॥ अथ त्रिदोषजसहजार्शसोर्लक्षणम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ त्रिदोषजसहजार्शसोर्लक्षणम् ॥
सर्वै: सर्वात्मकान्याहुर्लक्षणै: सहजानि च ॥१॥
॥ अथ रक्तार्शोलक्षणम् ॥
रक्तोल्बणा गुदे कीला: पित्ताकृतिसमन्विता: । वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभा: ॥१॥
तेऽत्यर्थं दुष्टमुष्णं च गाढविट्कप्रपीडिता: । स्त्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तित: ॥२॥
भेकाभ: पीड्यते दु:खै: शोणितक्षयसंभवै: । हीनवर्णबलोत्साहो हतौजा: कलुषेन्द्रिय: ॥ विट्श्यावं कठिनं रुक्षमधो वायुर्न गच्छति ॥३॥
॥ अथ रक्तार्शसि वातादीनामनुबन्धमाह ॥
तनु चारूणवर्णं च फेनिलं चासूगर्शसाम् । कट्यूरुगुदशूलं च दौर्बल्यं यदि वा धिकम् ॥१॥
तत्रानुबन्धो वातस्य हेतुर्यदि च रुक्षणम् । शिथिलं श्वेतपीतं च विट्स्निग्धं गुरु शीतलम् ॥२॥
यद्यर्शसां घनं चासृक् तन्तुमत्पाण्डुपिच्छिलम् । गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम् ॥ श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधै: ॥३॥
॥ अथ सर्वशरीरव्यापित्वमाह ॥
पञ्चात्मा मारुत: पित्तं कफो गुदवलित्रये । सर्वे एव प्रकुप्यन्ति गुदजानां समुद्भवे ॥१॥
तस्मादर्शांसि दु:खानि बहुव्याधिकराणि च । सर्वदेहोपतापीनि च प्राय: कृच्छ्रतमानि च ॥२॥
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च । अर्शांसि सुखसाध्यानि न चितोत्पतितानि च ॥३॥
॥ अथ कृच्छ्रसाध्यान्याह ॥
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च । कृच्छ्रसाध्यानि तान्याहु: परिसंवत्सराणि च ॥१॥
॥ अथासाध्यान्याह ॥
सहजानि त्रिदोषानि यानि चाभ्यन्तरे वलौ । जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत् ॥१॥
शेषत्वादायुषस्तानि चतुष्पादसमन्विते । याप्यन्ते दीप्तकायाग्ने: प्रत्याख्येयान्यतोऽन्यथा ॥२॥
N/A
References : N/A
Last Updated : December 19, 2017
TOP