संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ भूतोन्मादनिदानमाह ॥

॥ अथ भूतोन्मादनिदानमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.



॥ अथ भूतोन्मादनिदानमाह ॥
अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्य: । उन्मादकालो नियतश्च यस्य भूतोत्थमुन्मादमुदाहरन्ति ॥१॥

॥ अथ देवजुष्टमाह ॥
सन्तुष्ट: शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रोऽत्यवितथसंस्कृताभिभाषी । तेजस्वी स्थिरनयनो वरप्रदाता ब्रम्हण्यो भवति च देवभूतजष्टु: ॥१॥

॥ अथासुरजुष्टमाह ॥
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्याक्षो विगतभयो वामार्गंदृष्टि: । सन्तुष्टो न भवति चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुज्ञुष्ट: ॥२॥

॥ अथ गन्धर्वजुष्टमाह ॥
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचार: प्रियपरिगीतगन्धमाल्य: । नृत्यन्वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्य: ॥१॥

॥ अथ यक्षग्रहजुष्टमाह ॥
ताम्राक्ष: प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतगतिरल्पवाक्‍ सहिष्णु: । तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्य: ॥२॥

॥ अथ पितृग्रहजुष्टमाह ॥
प्रेतानां स दिशति संस्तरेषु पिण्डाञ‍ शान्तात्मा जलमपि चापस्व्यहस्त: । मांसेप्मुस्तिलगुडपायसाभिकामस्तद्भक्तो भवति पितृग्रहाभिजुष्ट: ॥१॥

॥ अथ सर्पग्रहजुष्टमाह ॥
यस्तूर्व्यां प्रसरति सर्पवत्कदाचित्सृक्किण्यौ विलिहति जिह्वया तथैव । क्रोधालुर्गुडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजड्गमेन जुष्ट: ॥१॥

॥ अथ राक्षसजुष्टमाह ॥
मांसासृग्‍विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूर: । क्रोधान्धो विपुलबलो निशाविहारी शौचद्विट्‍ स भवति राक्षसाभिजुष्ट: ॥१॥

॥ अथ पिशाचजुष्टमाह ॥
उद्वस्त्र: कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचितथाप लोल: । बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टन्भ्रमति रुदन्पिशाचजुष्ट: ॥१॥

॥ अथ तस्यासाध्यलक्षणमाह ॥
स्थूलाक्षो द्रुतमटन: स फेनवामी निद्रालु: पतति च कम्पते च योऽति । यश्वाद्रिद्विरदनगादिविच्युत:  स्यात्सो‍ऽसाध्यो भवति तथा त्रयोदशेऽब्दे ॥१॥

