॥ अथातो हृद्रोगनिदानम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथातो हृद्रोगनिदानम् ॥
अत्युष्णगुर्वम्लकषायतिक्तै: श्रमाभिघातध्यशनप्रसड्गै: । संचिन्तनैर्वेगविधारणेश्च हृदामय: पञ्चविध: प्रदिष्ट: ॥१॥
अथ तस्य संप्राप्तिमाह ॥ दूषयित्वा रसं दीपा विमाह ॥ आयम्यते मारुतजे हृदयं तुद्यते तथा । निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च ॥१॥
अथ पैत्तिकमाह ॥ तृष्णोष्णदाहचोषा: स्यु: पैत्तिके हृद्गदे क्लम: । धूमायनं च मूर्च्छा च स्वेद: शोषो मुखस्य च ॥१॥
अथ श्लैष्मिकमाह ॥ गौरवं कफसंस्त्रावोऽरुचि: स्तम्भोऽग्निमार्दवम् । माधुर्यमपि चास्यस्य बलासो बर्तते हृदि ॥१॥
॥ अथ त्रिदोषकृमिजयोर्मिलितमेव लक्षणमाह ॥ विद्यात्त्रिदोषमप्येवं सर्वलिड्गहृदामयम् । त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते ॥१॥
तिलक्षीगुडादींश्च ग्रन्थिस्तस्योप्रजायते । मर्मैकदेशे संक्लेदं रसश्चाप्युगच्छति ॥२॥
तत्क्लेदात्कृमयश्चाथ भवन्त्यु पहतात्मन: । तीव्रार्तितोदं कृमिज तद्दोपत्रयसम्भवम् ॥३॥
उत्क्लेद: ष्ठीवनं तोद: शूलं हृल्लासकस्तम: । अरुचि: श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ॥४॥
क्लोम्र: सादो भ्रम: शोषो ज्ञेयास्तेषामुपद्रवा: । किमिजे तु कृमीणां ये श्लैष्मिकाणां हि ते मता: ॥५॥
इति हृद्रोगनिदानम् ॥
॥ अथ तच्चिकित्सा ॥
अथ वातहृद्रोग: ॥ वातोपसृष्टे हृदये वामयेत्स्निग्धमातुरम् । द्विपञ्चमूलीक्वाथेन सस्नेहलवणेन वा ॥१॥
अथ पिप्पल्यादि चूर्णम् ॥ पिप्पल्येला वचा हिड्गु यवक्षारोऽथ सैन्धवम् । सौवर्चलमथो शुण्ठी दीप्यश्चेति विचूर्णितम् ॥१॥
फलधान्याम्लकौलत्थदधिमद्यवसादिभि: । पाययेच्छुद्धदेहस्य वातहृद्रोगशान्तये ॥२॥
अथ पुष्करमूलाद्यं चूर्णम् ॥ सपुष्कराख्यं फलपूरमूलं महौषधं सट्यभयासुकल्क: । क्षीराम्लसर्पिर्लवणैर्विमिश्र: स्याद्वातहृद्रोगहरो नराणाम् ॥१॥ इति वातहृद्रोग: ॥
॥ अथ पित्तहृद्रोग: ॥
अथ श्रीपर्ण्यादियोग: ॥ श्रीपर्णी मधुकं क्षौद्रं सितागुडजलैर्वमेत् । पित्तोपसृष्टे हृदये सिञ्चेत मधुरै: शृतै: ॥१॥
अथ शीतादि ॥ शीता: प्रदेहा: परिषेचनं च तथा विरेको हृदि पित्तदृष्टे । द्राक्षासिताक्षौद्रपरुषकै: स्याच्छुद्धे च पित्तापहमन्त्रपानम् ॥१॥
अथ द्राक्षादि चूर्णम् ॥ हारहूराहरीतक्योस्तुल्यं शर्करया रज: । पीत हिमाम्बुना हन्ति पित्तहृद्रोगमञ्जसा ॥१॥
अथार्जुनादिचूर्णम् ॥ अर्जुनस्य त्वचा सिद्धं क्षीरं पित्तहृदार्तिजित् । सितया पञ्चमूल्या वा बलया मधुकेन वा ॥ अथ वृन्दात्कसेरुकादिसर्पि: ॥ कसेरुकाशैवलशृड्गबेरप्रपौण्डरीकं मधुकं बिसं च । ग्रन्थिश्च सर्पि: पयसा पचेत्तै: क्षौद्रान्वितं पित्तहृदामयग्नम् ॥१॥ इति पित्तहृद्रोग: ॥
॥ अथ कफहृद्रोग: ॥
हृद्रोगे कफजे स्विन्नं सुवान्तं लड्घितं नरम् । कफघ्नैर्भेषजैर्युञ्ज्याज्ज्ञात्वा दोषबलाबलम् ॥१॥
अथ त्रिवृताद्यौ चूर्णक्वाथौ ॥ त्रिवृत्सटीबलारास्त्राशुण्ठीपथ्या: सपौष्करा: । चूर्णिता वा शृता मूत्रे पातव्या: कफहृद्गदे ॥२॥
अथैलादि ॥ सूक्ष्मैला मागधीमूलं पटोलं सर्पिषा सह । नाशयेदाशु हृद्रोगं कफजं सपरिग्रहम् ॥१॥
इति कफहृद्गोग: ॥
॥ अथ त्रिदोषहृद्रोग: ॥
त्रिदोषजे लड्घनमादित: स्यादन्नं तु सर्वेषु हितं विधेयम् । चूर्णानि सर्पीषि च वक्ष्यमाणान्यत्र प्रयोज्यानि भिषग्भिराशु ॥१॥
इति त्रिदोषहृद्रोग: ॥
॥ अथ कृमिजहृद्रोग: ॥
हृद्रोगे कृमिजे कार्यं लड्घनं चापतर्पणम् । पञ्चात्कृमिहरं कर्म कृमिरोगोक्तमाचरेत् ॥१॥
कृमिजे च पिबेन्मूत्रं विलड्गामयसंयुतम् । हृदि स्थिता: पतन्त्येव ह्यसाध्या: कृमयो नृणाम् ॥२॥
इति कृमिजहृद्रोग: ॥
॥ अथ सामान्यहृदामयप्रतीकार: ॥
पवनारिजटा द्विपलाष्टगुणे सलिले पचिता यवजेन युतम् । क्वथनं हृदयोद्भवपार्श्वतटीकटिशूलविदारणसिंहनखम् ॥१॥
अथ दशमूलीक्वाथ: ॥ दशमूलकषायस्तु लवणक्षारसंयुत: । पीतो निहन्ति सहसा हृदामयमसंशयम् ॥१॥
अथ पुष्करादिक्वाथ: ॥ क्वाथ: कृत: पुष्करमातुलुड्गपलाशपूतीकशटीसुराह्वै: । सनागराजाजिवचायवाह्वसक्षार उष्णो लवणश्च पेय: ॥१॥
अथ हिड्ग्वादिचूर्णम् ॥ हिड्गूग्रगन्धाबिडविश्वकृष्णाकुष्ठामयाचित्रकयावशूकम् । पिबेत्ससौवर्चलपुष्कराढ्यं यवाम्भसा शूलहृदामयघ्नम् ॥१॥
अथ पुष्कराद्यं चूर्णम् ॥ चूर्णं पुष्करमूलस्य मधुना सह लेहयेत् । हृल्लासश्वासकासघ्नं हृदामयहरं परम् ॥१॥
अथ ककुभाद्यं चूर्णम् ॥ घृतेन दुग्धेन गुडाम्भसा वा पिबेत्सचूर्णं ककुभत्वचोत्थम् । हृद्रोगजीर्णज्वररक्तपित्तं जित्वा भवेयुश्चिरजीविनस्ते ॥१॥
अथैणशृड्गभस्मयोग: ॥ शरावसम्पुटे दग्ध्वा शृड्गं हरिणजं पिबेत् । गव्येन सर्पिषा पिष्टं हृच्छूलं नश्यति ध्रुवम् ॥१॥
अथ वृन्दात् कटुकादि ॥ पिष्ट्वा वा कटुका पेया सयष्टीका सुखाम्बुना । जीर्णज्वरं रक्तपित्तं हृद्रोगं च व्यपोहति ॥१॥
अथ घृतानि ॥ अथादौ वल्लभघृतम् ॥ शतार्धमभयानां तु सौवर्चलपलद्वयम् । पचेत्कल्कैर्घृतप्रस्थं दत्वा क्षीरं चतुर्गुणम् ॥ घृतं वल्लभक नाम्ना श्रेष्ठं हृद्रोगनाशनम् ॥१॥
अथ यष्ट्यादिघृतम् ॥ यष्टीनागबलोदीच्यार्जुनै: सर्पि: सुसाधितम् । हृद्रोगक्षयपित्तास्त्रश्वासकासज्वरार्तिजित् ॥१॥
इति घृतानि ॥
अथ वृन्दात्पुनर्वादि तैलम् ॥ पुनर्नवादारुसपञ्चमूलरास्त्रायवाड्कोलकपित्थबिल्वम् । पक्त्वां जले तेन पचेच्च तैलमभ्यड्गपान्निलह्रुद्गदघ्नम् ॥१॥
अथ रसा: ॥ तत्रादौ त्रिनेत्रो रस: ॥ रसगन्धाभ्रमस्मानि पार्थवृक्षत्वगम्बुना । एकविंशततिधा घर्मे भावैतानि विधानत: ॥१॥
माषमात्रमिदं चूर्णं मधुना सह लेहयेत् । वातजं पित्तजं श्लेष्मसम्भूतं वा त्रिदोषजम् ॥ कृमिजं चापि हृद्रोगं निहन्त्येव न संशय: ॥२॥
अथ हृदयार्णवरस: ॥ सूतार्कगन्धं क्वाथेन वराया मर्दयेद्दिनम् । काकमाच्या वटीं कृत्वा चणमात्रां तु भक्षयेत् ॥ हृदयार्णवनामायं हृद्रोगदलनो रस: ॥१॥
अथ पथ्यापथ्यम् ॥ शालिमुद्गा यवा मांसं जाड्गलं मरिचान्वितम् । पटोलं कारवेल्लं पथ्यं प्रोक्तं हृदामये ॥१॥
तैलाम्लतक्रगुर्वन्नकषायश्रममातपम् । रोषं स्त्रीनर्म चिन्ता वा भाष्यं हृद्रोगवांत्सयजेत् ॥२॥
इति हृद्रोगचिकित्सा ॥
N/A
References : N/A
Last Updated : January 03, 2018
TOP