संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ श्वासचिकित्सां व्याख्यास्याम: ॥

॥ अथ श्वासचिकित्सां व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ श्वासचिकित्सां व्याख्यास्याम: ॥
कासवृद्ध्या भवेच्छ्वास: पूर्वैर्वा दोषकोपनै: । आमातिसारवमथुविषपाण्डुज्वरैरपि ॥१॥
रजोधूमानिलैर्मर्मघातादपि हिमाम्बुना । यैरेव कारणैर्हिक्का बहुभि: सम्प्रवर्तते ॥२॥
तैरेव कारणै: श्वासो घोरो भवति देहिनाम्‍ । विहाय प्रकृतिं वायु: प्राणोऽथ कफसंयुत: ॥ श्वासयत्यूर्ध्वगो भूत्वा तं श्वासं परिचक्षते ॥३॥
दोषाणामप्यनेकत्वाच्छोषितस्यापि सम्भवात्‍ । श्वासो नैकप्रकार: स्यादिति तावव्द्यवस्थितम्‍ ॥४॥
महोर्ध्वच्छिन्नतमकक्षुद्रभेदैस्तु पञ्चधा । मिद्यते स महाव्याधि: श्वास एको विशेषत: ॥५॥

॥ अथ तस्य पूर्वरुपमाह ॥
प्राग्रूपं तस्य त्दृत्पीडा शूलमाध्मानमेव च । अनाहो वक्रवैरस्यं शड्खनिस्तोद एव च ॥१॥

॥ अथ महाश्वासलक्षणमाह ॥
यदा स्त्रोतांसि संरुध्य मारुत: कफपूर्वक: । विष्वग्व्रजति संरुद्धस्तदा श्वासान्‍ करोति स: ॥१॥
अद्भूयमानवातो य: शब्दवद्दु:खितो नर: । उच्चै: श्वसिति संक्रुद्धो मत्तर्षभ इवानिशम्‍ । प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचन: ॥२॥
विवृताक्षाननो बद्धमूत्रवर्चा विशीर्णवाक्‍ । दीर्घं प्रश्वसितं चास्य दूराद्विज्ञायते भृशम्‍ । महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते ॥३॥

॥ अथोर्ध्वश्वासलक्षणमाह ॥
ऊर्ध्व श्वसिति यो दीर्घं न च प्रत्याहरत्यध: । श्लेष्मावृतमुखस्त्रोता: क्रुद्धगन्धवहार्दित: ॥१॥
ऊर्ध्वदृष्टिर्विपश्यंस्तु विभ्रान्ताक्ष इतस्तत: । प्रमुह्येदनार्तश्च शुष्कास्यो रतिपीडित: ॥२॥
ऊर्ध्वश्वासे प्रकुपिते ह्यध: श्वासो निरुध्यते । मुह्यतस्ताम्यसश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून्‍ ॥३॥

॥ अथ विच्छिन्नश्वासलक्षणमाह ॥
यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडित: । न वा श्वसिति दु:खार्तो मर्मभेदरुगर्दित: ॥१॥
आनाहस्वेदमूर्च्छार्तो दह्यमानेन वस्तिना । विप्लुताक्ष: परिक्षीण: श्वसन्‍ रक्तैकलोचन: ॥२॥
 
॥ अथ व्याधिप्रभावादसाध्यत्वमाह ॥
विचेता: परिशुष्कास्यो विवर्ण: प्रलपन्नर: । छिन्नश्वासेन विच्छिन्न: स शीघ्रं विजहात्यसून्‍ ॥१॥

॥ अथ तमकलक्षणमाह ॥
प्रतिलोमं यदा वायु: स्त्रोतांसि प्रतिवद्यते । ग्रीवां शिरश्च संगृह्य श्लेष्माणं समुहीर्यं च ॥१॥

॥ अथ तेन कफेन रुद्वो वायुरेतानि करोति ॥
करोति पीनसं तेन रुद्धो घुर्घुरकं तथा । अतीवतीव्रवेगं च श्वासं प्राणप्रपीडकम्‍ ॥१॥

॥ अथ तेन श्वासवेगेन प्रताम्यति ॥
प्रताम्यति स वेगेन तस्याग्नि: सन्निरुध्यते । प्रमोहं कासमानश्च स गच्छति मुहुर्मुह: ॥१॥
श्लेष्मणा मुच्यमानेन भृशं भवति दु:खित: । तस्यैव च विमोक्षान्ते मुहूर्तं लभते मुखम्‍ ॥२॥
तथास्योद्‍ध्वंसते कण्ठ: कृच्छ्राच्छक्नोति भाषितुम्‍ । न चापि निद्रां लभते शयान: श्वासपीडित: ॥३॥
पार्श्वे तस्यावगृह्यति शयानस्य समीरण: । आसीनो लभते सौख्यमुष्णं चैवाभिकाड्क्षति ॥४॥
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान्‍ । विशुष्कास्यो मुहु: श्वासो मुहुश्चैवावधम्यते ॥५॥
मेघाम्बुशीतप्राग्वातै: श्लेष्मलैश्च विवर्धते । स याप्यस्तमक: श्वास: साध्यो वा स्यान्नवोत्थित: ॥६॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP