॥ अथ बाहुशालगुड: ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ बाहुशालगुड: ॥
इन्द्रवारुणिका मुस्ता शुण्ठी दन्ती हरीतकी । त्रिवृत्सटी विड्ड्गानि गोक्षुरश्चित्रकस्तथा ॥१॥
तेजोह्वा च द्विकर्षाणि पृथग् द्रव्याणि कारयेत् । सूरणस्य पलान्यष्टौ वृद्धदारश्चतुष्पलम् ॥२॥
चतुष्पलं स्याद्भल्लातं क्वाथयेत्सर्वमेकत: । जलद्रोणे चतुर्थांशं गृह्येयात्क्वाथमुत्तम् ॥३॥
काथ्यद्रव्यात्रिगुणितं गुडं क्षिप्त्वा पुन: पचेत् । तम्यक् पक्वं तं ज्ञात्वा चूर्णान्येतानि दापयेत् ॥४॥
चित्रकस्त्रिवृत्ता दन्ती तेजोह्वा पलिका: पृथक् । पृथक् त्रिपलिका: कार्या व्योषैलामरिचत्वच: ॥५॥
निक्षिपेन्मधु शीते च तस्मिन्प्रस्थप्रमाणकम् । एवं सिद्धो भवेच्छ्रीमान्बाहुशालो गुड: शुभ: ॥६॥
जयेदर्शासि सर्वाणि गुल्मन्वातोदरं तथा । आमवातं प्रतिश्यायं ग्रहणीक्षयपीनसान् । हलीमकं पाण्डुरोगं प्रमेहे च रसायनम् ॥७॥
इति बाहुशालगुड: ॥
॥ अथागस्तिमोदक: ॥
हरीतकीनां त्रिपलं त्रीण्यात्राणि कटुत्रिकम् । त्वक्पत्रकं चार्धपलं गुडस्याष्टपलं मतम् ॥१॥
अगस्तिमोदकानेतान्कल्पितान्परिभक्षयेत् । शोफार्शोग्रहणीदोषकासोदावर्तनाशनान् ॥२॥ इत्यगस्तिमोदक: ॥
॥ अथ लघुसूरणमोदक: ॥
कणामरीचविश्वाग्र्निसूरणैस्तु गुडै: क्रमात् । द्विगुणैर्मोदकोऽर्शोघ्र: परं पाचनदीपन: ॥१॥
इति लगुसूरणमोदक: ॥
==
॥ अथ बृहद्भल्लातकलेह: ॥
सुपक्वभल्लातफलानि सम्यग् द्विधा विधायाढकसंमितानि । विपाच्य तोयेन चतुर्गुणेन चतुर्थशेषे व्यपनीय तानि ॥१॥
पुन: पचेत्क्षीरचतुर्गुणेन वृतांशयुक्तेन घनं यथा स्यात् । सितोपला षोडशभि: पलैश्च विमर्द्यं संस्थाप्य दिनानि सप्त ॥२॥
तत: प्रयोज्याग्निबलेन मात्रां जयेद्विकारानखिलान्गुदोत्थान् ॥३॥
जवं हयानां बलमुत्तमं च स्वरं मयूरस्य हुताशदीप्तिम । स्त्रीवल्लभत्वं विविधप्रभावं नीरोगतां द्वित्रिशतायुषं च ॥४॥
न चान्नपाने परिहार्यमस्ति न चातपे नाध्वनि मैथुने च । प्रयोगकाले सकलामयानां राजाधिराजा च रसायनानाम् ॥५॥
इति बृहद्भल्लातकलेह: ॥
N/A
References : N/A
Last Updated : December 19, 2017
TOP