॥ अथ देवग्रहाणां ग्रहणकालमाह ॥
देवग्रहा: पौर्णमास्यामसुरा: सन्धयोरपि । गन्धर्वा: प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ ॥१॥
पितर: कृष्णपक्षे स्यु: पञ्चम्यामपि चोरगा: । रक्षांसि रात्रौ पैशाचाश्चतुर्दश्यां विशन्ति हि ॥२॥
दर्पणादौ यथा छाया शीतोष्णं प्राणिनो यथा । स्वमणिं भास्करार्चिश्च तथा देहं च देहधृक्‍ ॥३॥
प्रविशन्ति न दृश्यन्ते ग्रहास्तद्वाच्छरीरिणाम्‍ । प्रविश्याशु शरीरे हि पीडां कुर्वन्ति दु:सहाम्‍ ॥४॥
तपांसि तीव्राणि तथैव दानं व्रतानि धर्मा नियमाश्च सत्यम्‍ । गुणास्तथाष्टावपि तेषु नित्यं व्यस्ता: समस्ताश्च यथा प्रभाव: ॥५॥
अष्टौ ग्रहास्तत्परिचारकाश्च ते तुल्यसत्तेषु वसन्ति दुष्टा: । त्रयोदशाब्दे च भवन्त्यसाध्या यथास्वभावं परिवर्तयन्ति ॥६॥
इति भूतोन्मादनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
बुद्ध्वा दोषं वय: सात्म्यं देशकालं बलाबलम्‍ । चिकित्सितमिदं कुर्यादुन्मादे दोषभूतजे ॥१॥
देवर्षिपितृगन्धर्वैरुन्मत्तेषु च बुद्धिमान्‍ । त्यजेन्नस्याञ्जनादीनि तीक्ष्णानि क्रूरकर्म च । सर्पिष्पानादिगायत्रीहोममनादिरिष्यते ॥२॥
पूजाबल्युपहारशान्तिविषयोहोमेष्टिमन्त्रक्रिया दानं स्वस्त्ययनं व्रतादिनियम: सत्यं जपो मड्गलम्‍ । प्रायश्चित्तविधानमञ्जलिरथो रत्नौषधीधारणं भूतानामधिपस्य विष्टपपतेर्गौरीपतेरर्चनम्‍ ॥ ये च स्युर्भुवि गुह्यकाश्च प्रमथास्तेषां समाराधानं देवब्राम्हणपूजनं च शमयेदुन्मादमागन्तुकम्‍ ॥३॥
शिरीषनक्तमालानां बीजानि मधुसर्पिषा । भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते ॥४॥
ऋक्षजम्बूकरोमाणि शल्लकीलशुनं तथा । हिड्गु मूत्रं च बस्तस्य धूपमस्य प्रयोजयेत्‍ ॥५॥
धूपेन शाम्यति क्षिप्रं बलवानपि यो ग्रह: । शिरीषपुष्पं लशुनं शुण्ठी सिद्धार्थकं वचा ॥६॥
मञ्जिष्ठा रजनी कृष्णा बस्तमूत्रेण पेषयेत्‍ । वटी छायाविशुष्का स्यात्‍ सा हिता नावनाञ्जने ॥७॥
इति वृन्दात्‍ । अथ माहेश्वरधूपो योगशतात्‍ । कार्पासास्थिमयूरपिच्छबृहतीनिर्माल्यपिण्डीतकत्वड्यांसीवृषदंशविणनखवचाकेशाहिनिर्मोचनै: । नागेन्द्रद्विजशृड्गहिड्गुमरिचैस्तुल्यैस्तु धूप: कृत: स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्न स्मृत: ॥१॥

॥ अथ महापैशाचघृतम्‍ । योगतरड्गिण्या: ॥
जटिला पूतना केशी मर्कटी चारटी वचा । त्रायमाणा जया वीरा चोरकं कटुरोहिणी ॥१॥
कायस्था शूकरी छत्रा सातिच्छत्रा पलड्कषा । महापुरुषदन्ता च वयस्था नाकुलीद्वयम्‍ ॥२॥
कटम्भरा वृश्चिकाली स्थिरा चैतेर्घृतं पचेत्‍ । तत्तु चातुर्थिकोन्मादग्रहापस्मारनाशनम्‍ ॥३॥
महापैशाचकं नाम घृतमेतद्यथामृतम्‍ । बुद्धिमेधास्मृतिकरं बालानां चाड्गवर्धनम्‍ ॥४॥
इति महापैशाचघृतम्‍ ॥ कल्याणकं प्रयुञ्जीत महद्वा चैतसं घृतम्‍ । तैलं नारायणं वापि महानारायणं तथा ॥१॥
अथ रसरत्नप्रदीपाद्भूतभैरवरस: ॥ रस: सताल: सशिल: सलोह: स्त्रोतोऽञ्जनं सार्कमिदं हि गन्धम्‍ । पिष्टं नृमूत्रेण समं समन्ताद्देयो द्विभागोऽथ बलि: पचेच्च ॥१॥
लौहे क्षणं हन्ति घृतेन माषोऽपस्मारमप्युन्मदमानसत्वम्‍ । पिबेदनुत्र्यूषणहिड्गुयुक्तं सर्पिर्नृमूत्रं रुचकेन सार्धम्‍ ॥२॥
भूतोन्मादेषु सर्वेषु रसोऽयं भूतभैरव: । स्वर्णजै: पञ्चभिर्बीजैर्देय: सर्पिर्विमिश्रित: ॥३॥
इति भूतभैरव: । इति भूतोन्मादचिकित्सा ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP