गजे स्वर्णाम्बालिकया युते चान्यान् रथादिषु ।आशासनानगर्यां तु भ्रामयामास माधवम् ॥९३॥पुपूजुर्मानवाः सर्वे सायं रत्नाम्बरादिभिः ।द्रव्यसौवर्णमुद्राभिः पुष्पाक्षतस्रगादिभिः ॥९४॥भ्रामयित्वा राजसौधं त्वानयामास केशवम् ।पूजयामास च पुनर्भोजयामास भूपतिः ॥९५॥ततः कन्याद्वयं राज्ञो मात्राज्ञया परेश्वरम् ।पुपूज च हरिं वव्रे पतिं च वरमालया॥९६॥कण्ठे समर्प्य मालां ते कन्यके त्वर्पिते तदा ।अभवतां स्वयं कृष्णे सर्वेशे परमेश्वरे ॥९७॥राजा मुमोद हृदये राज्ञी प्रसन्नतामगात् ।कृतकृत्ये कन्यके च जाते नृपो महोत्सवम् ॥९८॥कारयामास वै रात्रौ हरिश्चोपादिदेश ह ।राधिके राजसौधे वै सर्वेषां मोक्षसाधनम् ॥९९॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेः रायग्रामानगर्यां भ्रमणम् उपदेशनं पूजनं विदायं ततः पराङ्व्रतनृपस्य पारावातराज्ये गमनम् आशासनापुर्यांस्वागतं आश्विनकृष्णचतुर्थ्यां सायं भ्रमणं चेत्यादिनिरूपणनामा त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥२२३॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP