॥ अथ स्वरसकल्पना ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
आहतात्तत्क्षणात्कृष्टाद्द्रव्यात्क्षुण्णात्समुद्भवेत् ।
वस्त्रनिष्पीडितो यः स्यात्स्वरसो रस उच्यते ॥१॥
कुडवं चूर्णितं द्रव्यं क्षिप्तं च द्विगुणे जले ।
अहोरात्रं स्थितं तस्माद्भवेद्वा रस उत्तमः ॥२॥
आदाय शुष्कं द्रव्यं वा स्वरसानामसम्भवे ।
जलेऽष्टगुणिते साध्यं पादशिष्टं च गृह्यते ॥३॥
स्वरसस्य गुरुत्वाच्च पलमर्धं प्रयोजयेत् ।
निःशोषितं चाग्निसिद्धं पलमात्रं रसं पिबेत् ॥४॥
मधुश्वेतागुडक्षाराञ्जीरकं लवणं तथा ।
घृतं तैलं च चूर्णादीन् कोलमात्रान्रसे क्षिपेत् ॥५॥
स यथा ।
अमृताया रसः क्षौद्रयुक्तः सर्वप्रमहेज्जित् ।
हरिद्राचूर्णयुक्तो वा रसो धात्र्याः समाक्षिकः ॥६॥
N/A
References : N/A
Last Updated : December 13, 2017
TOP