॥ अथ रात्रिचर्या ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
ज्योत्स्ना शीता स्मरानन्दप्रदा तृट्पित्तदाहहृत् ।
ततो हीनगुणः कुर्यादवश्यायोऽनिलं कफम् ॥१॥
तमो भयावहं मोहदिङ्भोहजननं भवेत् ।
पित्तहृत्कफकृत्कामवर्धनं क्लमकृच्च तत् ॥२॥
रात्रौ तु भोजनं कुर्यात् प्रथमप्रहरान्तरे ।
किञ्चिदूनं समश्नीयाद्दुर्जरं तत्र वर्जयेत् ॥३॥
शरीरे जायते नित्यं देहिनां सुरतस्पृहा ।
अव्यवायान्मेहमेदोवृद्धिः शिथिलता तनौ ॥४॥
बलिनो मनसो रोधात् क्रोधाद्वा ब्रह्मचर्यतः ।
नारीणामरसज्ञत्वात् क्षीणं शुक्रं भवेन्नृणाम् ॥५॥
दौर्बल्यं मुखशोषश्च पाण्डूत्वं सदनं भ्रमः ।
क्लैब्यं शुक्रविसर्गश्च क्षीणशुक्रस्य लक्षणम् ॥६॥
संबन्धिन्यरिवल्लभा नृपवधूर्मित्राङ्गना रोगिणी शिष्यब्राह्मणवल्लभातिपतितोन्मत्ता महापापिनी ।
पिङ्गा प्रव्रजिता सती गुरुवधूर्वृद्धा तथा गर्भिणी म्लेच्छा कृष्णतमा तथापरिचिता त्याज्या इमा योषितः ॥७॥
सेवनं योषितां कुर्याद्बुधो बुद्ध्वा रतिक्रमम् बालामुग्धाधिरूढानामनुरागविभावनात् ॥८॥
बालेति गीयते नारी यावद्वर्षाणिषोडश ।
ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि ॥९॥
तदूर्ध्वमधिरूढा स्यात्पञ्चाशद्वत्सरावधि ।
वृद्धा तत्परतो ज्ञेया सुरतोत्त्सववर्जिता ॥१०॥
निदाघशरदोर्बाला हिता विषयिणे मता ।
तरुणी शीतसमये प्रौढा वर्षावसन्तयोः ॥११॥
नित्यं बाला सेव्यमाना नित्यं वर्धयते बलम् ।
तरुणी ह्रासयेच्छक्तिं प्रौढोद्भासयते जराम् ॥१२॥
सद्योमांसं नवान्नं च बाला स्त्री क्षीरभोजनम् ।
घृतमुष्णोदकस्नानं सद्यःप्राणकराणि षट् ॥१३॥
पूतिमांसं स्त्रियो द्वृद्धा बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥१४॥
वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्रुयात् ।
वयोऽधिकां स्त्रियः गत्वा तरुणं स्थविरायते ॥१५॥
आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः ।
स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयत्ताः ॥१६॥
सेवेत कामतः कामं बलाद्वाजीकृतो हिमे ।
प्रकामं तु निषेवेत मैथुनं शिशिरागमे ॥१७॥
त्र्यहाद्वसन्तशरदोः पक्षाद्वृष्टिनिदाघयोः ।
शीते रात्रौ दिवा ग्रीष्मे वन्सते तु दिवा निशि ॥१८॥
वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः ।
त्रिभिस्त्रिभिरहोभिर्हि समेयात्प्रमदां नरः ॥१९॥
सर्वेष्वृतुषु धर्मेषु पक्षात्पक्षाद्व्रजेद्बुधः ।
आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम् ॥२०॥
अवशो यदि सेवेत तदा ग्रीष्मवसन्तयोः ।
आस्यावर्णकफस्थौल्यसौकुमार्यसुखप्रदाम् ॥२१॥
नोपेयात्पुरुषो नारीं सन्ध्ययोर्न च पर्वसु ।
गोसर्गे चार्धरात्रे च तथा संध्यादिनेऽपि च ॥२२॥
काम्यस्योदग्रवयसो वाजीकरणसेविनः ।
सर्वेष्वृतुष्वहरहो व्यवायो न निवार्यते ॥२३॥
घृतक्षीराशिनो निर्भीर्निर्व्याधिर्नित्यगो युवा ।
विहारं भार्यया कुर्याद्देशेऽतिशयसंवृते ॥२४॥
रम्ये श्राव्याङ्गनागाने सुगन्धिसुखमारुते ।
देशे गुरुजनासन्नेऽनिभृतेऽतित्रपाकरे ॥२५॥
श्रूयमाणव्यथाहेतुवचने च रमेत न ।
स्नातश्चन्दनलिप्ताङ्गः सुगन्धसुमनोऽन्वितः ॥२६॥
भुक्तवृष्यः सुवसनः सुवेषः समलङ्कृतः ।
ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकस्मरः ॥२७॥
पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे ।
अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपासितः ॥२८॥
बालो वृद्धोऽन्यवेगार्तस्त्यजेद्रोगी च मैथुनम् ।
भार्यां तुल्यगुणोपेतां तुल्यशीलां कुलोद्भवाम् ॥२९॥
अधिकामोऽभिकामां च हृष्टो हृष्टामलङ्कृताम् ।
सेवेत प्रमदां युक्त्या वाजीकरणबृंहितः ॥३०॥
सीमन्ताक्ष्यधरे कपोलगलके कुक्षौ कुचोरःस्थले नाभिश्रोणिवराङ्गजानुषु तथा गुल्फे पादाङ्गुष्ठके ।
वामाङ्के हरिणीदृशां मनसिजो मासस्य पक्षद्वये शुक्लश्यामविभागतः सुविहरत्यूर्ध्वाध एवं क्रमात् ॥३१॥
सीमन्ते नखरं सुचुम्बनविधिं नेत्रे कपोलेऽधरे दन्ताग्रे विदधीत किञ्च नखरं कुक्षौ सुकण्ठेऽपि च ।
मन्दं वक्षसि ताडनं कुचयुगे श्रोणौ दृढं मर्दनं नाभौ किञ्च चपेटिकां स्मरगृहे मातङ्गलीलायितम् ॥३२॥
गुल्फजानुपदाङ्गुष्ठसमये घातनानि च ।
इष्टचन्द्रकलास्पर्शाद्द्रावयेदम्बुजेक्षणाम् ॥३३॥
रजस्वलामकामां च मलिनामप्रियां त्तथा ।
वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् ॥३४॥
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम् ।
सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि ॥३५॥
नाभिगच्छेत्ततो नारीं भोरिवैगुण्यशङ्कया ।
रजस्वलां गतवतो नरस्यासंयतात्मनः ॥३६॥
दृष्ट्वायुस्तेजसां हानिरधर्मश्च ततो भवेत् ।
लिङ्गिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु ॥३७॥
वृद्धां च संध्ययोश्चापि गच्छतो जीवनक्षयः ।
गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बलक्षयः ॥३८॥
हीनाङ्गीं मलिनां द्वेष्यां क्षामां वन्ध्यामसंवृते ।
देशेऽभिगच्छतो रेतः क्षीणं म्लानं मनो हरेत् ॥३९॥
क्षुधितः क्रुद्धचित्तश्च मध्याह्ने तृषितोऽबलः ।
स्थितस्य हानि शुक्रस्य वायोः कोपं च विन्दति ॥४०॥
व्याधितस्य रुजा प्लीहा मूर्छामृत्युश्च जायते ।
प्रत्युषस्यर्धरात्रे च वातपित्ते प्रकुप्यतः ॥४१॥
तिर्यग्योनावयोनौवा दुष्टयोनौ तथैव च ।
उपदंशस्तथा वायोः कोपःशुक्रसुखक्षयः ॥४२॥
उच्चारिते मूत्रिते च रेतसश्च विधारणे ।
उत्ताने च भवेच्छिघ्रं शुक्राश्मर्यास्तु सम्भवः ॥४३॥
सर्वमेतत्त्यजेत्तस्माद्यतोलोकद्वये हितम् ।
शुक्रं तूपस्थितं मोहान्न संधार्यं कदाचन ॥४४॥
स्नानानुलेपनहिमानिलखण्डखाद्यशीताम्बुदुग्धरसपूपसुराः प्रसन्नाः ।
सेवेत चातुदिवसं विरतौ रतस्य त अस्यैवमाशु वपुषः पुनरेति धाम ॥४५॥
स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम् ।
ततो मांसरसः स्वप्नो व्यवायान्ते हिता अमी ॥४६॥
अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः ।
शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः ॥४७॥
रात्रौ जागरणं रूक्षं कफदोषविषार्तिजित् ।
निद्रा तु सेविता काले धातुसाम्यमतन्द्रितम् ।
पुष्टिवर्णबलोत्साहवह्निदीप्तिं करोति च ॥४८॥
यो लेढि शयनसमये मधुमिश्रं बीजपूरदलचूर्णम् ।
स व्रीडाकरवातप्रसरनिरोधात्सुखं स्वपिति ॥४९॥
सवितुरुदयकाले प्रसृतीः सलिलस्य पिबेदष्टौ ।
रोगजरापरिमुक्तो जीवेद्वत्सरशतं साग्रम् ॥५०॥
अनुदिनं त्वरुणे रविमण्डले पिबति तोयमनुज्झितमूत्रविट् ।
अनिलपित्तकफानलदोषहृच्छतसमा रमते तरुणीशतम् ॥५१॥
विगतघननिशीथे प्रातरुत्थाय नित्यं पिबति खलु नरो यो घ्राणरन्ध्रेण वारि ।
स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो वलिपलितविहीनः सर्वरोगैर्विमुक्तः ॥५२॥
अर्शःशोथग्रहण्यो ज्वरजठरजराकोष्ठमेदोविकारा मूत्राघातास्रपित्तश्रवणगलशिरःश्रोणिशूलाक्षिरोगाः ।
ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तोस्तांस्तानभ्यासयोगादपहरति पयः पीतमन्ते निशायाः ॥५३॥
स्नेहपीते क्षतेऽशुद्ध्वावाध्माने स्तिमितोदरे ।
हिक्कायां कफवातोत्थे व्याधौ तद्वारि वारयेत् ॥५४॥
नरो दिनादिचर्याभिर्यो न वर्तेत नित्यशः ।
स एव लभते रोगं ततः पथ्यं समाचरेत् ॥५५॥
इति दिनरात्रिचर्या ॥
N/A
References : N/A
Last Updated : December 12, 2017
TOP