॥ अथ विषूच्यादिचिकित्सा ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ विषूच्यादिचिकित्सा ॥
सूचीभिरिव गात्राणि तुदन्संतिष्ठतेऽनिल: । यस्याजीर्णेन सा वैद्यैर्विषूखीतिनिगद्यते ॥१॥
विषूच्यामतिवृद्धायां पाष्ण्यार्दाह: प्रशश्यते । गन्धकं कुड्कुमं वापि दद्यान्निम्बुजलेन वा ॥२॥
व्योषं करञ्जस्य फलं हरिद्रानिम्बुकद्रवै: । नस्याञ्जने प्रयोक्तव्ये कुर्याच्च जलसेवनम् ॥३॥
व्योषं करञ्जस्य फलं हरिद्रामूलं समावाप्य च मातुलुड्ग्या: । छायाविशुष्का गुटिका: कृतास्ता: हन्युर्विषूचीं नयनाञ्जनेन ॥४॥
करञ्जनिम्बशिखरीगुडूच्यर्जुनवत्सकै: । पीत: कषायो वमनाद्धोरां हन्याद्विषूचिचकाम् ॥५॥
निम्बूरसं चिञ्चिणिकासमेतं विषूचिकाशोषहरं कफं च । दुग्धेन पीतो यदि टड्कणोऽसौ प्रशाम्यतेऽयं वमनं विरोध: ॥६॥
पिपासायामनुत्क्लेशे लवड्गस्याम्बुशस्यते । जातीफलस्य वा शीतं शृतं भद्रघनस्य वा ॥७॥
त्वक्त्ररास्त्रागुरुशग्रुकुष्ठैरम्लप्रपिष्टै: सवचाशताह्वै: । उद्वर्तनं खल्लिविषूचिकाघ्नं तैलं विपक्वं च तदर्थकारि ॥८॥
==
॥ अथ चुक्राद्यं तैलम् ॥
पलं चुक्रं कुष्ठं पिचुयुगमितं सैन्धवकणे तदर्धं प्रत्येकं करतलमितं जातिफलम् । कटोस्तैलं किञ्चित्कुडवमितमन्नावधिशृतं तदेतच्चुक्राद्यं शमयति विषूचीं च सगदाम् ॥१॥
इति चुक्राद्यं तैलम् । कुष्ठसैन्धवयो: कल्कं चुक्रतैलसमन्वितम् । विषूच्यां मर्दनं कोष्णं खल्लीशूलनिवारणम् ॥१॥
विलम्बिकालसकयोरुर्ध्वाध: शोधनं हितम् । नालेन फलवर्त्या च तथा शोधनभेषजै: । दण्डाद्येऽलसकेऽप्युच्चैरयमेव क्रियाक्रम: ॥२॥
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचित: । लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ॥३॥
विरुद्धासात्म्यपानान्नं विष्टम्भीनि गुरुणि च । अग्निमान्द्येऽप्यजीर्णे च सर्वाणि परिवर्जयेत् ॥४॥
फलवर्ति वमिं स्वेदं लड्घनं चापतर्पणम् । विशेषादलसे कुर्याद्विषूच्यामतिसारवत् ॥५॥ इत्यजीर्णचिकित्सा ॥
N/A
References : N/A
Last Updated : December 19, 2017
TOP