॥ अथ दृक्परीक्षा ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
रूक्षा धूम्रा तथा रौद्रा चला चान्तर्ज्वलत्यपि । दृष्टिर्यदा तदा वातरोगं रोगविदो जगुः ॥१॥
दीपद्वेषि च सन्तप्तं पीतं पित्तेन लोचनम् । जलार्द्र ज्योतिषा हीनं स्निग्धं मन्दं कफेन तत् ॥२॥
द्वन्द्वदोषे भवेन्मिश्रं तूर्णं तूर्णं विलोचनम् । श्यामवर्णं च निर्भुग्नं तन्द्रामोहसमन्वितम् ॥३॥
द्रं च रक्तवर्णं च भवेच्चक्षुस्त्रिदोषतः । एकं चक्षुर्यदा भीमं द्वितीयं मीलितं भवेत् ॥४॥
त्रिभिर्दिनैस्तदा रोगी स याति यममन्दिरम् । ज्योतिर्विहिनं सहसा रोगिणो यस्य लोचनम् ॥५॥
ईषत्कृष्णं स नियतं प्रयाति यमशासनम् । सरक्तं कृष्णवर्णं च रौद्रं च प्रेक्षते यदा ॥६॥
इतिलिङ्गैर्विजानीयान्मृत्युरेव न संशयः । एकदृष्टिरचैतन्यो भ्रमन्स्फुरिततारकः । एकरात्रेण नियतं परलोकपथं व्रजेत् ॥७॥
यामलात् । शुष्कास्यः श्यामकोष्ठोऽप्यसितरदततिः शीतनासाप्रदेशः शोणाक्षश्चैकनेत्रो लुलितकरपदः श्रोत्रपातित्ययुक्तः । शीतश्वासोऽथ चोष्णश्वसनसमुदयः शीतगात्रप्रकम्पः सोद्वेगो निःप्रपञ्चः प्रभवति मनुजः सर्वथा मॄत्युकाले ॥१॥
इति दृक्परीक्षा ॥
N/A
References : N/A
Last Updated : December 10, 2017
TOP