॥ अथ काड्कायनगुटिका ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ काड्कायनगुटिका ॥
पथ्यादलस्य पलपञ्चकमेकमेवमेकं पलं तु मरिचादपि जीरकस्य । कृष्णातदुद्भवजटाचविकाग्निशुठ्य: कृष्णादिपञ्चकमिदं पलत: प्रवृद्धम् । ॥१॥
पलाष्टभल्लातकसंप्रयुक्तं कन्दस्त्वरुष्करफलाद् द्विगुण: प्रकल्य: । स्याद्यावशूककुडवार्धमत: समस्तैर्योज्यो गुडो द्विगुणितो वटकीकृतश्च ॥२॥
काड्कायनेन मुनिना वटक: किलायमुक्त: प्रजाहिततमेन गुदामयघ्न: । क्षाराग्निशस्त्रपतनैरपि ये न सिद्धा: सिव्यन्त्यनेन वटकेन गुदामयास्ते ॥३॥
इति काड्कायनगुटिका ॥
॥ अथ सूरनमोदक: ॥
चित्रकस्य पलं त्वेकं द्विपलं सूरणस्य अ । पलार्धं नागरस्यापि मरिचं कोलमात्रकम् ॥१॥
भल्लातकं कणामूलं विड्ड्गं त्रिफला कणा । तालीससहितान्त्सर्वांनक्षमात्रान्प्रयोजयेत् ॥२॥
द्वे पले वृद्धदारस्य तालमूल्या: पलं भवेत् । त्वगेला मरिचांशं च सर्वानेकत्र चूर्णयेत् ॥३॥
गुडेन मर्दयित्वा तु द्विगुणेनेह बुद्धिमान् । मोदक: सूरणो नाम त्वक्षमात्र: प्रमाणत: ॥४॥
उपयुक्तो निहन्त्याशु गुलकीनान्न संशय: । अग्निवृद्धिकर: पुंसां सेव्यमानो महागुण: ॥५॥
अथ द्वितीय: ॥
शुष्कात्सूरणकन्दतोऽर्धमिलितं व्योषं तथा चित्रकं श्रेष्ठाजीरकरामठं समलवं दीप्याजमोदान्वितम् । सर्वस्वाड्घ्रिकसिन्धुजं परिभवेन्निम्बुद्रवैर्वासरं सिद्ध: सूरणमोदको गदहर: श्रेष्ठो भवेत्प्राणिनाम् ॥१॥
शूलं सडग्रहणीगदं त्वतिसृतिं दुष्टां प्रवाहीं जयेद्दीप्ताग्निं कुरुते बलं वितनुते गुल्मप्रणाशं तथा । अर्शांस्युद्धतमारुतामयहरो बाले च वृद्धे हितो गर्भिण्यां च न शस्यते न निपुणैर्नो रक्तपित्तेऽपि च ॥२॥
इति सूरणमोदक: ॥
॥ अथ सूरणपुटपाक: ॥
मृल्लिप्तं सौरणं कन्दं पक्त्वाऽग्नौ पुटपाकवत् । दद्यात्सतैललवणं दुर्नामविनिवृत्तये ॥१॥
सौरणं कन्दमादाय पुटपाकेन पाचयेत् । सतैलगुडसंयुक्तो रसश्चार्शोविकारनुत् ॥२॥
इति सूरणपुटपाक: ॥
N/A
References : N/A
Last Updated : December 19, 2017
TOP